Book Title: Adhyatmaop Nishad
Author(s): Vikramsenvijay
Publisher: Labdhi Bhuvan Jain Sahitya Sadan

View full book text
Previous | Next

Page 149
________________ १२४ अध्यात्मोपनिषत् सञ्जातं यद् निर्बाधं-बाधारहितं प्रतिबन्धकरहितमुच्चतमं चारित्रं संयमविशेषस्तेन वृत्ताः-छत्रायिता:-समलंकृता इत्यर्थः पुन:की मुनीन्द्राः? इत्याह 'नयोन्मेषनिर्णीत-नि:शेषभावाः' नयानां पूर्णविकासरूपोन्मेषेण निर्णीताः-निर्णयपथं-प्रमाणपथमानीता नि:शेषाः-समस्ता भावाः-पदार्था यैस्ते, पुन:की मुनीन्द्राः? इत्याह, 'तपः-शक्तिलब्धप्रसिद्धप्रभावाः'विशिष्टतपसः, शक्तितोबलेन लब्धः, अत एव प्रसिद्धः-प्रसिद्धि प्राप्तः प्रभावो-माहात्म्यं-महिमा येषां ते, पुन:की मुनीन्द्राः ? इत्याहभयक्रोधमायामदाज्ञाननिद्रा-प्रमादोज्झिता:-भयं च क्रोधश्च माया च मदाश्चाज्ञानं च निद्रा च प्रमादश्चेत्याख्या ये दोषास्तैरुज्झिता:-रहिता, पु. की. मु. ? इत्याह-'शुद्धमुद्राः' प्रसन्नवदना अत एव निर्मलमर्यादाशोभिता इत्यर्थः, पु.की.मु.? इत्याह-वादिदन्तिस्मयोच्छेदहर्यक्षतुल्याः' वादिन एव दन्तिनो-हस्तिनस्तेषां यः स्मयो गुणाभिमानजन्यगुरुत्वं, तस्योच्छेदे सर्वथा विनाशे हर्यक्षेण-सिंहेन तुल्या-समाना इत्यर्थः, पु.की मुनीन्द्राः सन्तो जयन्ति? इत्याह यशः श्रीसमालिङ्गिता जयन्ति(कर्तुं नामापि ज्ञेयं)यश:-सर्वदिग्गामियश:-कीर्तिरूपलक्ष्मीतः सम्यग् आलिङ्गिताः आश्लेषयुक्ता मुनीन्द्रा जयन्ति-सर्वोत्कर्षेण वर्तन्ते अर्थात् पूर्वोक्तसर्वविशेषणविशिष्टा मुनीन्द्रा जयन्ति जगत्यां इति ॥ ४३ ॥ ४४॥ इति श्री पण्डितनयविजयगणिशिष्यपंण्डितपद्मविजयगणिसहोदरो पाध्यायश्रीयशोविजयगणिविरचितेऽध्यात्मोपनिषत्प्रकरणे क्रियायोगशुद्धि? नामा तृतीयोऽधिकारः समाप्तः। इति आचार्यश्रीमद्विजयलब्धिसूरीश्वरपट्टधर- विजय भुवनतिलकसूरीश्वर पट्टधर विजयभद्रंकरसूरिणाऽध्यात्मोपनिषत्प्रकरणे रचितायां भुवनतिलकाख्यायां टीकायां क्रियायोगशुद्धिनामा तृतीयोऽधिकारसमाप्तः।

Loading...

Page Navigation
1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178