Book Title: Abhidhana Sangraha Part 01
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥श्रीः॥
अभिधानसंग्रहः।
श्रीहेमचन्द्राचार्यविरचितः अभिधानचिन्तामणिः।
प्रणिपत्यार्हतः सिद्धसाङ्गशब्दानुशासनः । रूढयौगिकमिश्राणां नानां मालां तनोम्यहम् ॥ १ व्युत्पत्तिरहिताः शब्दा रूढा आखण्डलादयः । योगोऽन्वयः स तु गुणक्रियासंबन्धसंभवः ॥ २ गुणतो नीलकण्ठाद्याः क्रियातः स्रष्टसंनिभाः । स्वस्वामित्वादिसंबन्धस्तंत्राहु म तद्वताम् ॥ ३
१. "प्रणिपत्यार्हत इति मङ्गलार्थम् । मङ्गलं चाविघ्नेन शास्त्रस्य समात्यर्थम् । सिद्धं प्रतिष्ठा प्राप्तं साङ्गं शब्दानुशासनं यस्येति कर्तृविशेषणम् । अङ्गानि लिङ्गधातुपारायणादीनि । एतावता शब्दानुशासनेन सहास्या एककर्तृकत्वमाह । एककर्तृकत्वख्यापनं चान्योन्यसंवादात्प्रतीतिदायोपदर्शनार्थम् । शब्दानुशासनस्य कीर्तनं तदधीनः सर्वविद्यानां प्रकर्ष इति प्रदर्शनार्थम् ॥ यदाह-'वक्तृत्वं च कवित्वं च विद्वत्तायाः फलं विदुः । शब्दज्ञानादृते तन्न द्वयमप्युपपद्यते ॥' रूढादीनां शब्दानां नाम्नां मालामभिधानचिन्तामणिनाम्नी तनोमि । अहमिति कर्तृनिर्देशः ॥" इति विवृतिः. २. "तत्र रूढाञ्शब्दान्व्याचष्टे-प्रकृतिप्रत्ययविभागेनान्वर्थवर्जिता व्युत्पत्तिरहिताः । शब्दा इत्यनुवाद्यनिर्देशः । रूढा इति विधेयपदम् । आखण्डलादय इत्युदाहरणम् । नपत्र प्रकृतिप्रत्ययविभागेन व्युत्पत्तिरस्ति । आदिशब्दान्मण्डपादयः ॥ यद्यपि 'नाम च धातुजमू-' इति शाकटायनमतेन रूढा अपि व्युत्पत्तिभाजः, तथापि वर्णानुपूर्वीज्ञानमात्रप्रयोजना तेषां व्युत्पत्तिः, न पुनरन्वर्थार्थप्रवृत्तौ कारणमिति रूढा अव्युत्पन्ना एव ॥" इति विवृतिः. ३. "यौगिकाशब्दान्व्याचष्टे-शब्दानां परस्परमर्थानुगमनमन्वयः स योगः। स पुनर्योगो गुणात्, क्रियायाः संबन्धाच्च भवति । गुणो नीलपीतादिः। क्रिया करोत्यादिका । संबन्धो वक्ष्यमाणः संभवो यस्य स तथा॥" इति विवृतिः. ४. "गुणक्रियासंभवयोगेन यौगिकानामुदाहरणम्--गुणतो गुणनिबन्धनो येषां योगस्ते शब्दा नी. लकण्ठाद्याः । नीलः कण्ठोऽस्य इति गुणप्राधान्यान्नीलकण्ठः शंकरः । आदिशब्दात् शितिकण्ठः कालकण्ठः इत्यादि ॥ संख्यापि गुण एव इति त्रिलोचनः । तेन-पञ्चबाणः षण्मुखः अष्टश्रवाः दशग्रीवः इत्यादि संगृहीतम् ॥ क्रियातः क्रियानिबन्धनो योगो येषां ते स्रष्ट्रप्रभृतयः । सृजति इति सर्जनप्राधान्यास्रष्टा ब्रह्मा । एवं धाता इत्यादयः ॥" इति विवृतिः. ५. "संबन्धं व्याचष्टे-स्वम् आत्मीयम्, स्वामी यस्तत्र प्रभविष्णुः, तयोर्भावः स्वस्वामित्वम् । तदादिः संबन्धः । आदिशब्दाज्जन्यजनकभावादिपरिग्रहः ॥” इति विवृतिः. ६. "तत्र स्वस्वामिभावसंबन्धे पालादयः शब्दाः स्वात्परे नियोजिताः तद्वतां स्वामिनां नाम आहुः ॥ मत्वर्थक इति । मतुस्तद्धितः। तस्यार्थोऽस्त्यविशिष्टप्रकृत्यर्थेन सह देवदत्तादेः संबन्धः । तदाधारो वा तदस्यात्यस्मिन्निति मतुः' इति मतुप्रत्ययविधानात् । मतोरर्थो यस्य स मत्वर्थकस्तद्धितो मतुना समानार्थ इत्यर्थः । स च इन्नणिकादिः । मत्वर्थाव्यभिचारान्मतुरपि । आदिशब्दात्पादयोऽपि ॥'तत्राहुर्नाम तद्वताम्' इति उत्तरेष्वप्यनुवर्तनीयम् ॥” इति विवृतिः.
For Private and Personal Use Only

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 180