Book Title: Agam Suttani Satikam Part 06 Bhagvati
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
शतकं-११, वर्गः-, उद्देशकः-१ अबन्धका अपि च भवन्तीति, एतदेवाह-'नवर'मित्यादि, इह बन्धकावन्धकपदयोरेकत्वयोगे एकवचनेन द्वौ विकल्पौवहुवचनेन च द्वौद्विकयोगेतु यथायोगमेकत्ववहुत्वाभ्यांचत्वारः इत्येवमष्टी विकल्पाः,
वेदनद्वारे ते भदन्त ! जीवा ज्ञानावरणीयस्य कर्मणः किं वेदका अवेदकाः ?, अत्रापि एकपत्रतायामेकवचनान्तता अन्यत्रतुबहुवचनान्तता एवं यावदन्तरायस्य, वेदनीयेसातासाताभ्यां पूर्ववदष्टौ भङ्गाः, इह च सर्वत्र प्रथमपत्रापेक्षयैकवचनान्तता, ततः परंतु बहुवचनान्तता, वेदनं अनुक्रमोदितस्योदीरणोदीरितस्य वा कर्मणोऽनुभवः, उदयश्चानुक्रमोदितस्यैवेतिवेदकत्वप्ररूपणेऽपि भेदेनोदयित्वप्ररूपण ७मिति ।
उदीरणाद्वारे 'नो अनुदीरग'त्ति तस्यामवस्थायां तेषामनुदीरकत्वस्यासम्भवात् । 'वेयणिज्जाउएसुअट्ठभंग'त्ति वेदनीये-सातासातापेक्षयाआयुषिपुनरुदीरकत्वानुदीर-कत्वापेक्षयाऽष्टौ भङ्गाः, अनुदीरकत्वं चायुष उदीरणायाः कादाचित्कत्वादिति। .
लेश्याद्वारेऽशीतिभङ्गाः, कथम्?,एककयोगेएकवचनेन चत्वारोबहुवचनेनापिचत्वार एव, द्विकयोगेतु यथायोगमेकवचनबहुवचनाभ्यांचतुर्भङ्गी, चतुर्णां च पदानांष द्विकयोगास्ते चतुर्गुणाश्चतुर्विंशति, त्रिकयोगेतुत्रयाणां पदानामष्टौभङ्गाः, चतुर्णांचपदानांचत्वारस्त्रिकसंयोगास्ते चाष्टाभिर्गुणिता द्वात्रिंशत्, चतुष्कसंयोगे तुषोडशभङ्गाः, सर्वमीलने चाशीतिरिति, अत एवोक्तं . 'गोयमा ! कण्हलेसे वे'त्यादि।
वर्णादिद्वारे 'तेपुण अप्पणाअवन्न'त्ति शरीराण्येव तेषांपञ्चवर्णादीनि ते पुनरुत्पलजीवाः 'अप्पण'त्ति स्वरूपेण 'अवर्णा' वर्मादिवर्जिताः अमूर्त्तत्वात्तेषामिति ।
उच्छ्वासकद्वारे 'नो उस्सासनिस्सासए'त्ति अपर्याप्तावस्थायाम्, इह च षडविंशतिर्भङ्गाः, कथम् ?, एककयोगे एकवचनान्तास्त्रयः बहुवचनान्ता अपि त्रयः, द्विकयोगे तु यथायोगमेकत्वबहुत्वाभ्यां तिश्चतुर्भङ्गिका इति द्वादश, त्रिकयोगे त्वष्टाविति, अत एवाह-एए छव्वीसं भंगा भवंति'त्ति ॥
आहारकद्वारे 'आहारए वा अनाहारए वत्ति विग्रहगतावनाहारकोऽन्यदा त्वाहारकस्तत्र चाष्टौ भङ्गाः पूर्ववत् । सज्ञीद्वारे कषायद्वारे चाशीतिभङ्गाः लेश्याद्वारवद्वयाख्येयाः । सेणं भंते ! उप्पलजीवे'त्ति इत्यादिनोत्पलत्वस्थितिरनुबन्धपर्यायतयोक्ता।
से भंते ! उप्पलजीवे पुढविजीवे'त्ति इत्यादिना तु संवेधस्थितिरुक्ता, तत्र च 'भवादेसेणं'तिभवप्रकारेण भवमाश्रित्येत्यर्थः 'जहन्नेणंदोभवग्गहणाई'तिएकंपृथिवीकायिकत्वे ततो द्वितीयमुत्पलत्वे ततः परं मनुष्यादिगतिं गच्छेदिति।
___'कालेदेसेणंजहन्नेणंदोअंतोमुहत्त'त्ति पृथिवीत्वेनान्तर्मुहूर्तं पुनरुत्पलत्वेनान्तर्मुहूर्त्तमित्येवं कालादशेन जघन्यतो द्वेअन्तर्मुहूर्ते इति, एवंद्वीन्द्रियादिषु नेयम्, 'उक्कोसेणं अट्ठ भवग्गहणाईति चत्वारि पञ्चेन्द्रियतिरश्चश्चत्वारि चोत्पलस्येत्येवमष्टौ भवग्रहणान्युत्कर्षत इति, ‘उक्कोसेणं पुव्वकोडीपुहुत्तंति चतुर्यु पञ्चेन्द्रियतिर्यग्भवग्रहणेषु चतः पूर्वकोट्यः उत्कृष्टकालस्य विवक्षितत्वेनोत्पलकायोद्वत्तजीवयोग्योत्कृष्टपञ्चेन्द्रियतिर्यकस्थितेग्रहणात्, उत्पलजीवितं त्वेतास्वधिकमित्येवमुत्कृष्टतः पूर्वकोटीपृथकत्वं भवतीति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 532