Book Title: Acharang Sutra Part 01
Author(s): Jaysundarsuri, Yashovijay Gani
Publisher: Divyadarshan Trust
View full book text
________________
[श्रु०१। अ०३। उ०४। सू०१२९] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम् [सू०] जे एगं जाणति से सव्वं जाणति,
जे सव्वं जाणति से एगं जाणति ।
जे एगं जाणइ इत्यादि । यः कश्चिद् अविशेषितः एकं परमाण्वादि द्रव्यं पश्चात्पुरस्कृतपर्यायं स्व-परपर्यायं वा जानाति-परिच्छिनत्ति स सर्वं स्व-परपर्यायं जानाति परिच्छिनत्ति, अतीता-ऽनागतपर्यायिद्रव्यपरिज्ञानस्य समस्तवस्तुपरिच्छेदाविनाभावित्वात् । इदमेव हेतु-हेतुमद्भावेन लगयितुमाह
जे सव्वमित्यादि । यः सर्वं संसारोदरविवरवर्ति वस्तु जानाति स एकं घटादि वस्तु जानाति, तस्यैव अतीता-ऽनागतपर्यायभेदैः तत्तत्स्वभावापत्त्या अनाद्यनन्तकालतया समस्तवस्तुस्वभावगमनादिति । तदुक्तम्
"एगदवियस्स जे अत्थपज्जवा वयणपज्जवा वा वि ।
तीया-ऽणागयभूया तावइयं तं हवइ दव्वं ॥" [सम्मति०१/३१] तदेवं सर्वज्ञः तीर्थकृत् । सर्वज्ञश्च सम्भविनमेव सर्वसत्त्वोपकारिणं उपदेशं ददाति इति दर्शयति
सव्वतो पमत्तस्स भयं, सव्वतो अप्पमत्तस्स णत्थि भयं ।
सव्वओ इत्यादि । सर्वतः सर्वप्रकारेण द्रव्यादिना यद् भेयकारि कर्म उपादीयते तेतः प्रमत्तस्य-मद्यादिप्रमादवतः भयंभीतिः, तद्यथा- प्रमत्तो हि कर्म उपचिनोति द्रव्यतः सर्वैः आत्मप्रदेशैः, क्षेत्रतः षड्दिग्व्यवस्थितम्, कालतोऽनुसमयम्, भावतो हिंसादिभिः । यदि वा सर्वतः सर्वत्र भयं इह अमुत्र च; एतद्विपरीतस्य च नास्ति भयमिति, आह च
सव्वओ इत्यादि । सर्वतः ऐहिका-ऽऽमुष्मिकापायात् अप्रमत्तस्य आत्महितेषु जाग्रतो नास्ति भयं संसारापशदात् सकाशात् कर्मणो वा ।
अप्रमत्तता च कषायाऽभावाद् भवति, तेंदभावाच्च अशेषमोहनीयाभावः, ततोऽपि
टि० १. ०भूता तावइयं हवति तं दव्वं ख ।। २. भयकारणं ख ग ॥ ३. तत् क ।। ४. वा सर्वत्र सर्वतो भय० ख । वा सर्वतोऽत्र सर्वतो भयं० घ ङ। वा सर्वतो भय० ग ॥ ५. सर्वतो भय० क ॥ ६. तदभावाच्च शेष० क ॥
वि०टि० ० "अत्थपज्जवा इति यावद्भिर्घट-पटादिभिः पर्यायैः परमाण्वादिकं वस्तु परिणतम्" जै०वि०प० ॥ + "तावइयमिति अनन्तम्''जै०वि०प० ॥
३१४

Page Navigation
1 ... 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496