Book Title: Alankar Raghavam Part 01
Author(s): Yajneshwar Dikshit, T V Sathynarayana
Publisher: Oriental Research Institute

View full book text
Previous | Next

Page 11
________________ प्रस्तावना महदिदं प्रमोदस्थानं यत् अलङ्कारराघवाख्योऽयं ग्रन्थः प्रकाश नीयत इति । एतादृशाः नैकविधाः ग्रन्थाः प्राच्यविद्या संशोधनालयात् प्रकाशिताः इति च । विदितमेव सर्वेषाम् अयं संशोधनालयः आशतवर्षेभ्यः त्र्यशीत्यधिकशतसंख्याकान् (183) ग्रन्थान् प्राकाशयत् इति । अयं च चतुरशीत्यधिकशतसंख्याक : (184) इदानीं प्राकाश्यं नीयते । सन्ति चास्मिन् ग्रन्थालये एकादश संख्याकाः विद्वांसः । ते च भारते सच्चार्य हस्तप्रतीः सङ्गृह्णन्ति । सङ्गृहीतानां हस्तप्रतीनां रक्षणं अत्र क्रियते । मुख्याः सर्वजनोपयुक्ताः ग्रन्थाः ये वर्तन्ते तान् ग्रन्थान् विद्वांसः सम्पादयन्ति । विद्वद्भिः सम्पादिताः ग्रन्थाः अस्मात् संशोधनालयात् प्रकाश नीयन्ते । प्रकृते प्रकाशपदं नीयमानोऽयम् अलङ्कारराघवाख्यो ग्रन्थः । अस्मिन् ग्रन्थे भागद्वयं वर्तते । द्वितीयभागः षड्वर्षेभ्यः प्रागेव मुद्रितः । प्रथमः भागः इदानीं प्रकाशपदं नीतः । ग्रन्थस्यास्य रचयिता यज्ञेश्वरदीक्षितः कविः । स तु स्वग्रन्थे स्वयमेव स्त्रनाम निर्दिष्टवान् । अयं च कविः अलङ्कारशास्त्रे तथा न्यायशास्त्रे च प्रवीणः । 'भगवतः रामस्य स्वप्नप्रेरणया ग्रन्थोऽयं मया रचित:' इति कविः स्वस्यानुभवं स्वयमेव ग्रन्थे प्रकटीकरोति । यथा रामाज्ञया स्वमनिरूढया मे विनिर्मितेऽलङ्कतिराघवेऽस्मिन् ।

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 354