SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ [श्रु०१। अ०३। उ०४। सू०१२९] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम् [सू०] जे एगं जाणति से सव्वं जाणति, जे सव्वं जाणति से एगं जाणति । जे एगं जाणइ इत्यादि । यः कश्चिद् अविशेषितः एकं परमाण्वादि द्रव्यं पश्चात्पुरस्कृतपर्यायं स्व-परपर्यायं वा जानाति-परिच्छिनत्ति स सर्वं स्व-परपर्यायं जानाति परिच्छिनत्ति, अतीता-ऽनागतपर्यायिद्रव्यपरिज्ञानस्य समस्तवस्तुपरिच्छेदाविनाभावित्वात् । इदमेव हेतु-हेतुमद्भावेन लगयितुमाह जे सव्वमित्यादि । यः सर्वं संसारोदरविवरवर्ति वस्तु जानाति स एकं घटादि वस्तु जानाति, तस्यैव अतीता-ऽनागतपर्यायभेदैः तत्तत्स्वभावापत्त्या अनाद्यनन्तकालतया समस्तवस्तुस्वभावगमनादिति । तदुक्तम् "एगदवियस्स जे अत्थपज्जवा वयणपज्जवा वा वि । तीया-ऽणागयभूया तावइयं तं हवइ दव्वं ॥" [सम्मति०१/३१] तदेवं सर्वज्ञः तीर्थकृत् । सर्वज्ञश्च सम्भविनमेव सर्वसत्त्वोपकारिणं उपदेशं ददाति इति दर्शयति सव्वतो पमत्तस्स भयं, सव्वतो अप्पमत्तस्स णत्थि भयं । सव्वओ इत्यादि । सर्वतः सर्वप्रकारेण द्रव्यादिना यद् भेयकारि कर्म उपादीयते तेतः प्रमत्तस्य-मद्यादिप्रमादवतः भयंभीतिः, तद्यथा- प्रमत्तो हि कर्म उपचिनोति द्रव्यतः सर्वैः आत्मप्रदेशैः, क्षेत्रतः षड्दिग्व्यवस्थितम्, कालतोऽनुसमयम्, भावतो हिंसादिभिः । यदि वा सर्वतः सर्वत्र भयं इह अमुत्र च; एतद्विपरीतस्य च नास्ति भयमिति, आह च सव्वओ इत्यादि । सर्वतः ऐहिका-ऽऽमुष्मिकापायात् अप्रमत्तस्य आत्महितेषु जाग्रतो नास्ति भयं संसारापशदात् सकाशात् कर्मणो वा । अप्रमत्तता च कषायाऽभावाद् भवति, तेंदभावाच्च अशेषमोहनीयाभावः, ततोऽपि टि० १. ०भूता तावइयं हवति तं दव्वं ख ।। २. भयकारणं ख ग ॥ ३. तत् क ।। ४. वा सर्वत्र सर्वतो भय० ख । वा सर्वतोऽत्र सर्वतो भयं० घ ङ। वा सर्वतो भय० ग ॥ ५. सर्वतो भय० क ॥ ६. तदभावाच्च शेष० क ॥ वि०टि० ० "अत्थपज्जवा इति यावद्भिर्घट-पटादिभिः पर्यायैः परमाण्वादिकं वस्तु परिणतम्" जै०वि०प० ॥ + "तावइयमिति अनन्तम्''जै०वि०प० ॥ ३१४
SR No.032460
Book TitleAcharang Sutra Part 01
Original Sutra AuthorN/A
AuthorJaysundarsuri, Yashovijay Gani
PublisherDivyadarshan Trust
Publication Year2011
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy