Book Title: Adhyatmaop Nishad
Author(s): Vikramsenvijay
Publisher: Labdhi Bhuvan Jain Sahitya Sadan

View full book text
Previous | Next

Page 142
________________ ११७ तृतीय क्रियायोगाशुद्धिनामकऽधिकार क्रियाऽपि-भोगादिक्रियाऽपि, (अपिना ज्ञानं गृह्यते,) युज्यते-युक्तियुक्ता भवतीति ॥ ३३॥ सर्वकर्मक्षये ज्ञानकर्मव्याप्तिप्रयुक्तज्ञानकर्मसमुदाय:सर्वकर्मक्षये ज्ञान-कर्मणोस्तत्समुच्चयः। अन्योऽन्य-प्रतिबन्धेन तथा चोक्तं परैरपि॥३४॥ 'सर्वे 'ति, ज्ञाननाश्यकर्मक्षयः केवलज्ञानेन पृथक्त्वेन भवति, ततः क्रियानाश्यकर्मनाशोऽपूर्णः, क्रियानाश्यकर्मनाशः केवल-क्रियया पृथक्त्वेन भवति ततो ज्ञानानाश्यकर्मनाशोऽपूर्णो भवति स्वतंत्रतया-पृथक्तया स्वस्वनाश्यकर्मनाशो भवति परन्तु सम्पूर्णतया कर्मनाशो न भवति ततः संपूर्णतया कर्मनाशकः क इति प्रश्ने संजाते कथ्यते, पृथक्पृथग्रूपेण ज्ञानकर्मणो हेतुत्वे सत्यपि सर्वकर्मक्षये सकलकर्मक्षयं प्रति तु 'अन्योऽन्यप्रतिबन्धेन तत्समुच्चयः' परस्परव्याप्तिसम्बन्धपूर्वकं, अर्थात् कर्मप्रतिबद्धज्ञानं ज्ञानव्याप्ता क्रियेत्येवमभेदेन कर्मज्ञानव्याप्तिपूर्वकं ज्ञानकर्मणोः समुच्चयनं समाहरणं (अनेकस्यैकत्र स्थानं) ज्ञानकर्मणो:समुदायः, समुदिते कर्मज्ञाने सर्वकर्मक्षयं प्रति हेतुभूते इत्यर्थः, तथा च परैर्दर्शनान्तरीयैरप्युक्तमस्ति तथाहि= ॥ ३४॥ न यावत् सममभ्यस्तौ, ज्ञानसत्पुरुषक्रमौ। एकोऽपि नैतयोस्तावत् पुरुषस्येह सिद्ध्यति॥ ३५॥ 'सममभ्यस्तौ' साध्यसिद्धिपर्यन्तं सहैव सर्वदा सर्वथा सम्यग्रूपेणाभ्यासः-पुनःपुनरावर्त्तनं तद्विषयीभूतौ-सममभ्यस्तौ, यावन्न सममभ्यस्तौ यत्कालपर्यन्तं कौ न सममभ्यस्तौ ? तदाह 'ज्ञानसत्पुरुषक्रमौ' यथा सहैव चक्राभ्यां द्वाभ्यां रथो गच्छति तथा सहैव ज्ञानक्रियाभ्यां साधना

Loading...

Page Navigation
1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178