SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ अलंकारकौस्तुभः । कल्पनं चेति द्विविधं प्रतीपम् || सामान्यलक्षणं तु यन्निष्ठसादृश्यप्रतियोगितानाश्रयत्वाभिमतोपमानकत्वमेव । अभिमानश्च कचिदन्यनिष्ठः क्वचिदुपमाननिष्ठश्चेति लक्ष्येषु व्यक्तीभविष्यति । यथा 'दूरे किज्जदु चम्पअस्स कलिआ कज्जं हरिद्दाअ किं संतत्तेण वि कञ्चणेन गणणा का णाम जच्चेण वि । लावण्णस्स णवुग्गदेन्दुमहुरच्छाअस्स तिस्सा पुरो पच्चग्गेहिं वि केसरस्स कुसुमक्केरेहिं किं कारणम् ॥' अत्र कर्पूरमञ्जर्या लावण्येन पक्ककलिकादीनामाक्षेपः । क्वचिदेकधर्मिनिष्ठधर्मद्वयेन धर्मिद्वयनिष्ठोभयधर्मकार्यनिर्वाहात्तदाश्रयधर्मिद्वयाक्षेपो यथा - ३९१ ‘तदोजसस्तद्यशसः स्थिताविमौ वृथेति चित्ते कुरुते यदा यदा । तनोति भानोः परिवेषकैतवात्तदा विधिः कुण्डलनां विधोरपि ॥' अत्र नलीयप्रतापकीर्तिभ्यां सूर्याचन्द्रमसोर्वैफल्यम् । द्वितीयविधस्तु द्वेधा । उपमितेरनिष्पत्त्या तन्निष्पत्त्या च । आद्यं यथा— 'तुज्झ मुहसारिच्छं ण लहइ संपुण्णमण्डलो विहिणा । अण्णवमज्जं व घडेउं पुणो वि खण्डिज्जइ मिअङ्को ॥' अत्र चन्द्रस्य मुखप्रतियोगिकसादृश्या निष्पत्तिर्वाच्या । व्यङ्गया यथा'अस्याः करस्पर्धनगर्धिऋद्धिर्बालत्वमापत्खलु पल्लवो यः । भूयोऽपि नामाधरसाम्यगवं कुर्वन्कथं वास्तु न स प्रवालः ॥' १. २. 'दूरे क्रियतां चम्पकस्य कलिका कार्य हरिद्रायाः किं संतप्तेनापि काञ्चनेन गणना का नाम जात्येनापि । लावण्यस्य नवोद्गतेन्दुमधुरच्छायस्य तस्याः पुरः प्रत्यग्रैरपि केसरस्य कुसुमोत्करैः किं कारणम् ॥' ( कर्पूर ० ३।१ ) 'तव मुखसादृश्यं न लभते संपूर्ण मण्डलो विधिना । अन्यमयमिव घटयितुं पुनरपि खण्ड्यते मृगाङ्कः ॥ ' ( इति च्छाया 1)
SR No.023514
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorVisheshwar Pt, Shivdutt Pt
PublisherTukaram Javaji
Publication Year1898
Total Pages436
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy