Book Title: Alankar Kaustubh
Author(s): Visheshwar Pt, Shivdutt Pt
Publisher: Tukaram Javaji
View full book text
________________
अलंकारकौस्तुभः ।
कल्पनं चेति द्विविधं प्रतीपम् || सामान्यलक्षणं तु यन्निष्ठसादृश्यप्रतियोगितानाश्रयत्वाभिमतोपमानकत्वमेव । अभिमानश्च कचिदन्यनिष्ठः क्वचिदुपमाननिष्ठश्चेति लक्ष्येषु व्यक्तीभविष्यति ।
यथा
'दूरे किज्जदु चम्पअस्स कलिआ कज्जं हरिद्दाअ किं संतत्तेण वि कञ्चणेन गणणा का णाम जच्चेण वि । लावण्णस्स णवुग्गदेन्दुमहुरच्छाअस्स तिस्सा पुरो पच्चग्गेहिं वि केसरस्स कुसुमक्केरेहिं किं कारणम् ॥' अत्र कर्पूरमञ्जर्या लावण्येन पक्ककलिकादीनामाक्षेपः । क्वचिदेकधर्मिनिष्ठधर्मद्वयेन धर्मिद्वयनिष्ठोभयधर्मकार्यनिर्वाहात्तदाश्रयधर्मिद्वयाक्षेपो
यथा
-
३९१
‘तदोजसस्तद्यशसः स्थिताविमौ वृथेति चित्ते कुरुते यदा यदा । तनोति भानोः परिवेषकैतवात्तदा विधिः कुण्डलनां विधोरपि ॥' अत्र नलीयप्रतापकीर्तिभ्यां सूर्याचन्द्रमसोर्वैफल्यम् । द्वितीयविधस्तु द्वेधा । उपमितेरनिष्पत्त्या तन्निष्पत्त्या च ।
आद्यं यथा—
'तुज्झ मुहसारिच्छं ण लहइ संपुण्णमण्डलो विहिणा । अण्णवमज्जं व घडेउं पुणो वि खण्डिज्जइ मिअङ्को ॥'
अत्र चन्द्रस्य मुखप्रतियोगिकसादृश्या निष्पत्तिर्वाच्या । व्यङ्गया यथा'अस्याः करस्पर्धनगर्धिऋद्धिर्बालत्वमापत्खलु पल्लवो यः । भूयोऽपि नामाधरसाम्यगवं कुर्वन्कथं वास्तु न स प्रवालः ॥'
१.
२.
'दूरे क्रियतां चम्पकस्य कलिका कार्य हरिद्रायाः किं संतप्तेनापि काञ्चनेन गणना का नाम जात्येनापि । लावण्यस्य नवोद्गतेन्दुमधुरच्छायस्य तस्याः पुरः
प्रत्यग्रैरपि केसरस्य कुसुमोत्करैः किं कारणम् ॥' ( कर्पूर ० ३।१ )
'तव मुखसादृश्यं न लभते संपूर्ण मण्डलो विधिना । अन्यमयमिव घटयितुं पुनरपि खण्ड्यते मृगाङ्कः ॥ ' ( इति च्छाया 1)

Page Navigation
1 ... 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436