Book Title: Alankar Kaustubh
Author(s): Visheshwar Pt, Shivdutt Pt
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 394
________________ ३८६ स्मरणं निरूपयति ― काव्यमाला । सदृशज्ञानोद्बोधितसंस्कारभवा मतिः स्मरणम् । अनुभवे व्यभिचारवारणाय भवान्तं ज्ञानविशेषणम् । उद्बोधकान्तरसमवधानजन्यस्मरणवारणाय सदृशज्ञानेति । ज्ञानपदं च स्मृत्यनुभवोभयसाधारणम् । अतः स्मरणस्यैवोद्बोधकत्वस्थले नाव्याप्तिः । वस्तुतस्तु ..... • ( ? ) विधा या संस्कारव्यक्तिस्तन्निष्ठकारणतानिरूपितकार्यत्वं यदंशे तदंशमादाय लक्ष्यत्वेन समूहालम्बनस्मरणेऽपि न व्यभिचारः । यथा 'यत्प्रत्युत त्वन्मृदुबाहुबल्लिस्मृतिस्रजं गुम्फति दुर्विनीता । ततो विधत्तेऽधिकमेव तापं तेन श्रिता शैत्यगुणा मृणाली ॥' अत्र बाहुसदृशमृणालीदर्शनेन दमयन्तीबाह्रनुभवजन्यसंस्कारोद्बोधः । तेन तद्बाहुस्मरणम् । जन्मान्तरानुभूतस्मरणं यथा 'दिव्यानामपि कृतविस्मयां पुरस्तादम्भस्तः स्फुरदरविन्दचारुहस्ताम् । उद्वीक्ष्य श्रि (स्त्रि) यमिव कांचिदुत्तरन्तीमस्मार्षीज्जलनिधिमन्थनस्य शौरिः ॥' अत्र नायिकादर्शनेन श्रीस्मरणं तेन च समुद्रमन्थनस्मरणोपपत्तेः । नचैकसंबन्धिज्ञानमात्रस्य अपरसंबन्धिस्मारकतया नायिकादर्शनजन्यश्रीस्मरणकल्पने मानाभाव इति वाच्यम् । वास्तवश्रीप्रतियोगिकसादृश्यवत्कामिनीज्ञानस्य मन्थनस्मारकत्वाभावात्सादृश्यवत्त्वेन ज्ञायमानस्य कामिनीज्ञानस्य चावश्यं श्रीस्मरणजनकत्वात् । अन्यथा उद्वीक्ष्यास्मार्षीदित्यस्यासंगतत्वापत्तेः । अन्यसदृशदर्शनेनान्यस्मरणानुपपत्तेः । श्रीस्मरणद्वारैव दर्शनस्य समुद्रमथनस्मरणजनकताया विवक्षितत्वादिति ॥ क्वचिदेकोपाध्यवच्छिन्नतद्दर्शनोद्धुद्धसंस्कारेणान्योपाध्यवच्छिन्नतत्स्मर णम् ।

Loading...

Page Navigation
1 ... 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436