Page #1
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
Page #2
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
A COLLECTION OF
THE
ABHIDHANA-SANGRAHA
OR
SANSKRIT ANCIENT LEXICONS.
Nos. 6, 7, 8, 9, 10.
THE ABHIDHANA-CHINTAMANI, THE ABHIDHÂNACHINTAMANI-PARIS'ISHTA, THE ANEKÂRTHA
SANGRAHA, THE NIGHANTU-S'ESHA AND THE LINGÂNUS'ASANA
OF
HEMACHANDRA.
AND
No. 11.
THE ABHIDHANA-CHINTAMANI-S'ILONCHCHHA,
OF
JINADEVA MUNISVARA.
EDITED BY
PANDIT SIVADATTA
AND
KAS'INÂTH PANDURANG PAR
10R
PRINTED AND PUBLISED
BY
THE PROPRIETOR
Acharya Shri Kailassagarsuri Gyanmandir
OF
THE NIRNAYA-SAGARA PRESS.
BOMBAY.
1896.
Price 14 Rupee
For Private and Personal Use Only
Page #3
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Serving JinShasan
042552 gyanmandir@kobatirth.org
(Registered according to act XXV of 1867) (All rights reserved by the publisher.)
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
Page #4
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
11 eft: 11
अभिधानसंग्रहः
नाम
संस्कृतप्राचीन कोशग्रन्थसमुच्चयः ।
तत्र
( ६, ७, ८, ९, १० ) श्रीमदाचार्यहेमचन्द्रविरचिताः
Acharya Shri Kailassagarsuri Gyanmandir
अभिधानचिन्तामणि - अभिधानचिन्तामणिपरिशिष्ट - अनेकार्थसंग्रह - निघण्टुशेष - लिङ्गानुशासनकोशाः ।
(११) जिनदेवमुनीश्वरविरचितः
अभिधानचिन्तामणिशिलोञ्छन ।
काव्यमाला संपादक- पण्डितशिवदत्त काशीनाथाभ्यां संशोधिताः ।
तेच
शाके १८१८ वत्सरे
मुम्बय्यां निर्णयसागराख्ययन्त्रालये तदधिपतिना मुद्राक्षरैरङ्कयित्वा प्राकाश्यं नीताः ।
मूल्यं सपादो रूप्यकः ।
For Private and Personal Use Only
Page #5
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
Page #6
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
हेमचन्द्रः ।
40
अयं श्वेताम्बरजैनाचार्यश्रीहेमचन्द्रः कदा कतमं भूमिमण्डलं मण्डयामासेति जिज्ञासायामनेकग्रन्थपर्यालोचने प्रवृत्ते Dr. P. Peterson महाशयानां Fifth Report पुस्तके -
Acharya Shri Kailassagarsuri Gyanmandir
'तत्पपूर्वादिसहस्ररश्मिः सोमप्रभाचार्य इति प्रसिद्धः । श्री हेमसूरे कुमारपालदेवस्य चेदं न्यगदचरित्रम् ॥'
इति सोमप्रभाचार्यविरचितहेमकुमारचरित्रकाव्यतः,
'स्तुमस्त्रिसंध्यं प्रभुहेमसूरेरनन्यतुल्यामुपदेशशक्तिम् । अतीन्द्रियज्ञानविवर्जितोऽपि यः क्षोणिभर्तुर्व्याधित प्रबोधम् ॥ सत्त्वानुकम्पा न महीभुजां स्यादित्येष कुप्तो वितथः प्रवादः । जिनेन्द्र प्रतिपद्य येन श्लाघ्यः स केषां न कुमारपालः ॥
इति सोमप्रभकथिते कुमारनृप हेमचन्द्रसंवादे | जिनधर्मप्रतिबोधे प्रस्तावः पञ्चमः प्रोक्तः ॥ इति सोमप्रभविरचितकुमारपालविबोधकाव्यतः
'शिष्यो जम्बुमहामुनेः प्रभव इत्यासीदमुष्यापि च श्रीशय्यंभव इत्यमुष्य च यशोभद्राभिधानो मुनिः । संभूतो मुनिभद्रवाहुरि द्वौ तस्य शिष्योत्तमौ संभूतस्य च पादपद्ममधुलिट्थीस्थूलभद्राह्वयः ॥ वंशक्रमागतचतुर्दशपूर्वरत्नकोशस्य तस्य दशपूर्वधरो महर्षिः ।
नाम्ना महागिरिरिति स्थिरतागिरीन्द्रो ज्येष्ठान्तिमत्समजनिष्ट विशिष्टलब्धिः || शिष्योऽन्यो दशपूर्वभृन्मुनिवृपो नाम्ना सुहस्तीत्यरुद् यत्पादाम्बुजसे वनात्समुदिते राज्ये प्रबोधधिकाः । चक्रे संप्रतिपार्थिवः प्रतिपुरनामाकरं भारतेऽस्मिन्नर्थे जिनचैत्यमण्डितमिलापृष्ठं समन्तादपि ॥ अजनि सुस्थित सुमतिबुद्ध इत्यभिधयार्यमुहस्ति महामुनेः । शमवनो दशपूर्वरान्तिषद्भवमहातरुभञ्जनकुञ्जरः ॥ महर्षिसंसेवितपादसंनिधेः प्रचारभागालवणोदसागरम् । महान्गणः कोटिक इत्यभूत्ततो गङ्गाप्रवाहो हिमगिरेरिव ॥ तस्मिन्गणे कतिपयेष्वपि यातवत्सु साधूत्तमेषु चरमो दशपूर्वधारी । उद्दामतुम्बवनपत्तनवज्रशाखावज्रं महामुनिरजायत वज्रसूरिः ॥
दुर्भिक्षे समुपस्थिते प्रलयवद्धीमत्वभाज्यन्यदा भीतं न्यस्य महर्षिसंघमभितो विद्यावदातः पटे । योऽभ्युद्धृत्य कराम्बुजेन नभसा पुर्यामनैषीन्महा पुर्या मञ्जु सुभिक्षधामनि तपोधाम्नामसीम्नां निधिः ॥ तस्माद्वत्राभिधा शाखाभूत्कोटिकगणडुमे । उच्च नागरिकामुख्यशाखात्रितयगोचरा ॥ तस्यां च वज्रशाखायां निलीनमुनिषट्पदः । पुष्पगुच्छायतो गच्छश्चन्द्र इत्याख्ययाभवत् ॥
१. अस्य जिनधर्मप्रतिबोधकाव्यस्य निर्माणसमयस्तु - 'शशिजलधिसूर्यवर्षे शुचिमासे रविदिने सिताष्टम्याम् | जिनधर्मप्रतिबोधः कृप्तोऽयं गुर्जरेन्द्रपुरे ||' इति वदता ग्रन्थकत्रैव १२४१ (A. D. 1184) विक्रमसंवत्सरात्मक उक्तः. २. 'इति च' इति भवेत. ३. सुस्थितः सुप्रतिबद्धः इति मुनिद्रयम
For Private and Personal Use Only
Page #7
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
हेमचन्द्रः । धर्मध्यानसुधासुधांशुरमलः संघार्थरत्नाकरो भव्याम्भोरुहभास्करः स्मरकरिप्रोन्माथकण्ठीरवः । गच्छे तत्र बभूव संयमधनः कारुण्यराशियशोभद्रः सूरिरपूरि येन भुवनं शुद्धैर्यशोभिर्निजैः ।। श्रीमन्नेमिजिनेन्द्रपावितशिरस्यद्रौ स संलेखनां कृत्वादौ प्रतिपन्नवाननशनं प्रान्ते शुभध्यानभाक् । तिष्ठशान्तमनास्त्रयोदशदिनान्याश्चर्यमुत्पादयन्नुच्चैः पूर्वमहर्षिसंयमकथाः सत्यापयामासिवान् ॥
श्रीमान्प्रद्युम्नसूरिः समजनि जनितानेकभव्यप्रबोध__ स्तच्छिष्यो विश्वविश्वप्रथितगुणगणः प्रावृडम्भोदवद्यः । प्रीणाति स्माखिलक्ष्मां प्रवचनजलधेरुद्धतैरर्थनीरै
.. रातत्य स्थानकानि श्रुतिविषयसुधासारसध्यञ्चि विष्वक् ॥ सर्वग्रन्थरहस्यरत्नमुकुरः कल्याणवल्लीतरुः कारुण्यामृतसागरः प्रवचनव्योमाङ्गणाहस्करः । चारित्रादिकरत्नरोहणगिरिः क्ष्मां पावयन्धर्मराट् सेनानीगुणसेनमूरिरभवच्छिष्यस्तदीयस्ततः ॥ शिष्यस्तस्य च तीर्थमेकमवनेः पावित्र्यकृजंगमः स्याद्वादत्रिदशापगाहिमगिरिविश्वप्रबोधार्यमा । कृत्वा स्थानकवृत्तिशान्तिचरिते प्राप्तः प्रसिद्धि परां सूरि रितपःप्रभाववसतिः श्रीदेवचन्द्रोऽभवत् ॥ __ आचार्यों हेमचन्द्रोऽभूत्तत्पादाम्भोजषट्पदः । तत्प्रसादादधिगतज्ञानसंपन्महोदयः ॥ जिष्णुश्चेदिदशार्णमालवमहाराष्ट्रापरान्तं कुरून्सिन्धूनन्यतमांश्च दुर्गविषयान्दोर्वीर्यशक्त्या हरिः । चौलुक्यः परमार्हतो विनयवा-श्रीमूलराजान्वयी तं नत्वेति कुमारपालपृथिवीपालोऽब्रवीदेकदा ॥
पापर्द्धिद्यूतमद्यप्रभृति किमपि यन्नारकायुर्निमित्तं
तत्सर्वं निनिमित्तोपकृतिकृतधियां प्राप्य युष्माकमाज्ञाम् । खामिन्ना निषिद्धं धनमसुतमृतस्याथ मुक्तं तथार्ह
च्चैत्यैरुत्तंसिता भूरभवमिति समः संप्रतेः संप्रतीह ॥ अस्मत्पूर्वजसिद्धराजनृपतेर्भक्तिस्पृशो याच्या साङ्गं व्याकरणं सवृत्ति सुगमं चक्रुर्भवन्तः पुरा । मद्धेतोरथ योगशास्त्रममलं लोकाय च व्याश्रयच्छन्दोलंकृतिनामसंग्रहमुखान्यन्यानि शाम्राण्यपि ॥
लोकोपकारकरणे स्वयमेव यूयं सज्जाः स्थ यद्यपि तथाप्यहमर्थयेदः । मादृग्जनस्य परिबोधकृते [शलाका] पुंसां प्रकाशयत वृत्तमपि त्रिषष्टेः ॥
तस्योपरोधादिति हेमचन्द्राचार्यः शलाकापुरुषेतिवृत्तम् । धर्मोपदेशैकफलप्रधानं न्यवीविशच्चारु गिरां प्रपञ्चे ॥ ___ जम्बूद्वीपारविन्दे कनकगिरिरसावश्नुते कर्णिकात्वं
यावद्यावच्च द्यत्ते जलनिधिरवनेरन्तरीयत्वमुच्चैः । यावद्व्योमाध्वपान्थौ तरणिशशधरौ भ्राम्यतस्तावदेत
काव्यं नाम्ना शलाकापुरुषचरितमित्यस्तु जैत्रं धरित्र्याम् ॥' इत्याचार्यहेमचन्द्रविरचितशलाकापुरुषचरितप्रशस्तितश्च चौलुक्यकुमारपालराज्ये हेमचन्द्राचार्याणां सत्ताया अवगतेः
'नृपस्य जीवाभयदानडिण्डिमैर्महीतले नृत्यति कीर्तिनर्तकी। श्रीहेमचन्द्रप्रभुपादपद्मं वन्दे भवाब्धेस्तरणैकपोतम् । ललाटपट्टान्तरकान्तराठ्याक्षरावली येन मम व्यलोपि ॥
For Private and Personal Use Only
Page #8
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
हेमचन्द्रः । बोधयित्वा महाराज देवलोकं जगाम यः । पश्चात्कुमारपालोऽयं शोकं गत्वा मुमूर्छ सः ॥ तदनु धैर्यमवलम्ब्य धर्मध्यानं करोति ।' इति हेमकुमारचरित्रकाव्ये हेमचन्द्राचार्याणां देवलोकगमनस्योक्तेश्च कुमारपालराज्यसमय एवाचायहेमचन्द्रसमयः, कुमारपालराजधान्येव भूमिमण्डलमित्यबाधमवगतम् । विशेषकथा तु प्रबन्धकोशप्रबन्धचिन्तामणिभ्यामवगन्तव्या । कुमारपालराज्यसमयस्तु---
ॐ नमः शिवाय । ब्रह्माद्वैतधिया मुमुक्षुभिरभिध्यातस्य बद्धाक्षरैरिच्छाशक्तिमभिष्टवीमि जगतां पत्युः श्रुतीनां निधेः । या व्यापारितसंहृतेः खसमये ब्रह्माण्डपिण्डैर्नवैः क्रीडन्ती मणिकन्दुकैरिव सदा स्वच्छन्दमाह्लादते ॥ गीर्वाणैर्वीतगर्व दनुजपरिभवात्प्रार्थितस्त्रायकाथै वेधाः संध्यां नमस्यन्नपि निजचुलुके पुण्यगङ्गाम्बुपूर्णे ।
सद्यो वीरं चुलुक्याह्वयमसृजदिमं येन कीर्तिप्रवाहैः पूतं त्रैलोक्यमेतन्नियतमनुहरत्येव हेतोः फलं श्रीः॥ वंशः कोऽपि ततो बभूव विविधाश्चर्यैकलीलास्पदं यस्माद्भूमिभृतोऽपि वीतगणिता(णना): प्रादुर्भवन्त्यन्वहम् । छायां यः प्रथितप्रतापमहतीं दधे विपन्नोऽपि सन्यो जन्यावधि सर्वदापि जगतो विश्वस्य दत्ते फलम् ॥ वंशस्यास्य यशःप्रकाशनविधौ निर्मूल्यमुक्तामणिः क्षोणीपालकिरीटकल्पितपदः श्रीमूलराजोऽभवत् । यो मूलं कलिदावदग्धनिखिलन्यायद्रुमोत्पादने यो राजेव करैः प्रकामशिशिरैः प्रीति निनाय प्रजाः॥ यश्चापोत्कटराजराज्यकमलां स्वच्छन्दवन्दीकृतां विद्वद्वान्धवविप्रवन्दिभृतकव्यूहोपभोग्यां व्यधात् । यत्खड्गाश्रयिणीं तदा श्रियमलं युद्धस्फुरद्विक्रमक्रीताः सर्वदिगन्तरक्षितिभुजां लक्ष्म्याश्चिरं भेजिरे ॥ सूनुस्तस्य बभूव भूपतिलकश्चामुण्डराजाह्वयो यद्गन्धद्विपदानगन्धपवनाघ्राणेन दूरादपि ।। विभ्रश्यन्मदगन्धभनकरिभिः श्रीसिन्धुराजस्तथा नष्टः क्षोणिपतेर्यथास्य यशसां गन्धोऽपि निर्णाशितः॥ तस्माद्वल्लभराज इत्यभिधया क्ष्मापालचूडामणिर्जज्ञे साहसकर्मनिर्मितचमत्कारः क्षमामण्डले । यत्कोपानलजृम्भितं पिशुनयत्येतत्प्रयाणश्रुतिक्षुभ्यन्मालवभूपचक्रविकसन्मालिन्यधूमोद्गमः ।। श्रीमद्दुर्लभराजनामनृपतिभ्रातास्य राज्यं दधे शृङ्गारेऽपि निषण्णधीः परवधूवर्गस्य यो दुर्लभः । यस्य क्रोधपरायणस्य किमपि भ्रूवल्लरी भङ्गुरा सद्यो दर्शयति स्म लाटवसुधाभङ्गस्वरूपं फलम् ॥ भीमोऽपि द्विषतां सदा प्रणयिनां भोग्यत्वमासेदिवान्क्षोणीभारमिदं(मं) बभार नृपतिः श्रीभीमदेवो नृपः । धारापञ्चकसाधनैकचतुरैस्तद्वाजिभिः साधिता क्षिप्रं मालवचक्रवर्तिनगरी धारेति को विस्मयः ॥ तस्माद्भूमिपतिर्बभूव वसुधाकर्णावतंसः स्फुरत्कीर्तिप्रीणितविश्वकर्णविवरः श्रीकणदेवाह्वयः । येन ज्याप्रथितखनं च्युतशरं धर्म पुरस्कुर्वता न्यायज्ञेन न केवलं रिपुगणः कालोऽपि विद्धः कलिः ॥ दृप्यन्मालवभूपबन्धनविधित्रस्ताखिलक्ष्मापतिर्भक्त्याकृष्टवितीर्णदर्शनशिवो मूर्तः प्रभावोदयः । सद्यः सिद्धरसानृणीकृतजगद्गीतोपमा(तावदा)नस्थितिर्जज्ञे श्रीजयसिंहदेवनृपतिः सिद्धादिराजस्ततः ॥
१. मूलराजराज्यम्-वि० सं० ९९३-१०५३. २. चामुण्डराजराज्यम्-वि० सं० १०५३-१०६६. ३. दुर्लभराजराज्यम्-वि० सं० १०६६-१०७८. ४. भीमदेवराज्यम्-वि० सं० १०७८-११२०. ५. कर्णदेवराज्यम्-वि० सं० ११२०-११५०.१. सिद्धराजापरपर्यायजयसिंहराज्यम्-वि० सं० ११५०-११९९.
For Private and Personal Use Only
Page #9
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
४
www.kobatirth.org
हेमचन्द्रः ।
.... भोक्तुम'
वश्या वेश्म रसातलं च विलसद्भोगि' यः क्षोणीधरयागिनीं च सुमहाभोगां सिषेवे चिरं हेलासिद्धरसाः सदा क्षितिभुजः [संख्या]तीतवितीर्णदाननिवहैः संपन्न पुण्योच्चयः क्रीडाक्रान्तदिगन्तराल "
***DGE OF
Acharya Shri Kailassagarsuri Gyanmandir
• क्षत्राणि रक्षांसि च ।
For Private and Personal Use Only
3000
रे ॥
1
॥
"कुलभूप ... बलाम्ब ... क्रीडाकोड इवोदधार वसुधां देवाधिदेवाज्ञया । देवः सोऽथ कुमारपालनृपतिः श्रीराज्यचूडामणिर्यः स्वर्गादवतीर्णवान्हरिरिति ज्ञातः प्रभावाज्जनैः ॥ अर्णोराजनराधिराजहृदये क्षिप्त्यैक (ब) बाणत्रजं योतल्लोहिततर्पणादमदयच्चण्डीं भुजस्थायिनीम् । द्वारालम्बितमालवेश्वरशिरः पद्मेन यश्चाहरल्लीलापङ्कजसंग्रह व्यसनिनीं चौलुक्यराजान्वयः || शुद्धाचारनवावतारसरणिः सद्धर्मकर्म क्रमप्रादुर्भावविशारदो नयपथप्रस्थानसार्थाधिपः । यः संप्रत्यवतारयन्कृतयुगं योगं कलेर्लङ्घयन्मन्ये संहरति स्म भूमिवलयं कालव्यवस्थामपि ॥ प्रत्यू" ... खण्डिताङ्गुलिदलैः पर्युल्लसत्पल्लवो नष्टोदीच्य नराधिपोज्झितसितच्छत्रैः प्रसूनोज्ज्वलः । छिन्नप्राच्यनरेन्द्रमौलिकमलैः प्रौम्प (प्रोद्य) त्फलद्योतितश्छायां दूरमवर्धयन्निजकुले यस्य प्रतापद्रुमः ॥ आचारः किल तस्य रक्षणविधिर्विघ्नेशनिर्ना(र्णा) शितप्रत्यूहस्य फलावलोकिशकुनज्ञानस्य सं ........वः । देवीमण्डलखण्डिताखिलरिपोर्युद्धं विनोदोत्सवः श्रीसोमेश्वरदत्तराज्यविभवस्याडम्बरं वाहिनी ॥ राज्ञानेन च भुज्यमानसुभगा विश्वंभरा विस्फुरद्रत्नद्योतितवारिराशिरशना शीताद्रिविन्ध्यस्तनी । एषाभूषयदस्थिकुण्डलमिव श्रुत्याश्रयं ....ष्टता बिभ्राणा नगराह्वयं द्विजमहास्थानं सुवर्णोदयम् ॥ आब्रह्मादिऋषिप्रवर्तितमहायज्ञक्रमोत्तम्भितैर्यूपैर्दत्तकरावलम्बनतया पादव्यपेक्षाच्युतः । धर्मोऽत्रैव चतुर्युगेऽपि कलितानन्दः परिस्पन्दते तेनानन्दपुरेति यस्य विबुधैर्नामान्तरं निर्मितम् ॥ अश्रान्तद्विजवर्गवेदतुमुलैर्बाधिर्यमारोपितः शश्वद्धोमहुताशधूमपटलैरान्ध्यव्यथां लम्भितः । नानादेवनिकेतनध्वजशिखाघातैश्च खञ्जीकृतो यस्मिन्नद्य कलिः स्वकालविहितोत्साहोऽपि नोत्सर्पति ॥ सर्पद्विप्रवधूजनस्य विविधालंकाररत्नांशुभिः स्मेराः संततगीतमङ्गलरवैर्वा चालतां प्रापिताः । अस्ता(श्रा)न्तोत्सवलक्ष्यमाणविभवोत्कर्षप्रकाशस्थितौ मार्ग एव वदन्ति यत्र नृपतेः सौराज्यसंपद्गुणम् ॥ अस्मिन्नागरवंशजद्विजजनस्त्राणं करोत्यध्वरे रक्षां शान्तिकपौष्टिकैर्वितनुते भूपस्य राष्ट्रस्य च । मा भूत्तस्य तथापि तीव्रतपसो बाधेति भक्त्या नृपो वप्रं विप्रपुराभिरक्षणकृते निर्मापयामास सः अस्मिन्वप्रगुणेन तोयनिलयाः प्रीणन्ति लोकं जलैः कामं क्षेत्रभुवोऽपि वप्रकलितास्तन्वन्ति धान्यश्रियम् । एवं चेतसि संप्रधार्य सकलब्रह्मोपकारेच्छया चक्रे वप्रविभूषितं पुरमिदं चौलुक्यचूडामणिः । पादाक्रान्तरसातलो गिरिरिव श्लाघ्यो महाभोगतः शृङ्गारीव तरङ्गिणीपतिरिव स्फारोदयद्वारभूः । उत्सर्पत्कपिशीर्षको जय इव क्रव्यादनाथद्विषां नारीवर्ग इवेष्टकान्तरुचिरः सालोऽयमालोक्यते ॥ भोगाभोगमनोहरः फणशतैरुत्तुङ्गतां धारयन्यातः कुण्डलितां च यज्ञपुरुषस्याज्ञावशेनागतः । रत्नस्खर्णमहानिधिं पुरमिव त्रातुं स शेषः स्थितः प्राकारः सुधया सितोपलशिराः संलक्ष्यते वृत्तवान् ॥
१. कुमारपालराज्यम् - वि० सं० ११९९ - १२३०. २. अयमराजश्च वीरधवलमहाराजपितामह इति कीर्तिकीमुदकाव्यस्य नरेन्द्रवंशवर्णनात्मके द्वितीयसर्गे व्याख्यात एव भवेत्.
Page #10
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
हेमचन्द्रः
कामं कामसमृद्धिपूरकरमारामाभिरामाः सदा स्वच्छन्द खनतत्परैर्द्विजकुलैरत्यन्तवाचालिताः । उत्सर्पद्गुणशालिवप्रवलयप्रीतैः तैः प्रसन्ना जनैरत्रान्तश्च बहिश्च संप्रति भुवः शोभाद्भुतं बिभ्रति ॥ लक्ष्मीकुलं क्षोणिभुजो दधानः प्रौढोदयाधिष्ठितविग्रहोऽयम् । विभ्राजते नागरकाम्यवृष्टिर्वप्रश्च चौलुक्य नराधिपश्च ॥
यावत्पृथ्वी पृथुविरचिताशेषभूभृन्निवेशा यावत्कीर्तिः सगरनृपतेर्विद्यते सागरोऽयम् । तावन्नन्द्याद्विजवरमहास्थानरक्षानिदानं श्री चौलुक्यक्षितिपतियशः कीर्तनं वप्र एषः ॥ एकाहनिष्पन्नमहाप्रबन्धः श्रीसिद्धराजप्रतिपन्नबन्धुः ।
श्रीपालनामा कविचक्रवर्ती प्रशस्तिमेतामकरोत्प्रशस्ताम् ॥
संवत् १२०८ वर्षे आश्विन शुदि (२) गुरौ लिखितं नागर ब्राह्मणपण्डितबालणेन ॥' इति काव्यमाला पुस्तकान्तर्गतप्राचीनलेखमालायां G. Bühler Ph. D., L. L. D., C. I. E. महाशयप्रेषित ४५ तमलेखतः विक्रमसंवत् १२०८ (AD 1151 ) रूपः स्फुटमेव प्रतीयते । एवं च द्वादशी ख्रिस्तशतिका हेमचन्द्रसत्ताधारभूतावगम्यते ।
अनेनाचार्य श्री हेमचन्द्रेणेयन्तो ग्रन्था निर्मिता इति निश्चितं नैव । परंतु तन्निर्मितग्रन्थेषु — अनेकार्थकोषः, अनेकार्थशेषः, अभिधानचिन्तामणि: ( नाममालाव्याख्या), अलंकार चूडामणि: (काव्यानुशासनव्याख्या), उणादिसूत्रवृत्तिः, काव्यानुशासनम्, छन्दोनुशासनम्, छन्दोनुशासनवृत्तिः, देशीनाममाला सवृत्तिः, [द्याश्रयकाव्यं सवृत्ति ], धातुपाठः सवृत्तिः, धातुपारायणं सवृत्ति, धातुमाला, नाममाला, नाममालाशेषः, निघण्टुशेषः, [ प्रमाणमीमांसा सवृत्तिः,] बलाबलसूत्रबृहद्वृत्तिः, बालभाषाव्याकरणसूत्रवृत्तिः, [योगशास्त्रम्,] विभ्रमसूत्रम्, [लिङ्गानुशासनं सवृत्ति,] शब्दानुशासनं सवृत्ति, शेषसंग्रहः, शेष संग्रहसारोद्धारः, एते ग्रन्थाः Catalogus Catalogorum ग्रन्थे Dr. Theodor Aufrecht महाशयैः प्रकाशिताः । एवमनेकलक्षात्मकग्रन्थकर्तृश्वेताम्बर जैनाचार्य श्री हेमचन्द्रकृतान्यभिधानान्येवास्मिन्पुस्तके संगृहीतानि ।
तदेतेषामभिधानानां मुद्रणाय शोधनसमये येषां सहृदयानां पुस्तकानि प्राप्तानि तेषां नामानि धन्यवादपुरःसरं प्रकाश्यन्ते
१. अभिधानचिन्तामणिः ( नाममाला)
33
""
""
32
अनेकार्थ करवाकरकौमुदी
४. निघण्टुशेष:
www.kobatirth.org
२. अभिधानचिन्तामणिपरिशिष्टम् ( नाममालाशेषः) - अभिधानचिन्तामणितोऽस्माभिरुद्धृतम् । ३. अनेकार्थसंग्रहः
- वाराणसीमुद्रितः ।
- जयपुरराजगुरु श्रीलक्ष्मीदत्तात्मजश्रीदत्तानाम् । — जयपुरराजगुरुपर्वणीकर श्रीनारायणभट्टानाम् । -जंगमयुगप्रधान बृहत्खरतरगच्छप्रधानभट्टारकश्रीजिनमुक्तिसूरिणाम् ।
- पुण्यपत्तनस्थपुस्तकालयतः ।
Acharya Shri Kailassagarsuri Gyanmandir
- वाराणसीमुद्रितः ।
-जयपुर राजगुरु श्रीलक्ष्मीदत्त भट्टात्मजश्रीदत्तानाम् । -जयपुरराजकीयपुस्तकालयतः ।
For Private and Personal Use Only
Page #11
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
५. लिङ्गानुशासनम्
""
www.kobatirth.org
इति प्रार्थयतः -
हेमचन्द्रः ।
लवपुरीयविश्वविद्यालयाध्यापकदुर्गादत्तशास्त्रिणाम् ।
-- जंगमयुगप्रधान बृहत्खरतरगच्छप्रधानभट्टारकश्रीजिनमुक्तिसूरिणाम् ।
— खरतरगच्छस्योजीराममुनीनाम् ।
६. अभिधानचिन्तामणिशिलोञ्छः
तदेवमेकानेक पुस्तकाधारेण शोधितमुद्विताभिधानसंग्रहेऽस्मदोषादक्षरयोजकदोषाद्वा यत्र वचनाशुद्धिः स्थिता जाता वा तत्र सहृदयाः सौहार्देण समाधास्यन्ति ।
यतः ---
Acharya Shri Kailassagarsuri Gyanmandir
गच्छतः स्खलनं क्वापि भवत्येव प्रमादतः । हसन्ति दुर्जनास्तत्र समादधति सज्जनाः ॥
पण्डित - शिवदत्त - काशीनाथ ।
For Private and Personal Use Only
Page #12
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥श्रीः॥
अभिधानसंग्रहः।
श्रीहेमचन्द्राचार्यविरचितः अभिधानचिन्तामणिः।
प्रणिपत्यार्हतः सिद्धसाङ्गशब्दानुशासनः । रूढयौगिकमिश्राणां नानां मालां तनोम्यहम् ॥ १ व्युत्पत्तिरहिताः शब्दा रूढा आखण्डलादयः । योगोऽन्वयः स तु गुणक्रियासंबन्धसंभवः ॥ २ गुणतो नीलकण्ठाद्याः क्रियातः स्रष्टसंनिभाः । स्वस्वामित्वादिसंबन्धस्तंत्राहु म तद्वताम् ॥ ३
१. "प्रणिपत्यार्हत इति मङ्गलार्थम् । मङ्गलं चाविघ्नेन शास्त्रस्य समात्यर्थम् । सिद्धं प्रतिष्ठा प्राप्तं साङ्गं शब्दानुशासनं यस्येति कर्तृविशेषणम् । अङ्गानि लिङ्गधातुपारायणादीनि । एतावता शब्दानुशासनेन सहास्या एककर्तृकत्वमाह । एककर्तृकत्वख्यापनं चान्योन्यसंवादात्प्रतीतिदायोपदर्शनार्थम् । शब्दानुशासनस्य कीर्तनं तदधीनः सर्वविद्यानां प्रकर्ष इति प्रदर्शनार्थम् ॥ यदाह-'वक्तृत्वं च कवित्वं च विद्वत्तायाः फलं विदुः । शब्दज्ञानादृते तन्न द्वयमप्युपपद्यते ॥' रूढादीनां शब्दानां नाम्नां मालामभिधानचिन्तामणिनाम्नी तनोमि । अहमिति कर्तृनिर्देशः ॥" इति विवृतिः. २. "तत्र रूढाञ्शब्दान्व्याचष्टे-प्रकृतिप्रत्ययविभागेनान्वर्थवर्जिता व्युत्पत्तिरहिताः । शब्दा इत्यनुवाद्यनिर्देशः । रूढा इति विधेयपदम् । आखण्डलादय इत्युदाहरणम् । नपत्र प्रकृतिप्रत्ययविभागेन व्युत्पत्तिरस्ति । आदिशब्दान्मण्डपादयः ॥ यद्यपि 'नाम च धातुजमू-' इति शाकटायनमतेन रूढा अपि व्युत्पत्तिभाजः, तथापि वर्णानुपूर्वीज्ञानमात्रप्रयोजना तेषां व्युत्पत्तिः, न पुनरन्वर्थार्थप्रवृत्तौ कारणमिति रूढा अव्युत्पन्ना एव ॥" इति विवृतिः. ३. "यौगिकाशब्दान्व्याचष्टे-शब्दानां परस्परमर्थानुगमनमन्वयः स योगः। स पुनर्योगो गुणात्, क्रियायाः संबन्धाच्च भवति । गुणो नीलपीतादिः। क्रिया करोत्यादिका । संबन्धो वक्ष्यमाणः संभवो यस्य स तथा॥" इति विवृतिः. ४. "गुणक्रियासंभवयोगेन यौगिकानामुदाहरणम्--गुणतो गुणनिबन्धनो येषां योगस्ते शब्दा नी. लकण्ठाद्याः । नीलः कण्ठोऽस्य इति गुणप्राधान्यान्नीलकण्ठः शंकरः । आदिशब्दात् शितिकण्ठः कालकण्ठः इत्यादि ॥ संख्यापि गुण एव इति त्रिलोचनः । तेन-पञ्चबाणः षण्मुखः अष्टश्रवाः दशग्रीवः इत्यादि संगृहीतम् ॥ क्रियातः क्रियानिबन्धनो योगो येषां ते स्रष्ट्रप्रभृतयः । सृजति इति सर्जनप्राधान्यास्रष्टा ब्रह्मा । एवं धाता इत्यादयः ॥" इति विवृतिः. ५. "संबन्धं व्याचष्टे-स्वम् आत्मीयम्, स्वामी यस्तत्र प्रभविष्णुः, तयोर्भावः स्वस्वामित्वम् । तदादिः संबन्धः । आदिशब्दाज्जन्यजनकभावादिपरिग्रहः ॥” इति विवृतिः. ६. "तत्र स्वस्वामिभावसंबन्धे पालादयः शब्दाः स्वात्परे नियोजिताः तद्वतां स्वामिनां नाम आहुः ॥ मत्वर्थक इति । मतुस्तद्धितः। तस्यार्थोऽस्त्यविशिष्टप्रकृत्यर्थेन सह देवदत्तादेः संबन्धः । तदाधारो वा तदस्यात्यस्मिन्निति मतुः' इति मतुप्रत्ययविधानात् । मतोरर्थो यस्य स मत्वर्थकस्तद्धितो मतुना समानार्थ इत्यर्थः । स च इन्नणिकादिः । मत्वर्थाव्यभिचारान्मतुरपि । आदिशब्दात्पादयोऽपि ॥'तत्राहुर्नाम तद्वताम्' इति उत्तरेष्वप्यनुवर्तनीयम् ॥” इति विवृतिः.
For Private and Personal Use Only
Page #13
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
*v
अभिधानसंग्रहः-६ अभिधानचिन्तामणिः । खात्पालधनभुमेतृपतिमवर्थकादयः । भूपालो भूधनो भूभुग्भूनेता भूपतिस्तथा ॥ भूमाँश्चेति कविरूढ्या ज्ञेयोदाहरणावली । जैन्यात्कृत्कर्तृसृस्रष्टविधातृकरसूसमाः ॥ जनकाद्योनिजरुहजन्मभूसूत्यणादयः । धार्याजास्त्रपाण्यङ्कमौलिभूषणभृन्निभाः ॥ शालिशेखरमत्वर्थमालिभर्तृधरा अपि । भोज्यागुगन्धोव्रतलिट्पायिपाशाशनादयः ॥ पंत्युः कान्ताप्रियतमावधूप्रणयिनीनिभाः । कलत्राद्वररमणप्रणयीशप्रियादयः ॥ संख्युः सखिसमा वाह्याद्गामियानासनादयः । ज्ञातेः स्वसृदुहित्रात्मजाग्रजावरजादयः ।
१. "क्रमेणोदाहरणान्याह-इतिशब्दः प्रकारार्थः । तेन भूपादयोऽपि ॥ कवीनां रूढिः परम्परा तया न तु कविरूद्व्यतिक्रमेण । यथा 'कपाली' इत्यादौ सत्यपि स्वस्वामिभावसंबन्धे 'कपाली' इति मत्वर्थीयान्त एव भवति, न तु 'कपालपालः, कपालधनः, कपालभुक्, कपालनेता, कपालपतिः' इत्यादि ॥” इति विवृतिः. २. "जन्यजनकभावसंबन्धे यथा-जन्यात्कार्यात्परे कृदादयस्तद्वतां जनकानां कारणानां नाम आहुः॥ यथा-विश्वकृत्, विश्वकर्ता, विश्वसृट् , विश्वस्रष्टा, विश्वविधाता, विश्वकरः, विश्वसूः ब्रह्मा । तस्य हि विश्वं जन्यमिति रूढिः ॥ सम आद्यर्थः । तेन-'विश्वकारकः, विश्वजनकः' इत्याद्यपि ॥ कविरूढ्या इत्येव । नहि यथा चित्रकृदुच्यते तथा चित्रसूः इति ॥" इति विवृतिः. ३. "तथा जनकात् परे योन्यादयः शब्दास्तद्वतां कारणवतां कार्याणां नाम आहुः । यथा-आत्मयोनिः, आत्मजः, आत्मरुहः, आत्मजन्मा, आत्मभूः, आत्मसूतिः, ब्रह्मा ।। तस्य ह्यात्मा कारणमिति रूढिः ॥ वक्ष्यमाणस्यादिशब्दस्याभिसंबन्धात् संभवादयोऽपि गृह्यन्ते ॥ अणादयस्तु-भृगोरपत्यं भार्गवः । दितेरपत्यं दैत्यः । वात्स्यस्यापत्यं वात्स्यायनः ॥ अत्रापि हि भार्गवादीनां भृग्वादयो हि जनका इति रूढिः ॥ 'कविरूढ्या' इत्येव । नहि-आत्मयोनिवत् 'आत्मजनकः, आत्मकारकः' इति भवति ॥” इति विवृतिः. ४. "धार्यधारकसंबन्धे यथा-धार्यवाचकात् परे ध्वजादयो धरान्ता धारकस्य नाम आहुः ॥ यथा-वृषध्वजः, शूलास्त्रः, पिनाकपाणिः, वृषाङ्कः, चन्द्रमौलिः, शशिभूषणः, शूलभृत् । निभग्रहणात्तत्सदृशा वृषकेतन-शूलायुध-वृषलक्ष्म-चन्द्रशिरस्-चन्द्राभरणादयो गृह्यन्ते । तथा—पिनाकशाली, शशिशेखरः, शूली, पिनाकमाली । पिनाकं मलते धारयतीति कृत्वा पिनाकभर्ता, गङ्गाधरः ॥ 'कविरूढ्या' इत्येव । तेन सत्यपि धार्यधारकसंबन्धे न सर्वेभ्यो धार्येभ्यो ध्वजाद्यर्थाः शब्दाः प्रयोज्याः । नहि भवति वृषध्वजवत् शूलध्वजः, शूलास्त्रवत् चन्द्रास्त्रः, पिनाकपाणिवत् अहिपाणिः, वृ. षाङ्कवत् चन्द्राङ्कः, चन्द्रमौलिवत् गङ्गामौलिः, शशिभूषणवत् शूलभूषणः, शूलशालिवर चन्द्रशाली, चन्द्रशेखरवत् गङ्गाशेखरः, शूलिवत् शूलवान् , पिनाकमालिवत् सर्पमाली, पिनाकभर्तृवत् चन्द्रभर्ता, गङ्गाधरवत् चन्द्रधरः, इति ॥” इति विवृतिः. ५. "भोज्यभोजकभावसंबन्धे यथा-भोज्यं भक्ष्यं तद्वाचिनः शब्दात् परे भुगादयः शब्दास्तद्वतां भोज्यवतां भोक्तृणां नाम आहुः । यथा-अमृतभुजः, अमृतान्धसः, अमृतव्रताः, अमृतलिहः, अमृतपायिनः, अमृतपाः, अमृताशाः, अमृताशनाः, देवाः ॥ तेषां ह्यमृतं भोज्यम्' इति रूढिः ॥ आदिशब्दस्तत्समानार्थभोजनादिशब्दपरिग्रहाय ।। 'कविरूढ्या' इत्येव । नहि यथा अमृतभुजः, तथा अमृतवल्मा इति भवति ॥” इति विवृतिः. ६. "पतिकलत्रभावसंबन्धे यथा-पतिर्वरयिता तद्वाचकाच्छब्दात् कान्तादिसदृशाः शब्दाः तद्वतीनां पतिमतीनां भार्याणां नाम आहुः ॥ यथा-शिवकान्ता, शिवप्रियतमा, शिववधूः, शिवप्रणयिनी, गौरी ॥ तस्या हि शिवः पतिः इति रूढिः ॥ निभग्रहणाद्रमणी-वल्लभा-प्रिया-प्रभृतयो गृह्यन्ते ॥ 'कविरूढ्या' इत्येव । नहि भवति यथा शिवकान्ता तथा शिवपरिग्रहः इति ॥ तथा-कलत्रवाचिन: शब्दात्परे वरादयः शब्दास्तद्वतां कलत्रवतां वरयितृणां नाम आहुः ॥ यथा-गौरीवरः, गौरीरमणः, गौरीप्रणयी, गौरीशः, गौरीप्रियः, शिवः ॥ तस्य हि गौरी कलत्रम्' इति रूढिः ॥ आदिशब्दात् तत्समानार्थाः पत्यादयो गृह्यन्ते ॥ 'कविरून्या' इत्येव । नहि भवति यथा गौरीवरः शिवः, तथा गङ्गावरः' इति ॥” इति विवृतिः. ७. "सख्युः संबन्धे यथा—सखिवाचकाच्छब्दात् परे सखिसमानार्थाः तद्वतां सख्यवतां नाम आहुः॥ यथा-श्रीकण्ठस्य सखा श्रीकण्ठसखः कुबेरः। मधुसखः कामः । समग्रहणात् सुहृदादयो गृह्यन्ते ॥ 'कविरूढ्या' इत्येव । नहि भवति यथा-श्रीकण्ठसखो धनदः, तथाधनदसखः श्रीकण्ठ इति ॥" इति विवृतिः. ८. "वाह्यवाहकभावसंबन्धे यथा-वाह्यातू वाह्यवाचिनः शब्दात् परे
For Private and Personal Use Only
Page #14
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१ देवाधिदेवकाण्डः ।
आश्रयात्सद्मपर्यायशयवासिसदादयः । वैध्याद्भिद्वेषिजिद्धातिधुप्रिपुध्वंसिशासनाः ॥ अप्यन्तकारिदमनदर्पच्छिन्मथनादयः । विवक्षितो हि संबन्ध एकतोऽपि पदात्ततः ॥ प्राक्प्रदर्शित संबन्धिशब्दा योज्या यथोचितम् । दृश्यते खलु वाह्यत्वे वृषस्य वृषवाहनः ॥ स्वत्वे पुनर्वृषपतिर्धार्यत्वे वृषलाञ्छनः । अंशोर्धार्यत्वेंऽशुमाली स्वत्वेंऽशुपतिरंशुमान् ॥ वध्यत्वेऽहेरहिरिपुर्भोज्यत्वे चाहिभुक्शिखी । चिद्वैर्व्यक्तैर्भवे व्यक्तेर्जातिशब्दोऽपि वाचकः ॥ तथाह्यगस्तिपूता दिग्दक्षिणाशा निगद्यते । अयुग्विषमशब्दौ त्रिपञ्चसप्तादिवाचकौ ॥
१०
११
१२
१३
१४
१५
गामिप्रभृतयः तद्वतां वाह्यवतां वाहयितॄणां नाम आहुः ॥ यथा - वृषगामी, वृषयानः, वृषासन, शंभुः ॥ तस्य हि वृषो यानम् इति रूढिः || आदिशब्दाद् वृषवाहन इत्यादयोऽपि ॥ 'कविरूढ्या' इत्येव । नहि भवति यथा---- ' नरवाहनः कुबेर: ' तथा 'नरगामी, नरयानः' इति ॥” इति विवृतिः ९. “ ज्ञातेयसंबन्धे यथा— ज्ञातिः स्वजन:, तद्वाचिनः शब्दात् परे स्वस्रादयस्तद्वतां ज्ञातेयवतां ज्ञातीनां नाम आहुः || स्वस्रादीनां च ज्ञातिविशेषवाचित्वाज्यातिविशेषादेव प्रयोगो यथा — यमस्वसा यमुना । हिमवद्दुहिता गौरी । चन्द्रात्मजो बुधः । गदाग्रज इन्द्रावरजश्च वि
। यमादयो हि यमुनादीनां भ्रात्रादिज्ञातय इति रूढिः || आदिशब्दात्सोदरादयो गृह्यन्ते ॥ यथा --- कालिन्दीसोदरो यमः ॥ 'कविरूढ्या' इत्येव । नहि भवति यथा 'यमुना यमस्वसा', 'तथा शनिस्वसापि ॥” इति विवृतिः.
For Private and Personal Use Only
"
१. " आश्रयाश्रयिसंबन्धे यथा - आश्रयो निवासः तद्वाचिनः शब्दात् परे सद्मपर्यायाः शयवासिसदादयश्च तद्वताम् आश्रयवताम् आश्रितानां नाम आहुः ॥ यथा — घुसद्मानः घुसदनाः, दिवौकसः । दिवशब्दो वृत्तावकारान्तोऽप्यस्तीति । ध्रुवसतयः, दिवाश्रयाः, द्युशयाः, ध्रुवासिनः सदः, देवाः ॥ द्यौः स्वर्गः, स च ते - षामाश्रयः इति रूढिः ॥ ' कविरूढ्या' इत्येव । नहि भवति यथा सद्मानो देवा:, तथा भूमिसद्मानो मनुष्याः इति ॥” इति विवृतिः. २. "वध्यवधकभाव संबन्धे यथा— बध्यो घात्यः तद्वाचिनः शब्दात् परे भिदादयः अन्तकार्यादयोऽपि तद्वतां वधकानां नाम आहुः ॥ यथा - पुरभित्, पुरद्वेषी, पुरजित्, पुरघाती, पुरभुक्, पुरारिः, पुरध्वंसी, पुरशासनः, पुरान्तकारी, पुरदमनः, पुरदर्पच्छित्, पुरमथनः शिवः ॥ ' तस्य हि पुरो वध्याः' इति रूढि || आदिशब्दात् — पुरदारी, पुरनिहन्ता, पुरकेतु:, पुरहा, पुरसूदनः, पुरान्तकः, पुरजयी, इति । वध्य इति वधामात्रेऽपि । तेन - कालियदमनः, कालियारिः, कालियशासनः, विष्णुः' इत्यादयोऽपि गृह्यन्ते ॥ ' - विरूढ्या' इत्येव । तेन कालियदमनादिवत् 'कालियघाती' इति न भवति ॥” इति विवृतिः ३. “उक्ताः स्वस्वामित्वादयः संबन्धाः । ते च यथा भिन्नद्रव्याश्रयास्तथैकद्रव्याश्रया अपि भवन्ति इति दर्शयितुमाह — विवक्षानिबन्धनो हि संबन्ध:, तत एकस्मादपि वृषादेः संबन्धिपदात् परे संबन्धान्तरनिबन्धना वाहनादयः शब्दा यथोचितं प्रयुज्यन्ते ॥” इति विवृति: ४. एतदेवाह – वाह्यवाहक भावसंबन्धे विवक्षायां यथा - ' वृषवाहनो रुद्र: ' इति भवति । तथा स्वस्वामिभावसंबन्धविवक्षायां 'वृषपतिः ' ॥ धार्यधारकभावसंबन्धविवक्षायां च ' वृषलाञ्छनः ' इत्यपि ॥ धार्यधारक संबन्धविवक्षायां यथा— 'अंशुमाली रविः' इति भवति । तथा -- स्वस्वामिभावसंबन्धविवक्षायाम् ‘अंशुपतिः, अंशुमान्' इत्यपि ॥ तथा - वध्यवधकभावसंबन्धे यथा - 'अहिरिपुर्मयूरः' । तथा —– भोज्यभोजकभावसंबन्धे ‘अहिभुक्' इत्यपि भवति ||" इति विवृति: ५. " संबन्धनिबन्धनां व्युत्पत्तिमुक्त्वा व्युत्पत्त्यन्तन्तरमाह — चिह्नर्विशेषणैर्व्यक्तैनिःसंदेहैर्जात्यभिधायकोऽपि शब्दो व्यक्तेर्वाचको भवेत् । व्यक्तेर्नामतां यातीत्यर्थः ॥ तथाहीत्यादिनोदाहरणमाह - अगस्तिना ऋषिविशेषेण पूता स्वस्थित्या पवित्रिता इति व्यक्तं चिह्नम् | तेन चिह्नितो 'दिक्' इति जातिशब्दो दक्षिणाशाया व्यक्तेरभिधायी भवति ॥ एवं 'सप्तर्षिता दिक् उत्तराशा,' 'अत्रेर्नयनसमुत्थं ज्योतिश्चन्द्रः' इत्यादयोऽपि ॥” इति विवृतिः. ६. " व्युत्पत्त्यन्तरमाह — त्रिपञ्च सप्तादिस्थाने अयुग्-विषम-शब्दौ त्रिनेत्रादिपदेषु योजनीयौ । यथा - त्रिनेत्रः, अयुनेत्रः, विषमनेत्रश्च शंभुः ॥ पञ्चेषुः, अयुगिषुः, विषमेषुश्च कामः । सप्तपलाशः, अयुक्पलाशः, विषमपलाशश्च सप्तपर्णः || आदिशब्दात् नवशक्तिः, अयुक्शक्तिः, विषमशक्तिश्च शंभुः ॥ एवं त्र्यक्ष- पञ्चवाण - सप्तच्छदादिष्वपि ॥” इति विवृतिः.
Page #15
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिधानसंग्रहः-६ अभिधानचिन्तामणिः । त्रिनेत्रपञ्चेषुसप्तपलाशादिषु योजयेत् । गुणशब्दो विरोध्यर्थं नादिरितरोत्तरः ॥
अभिधत्ते यथा कृष्णः स्यादसितः सितेतरः । वार्ष्यादिषु पदे पूर्वे वाडवाग्न्यादिषूत्तरे ॥ १७ द्वयेऽपि भूभदायेषु पर्यायपरिवर्तनम् । एवं परावृत्तिसहा योगाः स्युरिति यौगिकाः ॥ १८ मिश्राः पुनः परावृत्त्यसहा गीर्वाणसंनिभाः। प्रवक्ष्यन्तेऽत्र लिँङ्गं तु ज्ञेयं लिङ्गानुशासनात् ॥ १९ देवाधिदेवाः प्रथमे काण्डे देवा द्वितीयके।। नरस्तृतीये तिर्यश्चस्तुर्य एकेन्द्रियादयः॥ २० एकेन्द्रियाः पृथिव्यम्बुतेजोवायुमहीरुहः । कृमिपीलकलूताद्याः स्युद्वित्रिचतुरिन्द्रियाः ॥ २१ पञ्चेन्द्रियाश्चेभकेकिमत्स्याद्याः स्थलखाम्बुगाः । पञ्चेन्द्रिया एव देवा नरा नैरयिका अपि ॥ २२ नारकाः पञ्चमे साङ्गाः षष्टे साधारणाः स्फुटम् । प्रस्तोष्यन्तेऽव्ययाश्चात्र वेन्ताथादी न पूर्वगौ ॥२३
१. "व्युत्पत्त्यन्तरमाह-गुणवाची शब्दो नपूर्व इतरशब्दोत्तरश्च विरोधिनमर्थमभिधत्ते । यथा-असितः, सितेतरः, कृष्णः ॥ एवम्---अकृशः, कृशेतरश्च स्थूल इत्यादि ॥' इति विवृतिः. २. "व्युत्पत्त्यन्तरमाह-वार्ष्यादिषु शब्देषु पूर्वस्मिन्नेव पदे पर्यायस्य परिवर्तनं भवति ॥ यथा—वाधिः, जलधिः, तोयधिः ॥ आदिशब्दग्रहणात् जलदः, तोयदः, नीरदः इत्यादि । वडवाम्यादिषु शब्देषु उत्तरस्मिन्नेव पदे पर्यायपरिवर्तनम् । यथा-वडवामिः, वडवानलः, वडवावह्निः ॥ आदिशब्दात् सरोजम्, सरोरुहम् , इत्यादि ॥ भूभृदायेषु शब्देषु द्वयेऽपि पूर्वत्र उत्तरत्र च पदे पर्यायस्य परिवर्तनम् । यथा--भूभृत् , उर्वीभृत् , भूधरः, उर्वीधरः ॥ आद्यशब्दात् सुरपतिः, देवराजः, इत्यादयः ॥” इति विवृतिः. ३. "एवमिति पूर्वत्र उत्तरत्र उभयत्र च पदे परावृत्तिं पर्यायपरिवर्तनं सहन्ते क्षमन्ते परावृत्तिसहा वादियः शब्दा योगाद् अन्वयाद् भवेयुः इति यौगिकाः ॥” इति विवृतिः. ४. "गीर्वाणादयः शब्दाः पूर्वत्र उत्तरत्र च पदे पर्यायपरावृत्तिमसहमाना मिश्रा योगयुक्ता रूढिमन्तश्च अत्राभिधानचिन्तामणौ नाममालायां प्रवक्ष्यन्ते ॥ संनिभग्रहणाद् दशरथ-कृतान्त-प्रभृतयः ॥” इति विवृतिः. ५. "लिङ्गमिति ॥ पुंलिङ्ग स्त्रीलिङ्गं नपुंसकलिङ्गं चास्मदुपज्ञलिङ्गानुशासनात् ज्ञेयं निर्णेतव्यम् । अत एवास्माभिरमरकोशाद्यभिधानमालास्विव लिङ्गनिर्णयो नोक्तः ॥ इह तु विनेयजनानुग्रहार्थं संदिग्धलिङ्गानां नानालिङ्गानां च शब्दानां लिङ्गनिर्णयो वक्ष्यते ॥” इति विवृतिः. ६. "इह हि 'मुक्तगतिः, देवगतिः, मनुष्यगतिः, तिर्यग्गतिः, नारकगतिः' इति जीवानां पञ्च गतयो भवन्ति । तद्भेदा जीवा अपि 'मुक्ताः, देवाः, मनुष्याः, तिर्यञ्चः, नारकाच' इति पञ्चधा भवन्ति । ततोऽभिधास्यमानरूढयौगिकमिश्रशब्दविभागमुक्त्वा प्रथमादिकाण्डेष्वभिधास्यमानमुक्तादिनामक्रमनिर्देशमाह-देवाधिदेवा अर्हन्तो व. र्तमानातीतानागताः । तद्वाचकशब्दा अपि देवाधिदेवाः, वाच्यवाचकयोरभेदोपचारात् ॥ एवं वक्ष्यमाणदेवादिध्वपि योज्यम् ॥ साझा इति सर्वत्र संबध्यते ॥ ततः प्रथमे काण्डे गणधराद्यङ्गैः सह देवाधिदेवाः सर्वप्राधान्यात्॥ द्वितीये काण्डे देवाः साङ्गाः ॥ तृतीये काण्डे मनुष्याः साङ्गाः ॥ चतुर्थे तिर्यञ्चः साङ्गाः । ते च एकेन्द्रियादयः। तत्र एकं स्पर्शनम् इन्द्रियं येषां ते एकेन्द्रियाः पृथ्वीकायादयः पञ्च । तत्र पृथ्वीकायोऽनेकविधः---शुद्धपृथ्वीशकरावालुकादिः । अप्कायो हिमादिः । तेजःकायोऽङ्गारादिः । वायुकाय उत्कलिकादिः । वनस्पतिकायः शैवलादिः ॥ द्वे स्पर्शन-रसने, त्रीणि स्पर्शनरसनघ्राणानि, चत्वारि तान्येव चक्षुःसहितानि, इन्द्रियाणि येषां ते तथा । ततो द्वीन्द्रियाः कृम्यादयः, त्रीन्द्रियाः पीलकादयः, चतुरिन्द्रिया लूतादयः ॥ पञ्च स्पर्शादीनि श्रोत्रसहितानि इन्द्रियाणि येषां ते पञ्चेन्द्रियाः । ते च त्रिविधाः-स्थलचराः, खचराः, अम्बुचराश्च । तत्र स्थलचरा इभाद्याः, खचराः केकिप्रभृतयः, अम्बुचरा मत्स्याद्याः ॥ देवा नरा नारकाच पञ्चेन्द्रिया एव । न तु तिर्यञ्च इव एकद्वि. त्रिचतुरिन्द्रिया अपि ॥ पञ्चमे काण्डे नारकाः साङ्गाः ॥ षष्ठे काण्डे साधारणाः सामान्यवाचिनः ॥ अव्ययाश्च अत्रेति षष्ठ एव काण्डे प्रस्तोष्यन्ते प्रक्रम्यन्त इति ॥” इति विवृतिः. ७. "तुशब्दोऽन्ते यस्यासौ त्वन्तः, अथशब्द आदिर्यस्यासावथादिश्च शब्दः पूर्वं न गच्छति । अग्रिमेण संबध्यते' इत्यर्थः ॥ न्यायसिद्धं चैतत् । तुना पूर्वस्माद्विशेषद्योतनात् । अथशब्देन चार्थान्तरारम्भात् । यथा-'स्यादनन्तजिदनन्तः सुविधिस्तु पुष्पदन्तः' इति, 'मुक्तिमोक्षोऽपवर्गोऽथ मुमुक्षुः श्रमणो यतिः' इति ॥ भ्रान्तिस्थानविषये चैतत्' इति ॥” इति विवृतिः,
For Private and Personal Use Only
Page #16
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१ देवाधिदेवकाण्डः ।
अर्हञ्जिनः पारगतस्त्रिकालवित्क्षीणाष्टकर्मापरमेष्ट्यधीश्वरः । शंभुः स्वयंभूर्भगवाज्जगत्प्रभुस्तीर्थकरस्तीर्थकरो जिनेश्वरः ॥ स्याद्वाद्यभयदसार्वाः सर्वज्ञः सर्वदर्शिकेवलिनौ । देवाधिदेवबोधदपुरुषोत्तमवीतरागाप्ताः ॥
Acharya Shri Kailassagarsuri Gyanmandir
उत्सर्पिण्यामतीतायां चतुर्विंशतिरर्हताम् । केवलज्ञानी निर्वाणी सागरोऽथ महायशाः || विमलः सर्वानुभूतिः श्रीधरो दत्ततीर्थकृत् । दामोदरः सुतेजाश्च स्वाम्यथो मुनिसुव्रतः ॥
ง
For Private and Personal Use Only
२४
एतस्यामवसर्पिण्यामृषभोऽजितशंभवौ । अभिनन्दनः सुमतिस्ततः पद्मप्रभाभिधः || सुपार्श्वश्चन्द्रप्रभश्च सुविधिश्चाथ शीतलः । श्रेयांसो वासुपूज्यश्च विमलोऽनन्ततीर्थकृत् ॥ धर्मः शान्तिः कुंथुररो मल्लिश्च मुनिसुव्रतः । नमिर्नेमिः पार्श्वो वीरश्चतुर्विंशतिरर्हताम् || ऋषभो वृषभः श्रेयाञ्श्रेयांसः स्यादनन्तजिदनन्तः । सुविधिस्तु पुष्पदन्तो मुनिसुव्रतसुव्रतौ तुल्यौ ||
२९
३०
३१
३२
३३
अरिष्टनेमिस्तु नेमिर्वीरञ्चरमतीर्थकृत् । महावीरो वर्धमानो देवार्थो ज्ञातनन्दनः || गणा नवास्यर्षिसंघा एकादश गणाधिपाः । इन्द्रभूतिरग्निभूतिर्वायुभूतिश्च गौतमाः || १ व्यक्तः सुधर्मा मण्डितमौर्यपुत्रावकम्पितः । अचलभ्राता मेतार्यः प्रभासश्च पृथकुलाः ॥ केवली चरमो जम्बूस्वाम्यथ प्रभवत्प्रभुः । शय्यंभवो यशोभद्रः संभूतविजयस्ततः || भद्रबाहुः स्थूलभद्रः श्रुतकेवलिनो हि षट् । महागिरिसुहस्त्याद्या वज्रान्ता दशपूर्विणः ॥ इक्ष्वाकुकुलसंभूताः स्याद्वाविंशतिरर्हताम् । मुनिसुव्रतनेमी तु हरिवंशसमुद्भव | नाभिश्च जितशत्रुश्च जितारिरथ संवरः । मेघो धरः प्रतिष्ठश्च महासेननरेश्वरः ॥ सुग्रीवश्च दृढरथो विष्णुश्च वसुपूज्यराट् । कृतवर्मा सिंहसेनो भानुश्च विश्वसेनराट् || सूरः सुदर्शनः कुम्भः सुमित्रो विजयस्तथा । समुद्रविजयश्चाश्वसेनः सिद्धार्थ एव च ॥
३४
३५
३६
३७
३८
४२
४३
देवा विजया सेना सिद्धार्था च मङ्गला । ततः सुसीमा पृथ्वी लक्ष्मणा रामा ततः परम् ॥ ३९ नन्दा विष्णुर्जया श्यामा सुयशाः सुत्रताचिरा । श्रीदेवी प्रभावती च पद्मा वप्रा शिवा तथा ||४० वामा त्रिशला क्रमतः पितरो मातरोऽर्हताम् । स्याद्गोमुखो महायक्षस्त्रिमुखो यक्षनायकः || ४१ तुम्बरुः कुसुमचापि मातङ्गो विजयोऽजितः । ब्रह्मा यक्षेट् कुमारः षण्मुखपातालकिनराः ॥ गरुडो गन्धर्वो यक्षेट् कुबेरो वरुणोऽपि च । भृकुटिर्गोमेधः पार्श्वो मातङ्गोऽर्हदुपासकाः ॥ चक्रेश्वर्यर्जितवला दुरितारिव कालिका | महाकाली श्यामा शान्ता भृकुटिश्च सुतारका ॥ ४४ अशोका मानवी चण्डा विदिता चाङ्कुशा तथा । कंदर्पा निर्वाणी वला धारिणी धरणप्रिया || ४५ नरदत्ताथ गान्धार्यम्बिंका पद्मावती तथा । सिद्धायिका चेति जैन्यः क्रमाच्छासनदेवताः ॥ ॥ १४६ वृषो गजोऽश्वः लवग: क्रौञ्चोऽब्जं स्वस्तिकः शशी । मकरः श्रीवत्सः खङ्गी महिषः सूकरस्तथा ४७ श्येनो वज्रं मृगश्छागो नन्द्यावर्तो घटोऽपि च । कूर्मो नीलोत्पलं शङ्खः फणी सिंहोऽर्हतां ध्वजाः ४८ रक्तौ च पद्मप्रभवासुपूज्यौ शुक्लौ तु चन्द्रप्रभपुष्पदन्तौ । कृष्णौ पुनर्नेमिमुनी विनीलौ श्रीमल्लिपार्श्वे कनकत्विषोऽन्ये ॥
9.
२५
२६
२७
२८
४९
५०
५१
१. 'सर्वीय'. २. 'संभवौ'. २. 'नेमी' नान्तोऽपि ४. 'अजिता ' इत्यपि ५. 'अच्युतदेवी' इत्यपि. ६. 'सुतारा' इत्यपि. ७. 'कूष्माण्डी' इत्यपि.
Page #17
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिधानसंग्रहः-६ अभिधानचिन्तामणिः ।। सुमतिः शिवगतिश्चैवात्यागोऽथ निमीश्वरः । अनिलो यशोधराख्यः कृतार्थोऽथ जिनेश्वरः ॥ ५२ शुद्धमतिः शिवकरः स्यन्दनश्वाथ संप्रतिः।। भाविन्यां तु पद्मनाभः शूरदेवः सुपार्श्वकः ॥ ५३ स्वयंप्रभश्च सर्वानुभूतिर्देवश्रुतोदयौ । पेढालः पोट्टिलश्चापि शतकीर्तिश्च सुव्रतः ॥ अममो निष्कषायश्च निष्पुलाकोऽथ निर्ममः । चित्रगुप्तः समाधिश्च संवरश्च यशोधरः ॥ ५५ विजयो मल्लदेवौ चानन्तवीर्यश्च भद्रकृत् । एवं सर्वावसर्पिण्युत्सर्पिणीषु जिनोत्तमाः ॥ ५६
तेषां च देहोऽद्भुतरूपगन्धो निरामयः खेदमलोज्झितश्च । श्वासोऽजगन्धो रुधिरामिषं तु गोक्षीरधाराधवलं ह्यविस्रम् ॥ आहारनीहारविधिस्त्वदृश्यश्चत्वार एतेऽतिशयाः सहोत्थाः । क्षेत्रे स्थितिर्योजनमात्रकेऽपि नृदेवतिर्यग्जनकोटिकोटेः ॥ वाणी नृतियक्सुरलोकभाषासंवादिनी योजनगामिनी च । भामण्डलं चारु च मौलिपृष्ठे विडम्बिताहर्पतिमण्डलश्रीः॥ साग्रे च गव्यूतिशतद्वये रुजावैरेतयो मार्यतिवृष्टयवृष्टयः । दुर्भिक्षमन्यस्वकचक्रतो भयं स्यान्नैत एकादश कर्मघातजाः ॥' खे धर्मचक्रं. चमराः सपादपीठं मृगेन्द्रासनमुज्ज्वलं च । छत्रत्रयं रत्नमयध्वजोऽभिन्यासे च चामीकरपङ्कजानि ॥ वप्रत्रयं चारु चतुर्मुखाङ्गताश्चैत्यद्रुमोऽधोवदनाश्च कण्टकाः । द्रुमानतिर्दुन्दुभिनाद उच्चकैर्वातोऽनुकूलः शकुनाः प्रदक्षिणाः ॥ गन्धाम्बुवर्षे बहुवर्णपुष्पवृष्टिः कचश्मश्रुनखाप्रवृद्धिः । १९.
चतुर्विधा मर्त्यनिकायकोटिर्जघन्यभावादपि पार्श्वदेशे ॥, ऋतूनामिन्द्रियार्थानामनुकूललमित्यमी । एकोनविंशतिर्दैव्याश्चतुस्त्रिंशच मीलिताः ॥ संस्कारवत्त्वमौदार्यमुपचारपरीतता । मेघनिर्घोषगाम्भीर्य प्रतिनादविधायिता ।। दक्षिणत्वमुपनीतरागत्वं च महार्थता । अव्याहतत्वं शिष्टवं संशयानामसंभवः ।। निराकृतान्योत्तरलं हृदयंगमितापि च । मिथः साकाङ्क्षता प्रस्तावौचियं तत्त्वनिष्ठता ॥ अप्रकीर्णप्रसृतत्वमस्वश्लाघान्यनिन्दिता । आभिजात्यमतिस्निग्धमधुरवं प्रशस्यता ॥ अमर्मवेधितौदार्य धर्मार्थप्रतिबद्धता । कारकाद्यविपर्यासो विभ्रमादिवियुक्तता ॥ चित्रकृत्त्वमद्भुतत्वं तथानतिविलम्बिता । अनेकजातिवैचित्र्यमारोपितविशेषिता ॥ सत्त्वप्रधानता वर्णपदवाक्यविविक्तता । अव्युच्छित्तिरखेदित्वं पञ्चविंशञ्च वाग्गुणाः ॥ ७१ अन्तराया दानलाभवीर्यभोगोपभोगगाः । हासो रत्यरती भीतिर्जुगुप्सा शोक एव च ॥ ७२ कामो मिथ्यात्वमज्ञानं निद्रा चाविरतिस्तथा । रोगो द्वेषश्च नो दोषास्तेषामष्टादशाप्यमी ॥ ७३ महानन्दोऽमृतं सिद्धिः कैवल्यमपुनर्भवः । शिवं निःश्रेयसं श्रेयो निर्वाणं ब्रह्म निर्वृतिः ॥ ७४ महोदयः सर्वदुःखक्षयो निर्याणमक्षरम् । मुक्तिर्मोक्षोऽपवर्गोऽथ (मुमुक्षुः श्रमणो यतिः ॥ .७५ वाचंयमो व्रती साधुरनगार ऋषिमुनिः । निर्ग्रन्थो भिक्षुरस्य स्वं तपोयोगशमादयः॥ ७६ मोक्षोपायो योगो ज्ञानं श्रद्धानं चरणात्मकः । अभाषणं पुनर्मोनं गुरुर्धर्मोपदेशकः ॥ ७७
१. 'भद्रः' अपि.
For Private and Personal Use Only
Page #18
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२ देवकाण्डः।
अनुयोगकृदाचार्य उपाध्यायस्तु पाठकः । अनूचानः प्रवचने साङ्गेऽधीती गणिश्च सः ॥ ७८ शिष्यो विनेयोऽन्तेवासी शैक्षः प्राथमकल्पिकः । सतीर्थ्यास्त्वेकगुरवो विवेकः पृथगात्मता ॥ ७९ एकब्रह्मव्रताचारा मिथः सब्रह्मचारिणः । स्यात्पारम्पर्यमानायः संप्रदायो गुरुक्रमः ॥ ८० बतादानं परिव्रज्या तपस्या नियमस्थितिः । अहिंसासूनृतास्तेयब्रह्माकिंचनता यमाः ॥ नियमाः शौचसंतोषौ स्वाध्यायतपसी अपि । देवताप्रणिधानं च करणं पुनरासनम् ॥ प्राणायामः प्राणयमः श्वासप्रश्वासरोधनम् । प्रत्याहारस्त्विन्द्रियाणां विषयेभ्यः समाहृतिः॥ ८३ धारणा तु कचिद्ध्येये चित्तस्य स्थिरबन्धनम् । ध्यानं तु विषये तस्मिन्नेकप्रत्ययसंततिः ॥ समाधिस्तु तदेवार्थमात्राभासनरूपकम् । एवं योगो यमाद्यङ्गैरष्टभिः संमतोऽष्टधा ॥
श्वःश्रेयसं शुभशिवे कल्याणं श्वोवसीयसं श्रेयः ।
क्षेमं भावुकभविककुशलमङ्गलभद्रमद्रशस्तानि ॥ इत्याचार्यहेमचन्द्रविरचितायामभिधानचिन्तामणौ नाममालायां देवाधिदेवकाण्डः प्रथमः ॥ १॥
वर्गस्त्रिविष्टपं द्योदिवौ भुविस्तविषताविषौ नाकः ।
गौस्त्रिदिवमूर्ध्वलोकः सुरालयस्तत्संदस्त्वमराः ॥ देवाः सुपर्वसुरनिर्जरदेवत(बहिर्मुनानिमिषदैवतनाकिलेखाः ।
वृन्दारकाः सुमनसस्त्रिदशा अमाः स्वाहावधाक्रतुसुधाभुज आदितेयाः ॥ गीर्वाणा मरुतोऽस्वप्ना विबुधा दानवारयः । तेषां यानं विमानोऽन्धः पीयूषममृतं सुधा॥ ८९
असुरा नागास्तडितः सुपर्णका वह्नयोऽनिलाः स्तनिताः।
उदधिद्वीपदिशो दश भवनाधीशाः कुमारान्ताः ॥ स्युः पिशाचा भूता यक्षा राक्षसाः किंनरा अपि । किंपुरुषा महोरगा गन्धर्वाश्चान्तरा अमी॥ ९१ ज्योतिष्काः पञ्च चन्द्रार्कग्रहनक्षत्रतारकाः।। वैमानिकाः पुनः कल्पभवा द्वादश ते त्वमी ॥ ९२
सौधर्मेशानसनत्कुमारमाहेन्द्रब्रह्मलान्तकर्जाः ।
शुक्रसहस्रारानतप्राणतजा आरणाच्युतजाः ॥ कल्पातीता नव अवेयकाः पञ्च खनुत्तराः । निकायभेदादेवं स्युर्देवाः किल चतुर्विधाः॥ ९४
आदित्यः सवितार्यमा खरसहस्रोष्णांशुरंशू रवि__ मर्तिण्डस्तरणिर्गभस्तिररुणो भानुर्नभोऽहर्मणिः । सूर्योऽर्कः किरणो भगो ग्रहपुषः पूषा पतङ्गः खगो
मार्ताण्डो यमुनाकृतान्तजनकः प्रद्योतनस्तापनः॥ १. 'त्रिपिष्टपम्' इति प्राच्याः, २. स्वर्गसदः; यौगिकत्वात् 'द्युसद्मानः' इत्यादयोऽपि. ३. यौगिकत्वात् 'स्वगिणः, त्रिदिवाधीशाः' इत्यादयोऽपि. ४. 'भुज्'शब्दः स्वाहादिना प्रत्येकं संबध्यते; यौगिकत्वात् 'स्वाहाशनाः, स्वधाशनाः, यज्ञाशनाः, अमृतान्धसः' इत्यादयोऽपि. ५. 'कुमार'शब्दस्य प्रत्येकमसुरादिभिः संबन्धः, ६. 'ज'शब्दस्य सौधर्मादिभिरन्वयः. ७. 'ज'शब्दस्य शुक्रादिभिरन्वयः, ८. 'अंशु'शब्दः प्रत्येकं स्वरादिभिरन्वेति; यौगिकत्वात् 'खररश्मिः, दशशतरश्मिः, शीतेतररश्मिः' इत्यादयोऽपि. ९. 'मणि'शब्द: प्रत्येकं नभआदिभ्यामन्वेति; यौगिकत्वात् 'व्योमरत्नम्, दिनरत्नम्' इत्यादि. १०. 'जनक' शब्दः प्रत्येकमन्वेति; यौगिकत्वात् 'कालिन्दीसूः, यमसूः' इत्यादयोऽपि.
९५
For Private and Personal Use Only
Page #19
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
८
अभिधान संग्रह: - ६ अभिधानचिन्तामणिः ।
ब्रध्नो हंसश्चित्रभानुर्विवस्वान्सूरस्त्वष्टा द्वादशात्मा च हेलिः । मित्रो ध्वान्तरातिरब्जांशुहस्तचक्र जाहबन्धवः सप्तसप्तिः || दिवादिनाहर्दिवसप्रभाविभाभासः करः स्यान्मिहिरो विरोचनः । ग्रहाब्जिनीगोद्युतिर्विकर्तनो हरिः शुचीनौ गंगनाजाध्वगौ || हरिदश्वो जगत्कर्मसाक्षी भावान्विभावसुः । त्रयीतनुर्जगञ्चक्षुस्तपनोऽरुणसारथिः ॥ रोचिरुस्ररुचिशोचिरंशुगो ज्योतिरचैिरुपधृत्य भीशेवः । प्रग्रहः शुचिमरीचिदीप्तयो धामकेतुघृणिरश्मिपृश्नयः ॥ पाददीधितिकरद्युतिद्युतो रुग्विरोक किरणत्विषित्विषः । भाः प्रभावसुगभस्तिभानवो भा मयूख महसी छविर्विभा ॥
f
१००
१०२ १०३
प्रकाशस्तेज उद्दयोत आलोको वर्च आतपः । मरीचिका मृगतृष्णा मण्डलं तूपसूर्यकम् ॥ १०१ परिधिः परिवेषश्च सूरसूतस्तु काश्यपिः । अनूरुर्विनतासूनुररुणो गरुडाग्रजः ॥ रेवन्तस्त्वर्करेतोजः प्लवगो हयवाहनः । अष्टादश माठराद्याः सवितुः परिपार्श्वकाः ।। चन्द्रमाः कुमुदबान्धवो दशश्वेतैवाज्यमृत सूस्तिथिप्रणीः । कौमुदीकुमुदिनीभदक्षजारोहिणीद्विजनिशौषधीपतिः ॥ जैवानृकोऽजैश्च कलाशरौणच्छायादिन्दुर्विधुरत्रिजः । राजा निशो रत्नकरौ च चन्द्रः सोमोऽमृतश्वेतहिमद्युतिग्लः ॥
Acharya Shri Kailassagarsuri Gyanmandir
९६
For Private and Personal Use Only
९७
९८
९९
१०४
१०५
१०८
षोडशोऽशः कला चिह्नं लक्षणं लक्ष्म लाञ्छनम् । अङ्कः कलङ्कोऽभिज्ञानं चन्द्रिका चन्द्रगोलिका १०६ चन्द्रातप: कौमुदी च ज्योत्स्ना बिम्बं तु मण्डलम् । नक्षत्रं तारका ताराज्योतिषी भमुटु ग्रह || १०७ धिष्ण्यमृक्षमथाश्विन्यश्वकिनी दस्रदेवता । अश्वयुग्वालिनी चाथ भरणी यमदेवता || कृत्तिका बहुलाश्चाग्निदेवा ब्राह्मी तु रोहिणी । मृगशीर्ष मृगशिरो मार्गश्चान्द्रमसं मृगः ॥ १०९ इल्वलांस्तु मृगशिरः शिरस्थाः पञ्च तारकाः । आर्द्रा तु कालिनी रौद्री पुनर्वसू तु यामकौ ॥ ११० आदित्यौ च पुष्पस्तिष्यः सिध्यश्च गुरुदैवतः । सार्पोऽश्लेषा मघा पित्र्या फाल्गुनी योनिदेवता ॥ १११ सा तूत्तरार्यमदेवा हस्तः सवितृदैवतः । त्वाष्ट्री चित्रानिली स्वातिर्विशाखेन्द्राग्निदेवताः ॥ ११२
१. तालव्यादिरित्यन्ये. २. यौगिकत्वात् 'तिमिरारिः' इत्यादयः ३ 'हस्त' शब्द: प्रत्येकमन्जादिनान्वेति यौगि कत्वात् पद्मपाणिः, गभस्तिपाणि:' इत्यादयोऽपि ४. 'बान्धव' शब्द: प्रत्येकं चक्रादिभिरन्वेति; यौगिकत्वात् 'चक्रवाकबन्धुः, 'पद्मबन्धुः, दिनबन्धुः' इत्यादयः ५. 'कर' शब्द: प्रत्येकं दिवादिभिरन्वेति; यौगिकत्वात् 'वासरकृत्, दिनप्रणीः, दिनकृत्' इत्यादयः. ६. पतिशब्दः प्रत्येकं ग्रहादिभिरन्वेति; यौगिकत्वात् - प्रदेशः, पद्मिनीशः, त्विषामीशः, इत्यादयोऽपि. ७. 'गगन' शब्द: प्रत्येकं ध्वजादिनान्वेति यौगिकत्वात् 'नभः केतनम्, नभः पान्थः ' इत्यादयः. ८. ‘साक्षिन्’शब्दः प्रत्येकमन्वेति ९. अभीषुरिति गौड : १०. पृष्णिरित्येके; वृष्णिरित्यन्ये. ११. यौगि - कत्वात् 'कैरवबन्धुः, कुमुदसुहृत्' इत्यादयोऽपि १२. ' वाजिन् शब्दः प्रत्येकमन्वेति ; यौगिकत्वात् 'श्वेताश्वः, दशाश्वः' इत्यादयः. १३. 'पति' शब्द : कौमुद्यादिभिरन्वेति ; यौगिकत्वात् 'ज्योत्स्नेशः, कुमुद्वतीशः, दाक्षायणीश: ' इत्यादयः. १४. समुद्रनवनीतमपि १५. 'भृत् शब्दः प्रत्येकं कलादिरन्वयः ; यौगिकत्वात् 'छायाङ्कः' इत्यादयः. १६. अत्रिनेत्रप्रसूतः इत्यादयः १७. 'निशा 'शब्दः प्रत्येकं संबध्यते; यौगिकत्वात् 'निशामणिः, रजनीकर; ' इत्यादयः. १८. 'श्रुति शब्दः प्रत्येकममृतादिभिः संबध्यते; यौगिकत्वात् 'सुधांशुः सितांशुः शीतांशुः इत्यादयः. १९. 'इन्वा 'इत्यपि.
"
Page #20
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२ देवकाण्डः।
राधानुराधा तु मैत्री ज्येष्ठेन्द्री मूल आत्रपः । पूर्वाषाढा तु सोत्तरा स्याद्वैश्वी श्रवणः पुनः ॥ ११३ हरिदेवः श्रविष्ठा तु धनिष्ठा वसुदेवता । वारुणी तु शतभिषगजाहिर्बुध्नदेवताः ॥ ११४ पूर्वोत्तरा भाद्रपदा द्वय्यः प्रोष्टपदाश्च ताः । रेवती तु पौष्णं दाक्षायण्यः सर्वाः शशिप्रियाः ॥११५ राशीनामुदयो लग्नं मेषप्रभृतयस्तु ते । आरो वक्रो लोहिताङ्गो मङ्गलोऽङ्गारकः कुजः ॥ ११६ आषाढाभूर्नवार्चिश्व वुधः सौम्यः प्रहर्षुलः । ज्ञः पञ्चार्चिः श्रविष्ठाभूः श्यामाङ्गो रोहिणीसुतः॥ ११७ बृहस्पतिः सुराचार्यो जीवश्चित्रशिखण्डिजः । वाचस्पतिर्द्वादशाचिर्धिषणः फाल्गुनीभवः ॥ ११८ गीर्वृहत्योः पैतिरुतथ्यानुजाङ्गिरसौ गुरुः । शुक्रो मघाभवः काव्य उशना भार्गवः कविः ॥ ११९ षोडशाचिदैत्यगुरुर्धिष्ण्यः शनैश्चरः शनिः । छायासुतोऽसितः सौरिः सप्ता/ रेवतीभवः॥ १२० मन्दः क्रोडो नीलवासाः वर्भाणुस्तु विधंतुदः । तमो राहुः सैहिकेयो भरणीभरथाहिकः ॥ १२१ अश्लेषाभूः शिखी केतुर्भुवस्तूत्तानपादजः । अगस्त्योऽगस्तिः पीताब्धिर्वातापिद्विड्डुटोद्भवः ॥ १२२ मैत्रावरुणिराग्नेय और्वशेयाग्निमारुतौ । लोपामुद्रा तु तद्भार्या कौषीतकी वरप्रदा ॥ १२३ मरीचिप्रमुखाः सप्तर्षयश्चित्रशिखण्डिनः । पुष्पदन्तौ पुष्पवन्तावेकोक्त्या शशिभास्करौ ॥ १२४ राहुप्रासोऽन्द्वोर्ग्रह उपराग उपप्लवः । उपलिङ्गं त्वरिष्टं स्यादुपसर्ग उपद्रवः ॥ १२५ अजन्यमीतिरुत्पातो वढ्युत्पात उपाहितः । स्यात्कालः समयो दिष्टानेहसौ सर्वमूषकः ॥ १२६ कालो द्विविधोऽवसर्पिण्युत्सर्पिणीविभेदतः । सागरकोटिकोटीनां विंशत्या स समाप्यते ॥ १२७
अवसर्पिण्यां षडरा उत्सर्पिण्यां त एव विपरीताः । एवं द्वादशभिररैर्विवर्तते कालचक्रमिदम् ॥
१२८ तत्रैकान्तसुषमारश्चतस्रः कोटिकोटयः । सागराणां सुषमा तु तिस्रस्तूत्कोटिकोटयः॥ सुषमदुःषमा ते द्वे दुःषमसुषमा पुनः । सैका सहस्रैर्वर्षाणां द्विचत्वारिंशतोनिता ॥
अथ दुःषमैकविंशतिरब्दसहस्राणि तावती तु स्यात् । एकान्तदुःषमापि ह्येतत्संख्याः परेऽपि विपरीताः ।।
१३१ प्रथमेऽरत्रये मानिध्येकपल्यजीविताः । त्रिव्येकगव्यूत्युच्छ्रायास्त्रिव्येकदिनभोजनाः ॥ कल्पद्रुफलसंतुष्टाश्चतुर्थे त्वरके नराः । पूर्वकोट्यायुषः पञ्चधनुःशतसमुच्छ्रयाः ॥ पञ्चमे तु वर्षशतायुषः सप्तकरोच्छ्याः । षष्ठे पुनः षोडशाब्दायुषो हस्तसमुच्छ्याः ॥ १३४ एकान्तदुःखप्रचिता उत्सर्पिण्यामपीदृशाः । पञ्चानुपूळ विज्ञेया अरेषु किल षट्स्वपि ॥ १३५ अष्टादश निमेषास्तु काष्ठा काष्ठाद्वयं लवः । कला तैः पञ्चदशभिर्लेशस्तहितयेन च ॥ १३६ क्षणस्तैः पञ्चदशभिः क्षणैः षडिस्तु नाडिका । सा धारिका च घटिका मुहूर्तस्तद्वयेन च ॥ १३७ त्रिंशता तैरहोरात्रस्तत्राहदिवसो दिनम् । दिवं दुर्वासरो घस्रः 'प्रभातं स्यादहर्मुखम् ॥ १३८ व्युष्टं विभातं प्रत्यूषं कल्यप्रत्युषसी उपः।। काल्यं मध्याह्नस्तु दिवामध्यं मध्यंदिनं च सः॥ १३९ दिनावसानमुत्सूरो विकालसबली अपि । सायं संध्या तु पितृसूत्रिसंध्यं तूपवैणवम् ॥ १४० श्राद्धकालस्तु कुतपोऽष्टमो भागो दिनस्य यः।। निशा निशीथिनी रात्रिः शर्वरी क्षणदा क्षपा ॥ १४१ त्रियामा यामिनी भौती तमी तमा विभावरी । रजनी वसतिः श्यामा वासतेयी तमस्विनी ॥ १४२
१. यौगिकत्वात् भौमः, माहेयः, धरणीसुतः, इत्यादयः. २. पतिशब्दः प्रत्येकमन्वेति. ३. 'सौरः' अपि. ४. 'पूर्वपदात्' इति णत्वम्. ५. विपरीतक्रमेण इत्यर्थः. ६. यौगिकत्वात् 'यामवती' इत्यपि.
१२९ १३०
१३२
For Private and Personal Use Only
Page #21
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०
अभिधान संग्रहः -- ६ अभिधानचिन्तामणिः |
१४५
१४६
१४७
१४८
१४९
१५०
उषा दोषेन्दुकान्ताथ तमिस्रा दर्शयामिनी । ज्यौत्नी तु पूर्णिमारात्रिर्गणरात्री निशागणः ॥ १४३ 1 पक्षिणी पक्ष तुल्याभ्यामहोभ्यां वेष्टिता निशा । गर्भकं रजनीद्वन्द्वं प्रदोषो रजनीमुखम् ॥ १४४ यामः प्रहरो निशीथस्त्वर्धरात्रो महानिशा ।। उच्चन्द्रस्त्वपररात्रस्तमिस्रं तिमिरं तमः ॥ ध्वान्तं भूछायान्धकारं तेमसं समवान्धतः । तुल्यनक्तंदिने काले विषुवद्विषुवं च तत् ॥ पञ्चदशाहोरात्रः स्यात्पक्षः स बहुलोऽसितः । तिथिः पुनः कर्मवाटी प्रतिपत्पक्षतिः समे ॥ पञ्चदश्यौ यज्ञकालौ पक्षान्तौ पर्वणी अपि । तत्पर्वमूलं भूतेष्टापञ्चदश्योर्यदन्तरम् || स पर्व संधिः प्रतिपत्पञ्चदश्योर्यदन्तरम् । पूर्णिमा पौर्णमासी सा राका पूर्णे निशाकरे || कलाहीने त्वनुमतिर्मार्गशीर्ष्याग्रहायणी । अमामावस्यमावस्या दर्शसूर्येन्दुसंगमः ॥ अमावास्यामावासी च सा नष्टेन्दुः कुहुः कुहूः । दृष्टेन्दुस्तु सिनीवाली भूतेष्टा तु चतुर्दशी ॥। १५१ पक्षो मासो वत्सरादिमर्गशीर्षः हः सहाः । आग्रहायणिकचाथ पौषस्तैषः सहस्यवत् ॥ १५२ माघस्तपाः फाल्गुनस्तु फाल्गुनिकस्तपस्यवत् । चैत्रो मधुश्चैत्रिकच वैशाखे राधमाधवौ || १५३ ज्येष्ठस्तु शुक्रोऽथाषाढः शुचिः स्याच्छ्रावणो नभाः । श्रावणिकोऽथ नभस्यः प्रोष्ठभाद्रपरः पैदः ॥ १५४ भाद्रश्चाप्याश्विने त्वाश्वयुजेषावथ कार्तिकः । कार्तिकिको बाहुलोर्जी द्वौ द्वौ मार्गादिकावृतुः ॥ १५६ हेमन्तः प्रशलो रौद्रोऽथ शैषशिशिरौ समौ । वसन्त इष्यः सुरभिः पुष्पकालो बलाङ्गकः || १५६ उष्ण उष्णागमो ग्रीष्मो निदाघस्तप ऊष्मकः । वर्षास्तपात्ययः प्रावृण्मेघकालागमौ क्षरी ॥ शरद्धनात्ययोऽयनं शिशिराद्यैस्त्रिभिस्त्रिभिः । अयने द्वे गतिरुदग्दक्षिणार्कस्य वत्सरः ॥ स संपर्यनूद्भयो वर्षं हायनोऽब्दं समाः शरत् । भवेत्पैत्रं त्वहोरात्रं मासेनाब्देन दैवतम् ।। दैवे युगसहस्रे द्वे ब्राह्मं कल्पौ तु तौ नृणाम् । मन्वन्तरं तु दिव्यानां युगानामेकसप्ततिः ॥ कल्पो युगान्तः कल्पान्तः संहारः प्रलयः क्षयः । संवर्तः परिवर्तश्च समसुप्तिर्जिहानकः ॥ १६१ तत्कालस्तु तदात्वं स्यात्तज्जं सांदृष्टिकं फलम् । भयतिस्तूत्तरः काल उदर्कस्तद्भवं फलम् ॥ १६२ व्योर्मान्तरिक्षं गगनं घनाश्रयो विहाय आकाशमनन्तपुष्करे । अभ्रं सुराम्रोडुमरुत्पथोऽम्बरं खं द्योदिवौ विष्णुपदं वियन्नभः॥ नभ्राट्तडित्वान्मुदिरो घनाघनोऽभ्रं धूमयोनिस्तनयित्नुमेघाः ।मं जीमूतपर्जन्यबलाहका घनो धाराधरो वाहदमुग्धरा जैलात् ॥ कादम्बिनी मेघमाला दुर्दिनं मेघजं तमः । आसारो वेगवान्वर्षो वातास्तं वारि शीकरः ॥ वृष्टयां वर्षणवर्षे तद्विघ्ने ग्राहमहावैवात् । धनोपलस्तु करकः । काष्ठाशा दिग्धरित्ककुप् ॥ पूर्वा प्राची दक्षिणपाची प्रतीची तु पश्चिमा। अपराथोत्तरोदीची विदिक्चोपदिशं प्रदिक् ॥ १६७ दिश्यं दिग्भववस्तुन्यपागपाचीनमुदगुदीचीनम् । प्राक्प्राचीनं च समे प्रत्यक्तु स्यात्प्रतीचीनम् ॥
१५७
१५८
१५९
१६०
१६४
१६५
१६६
For Private and Personal Use Only
१६३
१६८
१. नि:संपातोSपि. २. संतमसम्, अवतमसम्, अन्धतमसम्. ३. यौगिकत्वात् 'मार्गः '. ४. अदन्तः. ५. प्रोष्ठपदः, भाद्रपदः. ६. 'वरिषा' इत्यपि. ७. मेघशब्दस्य प्रत्येकमन्वयः वत्सरः, उद्वत्सरः. ९ अन्तरीक्षमित्यपि १० 'पथ' शब्द: सुरादिभिः संबध्यते; नक्षत्रवर्त्म, वायुवर्त्म, इत्यादयः ११. जलशब्दस्य वाहादिभिरन्वयः; यौगिकत्वात् वारिवाहः, वारिदः, वारिमुक्, वारियरः, इत्यादयः. १२. अवशब्दस्य ग्राहग्रहाभ्यामन्वयः. १३. अवाचीत्यपि.
८. संवत्सरः, परिवत्सरः, अनुवयौगिकत्वात् देववर्त्म, मेघवर्त्म,
Page #22
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७१
२ देवकाण्डः। तिर्यग्दिशां तु पतय इन्द्राग्नियमनैर्ऋताः । वरुणो वायुकुबेरावीशानश्च यथाक्रमम्॥ १६९ ऐरावतः पुण्डरीको वामनः कुमुदोऽञ्जनः । पुष्पदन्तः सार्वभौमः सुप्रतीकश्च दिग्गजाः ॥ १७०
इन्द्रो हरिर्दुयवनोऽच्युताग्रजो वज्री विडोजा मघवान्पुरंदरः । प्राचीनबर्हिः पुरुहूतवासवौ संक्रन्दनाखण्डलमेघवाहनाः ॥ सत्रामवास्तोष्पतिदल्मिशक्रा वृषा शुनासीरसहस्रनेत्रौ।।
पर्जन्यहर्यश्वऋभुक्षिबाहुदन्तेयवृद्धश्रवसस्तुरापाट् ॥ सुरर्षभस्तपस्तक्षो जिष्णुवरैशतक्रतुः । कौशिकः पूर्वदिग्देवाप्सरःस्वर्गशचीपतिः॥ १७३ पृतनाषाडुप्रधन्वा मरुत्वान्मघवास्य तु । द्विषः पाकोऽद्रयो वृत्रः पुलोमा नमुचिर्बलः ॥ १७४ जम्भः प्रिया शचीन्द्राणी पौलोमी जयवाहिनी,। तनयस्तु जयन्तः स्याज्जयदत्तो जयश्च सः ॥ १७५ सुता जयन्ती तवीषी। ताविष्युच्चैःश्रवा हयः।। मातलिः सारथिर्देवनन्दी द्वाःस्थो गजः पुनः ।। १७६ ऐरावणोऽभ्रमातङ्गश्चतुर्दन्तोऽर्कसोदरः । ऐरावतो हस्तिमल्लः श्वेतगजोऽभ्रमुप्रियः,॥ १७७ वैजयन्तौ तु प्रासादध्वजौ पुर्यमरावती.। सरो नन्दीसरः पर्षत्सुधर्मा नन्दनं वनम् ॥ १.७८ वृक्षः कल्पः पारिजातो मन्दारो हरिचन्दनः । संतानश्च धनुर्देवायुधं तदृजु रोहितम् ॥ १७९ दीर्घज्वैरावतं वनं त्वशनिभदिनी वरुः । शतकोटिः पविः शम्बो दम्भोलिभिदुरं भिदुः ॥ १८० व्याधामः कुलिशोऽस्याचिरतिभीः स्फूर्जथुर्ध्वनिः । स्ववैद्यावश्विनीपुत्रावश्विनौ वडवासुतौ ॥ १८१ नासिक्यावर्कजौ दस्रौ नासत्यावब्धिजौ यमौ । विश्वकर्मा पुनस्त्वष्टा विश्वकृदेववर्धकिः ॥ १८२ स्वःस्वर्गिवध्वोऽप्सरसः स्वर्वेश्या उर्वशीमुखाः। हाहादयस्तु गन्धर्वा गान्धर्वा देवगायनाः॥ १८३
यमः कृतान्तः पितृदक्षिणाशाप्रेतात्पतिर्दण्डधरोऽर्कसूनुः । कीनाशमृत्यू समवर्तिकालौ शीर्णाङ्ग्रिहर्यन्तकधर्मराजाः॥
१८४ यमराजः श्राद्धदेवः शमनो महिषध्वजः । कालिन्दीसोदरश्चापि धूमोर्णा तस्य वल्लभा ॥१८५ पुरी पुनः संयमनी प्रतीहारस्तु वैध्यतः । दासौ चण्डमहाचण्डौ चित्रगुप्तश्च लेखकः॥ १८६
स्याद्राक्षसः पुण्यजनो नृचक्षा यात्वाशरः कौणपयातुधानौ । रात्रिंचरो रात्रिचरः पलादः कीनाशरक्षो निकसात्मजाश्च ।।
१.८७ ऋव्यात्कर्बुरनैर्ऋताक्मृक्पो वरुणस्त्वर्णवमन्दिरः प्रचेताः । जलयादःपतिपौशिमेघनादा जलकान्तारः स्यात्परंजनश्च ॥
१८८ श्रीदः सितोदरकुहेशसखाः पिशाचकीछावसुनिशिर ऐलबिलैकपिङ्गाः।
पौलस्त्यवैश्रवणरत्नकराः कुबेरयक्षौ नृधर्मधनदौ नरवाहनश्च ॥ कैलासौका यक्षधननिधिकिंपुरुषेश्वराः । विमानं पुष्पकं चैत्ररथं वनं पुरी प्रभा ॥
१. सूत्रामा च. २. दन्त्यादिरपि. ३. वरशब्दोऽपि ऋतुना संबध्यते. ४. पतिशब्दः पूर्वदिगादिभिः संबध्यते; यौगिकत्वात् प्राचीशः, सुरस्त्रीशः, नाकेशः, पौलोमीशः, इत्यादयः. ५. केचित्तु 'ऋजुरोहितम्' इति समस्तमिच्छन्ति. ६. उदन्तः. ७. यौगिकत्वात् शतारः, शतधारश्च. ८. वधूशब्दस्य स्वरादिनान्वयः; यौगिकत्वात् स्वर्गस्त्रियः, सुरस्त्रियः. ९. पतिशब्दस्य पित्रादिनान्वयः. १०. पतिशब्दस्य जलेनाप्यन्वयः; यौगिकत्वात् अपांनाथः, यादोनाथः, इत्यादयः. ११. यौगिकत्वात् पाशपाणिः, इत्यादयः. १२. पिशाचकी इन्नन्तः. १३. ईश्वरशब्दस्य यक्षादिनान्वयः; यौगिकत्वात् गुह्यकेशः, वित्तेशः, निधानेशः, किंनरेशः.
१९०
For Private and Personal Use Only
Page #23
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२
अभिधान संग्रहः - ६ अभिधानचिन्तामणिः ।
१९३
१९४
अलका वस्वोकसारा सुतोऽस्य नलकूवरः । । वित्तं रिक्थं खापतेयं राः सारं विभवो वसु ॥ १९१ द्युम्नं द्रव्यं पृक्थमृक्थं स्वमृणं द्रविणं धनम् । हिरण्यार्थी निधानं तु कुनाभिः शेवधिर्निधिः ॥ १९२ महापद्मश्च पद्मश्च शङ्खो मकरकच्छपौ । मुकुन्दकुन्दनीलाश्च खर्वश्च निधयो नव ॥ यक्षः पुण्यजनो राजा गुह्यको वटवास्यपि । किंनरस्तु किंपुरुषस्तुरंगवदनो मयुः || शंभुः शर्वः स्थाणुरीशान ईशो रुद्रोड्डीशौ वामदेवो वृषाङ्कः । कण्ठेकालः शंकरो नीलकण्ठः श्रीकण्ठोयौ धूर्जटिर्भीमभर्गौ ॥ मृत्युंजयः पञ्चमुखोऽष्टमूर्तिः श्मशानवेश्मा गिरिशो गिरीशः । षण्ढः कपर्दीश्वर ऊर्ध्वलिङ्ग एकत्रिग्भालहगेकपादः ॥ मृडोsट्टहासी धनवाहनोऽहिर्बुध्नो विरूपाक्षविषान्तकौ च । महारण्यरेताः शिवोऽस्थिधन्वा पुरुषास्थिमाली || स्याद्व्योमकेशः शिपिविष्टभैरवौ दिकृत्तिवासा भवनीललोहितौ । सर्वज्ञनाट्यप्रियखण्डपर्शवो महापरा देवनटेश्वरा हरः ॥ पशुप्रमथभूतोमापतिः पिङ्गजटेक्षणः । पिनाकशूलखद्वाङ्गगङ्गाहीन्दुकपालभृत् ॥ गजपूषपुरानङ्गकालान्धकमखसुहृत् ।। कपर्दोऽस्य जटाजूट: खट्टाङ्गस्तु सुखंसुणः || पिनाकं स्यादाजगवमजकावं च तद्धनुः । ब्राह्म्याद्या मातरः सप्त प्रमथाः पार्षदा गणाः ॥ लघिमा वशितेशित्वं प्राकाम्यं महिमाणिमा । यत्र कामावसायित्वं प्राप्तिरैश्वर्यमष्टधा ॥ गौरी काली पार्वती मातृमातापर्णा रुद्राण्यम्बिका व्यस्त्रकोमा ।
१९५
For Private and Personal Use Only
१९६
१९७
१९८
१९९
२००
२०१
२०२
२०३ २०४
दुर्गा चण्डी सिंहयाना मृडानीकात्यायन्यौ दक्षजार्या कुमारी ॥ सती शिवा महादेवी शर्वाणी सर्वमङ्गला । भवानी कृष्ण मैनाकखसा मेनाद्रिजेश्वरा ॥ निशुम्भशुम्भमहिषर्मेंर्दिनी भूतनायिका । तस्याः सिंहो मनस्तात्नः सख्यौ तु विजया जया || २०५ चामुण्डा चर्चिका चर्ममुण्डा मार्जारकर्णिका । कर्णमोटी महागन्धा भैरवी च कपालिनी || २०६ हेरम्बो गणविघ्नेशः पर्शुपाणिर्विनायकः । द्वैमातुरो गजास्यैकदन्तौ लम्बोदरींखुगौ || २०७ स्कन्दः स्वामी महासेनः सेनानीः शिखिवाहनः । षाण्मातुरो ब्रह्मचारी गङ्गोमाकृत्तिकासुतः ॥ २०८
१. ' दृक्' शब्द : एकशब्देनाप्यन्वेति; यौगिकत्वात् एकनेत्रः, विषमनेत्रः २. यौगिकत्वात् अदवाहनोऽपि. ३. द्वाभ्यां प्रथमैकवचनान्ताभ्यामेकं नाम; विभक्त्यन्तरेऽपि यथा - ' अहये बुनाय नमोऽस्तु गणपतये'. ४. वह्निहिरण्यशब्दाभ्यां परोऽरेतःशब्दः. ५. 'वासस् 'शब्दो दिवृत्तिशब्दाभ्यां परः; यौगिकत्वात् दिग्वस्त्रः, चर्मवसनः, इत्यादयः. ६. तेन महादेवः, महानटः, महेश्वरः. ७. पतिशब्दस्य पश्वादिभिरन्वयः ; यौगिकत्वात् पशुनाथः, भूतनाथः, गणनाथः, गौरीनाथः इत्यादय: ८. पिङ्गशब्दस्येक्षणेनाप्यन्वयः ९. 'भृत् 'पदस्य पिनाकादिभिरन्वयः; यौगिकत्वात् पिनाकपाणिः, शूली, खट्राङ्गधरः, गङ्गाधरः, उरगभूषणः, शशिभूषणः, कपाली, इत्यादयः. १०. असुहृत्(द्विष्)पदं गजादिभिरन्वेति; यौगिकत्वात् गजासुरद्वेषी, पूषदन्तहरः, त्रिपुरान्तकः, कामध्वंसी, यमजित्, अन्धकारिः, दक्षाध्वरध्वंसकः, इत्यादयः. ११. यौगिकत्वात् सिंहवाहना च. १२. यौगिकत्वात् दाक्षायणी. १३. शिवी. १४. 'स्वसृ'पदं कृष्णेनाप्यन्वेति १५. 'जा' पदं मेनापदेनाप्यन्वेयम्. १६. मर्दिनीपदं निशुम्भादिनान्वेयम्. १७ ईशपदं गणेनाप्यन्वेति; यौगिकत्वात् प्रमथाधिपः, विघ्नराजः, इत्यादयः. १८. यौगिकत्वात् परशुधरः, इत्यादयः. १९. यौगिकत्वात् मूषिरथोऽपि २०. सुतपदं गङ्गादिनान्वेति ; यौगिकत्वात् गाङ्गेयः, पार्वतीनन्दनः कार्तिकेयः, बाहुलेयः, इत्यादयः.
Page #24
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२ देवकाण्डः ।
१३
द्वादशाक्षो महातेजाः कुमारः षण्मुखो गुहः । विशाखः शक्तिभृत्कौञ्चतारकांरिः शराग्निर्भूः ॥ २०९ भृङ्गी भृङ्गिरिटिर्भृङ्गिरीटिर्नाड्यस्थिविग्रहः । कुष्माण्डके केलिकिलो नन्दीशे तण्डुनन्दनौ || २१० द्रुहिणो विरिञ्चिद्रुघणो विरिञ्चः परमेष्ठयजोऽष्टश्रवणः स्वयंभूः । कमनः कविः सात्त्विकवेदगर्भो स्थविरः शतानन्दपितामहौ कः ॥ धाता विधाता विधवेधसौ ध्रुवः पुराणगो हंसगविश्वरेतसौ । प्रजापतिर्ब्रह्मचतुर्मुखौ भवान्तकृज्जगत्कैर्तृसरोरुहासनी ॥
२११
२१२
शंभुः शतधृतिः स्रष्टा सुरज्येष्टो विरिञ्चनः । हिरण्यगर्भो लोकेशो नाभिपद्मात्मभूरपि ॥ ५६२१३ विष्णुजिष्णुजनार्दनौ हरिषीकेशाच्युताः केशवो
दाशार्हः पुरुषोत्तमोऽब्धिशयनोपेन्द्रावजेन्द्रानुज | विष्वक्सेननरायणौ जलशयो नारायणः श्रीपतिदैत्यारिच पुराणयज्ञपुरुषस्तार्क्ष्यध्वजोऽधोक्षजः ॥ गोविन्दषडिन्दुमुकुन्दकृष्णा वैकुण्ठपद्येशयपद्मनाभाः । वृषाकपिर्माधववासुदेव विश्वंभरः श्रीधर विश्वरूपौ || दामोदरः शौरिसनातनौ विधुः पीताम्बरो मार्जजिनौ कुमोदकः । त्रिविक्रमो जह्रुचतुर्भुजौ पुनर्वसुः शतावर्तग़दाग्रजौ स्वभूः ॥ मुञ्जकेशिवनमालिपुण्डरीकाक्षवभ्रुशशविन्दुवेधसः । पृश्निशृङ्गधरणीधरात्मभूः पाण्डवायन सुवर्णविन्दवः ॥
For Private and Personal Use Only
२१४
२१५
२१६
२१७
२१८
२१९
२२०
श्रीवत्सो देवकीसूनुर्गोपेन्द्रो विष्टरश्रवाः । सोमसिन्धुर्जगन्नाथो गोवर्धनधरोऽपि च ॥ यदुनाथो गदाशार्ङ्गचक्रश्रीवत्सशभूत् । मधुधेनुकचाणूरपूतनायमलार्जुनाः ॥ कालनेमिहयग्रीवशकटारिष्टकैटभाः । कंसः केशिमुरौ साल्वमैन्दद्विविदराहवः ॥ हिरण्यकशिपुर्वाणः कालियो नरको वलिः । शिशुपालश्चास्य वैध्या वैनतेयस्तु वाहनम् || २२१ शङ्खोऽस्य पाञ्चजन्योऽङ्कः श्रीवत्सो सिस्तु नन्दकः । गदा कौमोदकी चापं शार्ङ्ग चक्रं सुदर्शनः ॥ २२२ मणिः स्यमन्तको हस्ते भुजमध्ये तु कौस्तुभः । वसुदेवो भूकश्यपो दुन्दुरानकदुन्दुभिः ॥ ॥ २२३ रामो हली मुसलिसात्त्वतकामपालाः संकर्षणः प्रियमधुर्बल रौहिणेयौ । रुक्मिप्रलम्बयमुनार्भिदैनन्तताललक्ष्मैककुण्डलसितासितरेवतीशाः ||
२२४
"
१. अरिपदं क्रौञ्चेनाप्यन्वेति; यौगिकत्वात् क्रौञ्चदारणः, तारकान्तकः, इत्यादयः २. भूपदं शरेणाप्यन्वेति; यौगिकत्वात् शरजन्मा, अग्निजन्मा, इत्यादयः ३. यौगिकत्वात् विश्वसृट् इत्यादयः ४. भूपदं नाभिनाप्यन्वेति; यौगिकत्वात् नाभिजन्मा, कमलयोनिः, आत्मयोनिः इत्यादयः. ५. यौगिकत्वात् वासवावरजः, इत्यादयः. ६. जलेशयोऽपि. ७. यौगिकत्वात् लक्ष्मीनाथः, इत्यादय: ८. पुरुषपदं पुराणेनाप्यन्वेति ९. यौगिकत्वात् गरुडाङ्कः, इत्यादयः. १०. यौगिकत्वात् महीधरादयः. ११. 'भृत् 'पदं गदादिभिरन्वेति; यौगिकत्वात् गदाधरः, शाङ्ख, चक्रपाणिः, श्रीवत्साङ्कः, शङ्खपाणिः, इत्यादयः १२. मध्वादयो विष्णोर्वध्याः तेन मधुमथनः, धेनुकध्वंसी, चाणूरसूदनः, पूतनादूषणः, यमलार्जुनभञ्जनः कालनेमिहरः, हयग्रीवरिपुः शकटारिः, अरिष्टहा, कैटभारिः, कंसजित् केशिहा, मुरारिः, साल्वारिः, मेन्दमर्दनः, द्विविदारिः, राहुमूर्धहरः, हिरण्यकशिपुदारणः, बाणजित्, कालियदमनः, नरकारिः, बलिबन्धनः, शिशुपालनिषूदनः, इत्यादयः. १३. भित्पदं रुक्मिप्रभृतिनान्वेति ; यौगिकत्वात् रुक्मिवारणः, प्रलम्बघ्नः, कालिन्दीकर्षणः, इत्यादयः.
Page #25
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिधानसंग्रहः-६ अभिधानचिन्तामणिः । बलदेवो बलभद्रो नीलवस्त्रोऽच्युताग्रजः । मुसलं खस्य सौनन्दं हलं संवर्तकाह्वयम् ॥ २२५ लक्ष्मीः पद्मा रमा या मा ता सा श्रीः कमलेन्दिरा । हरिप्रिया पद्मवासा क्षीरोदतनयापि च ॥ २२६
मदनो जराभीरुरनङ्गमन्मथौ कमनः कलाकेलिरनन्यजोऽङ्गजः ।
मधुदीपमारौ मधुसारथिः स्मरो विषमायुधो दर्पककामहृच्छयाः ॥ २२७ प्रद्युम्नः श्रीनन्दनश्च कंदर्पः पुष्पकेतनः । पुष्पाण्यस्येषुचापास्त्रायरी शंवरशूर्पकौ ॥ २२८ केतेनं मीनमकरौ बाणाः प॑श्च रतिः प्रिया । मनःशृङ्गारसंकल्पात्मानो योनिः सुहृन्मधुः ॥ २२९ सुतोऽनिरुद्धो झषाङ्क 'उषेशो ब्रह्मसूश्च सः । गैरुडः शाल्मल्यरुणावरजो विष्णुवाहनः ॥ २३०
सौपर्णेयो वैनतेयः सुपर्णसारातिर्वनजिवज्रतुण्डः ।
पक्षिखामी काश्यपिः स्वर्णकायस्तायः कामायुर्गरुत्मान्सुधाहृत् ॥ बुद्धस्तु सुगतो धर्मधातुत्रिकालविज्जिनः । बोधिसत्त्वो महाबोधिरायः शास्ता तथागतः॥ २३२ पञ्चज्ञानो षडभिज्ञो दशा) दशभूमिगः । चतुर्विंशज्जातकज्ञो दशपारमिताधरः ॥ २३३ द्वादशाक्षो दशबलस्त्रिकायः श्रीघनाद्वयौ । समन्तभद्रः संगुप्तो दयाकूर्ची विनायकः ॥ २३४ मारलोकखजिद्धर्मराजो विज्ञानमातृकः । महामैत्रो मुनीन्द्रश्च बुद्धाः स्युः सप्त ते खमी ॥ २३५ विपश्यी शिखी विश्वभूः ऋकुच्छन्दश्च काञ्चनः । काश्यपश्च सप्तमस्तु शाक्यसिंहोऽर्कबान्धवः॥२३६ तथा राहुलसूः सर्वार्थसिद्धो गौतमान्वयः । मायाशुद्धोदनसुतो देवदत्ताप्रजश्च सः ॥ २३७ असुरा दितिदनुर्जीः पातालौकःसुरारयः । पूर्वदेवाः शुक्रशिष्या विद्यादेव्यस्तु षोडश ॥ २३८ रोहिणी प्रज्ञप्ती वअशृङ्खला कुलिशाङ्कुशा । चक्रेश्वरी नरदत्ता काल्यथासौ महापरा ॥ २३९ गौरी गान्धारी सर्वास्त्रमहाज्वाला च मानवी । वैरोट्याछुप्ता मानसी महामानसिकेति ताः ॥ २४० . वाग्ब्राह्मी भारती गौर्गीर्वाणी भाषा सरस्वती । श्रुतदेवी वचनं तु व्याहारो भाषितं वचः ॥ २४१ सविशेषणमाख्यातं वाक्यं स्याद्यन्तकं पदम् । राद्धसिद्धकृतेभ्योऽन्तै आप्तोक्तिः समयागमौ ॥ २४२ आचाराङ्गं सूत्रकृतं स्थानाङ्गं समवाययुक् । पञ्चमं भगवत्यङ्गं ज्ञातधर्मकथापि च ॥ २४३ उपासकान्तकृदनुत्तरोपपातिकाद्देशाः । प्रश्नव्याकरणं चैव विपाकश्रुतमेव च ॥ २४४ इत्येकादश सोपाङ्गान्यङ्गानि द्वादश पुनः । दृष्टिवादो द्वादशाङ्गी स्याद्गणिपिटकावया ॥
परिकर्मसूत्रपूर्वानुयोगपूर्वगतचूलिकाः पञ्च । स्युर्दृष्टिवादभेदाः पूर्वाणि चतुर्दशापि पूर्वगते ॥
२४६ उत्पादपूर्वमग्रायणीयमथ वीर्यतः प्रवादं स्यात् । अस्तेानात्सत्यात्तदात्मनः कर्मणश्च परम् ॥
२४७ १. ई, आ, इति नामद्वयम् ; 'या' इत्यखण्डं च. २. यौगिकत्वात् मनसिशयः, ३. पुष्पेषुः, कुसुमबाणः, पुष्पचापः, कुसुमधन्वा, पुष्पास्त्रः, कुसुमायुधः, इति फलितम्. ४. तेन शंवरारिः, शूर्पकारिः. ५. तेन मीनकेतनः, मकरध्वजः, झषध्वजः, मकरकेतनः. ६. तेन पञ्चबाणः, विषमेषुः. ७. तेन रतिवरः, रतिपतिः. ८. तेन मनोयोनिः, चेतोभवः, शृङ्गारयोनिः, शृङ्गारजन्मा, संकल्पयोनिः, स्मृतिभूः, आत्मयोनिः, आत्मभूः. ९. तेन मधुसुहृत्, चैत्रसख:. १०. यौगिकत्वात् उषारमणः. ११. गरुलः. १२. जित्पदं मारप्रभृतिनान्वेति. १३. सुतपदं माययाप्यन्वेति; यौगिकत्वात् शौद्धोदनिः. १४. जपदं दितिपदेनाप्यन्वेति; यौगिकत्वात् दैतेयाः, दानवाः, इत्यादयः. १५. अन्तशब्दः प्रत्येकं राद्धादिभ्यः परो योज्य:. १६. तथा च उपासकृद्दशा, अन्तकृद्दशा, अनुत्तरोपपातिकदशा.
२४५
For Private and Personal Use Only
Page #26
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२ देवकाण्डः।
प्रत्याख्यानं विद्याप्रवादकल्याणनामधेये च । प्राणावायं च क्रियाविशालमथ लोकबिन्दुसारमिति ॥
२४८ स्वाध्यायः श्रुतिराम्नाय छन्दो वेदत्रयी पुनः । ऋग्यजुःसामवेदाः स्युरथर्वा तु तदुदृतिः ॥ २४९ वेदान्तः स्यादुपनिषदोङ्कारप्रणवौ समौ । शिक्षा कल्पो व्याकरणं छन्दो ज्योतिर्निरुक्तयः ॥ २५० षडङ्गानि धर्मशास्त्रं स्यात्स्मृतिर्धर्मसंहिता । आन्वीक्षिकी तर्कविद्या मीमांसा तु विचारणा ॥ २५१ सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च । वंशानुवंशचरितं पुराणं पञ्चलक्षणम् ॥ २५२ षडङ्गा वेदाश्चत्वारो मीमांसान्वीक्षिकी तथा । धर्मशास्त्रं पुराणं च विद्या एताश्चतुर्दश ॥१) १५३ सूत्रं सूचनकृद्भाष्यं सूत्रोक्तार्थप्रपञ्चकम् । प्रस्तावस्तु प्रकरणं निरुक्तं पदभञ्जनम् ॥ २५४ अवान्तरप्रकरणविश्रामे शीघ्रपाठतः । आह्निकमधिकरणं त्वेकन्यायोपपादनम् ॥ २५५ उक्तानुक्तदुरुक्तार्थचिन्ताकारि तु वार्तिकम् । टीका निरन्तरव्याख्या पञ्जिका पदभञ्जिका ।। २५६ निबन्धवृत्ती अन्वर्थे संग्रहस्तु समाहृतिः । परिशिष्टपद्धत्यादीन्पथानेन समुन्नयेत् ॥ २५७ कारिका तु स्वल्पवृत्तौ बहोरर्थस्य सूचनी । कलिन्दिका सर्वविद्या निघण्टुर्नामसंग्रहः॥ २५८ इतिहास: पुरावृत्तं प्रबहिका प्रहेलिका । जनश्रुतिः किंवदन्ती वाततिा पुरातनी ॥ २५९ वार्ता प्रवृत्तिवृत्तान्त उदन्तोऽथाह्वयोऽभिधा। गोत्रसंज्ञानामधेयाख्याह्वाभिख्याश्च नाम च ॥ २६० संबोधनमामत्रणमाह्वानं खभिमन्त्रणम् । आकारणं हवो हूतिः संहूतिर्बहुभिः कृता ।..२६१ उदाहार उपोद्घात उपन्यासश्च वाङ्मुखम् । व्यवहारो विवादः स्याच्छपथः शपनं शपः॥ २६२ उत्तरं तु प्रतिवचः प्रश्नः पृच्छानुयोजनम् । कथंकथिकता चाथ देवप्रश्न उपश्रुतिः ॥ २६३ चटु चाटु प्रियप्रायं प्रियसत्यं तु सूनृतम् । सत्यं सम्यक्समीचीनमृतं तथ्यं यथातथम् ॥३, २६४ यथास्थितं च सद्भूतेऽलीके तु वितानृते । अथ क्लिष्टं संकुलं च परस्परपराहतम् ॥ २६५ सान्वं सुमधुरं ग्राम्यमश्लीलं म्लिष्टमस्फुटम् । लुप्तवर्णपदं प्रस्तमवाच्यं स्यादनक्षरम् ॥ २६६ अम्बूकृतं सथूत्कारं निरस्तं त्वरयोदितम् । आमेडितं द्विनिरुक्तमवद्धं तु निरर्थकम् ॥ २६७ पृष्ठमांसादनं तद्यत्परोक्षे दोषकीर्तनम् । मिथ्याभियोगोऽभ्याख्यानं संगतं हृदयंगमम् ॥ २६८ परुषं निष्ठरं रूक्षं विक्रुष्टमथ घोषणा । उच्चैर्घष्टं वर्णनेडा, स्तवः स्तोत्रं स्तुतिर्नुतिः॥ २६९ श्लाघा प्रशंसार्थवादः सा तु मिथ्या विकत्थनम् । जनप्रवादः कौलीनं विगानं वचनीयता ॥ २७० स्यादवर्ण उपक्रोशो वादो निःपर्यपात्परः । गैर्हणा धिकिया निन्दा कुत्साक्षेपो जुगुप्सनम् ॥ २७१. आक्रोशाभीषङ्गाक्षेपाः शापः स क्षारणा रते। विरुद्धशंसनं गालिराशीमङ्गलशंसनम् ॥ २७२ श्लोकः कीर्तिर्यशोऽभिख्या समाज्ञा रुंशती पुनः । अशुभा वाक्शुभा कल्या चर्चरी चर्भटी समे२७३ यः सनिन्द उपालम्भस्तत्र स्यात्परिभाषणम् । आपृच्छालापः संभाषोऽनुलापः स्यान्मुहुर्वचः २७४ अनर्थकं तु प्रलापो विलापः परिदेवनम् । उल्लापः काकुवागन्योन्योक्तिः संलापसंकथे ॥ २७५ विप्रलापो विरुद्धोक्तिरपलापस्तु निहवः । सुप्रलापः सुवचनं संदेशवाक्तु वाचिकम् ॥ २७६ आज्ञा शिष्टिनिराङिभ्यो देशो नियोगशासने । अववादोऽप्यथाहूय प्रेषणं प्रतिशासनम् ॥2,, २७७
१. कडिन्दिका च. २. यौगिकत्वात् असत्यम्, सत्येतरत्, इत्यादि. ३. तेन निर्वादः, परिवादः, अपवादः. ४. गर्हापि. ५. जुगुप्सापि, ६. समाख्या, ७. रिशती. ८. कात्या च, ९. तेन निर्देशः, आदेशः, निदेशः.
For Private and Personal Use Only
Page #27
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६
अभिधानसंग्रहः-६ अभिधानचिन्तामणिः ।
संवित्संधास्थाभ्युपायः संप्रत्याभ्यः परः श्रवः । अङ्गीकारोऽभ्युपगमः प्रतिज्ञागूश्च संगरः ॥२७८ गीतनृत्तवाद्ययं नाट्यं तौर्यत्रिकं च तत् । संगीत प्रेक्षणार्थेऽस्मिशास्त्रोक्ते नाट्यधर्मिका ॥२७९ गीतं गानं गेयं गीतिर्गान्धर्वमथानर्तनम् । नटनं नृत्यं नृत्तं च लास्यं नाट्यं च ताण्डवम् ॥ २८० मण्डलेन तु यन्नृत्यं स्त्रीणां हल्लीसकं तु तत् ।। पानगोष्टयामुच्चतालं रणे वीरजयन्तिका ॥ २८१ स्थानं नाट्यस्य रङ्गः स्यात्पूर्वरङ्ग उपक्रमः । अङ्गहारोऽङ्गविक्षेपो व्यञ्जकोऽभिनयः समौ ॥ २८२ स चतुर्विध आहार्यों रचितो भूषणादिना । वचसा वाचिकोऽङ्गेनाङ्गिकः सत्त्वेन सात्त्विकः ॥२८३ स्यान्नाटकं प्रकरणं भाणः प्रहसनं डिमः । व्यायोगः समवाकारो विथ्यलेहामृगा इति ॥ २८४ अभिनेयप्रकाराः स्युर्भाषाः षट्रसंस्कृतादिकाः । भारती सात्वती कैशिक्यारभट्यौ च वृत्तयः॥२८५ वाद्यं वादित्रमातोद्यं तूर्य तूरं स्मरध्वजः । ततं वीणाप्रभतिकं तालप्रभृतिकं घनम् ॥ २८६ वंशादिकं तु शुषिरमानद्धं मुरजादिकम् । वीणा पुनर्घोषवती विपञ्ची कण्ठकृणिका ॥ २८७ वल्लकी साथ तत्रीभिः सप्तभिः परिवादिनी। शिवस्य वीणा नालम्बी सरस्वत्यास्तु कच्छपी ॥२८८ नारदस्य तु महती गणानां तु प्रभावती । विश्वावसोस्तु बृहती तुम्बरोस्तु कलावती॥ २८९ चाण्डालानां तु कण्डोलवीणा चाण्डालिका च सा । कायः कोलम्बकस्तस्या उपनाहो निबन्धनम् ॥ दण्डः पुनः प्रवालः स्यात्ककुभस्तु प्रसेवकः । मूले वंशशलाका स्यात्कलिका कूणिकापि च ॥ २९१ कालस्य क्रियया मानं तालः साम्यं पुनर्लयः । द्रुतं विलम्बितं मध्यमोघस्तत्त्वं घनं क्रमात् ॥ २९२ मृदङ्गो मुरजः सोयालिङ्गयूर्वक इति त्रिधा। स्याद्यशःपटहो ढका भेरी दुन्दुभिरानकः ॥ २९३ पटहोऽथ शारिका स्यात्कोणो वीणादिवादनम् । शृङ्गारहास्यकरुणारौद्रवीरभयानकाः॥ २९४ वीभत्साद्भुतशान्ताश्च रसा भावाः पुननिधा । स्थायिसात्त्विकसंचारिप्रभेदैः स्यादतिः पुनः ॥२९५ रागोऽनुरागोऽनुरतिहाँसस्तु हसनं हसः । घर्घरो हासिका हास्यं तत्रादृष्टरदे स्मितम् ॥ २९६ वक्रोष्टिकाथ हसितं किंचिदृष्टरदाङ्कुरे । किंचिच्छूते विहसितमट्टहासो महीयसि ॥ २९७ अतिहासस्वनुस्यूतेऽपहासोऽकारणात्कृते । सोत्प्रासे खाछुरितकं हसनं स्फुरदोष्टके ॥ २९८ शोकः शुक्शोचनं खेदः क्रोधो मन्युः क्रुधा रुषा ।क्रुत्कोपः प्रतिघो रोषो रुटा चोत्साहः प्रगल्भता ।। अभियोगोद्यमौ प्रौढिरुद्योगः कियदेतिका । अध्यवसाय ऊर्जोऽथ वीर्य सोऽतिशयान्वितः ।। ३०० भयं भीीतिरातङ्क आशङ्का साध्वसं दरः । भिया च तच्चाहिभयं भूपतीनां स्वपक्षजम् ॥ ३०१ अदृष्टं वह्नितोयादेदृष्टं स्वपरचक्रजम् । भयंकरं प्रतिभयं भीमं भीष्मं भयानकम् ॥ ३०२ भीषणं भैरवं घोरं दारुणं च भयावहम् । जुगुप्सा तु घृणाथ, स्याद्विस्मयश्चित्रमद्भुतम् ॥... ३०३ चोद्याश्चर्ये शमः शान्तिः शमथोपशमावपि । तृष्णाक्षयः। स्थायिनोऽमी रसानां कारणं कमात्॥३०४ स्तम्भो जाड्यं स्वेदो धर्मनिदाघौ।पुलकः पुनः । रोमाञ्चः कण्टको रोमविकारो रोमहर्षणम् ॥३०५ रोमोद्गम उद्घषणमुल्लुकसनमित्यपि ।। स्वरभेदस्तु कल्लत्वं स्वरे कम्पस्तु वेपथुः ॥ ३०६ वैवर्ण्य कालिकाथाश्रु बाप्पो नेत्राम्बु रोदनम् । असमस्त्रु प्रलयस्त्वचेष्टतेत्यष्ट सात्त्विकाः ॥ ३०७ धृतिः संतोष: स्वास्थ्यं स्यादाध्यानं स्मरणं स्मृतिः । मतिर्मनीषा बुद्धि(धिषणाज्ञप्तिचेतनाः ॥ ३०८ प्रतिभाप्रतिपत्प्रज्ञाप्रेक्षाचिदुपलब्धयः । संवित्तिः शेमुषी दृष्टिः सा मेधा धारणक्षमा ॥ ३०९ पण्डा तत्त्वानुगा मोक्षे ज्ञानं विज्ञानमन्यतः । शुश्रूषा श्रवणं चैव ग्रहणं धारणं तथा ॥ ३१०
१. तेन संश्रवः, प्रतिश्रवः, आश्रवः.
For Private and Personal Use Only
Page #28
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ मर्मकाण्डः ।
ऊहापोहोऽर्थविज्ञानं तत्त्वज्ञानं च धीगुणाः।। ब्रीडा लज्जा मन्दाक्षं हीरपा सापत्रपान्यतः॥३११ जाड्यं मौख्यं विषादोऽवसादः सादो विषण्णता । मदो मुन्मोहसंभेदो व्याधिस्त्वाधी रुजाकरः,३१२ निद्रा प्रमीला शयनं संवेशस्वापसंलयाः । नन्दीमुखी श्वासहेतिस्तन्द्रा सुप्तं तु साधिका ॥ ३१३ औत्सुक्यं रणरणकोत्कण्टे आयल्लकारती । हल्लेखोत्कलिके चाथावहित्थाकारगोपनम् ॥ ३१४ शङ्कानिष्टोत्प्रेक्षणं स्याचापलं वनवस्थितिः । आलस्यं तन्द्रा कौसीद्यं हर्षश्चित्तप्रसन्नता ॥ ३१५ हादः प्रमोदः प्रमदो मुत्प्रीत्यामोदसंमदाः । आनन्दानन्दथूगर्वस्त्वहंकारोऽविलप्तता ॥ ३१६ दर्पोऽभिमानो ममता मानश्चित्तोन्नतिः स्मयः । सा मिथोऽहमहमिका या तु संभावनात्मनि ॥३१७ दोत्साहोपुरुषिका स्यादहंपूर्विका पुनः । अहं पूर्वमहं पूर्वमित्युग्रत्वं तु चण्डता ॥ ३१८ प्रबोधस्त विनिद्रवं ग्लानिस्तु बलदीनता। दैन्यं कार्पण्यं श्रमस्तु क्लमः क्लेशः परिश्रमः॥ ३१९ प्रयासायासव्यायामा उन्मादश्चित्तविप्लवः । मोहो मौव्यं चिन्ता ध्यानममर्षः क्रोधसंभवः ॥ ३२० गुणो जिगीषोत्साहवांस्त्रासस्त्वाकस्मिकं भयम् । अपस्मारः स्यादावेशो निर्वेदः स्वावमाननम् ॥ ३२१ आवेगस्तु वरिस्तुणिः संवेगः संभ्रमस्त्वरा । वितर्कः स्यादुन्नयनं परामर्शो विमर्शनम् ॥ ३२२ अध्याहारस्तर्क होऽसयान्यगुणदूषणम् । मृतिः संस्थाः मृत्युकालौ परलोकगमोऽत्ययः ॥ ३२३ पञ्चत्वं निधनं नाशो दीर्घनिद्रा निमीलनम् । दिष्टान्तोऽस्तं कालधर्मोऽवसानं सा तु सर्वगा ॥३२४ मरको मारित्रयस्त्रिंशदमी स्युर्व्यभिचारिणः । स्युः कारणानि कार्याणि सहचारीणि यानि च ॥ ३२५ रत्यादेः स्थायिनो लोके तानि चेन्नाट्यकाव्ययाः । विभावा अनुभावाश्च व्यभिचारिण एव च ॥ ३२६ व्यक्तः स तैविभावाद्यैः स्थायी भावो भवेद्रसः । पात्राणि नाट्येऽधिकृतास्तत्तद्वेषस्तु भूमिका ॥३२७ शैलूषो भरतः सर्वकेशी भरतपुत्रकः । धात्रीपुत्रो रङ्गाजायाजीवो रङ्गावतारकः ॥ ३२८ नटः कृशाश्वी शैलाली चारणस्तु कुशीलवः । भ्रभ्रुभ्रभूपरः कुंसो नटः स्त्रीवेषधारकः ॥ ३२९ वेश्याचार्यः पीठमर्दः सूत्रधारस्तु सूचकः । नन्दी तु पाठको नान्द्याः पार्श्वस्थः पारिपाश्चिकः।।३३० वासन्तिकः केलिकिलो वैहासिको विदूषकः । प्रहासी प्रीतिदश्चाथ षिङ्गः पल्लवको विटः ॥ ३३१ पिता वावुक आवृत्तभावुको भगिनीपतौ । भावो विद्वान्युवराजः कुमारो भर्तृदारकः ॥ ३३२ बाला वासूमौर्ष आर्यों देवो भट्टारको नृपः । राष्ट्रीयो नृपतेः श्यालो दुहिता भर्तृदारिका ॥ ३३३ देवी कृताभिषेकान्या भट्टिनी गणिकाज्जुका । नीचाचेटीसखीहूतौ हण्डेहरोहलाः क्रमात् ॥ ३३४ अब्रह्मण्यमवध्योक्तौ ज्यायसी तु स्वसात्तिका । भर्तार्यपुत्रो माताम्बा भदन्ताः सौगतादयः ॥ ३३५ पूज्ये तत्रभवानत्रभवांश्च भगवानपि । पादा भट्टारको देवः प्रयोज्याः पूज्यनामतः ॥ ३३६
__इत्याचार्यहेमचन्द्रविरचितायामभिधानचिन्तामणौ नाममालायां देवकाण्डो द्वितीयः ।। २ ॥ मर्त्यः पञ्चजनो भूस्पृक्पुरुषः पूरुषो नरः । मनुष्यो मानुषो ना विट मनुजो मानवः पुमान् ।। ३३७ बालः पाकः शिशुडिम्भः पोतः शावः स्तनंधयः । पृथुका त्तानशयाः क्षीरंकण्ठः कुमारकः ॥३३८ शिशुलं शैशवं बाल्यं वयस्थस्तरुणो युवा । तारुण्यं यौवनं वृद्धः प्रवयाः स्थविरो जरन् ॥ ३३९ जरी जीर्णो यातयामो जीनोऽथ विरसा जरा। वार्धकं स्थाविरं ज्यायान्वर्षीयान्दशमीत्यपि ॥ ३४०
१. तन्द्री इत्यपि. २. उत्कण्ठोऽपि. ३. ऊहापि. ४. रङ्गाजीवः, जायाजीवः. ५. 'कुस'शब्दः प्रत्येक भ्रादिनान्वेति. ६. मारिषोऽपि. ७. यौगिकत्वात् स्तनपोऽपि. ८ यौगिकत्वात् क्षीरपोऽपि, ९. यौनिकापि.
For Private and Personal Use Only
Page #29
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८
अभिधानसंग्रहः-६ अभिधानचिन्तामणिः । विद्वान्सुधीः कविविचक्षणलब्धवर्णा ज्ञः प्राप्तरूपकृतिकृष्टयभिरूपधीराः।
मेधाविकोविद्विशारदसूरिदोषज्ञाः प्राज्ञपण्डितमनीषिवुधप्रबुद्धाः ॥ ३४१ व्यक्तो विपश्चित्संख्यावान्सन्प्रवीणे तु शिक्षितः । निष्णातो निपुणो दक्षः कर्महस्तमुखाः कृतात् ॥ कुशलश्चतुरोऽभिज्ञविज्ञवैज्ञानिकाः पटुः । छेको विदग्धे प्रौढस्तु प्रगल्भः प्रतिभामुखः ॥ ३४३ कुशाग्रीयमतिः सूक्ष्मदर्शी तत्कालधीः पुनः । प्रत्युत्पन्नमतिर्दूराद्यः पश्येद्दीर्घदयसौ,॥ .. ३४४ हृदयालुः सहृदयश्चिद्रूपोऽप्यथा संस्कृते । व्युत्पन्नप्रतक्षुण्णा अन्तर्वाणिस्तु शास्त्रवित् ॥ ३४५ वागीशो वाक्पतौ वाग्मी वाचोयुक्तिपटुः प्रवाक् । समुखो वावदूकोऽथ वदो वक्ता वदावदः३४६ स्याज्जल्पाकस्तु वाचालो वाचाटो बहुगावाक्।। यद्वदोऽनुत्तरे दुर्वाकद्वदे स्यादथाधरः ॥ ३४७ हीनवादिन्येडमूकानेडमूको त्ववाक्श्रुतौ । रवणः शब्दनस्तुल्यौ कुवादकुचरौ समौ ॥ ३४८ लोहलोऽस्फुटवाड्यूकोऽवागसौम्यस्वरोऽस्वरः । वेदिता विदुरो विन्दुर्वन्दारुस्त्वभिवादकः ॥ ३४९ आशंसुराशंसितरि कैंटरस्त्वतिकुत्सितः । निराकरिष्णुः क्षिप्नुः स्याद्विकासी तु विकस्वरः ॥ ३५० दुर्मुखे मुखराबद्धमुखौ शल्कः प्रियंवदः । दानशीलः स वदान्यो वदन्योऽप्यथ बालिशः ॥ ३५१ मूढो मन्दो यथाजातो बालो मातृमुखो जडः । मोऽमेधो विवर्णाज्ञौ वैधेयो मातृशासितः।। ३५२ देवानांप्रियजाल्मौ च दीर्घसूत्रश्चिरक्रियः । मन्दः क्रियासु कुण्ठः स्याक्रियावान्कर्मसूद्यतः ।। ३५३ कर्मक्षमोऽलंकर्मीणः कर्मशूरस्तु कर्मठः । कर्मशीलः कार्म आयःशूलिकस्तीक्ष्णकर्मकृत् ॥ ३५४ सिंहसंहननः स्वङ्गः स्वतन्त्रो निरवग्रहः । यथाकामी स्वरुचिश्च स्वच्छन्दः स्वैर्यपावृतः ॥ ३५५ यहच्छा स्वैरिता खेच्छा नाथवान्निनगृह्यकौ । तत्रायत्तवशाधीनच्छन्दवन्तः परात्परे॥ ३५६ लक्ष्मीवाल्लक्ष्मणः श्रील इभ्य आढ्यो धनीश्वरः।। ऋद्धे विभूतिः संपत्तिर्लक्ष्मीः श्रीऋद्धिसंपदः॥ ३५७ दरिद्रो दुर्विधो दुःस्थो दुर्गतो निःस्वकीकटौ । अकिंचनोऽधिपस्त्वीशो नेता परिवृढोऽधिभूः ॥ ३५८ पतीन्द्रस्वामिनाथार्याः प्रभुर्तेश्वरो विभुः । ईशितेनो नायकश्च नियोज्यः परिचारकः ॥ ३५९ डिङ्गरः किंकरो भृत्यश्चेटो गोप्यः पराचितः । दासः प्रेष्यः परिस्कन्दो भुजिष्यपरिकर्मिणौ ॥ ३६० परान्नः परिपिण्डादः परजातः परैधितः । भतके भूतिभुग्वैतनिकः कर्मकरोऽपि च ॥ 14 ३६१ स नि तिः कर्मकरो भृतिः स्यान्निष्क्रयः पणः । कर्मण्या वेतनं मूल्यं निवेशो भरणं विधा । ३६२ भर्मण्या भर्म भृत्या च भोगस्तु गणिकाभृतिः । खलपूः स्याद्वहुकरो भारवाहस्तु भारिकः ॥ ३६३ वार्तावहे वैवधिको भारे विवधवीवधौ । काचः शिक्यं तदालम्बो भारयष्टिविहङ्गिका.॥ ३६४ शूरश्चारभटो वीरो विक्रान्तश्चाथ कातरः । दरिद्रश्चकितो भीतो भीरुभीरुकभीलुकाः॥ ३६५ विहस्तव्याकुलौ व्यग्रे कांदिशीको भयद्रुते । उत्पिञ्जलसमुत्पिञ्जपिञ्जलाभृशमाकुले ॥ ३६६ महेच्छे तूटोदारोदात्तोदीर्णमहाशयाः । महामना महात्मा च कृपणस्तु मितंपचः ॥ ३६७ कीनाशस्तद्धनक्षुद्रकदर्यदृढमुष्टयः । किंपचानो दयालुस्तु कृपालुः करुणापरः ।। ३६८ सूरतोऽथ दया शूकः कारुण्यं करुणा धृगा । कृपानुकम्पानुक्रोशो हिंस्र शरारुघातुकौ ॥ ३६९
__१. कवितापि. २. यौगिकत्वात् धीमान् , मतिमान् , इत्यादयः. ३. तेन कृतकर्मा, कृतहस्तः, कृतमुखः; यौगिकत्वात् कृतकृत्यः, कृतार्थः, कृती च. ४. कटर इत्यन्ये. ५. यथोद्गतोऽपि. ६. तेन परतन्त्रः, परायत्तः, परवशः, पराधीनः, परच्छन्दः, परवान्. ७. श्रीमान् इत्यपि.
For Private and Personal Use Only
Page #30
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ मर्त्यकाण्डः ।
३७२
३७३
३७४
३७५
३७६
३८१
३८२
व्यापादनं विशरणं प्रमयः प्रमापणं निमन्धनं प्रमथनं कदनं निबर्हणम् । निसूदनं विशसनं क्षणनं परासनं प्रोज्जासनं प्रशमनं प्रनिघानं वधः ॥ प्रवासनोद्रासनघातनिर्वासनानि संज्ञप्तिनिशुम्भहिंसाः । निर्वापणालम्भनिसूदनानि निर्यातनोन्मन्थसमापनानि || अपासनं वर्जनमारपिञ्जा निष्कारणाक्राथविशारणानि । स्युः कर्तने कल्पनवर्धने च च्छेदश्च घातोद्यत आततापी० ॥ सशीर्षच्छेदिकः शीर्षच्छेद्यो यो वधमर्हति । प्रमीत उपसंपन्नः परेतप्रेतसंस्थिताः ॥ नाम लेख्ययशः शेषो व्यापन्नोऽपगतो मृतः । परास्तद दानं तदर्थमूर्ध्वदेहिकम् ॥ मृतस्नानमपस्नानं । निवापः पितृतर्पणम् । चितिचित्याचितास्तुल्या ऋजुस्तु प्राञ्जलोऽञ्जसः ॥ दक्षिणे सरलोदारौ। शैठस्तु निकृतोऽनृजुः । क्रूरे नृशंसनिस्त्रिंशपापा धूर्तस्तु वञ्चकः ॥ व्यंसकः कुहको दाण्डाजिनिको मायिजालिकौ । माया तु शठता शाठ्यं कुस्मृतिर्निष्कृतिश्च सा ।। २७७ कपटं कैतवं दम्भः कूटं छद्मोर्पेधिश्छलम् । व्यपदेशो मिषं लक्षं निभं व्याजोऽथ कुक्कुटिः ॥ ३७८ कुहना दम्भचर्या च वञ्चनं तु प्रतारणम् । व्यलीकमतिसाधनं साधौ सभ्यार्यसज्जनाः ॥ ३७९ दोषैकदृक्पुरोभागी कर्णेजपस्तु दुर्जनः । पिशुनः सूचको नीचो द्विजिहो मत्सरी खलः ।। ३८० व्यसनार्तस्तूप रक्तश्चोरैस्तु प्रतिरोधकः । । दस्युः पीटवर : स्तेनस्तस्कर: पारिपन्थिकः ॥ परिमोषिपरास्कन्धैकागारिकमलिम्लुचाः । यः पश्यतो हरेदर्थं स चौरः पश्यतोहरः ५ ॥ चौर्य तु चौरिका तैलोत्रं त्वपहृतं धनम् । यद्भविष्यो दैवपरोऽथालस्यः शीतकोऽलसः ॥ ३८३ मन्दस्तुन्दपरिमृजोऽनुष्णो'दक्षस्तु पेशलः । पटूष्णोष्णकसूत्थानचतुराश्चाथ तत्परः ॥ आसक्तः प्रवणः प्रह्वः प्रसितश्च परायणः । दातोदारः स्थूललक्षो दानशौण्डो बहुप्रदे ॥ ॥ दानमुत्सर्जनं त्यागः प्रदेशनविसर्जने । विहापितं वितरणं स्पर्शनं प्रतिपादनम् ॥ विश्राणनं निर्वपणमपवर्जनमंहतिः | अर्थव्ययज्ञः सुकलो याचकस्तु वनीपकः || मार्गणोऽर्थी याचनकस्तर्कुकोऽथार्थनैषणा | अर्दना प्रणयो याच्या याचनाध्येषणा सनिः । ॥ २८८ उत्पतिष्णु स्तूत्पतितालंकरिष्णुश्च मण्डनः । भविष्णुर्भविता भूष्णुः समौ वर्तिष्णुवर्तनौ ॥ ३८९ विसृत्व विसृमरः प्रसारी च विसारिणी । लज्जाशीलोऽपत्रपिष्णुः सहिष्णुः क्षमिता क्षमी ३९० तितिक्षुः सहनः क्षन्ता तितिक्षा सहनं क्षमा । ईर्ष्यालुः कुहनोक्षान्तिरीर्ष्या क्रोधी तु रोषणः ॥ ३९१ अमर्षणः क्रोधेनश्च चण्डस्त्वत्यन्तकोपनः । । बुभुक्षितः स्यात्क्षुधितो जिघत्सुरशनायितः ॥ ३९२ बुभुक्षायामशनाया जिघत्सा रोचको रुचिः । पिपासुस्तृषितस्तृष्णक्तृष्णा तर्षोऽपलासिका ॥ ३९३ पिपासा तृषोदन्या धीतिः पानेऽथ शोषणम् || रसादानं भक्षकस्तु घस्मरोऽझर अंशिता ॥ ३९४ भक्तमन्नं कूरमन्धो भित्सा दीदिविरोदनः । अशनं जीवनकं च याजो वाजः प्रसादनम् ॥ ३९५ freeटा दग्धिका सर्वरसाम्यं मण्डमत्र तु । दधिजे मस्तु भक्तोत्थे निःस्रावाचाममासराः || ३९६ श्राणाविलेपी तरला यवागूरुणिकापि च । सूपः स्यात्प्रहितं सूदो व्यञ्जनं तु घृतादिकम् || ३९७ तुल्यौ तिलान्ने कृसरत्रिसरावथ पिष्टकः । पूपोऽपूपः । पूलिका तु पोलिकापौलिपूपिकाः ॥ २२३९८
३८४
३८५
३८६
३८७
For Private and Personal Use Only
१९
३७०
३७१
१. 'शेष' शब्दो नामादिभिः प्रत्येकमन्येति २. और्ध्वदेहिकमपि ३. शण्ठः. ४. उपधापि ५. चौरोऽपि. ६. पटचोरोऽपि. ७. स्तैन्यमपि ८. क्षान्तिरित्यपि. ९. कोपनोऽपि १०. आशिरोऽपि ११. विलेप्यापि.
Page #31
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०
अभिधानसंग्रहः-६ अभिधानचिन्तामणिः ।
पूपलाथेषत्पक्के स्युरभ्यूषाभ्योषपौलयः । निष्टानं तु तेमनं स्यात्करम्भो दधिसक्तवः ॥ ३९९ घृतपूरो घृतवरः पिष्टपूरश्च घार्तिकः । चमसी पिष्टवर्तिः स्याद्बटकस्त्ववसेकिमः ॥ ४०० भृष्टा यवाः पुनर्धाना धानाचूर्णं तु सक्तवः । पृथुकश्चिपुटस्तुल्यौ लाजाः स्युः पुनरक्षताः ॥ ४०१ गोधूमचूर्णे समिता यवक्षोदे तु चिकसः । गुड इक्षुरसः काथः, शर्करा तु सितोपला ॥ ४०२ सिता च मधुधलिस्तु खण्डस्तद्विकृतिः पुनः। मत्स्यण्डी फाणितं चापि रसालायां तु मार्जिता ॥४०३ शिखरिण्यथ यूयूषो रसो दुग्धं तु सोमजम् । गोरसः क्षीरमूधस्यं स्तन्यं पुंसवनं पयः ॥ ४०४ पयस्यं वृतदध्यादि पेषोऽभिनवं पयः । उभे क्षीरस्य विकृती किलाटी कूचिकापि च ॥ ४०५ पायसं परमानं च क्षीरेयीक्षीरजं दधि । गोरसश्च तदघनं द्रप्स पत्रलमित्यपि ॥ घृतं हविष्यमाज्यं च हविराघारसर्पिषी । ह्योगोदोहोद्भवं हैयंगवीनं शरजं पुनः ॥ दधिसारं तक्रसारं नवनीतं नवोद्भुतम् । दण्डाहते कालसेयघोलारिष्टानि गोरसः॥ ४०८ रसायनमथार्धाम्बूदश्विच्छेतं समोदकम् । तत्रं पुनः पादजलं मथितं वारिवर्जितम् ॥ ४०९ सार्पिष्कं दाधिकं सर्पिर्दधिभ्यां संस्कृतं क्रमात् । लवणोदकाभ्यानुदकलावणिकमुदश्विति ॥ ४१०
औदश्वितमौदश्वित्कं लवणे स्यात्तु लावणम् । पैठरोख्ये उखासिद्धे प्रयस्तं तु सुसंस्कृतम् ॥ ४११ पक्के राद्धं च सिद्धं च भृष्टं पक्कं विनाम्बुना । भृष्टामिषं भटित्रं स्याद्भतिर्भरूटकं च तत् ॥ ४१२ शल्यं शूलाकृतं मांसं निष्क्वाथो रसकः समौ । प्रणीतमुपसंपन्नं स्निग्धे मसृणचिंकणे ॥ ४१३ पिच्छिलं तु विजिविलं विज्जलं विजलं च तत् । भावितं तु वासितं स्यात्तुल्ये संमृष्टशोधिते ४१४ काश्चिकं काञ्जिकं धान्याम्लारनाले तुषोदकम् । कुल्माषाभिषुतावन्तिसोमशुक्तानि कुञ्जलम् ॥४१५ चुकं धातुघ्नमुन्नाहं रक्षोन्नं कुण्डगोलकम् । महारसं सुवीराम्लं सौवीरं म्रक्षणं पुनः ॥ ४१६ तैलं स्नेहोऽभ्यञ्जनं च वेषवार उपस्करः । स्यात्तिन्तिडीकं तु चुकं वृक्षाम्लं चाम्लवेतसे ॥ ४१७ हरिद्रा काञ्चनी पीता निशाख्या वरवणिनी । क्षवः क्षुताभिजननो राजिका राजसर्षपः ॥ ४१८ आसुरी कृष्णिका चासौ कुस्तुम्बुरु तु धान्यकम् । धन्या धन्याकं धान्याकं मरीचं कृष्णमूषणम् ४१९ कोलकं वेल्लजं धार्मपत्तनं यवनप्रियम् । शुण्ठी महौषधी विश्वा नागरं विश्वभेषजम् ॥ ४२० वैदेही पिप्पली कृष्णोपकुल्या मागधी कणा । तन्मूलं ग्रन्धिकं सर्वग्रन्थिकं चटकाशिरः ॥ ४२१ त्रिकटु ब्यूषणं व्योषमजाजी जीरकः कणा । सहस्रवेधि वाह्रीकं जतुकं हिङ्गु रामठम् ॥ ४२२
न्यादः स्वदनं खादनमशनं निघसो वल्भनमभ्यवहारः । जग्धिर्जक्षणभक्षणलेहाः प्रत्यवसानं घसिराहारः ।।
४२३ प्सानावष्वाणविष्वाणा भोजनं जेमेनादने । चर्वणं चूर्णनं दन्तजिह्वास्वादस्तु लेहनम् ॥ ४२४ कल्पवर्तः प्रातराशः सग्धिस्तु सहभोजनम् । ग्रासो गुडेरकः पिण्डो गडोलः कवको गुडः ॥४२५ गण्डोलः कवलस्तृप्ते वाघ्रातसुहिताशिताः । तृप्तिः सौहित्यमाघ्राणमथ। भुक्तसमुज्झिते ॥ ४२६ फेला पिण्डोलिफेली च स्वोदरपूरके पुनः । कुरिंभरिरात्मभरिरुदरंभरिरप्यथः ॥ ४२७ आद्यूनः स्यादौदरिको विजिगीषाविवर्जिते । उदरपिशाचः सर्वान्नीनः सर्वान्नभक्षकः ॥ ४२८ शाष्कुलः पिशिताश्युन्मदिष्णुस्तून्मादसंयुतः । गृनुस्तु गर्धनस्तृष्णग्लिप्सुलुब्धोऽभिलाषुकः ॥ ४२९
१. मजितापि. २. पीयूषमित्यपि. ३. चिक्कणमपि. ४. विजिपिलमित्यपि. ५. जमनम् , जवनं च. ६. आघ्राणोऽपि.
For Private and Personal Use Only
Page #32
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ मर्त्यकाण्डः ।
२१
४३३
४३५
४३७
४३९
४४१
४४२
लोलुपो लोलुमो लोभस्तृष्णा लिप्सा वशः स्पृहा । काङ्क्षाशं सागर्धवाञ्छाशेच्छे है। तृमैनोरथाः ।। ४३० historisभिध्या तु परस्वेहोद्धतः पुनः । । अविनीतो विनीतस्तु निभृतः प्रश्रितोऽपि च ॥ ४३१ विधेये विनयस्थः स्यादाश्रवो वचनेस्थितः । वश्यः प्रणेयो धृष्टस्तु वियातो धृष्णुधृष्णजौ ॥ ४२२ वीक्षापन्नो विलक्षोऽथाधृष्टे शालीन शारदौ । शुभंयुः शुभसंयुक्तः स्यादहंयुरहंकृतः ॥ कामुकः कमिता कम्रोऽनुकः कामयिताभिकः । कामनः कमरोऽभीकः पञ्चभद्रस्तु विप्लुतः || ४३४ व्यसनी हर्षमाणस्तु प्रमनाहृष्टमानसः । विकुर्वाणो विचेतास्तु दुरन्तर्विपरो मनाः ॥ ॥ मत्ते शौण्डोत्कटक्षीवा। उत्कस्तूत्सुक उन्मनाः । उत्कण्ठितोऽभिशस्ते तु वाच्यक्षारितदूषिताः || ४३६ गुणैः प्रतीते वाहतलक्षणः कृतलक्षणः । निर्लक्षणस्तु पाण्डुरपृष्टः संकसुकोऽस्थिरे || तूष्णींशीलस्तु तूष्णीको विवशोऽनिष्टदुष्टधीः । । बद्धो निगडितो नद्धः कीलितो यन्त्रितः सितः||४३८ संदानितः संयतश्च स्यादुद्दानं तु बन्धनम् । मनोहतः प्रतिहतः प्रतिबद्धो हतश्च सः ॥ प्रतिक्षिप्तोऽधिक्षिप्तोऽवकृष्टनिष्कासितौ समौ । आत्तगन्धेऽभिभूतोऽपध्वस्ते । न्यक्कृतधिकृतौ ॥ ४४० निकृतस्तु विप्रकृतो न्यक्कारस्तु तिरस्क्रिया । परिभावो विप्रकारः परापर्यभितो भवः ॥ अत्याकारो निकारश्च विप्रलब्धस्तु वञ्चितः । स्वप्नक्शयालुर्निद्रालुघूर्णिते प्रचलायितः ॥ निद्राणः शयितः सुप्तो जागरूकस्तु जागरी । जागर्या स्याज्जागरणं जागरा जागरोऽपि च || ४४३ विष्वगञ्चति विष्वङ्देवादेवमञ्चति । सहाञ्चति तु सध्यङ् स्यात्तिर्यङ् पुनस्तिरोऽञ्चति ।। ४४४ संशयालुः संशयिता गृहयालुर्ग्रहीतरि । पतयालुः पातुकः स्यात्समौ रोचिष्णुरोचनौ || ४४५ दक्षिणार्हस्तु दक्षिण्यो दक्षिणीयोऽथ दण्डितः । दापितः साधितोऽर्यस्तु प्रतीक्ष्यः पूजितोऽर्हितः४४६ नमस्यितो नमसितपचितावञ्चितोऽर्चितः । पूजार्हणासपर्यार्चा उपहारवली समौ ॥ विवो विलः स्थूलः पीत्रा पीनश्च पीवरः । चक्षुष्यः सुभगो द्वेष्योऽक्षिगतोऽथांसलो बली ॥ ४४८ निर्दिग्धो मांसलश्चोपचितोऽथ, दुर्बलः कृशः । क्षामः क्षीणस्तनुश्छातस्तलिनामांसपेलवाः ॥ ४४९ पिचण्डिलो बृहत्कुक्षिस्तुन्दितुन्दिक तुन्दिलाः । उदर्युदरिले विखविखुविद्या अनासिके ४५० नतनासिकेऽवनाटोऽवटीटोऽबभ्रटोऽपि च । खरणास्तु खरणसो नःक्षुद्रः क्षुद्रनासिकः । ॥ खुरणाः स्यात्खुरणस उन्नसस्तूप्रनासिकः । पङ्गुः श्रोणः खलतिस्तु खल्वाट ऐन्द्रलुप्तिकः ॥ शिपिविष्ट र काण: कनन एकदृक् । पृश्निरपतनौ कुंजे गडुलः कुकरे कुणिः ॥ निखर्व: खट्टनः खर्वः खर्वशाखश्च वामनः । । अकर्ण एडो बधिरो दुश्चर्मा तु द्विननकः ॥ वण्डश्च शिपिविष्टश्च खोडखोरौ तु खञ्जके । विकलाङ्गस्तु पोगण्ड ऊर्ध्वजुरूर्ध्वजानुकः ॥ ४५५ ऊर्ध्वज्ञश्चाप्यथ प्रज्ञप्रज्ञौ विरलजानुके । संज्ञसंज्ञौ युतजानौ बलिनो बलिभः समौ ॥ ४५६ उदग्रदन्दन्तुरः स्यात्प्रलम्बाण्डस्तु मुष्करः । अन्धो गताक्ष उत्पश्य उन्मुखोऽधोमुखस्त्ववाङ् ॥ ४५७ मुण्डस्तु मुण्डितः केशी केशवः केशिकोऽपि च । वलिर : केकरो वृद्धनाभौ तुण्डिलतुण्डिभौ ४२८ आमयाव्यपटुग्लनो ग्लास्नुर्विकृत आतुरः । व्यथितोऽभ्यमितोऽभ्यान्तो ददुरोगी तु दगुणः || ४५९ पमिनः कच्छुरस्तुल्यौ सातिसारोऽतिसारकी । वातकी वातरोगी स्याच्छेष्मलः श्लेष्मणः कफी ४६०
४४७
४५४
For Private and Personal Use Only
४५१
४५२
४५३
१. ईहोsपि. २. मनोगवी च ३. कमनोऽपि ४. तेन दुर्मनाः, अन्तर्मनाः, विमनाः ५. आक्षारितोऽपि. ६. अनिष्टा दुष्टा च वीर्यस्य ७ तेन पराभवः, परिभवः, अभिभवः ८ जागरितोऽपि ९ सांशयिकोऽपि. १०. अपचायितोऽपि ११. खलतोऽपि १२. न्युब्जोऽपि १३. रोगितोऽपि १४. 'पामरः' इत्येके.
Page #33
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिधानसंग्रहः-६ अभिधानचिन्तामणिः । क्लिन्न नेत्रे चिल्लचुल्लौ पिल्लोऽथार्शोयुगर्शसः । मूर्छिते मूर्तमूर्छालौ सिध्मलस्तु किलासिनि ॥ ४६१ पित्तं मायुः कफः श्लेष्मा बलाशः स्नेहभूः खटः रोगो रुजा रुगातको मान्य व्याधिरपाटवम्॥४६२ आम आमय आकल्यमुपतापो गदः समाः । क्षयः शोषो राजयक्ष्मा यक्ष्माया, क्षुक्षुतं क्षवः।।।४६३ कासस्तु क्षवथुः पामा खसः कच्छूर्विचर्चिका । कण्डूः कण्डूयनं खर्जु: कण्डूयाथा क्षतं व्रणः॥४६४ अरुरीम क्षणतुश्च रूढवणपदं किणः । श्लीपदं पादवल्मीकः पादस्फोटो विपादिका ॥ ४६५ स्फोटकः पिडको गण्डः पृष्टप्रन्थिः पुनर्गडुः । श्वित्रं स्यात्पाण्डुरं कुष्टं केशघ्नं विन्द्रलुप्तकम्॥४६६ सिध्म किलासं त्वक्पुष्पं सिध्मं कोठस्तु मण्डलम् ॥ गलगण्डे गण्डमाला रोहिणी तु गलाकुर ४६७ हिका हेका च हृल्लासः प्रतिश्यायस्तु पीनसः । शोथस्तु श्वयथुः शोफे।दुर्नामाझे गुदाङ्कुरः ॥ ४६८ छर्दै प्रच्छर्दिका छर्दिवमथुर्वमनं वमिः । गुल्मे, स्यादुदरग्रन्थिरुदावर्तो गुदग्रहः ॥ ४६९ गतिर्नाडीव्रणे वृद्धिः कुरुण्डश्चाण्डवर्धने । अश्मरी स्यान्मूत्रकृच्छे प्रमेहो बहुमूत्रता॥ ४७० अनाहस्तु निबन्धः स्याग्रहणी रुक्प्रवाहिका । व्याधिप्रभेदा विद्रधिभगंदरज्वरादयः ॥ ४७१ दोषज्ञस्तु भिषग्वैद्य आयुर्वेदी चिकित्सकः । रोगहार्यगदंकारो भेषजं तत्रमौषधम् ॥ ४७२ भैषज्यमगदो जायुश्चिकित्सा रुकप्रतिक्रिया । उपचर्योपचारौ च लङ्घनं वपतर्पणम् ॥ ४७३ जाङ्गुलिको विषभिषक्स्वास्थ्यं वार्तमनामयम् । सह्यारोग्ये पटूल्लाघवार्तकल्यास्तु नीरुजि ॥ ४७४ कुसृत्या विभवान्वेषी पार्श्वकः संधिजीवकः । सत्कृत्यालंकृतां कन्यां यो ददाति स कूकुदः॥ ४७५ चपलश्चिकुरो नीली रागस्तु स्थिरसौहृदः । ततो हरिद्रारागोऽन्यः सान्द्रस्निग्धस्तु मेदुरः ॥ ४७६ गेहेनर्दी गेहेशूरः पिण्डीशरोऽस्तिमान्धनी । स्वस्थानस्थः परद्वेषी गोष्ठश्वोऽथापदि स्थितः ॥ ४७७ आपन्नोऽथापद्विपत्तिविपत्स्निग्धस्तु वत्सलः । उपाध्यभ्यागारिकौ तु कुटुम्बव्यापृते नरि॥ ४७८ जैवातृकस्तु दीर्घायुस्त्रासदायी तु शङ्करः । अभिपन्नः शरणार्थी कारणिकः पैरीक्षकः ॥ ४७९ समधुकस्तु वरदो व्रातीनाः संघजीविनः। सभ्याः सदस्याः पार्षद्याः सभास्ताराः सभासदः॥ ४८० सामाजिकाः सभा संसत्समाजः परिषत्सदः । पर्षत्समज्यागोष्टयास्था आस्थानं समितिघंटा॥४८१ सांवत्सरो ज्यौतिषिको मौहर्तिको निमित्तवित् । दैवज्ञगणकादेशिज्ञानिकार्तान्तिका अपि ॥ ४८२ विप्रनिकेक्षणिकौ च सैद्धान्तिकस्तु तात्रिकः । लेखकेऽक्षरपूर्वाः स्युश्चणजीवकचश्चवः ॥ ४८३ वार्णिको लिंपिकरश्चाक्षरन्यासे लिपिलिविः । मषिधानं मषिकूपी मलिनाम्बु मंषिर्मसिः ॥ ४८४ कुलिकस्तु कुलश्रेष्ठी सभिकोद्यूतकारकः । कितवो द्यूतकृद्भूतॊऽक्षधूर्तश्चाक्षदेविनि ॥ ४८५ दुरोदरं कैतवं स्याहयूतमक्षवती पणः।। पाशंकः पासकोऽक्षश्च देवनस्तत्पणो ग्लहः ॥ ४८६ अष्टापदः शारिफलं शारः शारिश्च खेलनी । परिणायस्तु शारीणां नयनं स्यात्समन्ततः ॥ ४८७ समायः प्राणिद्यूतं व्यालग्राह्याहितुण्डिकः । स्यान्मनोजवसस्ताततुल्यः शास्ता तु देशकः ॥ ४८८ सुकृती पुण्यवान्धन्यो मित्रयुमित्रवत्सलः । क्षेमंकरोऽरिष्टताति: शिवतातिः शिवंकरः ॥ ४८९ श्रद्धालुरास्तिकः श्राद्धो, नास्तिकस्तद्विपर्यये । वैरङ्गिको विरागार्हो वीतदम्भस्वकल्कनः ॥ ४९० प्रणाय्योऽसंमतोन्वेष्टानुपद्यथ सहः।क्षमः । शक्तः प्रभूष्णुर्भूतात्तस्वाविष्टः शिथिलः श्लथः ॥ ४९१
१. नान्त आबन्तश्च. २. विस्फोटापि. ३. मण्डलकमपि. ४. आक्षपटलिकोऽपि. ५. पारिषद्या अपि. ६. मौहर्तोऽपि. ७. नैमित्त-नैमित्तिकावपि. ८. मनोरमायां तु 'चुञ्चः' उकारद्वयवान्' इत्युक्तम्. ९. लिविकरोऽपि, १०. मषी, मसी. ११. शारिफलकोऽपि.
For Private and Personal Use Only
Page #34
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ मर्यकाण्डः । संवाहकोऽङ्गमर्दः स्यान्नष्टबीजस्तु निष्कलः । आसीन उपविष्टः स्यादृर्ध्व ऊर्वदमः स्थितः ॥ ४९२ अध्वनीनोऽध्वगोऽध्वन्यः पान्थः पथिकदेशिकौ । प्रवासी तद्गणो हारिः पाथेयं शम्बलं समे।।।४९३ जङ्घालोऽतिजवो जङ्घाकरिको जाङ्घिको।जवी । जवनस्त्वरिते वेगे रयो रंहस्तरः स्यदः ॥ ४९४ जवो वाजः प्रसरश्च मन्दगामी तु मन्थरः।। कामंगाम्यनुगामीनोऽत्यन्तीनोऽत्यन्तगामिनि ॥ ४९५ सहायोऽभिचरोऽनोश्च जीविगामिचरप्लवाः । सेवकोऽथा सेवा भक्तिः परिचर्या। प्रसादना ॥ ४९६ शुश्रूषाराधनोपास्तिवरिवस्यापरीष्टयः । उपचारः पदातिस्तु पत्तिः पद्गः पदातिकः ॥ ४९७ पादातिकः पादचारी पदाजिपदिकावपि । सर: पुरोऽग्रतोऽग्रेभ्यः पुरस्तो गमगामिगाः ॥ ४९८ प्रष्टोऽथावेशिकागन्तु, प्रघणोऽभ्यागतोऽतिथिः । प्राघूर्णिके थावेशिकमातिथ्यं चातिथेय्यपि।।। ४९९ सूर्योढस्तु स संप्राप्तो यः सूर्येऽस्तं गते तिथिः । पादार्थ पाद्यमर्घार्थमयं वार्यथ गौरवम् ॥ ५०० अभ्युत्थानं व्यथकस्तु स्यान्मर्मस्पृगरुंतुदः । ग्रामेयके तु ग्रामीणग्राम्यौ लोको जनः प्रजाः ॥ ५०१ स्यादामुष्यायणोऽमुष्यपुत्रः प्रख्यातवप्तकः । कुल्यः कुलीनोऽभिजातः कौलेयकमहाकुलौ ॥ ५०२ जात्यो गोत्रं तु संतानोऽन्ववायोऽभिजनः कुलम् । अन्वयो जननं वंशः स्त्री नारी वनिता वधूः ५०३ वशा सीमन्तिनी वामा वणिनी महिलाबला । योषा योषिद्विशेषास्तु कान्ता भीरुनितम्बिनी ५०४ प्रमदा सुन्दरी रामा रमणी ललनाङ्गना । स्वगुणेनोपमानेन मनोज्ञादिपदेन च ॥ ५०५ विशेषिताङ्गकर्मा स्त्री यथा तरललोचना । अलसेक्षणा मृगाक्षी मत्तेभगमनापि च ॥ ५०६ वामाक्षी सुस्मितास्याः स्वं मानलीलास्मरादयः । लीला विलासो विच्छित्तिर्विव्योकः किलकिञ्चितम् ।। मोट्टायितं कुट्टमितं ललितं विहृतं तथा । विभ्रमश्चेत्यलंकाराः स्त्रीणां स्वाभाविका दश ॥ ५०८ प्रागल्भ्यौदार्यमाधुर्यशोभाधीरत्वकान्तयः । दीप्तिश्चायनजा भावहावहेलास्त्रयोऽङ्गजाः ॥ ५०९ सा कोपना भामिनी स्याच्छेका मत्ता च वाणिनी । कन्या कनी कुमारी च गौरी तु नग्निकारजाः ॥ मध्यमा तु दृष्टरजास्तरुणी युवतिश्वरी । तलुनी दिकरी वर्या पतिंवरा स्वयंवरा ॥ सुवासिनी वधूटी स्याञ्चिरिण्ट्यथ सर्मिणी । पत्नी सहचरी पाणिगृहीती गृहिणी गृहाः ॥ ५१२ दाराः क्षेत्रं वधूर्भार्या जनी जाया परिग्रहः । द्वितीयोढा कलत्रं च पुरंध्री तु कुटुम्बिनी॥ ५१३ प्रजावती भ्रातुर्जाया सूनोः स्नुषा जनी वधूः । भ्रातृवर्गस्य या जाया यातरस्ताः परस्परम् ॥ ५१४ वीरपत्नी वीरभार्या कुलस्त्री कुलबालिका | प्रेयसी दयिता कान्ता प्राणेशा वल्लभा प्रिया ॥ ५१५ हृदयेशा प्राणसमा प्रेष्ठा प्रणयणी च सा प्रेयस्याद्याः पुंसि पत्यौ भर्ता सेक्ता पतिर्वरः ॥ ५१६ विवोढा रमणो भोक्ता रुच्यो वरयिता धवः ॥ जन्यास्तु तस्य सुहृदो विवाहः पाणिपीडनम् ॥५१७ पाणिग्रहणमुद्वाह उपाद्यामयमावपि । दारकर्म परिणयो जामाता दुहितुः पतिः ॥ ५१८ उपपतिस्तु जारः स्याद्भुजङ्गो गणिकापतिः । जम्पती दम्पती भार्यापती जायापती समाः ॥ ५१९ यौतकं युतयोर्देयं सुदायो हरणं च तत् । कृताभिषेका महिषी भोगिन्योऽन्या नृपस्त्रियः ॥ ५२० सैरंध्री यान्यवेश्मस्था स्वतत्रा शिल्पजीविनी । असिक्यन्तःपुरःप्रेष्या दूतीसंचारिके समे ॥५२१
१. जाचाकरोऽपि. २. जीव्यादयोऽनोः परे ज्ञेयाः. ३. अनुगोऽपि. ४. पर्येषणापि. ५. पुरआदिभ्यः परः सरो ज्ञेयः ६. 'पुरस्' इत्यस्मात्परे गमादयो बोध्याः ७. आतिथ्यमपि. ८. अभिज्ञोऽपि. ९. महेलापि. १०. योषितापि. ११. 'युवती' इत्यपि. १२. 'चरिण्टी' इत्यपि. १३. वधूटीत्यपि. १४. प्रेमवत्यपि. १५. उपात् परौ याम-यमशब्दो.
For Private and Personal Use Only
Page #35
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिधानसंग्रहः-६ अभिधानचिन्तामणिः । प्राज़ी प्रज्ञा प्रजानन्त्यां प्राज्ञा तु प्रज्ञयान्विता । स्यादाभीरी महाशूद्री जातियोगयोः समे।। ५२२ पुंयुज्याचार्याचार्यानी मातुलानी तु मातुली । उपाध्यायान्युपाध्यायी क्षत्रिय्यार्थी च शूद्यपि ॥ ५२३ स्वत आचार्या शूद्रा च क्षत्रियाक्षत्रियाण्यपि । उपाध्याय्युपाध्याया स्यादर्यार्याण्यौ पुनः समे ॥५२४ दिधिषूस्तु पुनर्भूढेिरूढास्या दिधिषः पतिः । स तु द्विजोऽग्रेदिधिषुर्यस्य स्यात्सैव गेहिनी ॥ ५२५ ज्येष्ठेऽनूढे परिवेत्तानुजो दारपरिग्रही । तस्य ज्येष्टः परिवित्तिर्जाया तु परिवेदिनी ॥ ५२६ वृषस्यन्ती कामुकी स्यादिच्छायुक्ता तु कामुका । कृतसापत्निकाध्यूढाधिविन्नाथ पतिव्रता ॥ ५२७२ एकपत्नी सुचरित्रा साध्वी सत्यसतीत्वरी । पुंश्चली चर्षणी बन्धक्यविनीता च पांशुला ॥ ५२८ स्वैरिणी कुलटा याति या प्रियं साभिसारिका। वयस्यालिः सखी सध्रीच्यशिश्वी तु शिशु विना ५२९ पतिवत्नी जीवत्पतिर्विश्वस्ता विधवा समे । निर्वीरा निष्पतिसुता जीवत्तोका तु जीवसूः ॥ ५३० नश्यत्प्रसूतिका नन्दुः सश्मश्रुर्वरमालिनी । कात्यायिनी त्वर्धवृद्धा काषायवसनाधवा ॥ ५३१ श्रवणा भिक्षुकी मुण्डा पोटा तु स्त्रीनृलक्षणा। साधारणस्त्री गणिका वेश्या पण्यपणाङ्गना ।।५३२ भुजिध्या लञ्जिका रूपाजीवा वारवधूः पुनः । सा वारमुख्याथ, चुन्दी कुट्टनी शंभली समाः॥५३३ पोटा वोटा च चेटी च दासी च कुटहारिका । नग्ना तु कोटवी वृद्धा पलिन्यथ रजस्वला ॥२३४ पुष्पवत्यधिरात्रेयी स्त्रीधर्मिणी मलिन्यवी । उदक्या ऋतुमती च पुष्पहीना तु निष्कला ॥ ५३५ राका तु सरजाः कन्या स्त्रीधर्मः पुष्पमार्तवम् । रजस्तत्कालस्तु ऋतुः सुरतं मोहनं रतम् ॥ ५३६ संवेशनं संप्रयोगः संभोगश्च रहो रतिः । ग्राम्यधर्मो निधुवनं कामकेलिः पशुक्रिया ॥ ५३७ व्यवायो मैथुनं स्त्रीपुंसोहं मिथुनं च तत् । अन्तर्वनी गुर्विणी स्यादर्भवत्युदरिण्यपिः॥ ५३८ आपन्नसत्त्वा गुर्वी च श्रद्धालुर्दोहदान्विता । विजाता च प्रजाता च जातापत्या प्रसूतिका ॥ ५३९ गर्भस्तु गरभो भ्रूणो दोहदलक्षणं च सः । गर्भाशयो जरायूल्वे कललोल्वे पुनः समे ॥ ५४० दोहदं दौहृतं श्रद्धा लालसा सूतिमासितु । वैजननो विजननं प्रसवो नन्दनः पुनः॥ ५४१ उद्वहोऽङ्गात्मजः सूनुस्तनयो दारकः सुतः । पुत्रे दुहितरि स्त्रीत्वे तोकापत्यप्रसूतयः ॥ ५४२ तुक्प्रजोभयोर्धात्रीयो भ्रातृव्यो भ्रातुरात्मजे । स्वस्रीयो भागिनेयश्च जामेयः कुतपश्च सः॥ ५४३ नप्ता पौत्रः पुत्रपुत्रो दौहित्रो दुहितुः सुतः । प्रतिनप्ता प्रपौत्रः स्यात्तत्पुत्रस्तु परम्परः ॥ ५४४ पैतृष्वसेयः स्यात्पैतृष्वस्रीयश्च पितृष्वसुः । मातृष्वस्त्रीयस्तुग्मातृष्वसुर्मातृष्वसेयवत् ॥ ५४५ विमातृजो वैमात्रेयो द्वैमातुरो द्विमातृजः । सत्यास्तु तनये सामातुरवगाद्रमातुरः ॥ ५४६ सौभागिनेयकानीनौ सुभगाकन्ययोः सुतौ । पौनर्भवपारणेयौ पुनर्भूपरस्त्रियोः ॥ ५४७ दास्या दासेरदासेयो नाटेरस्तु नटीसुतः । बन्धुलो बान्धकिनेयः कौलटेरोऽसतीसुतः ॥ ५४८ स तु कौलटिनेयः स्याद्यो भिक्षुकसतीसुतः । द्वावप्येतौ कौलटेयौ क्षेत्रजो देवरादिजः ॥ ५४९ स्वजाते खौरसोरस्यौ मृते भर्तरि जारजः । गोलकोऽथामृते कुण्डे भ्राता तु स्यात्सहोदरः ॥ ५५० समानोदर्यसोदर्यसगर्भसहजा अपि । सोदरश्च स तु ज्येष्ठः स्यात्पित्र्यः पूर्वजोईंग्रजः॥ ५५१ जघन्यजे यविष्टः स्यात्कनिष्टोऽवरजोऽनुजः । स यवीयान्कनीयांश्च पितृव्यश्यालमातुलाः ॥ ५५२ पितुः पल्याश्च मातुश्च भ्रातरो देवृदेवरौ । देवा चावरजे पत्यूर्जामिस्तु भगिनी स्वसा॥ ५५३
१. अवीरापि. २. अङ्गनाशब्दस्य पण्येनाप्यन्वयः. ३. ननिकापि. ४. कुसुममपि. ५. पशुधर्मोऽपि. ६. जशब्दस्यालेनाप्यन्वयः. ७. नाटेयोऽपि, ८. अग्रिमोऽपि.
For Private and Personal Use Only
Page #36
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ मर्त्यकाण्डः।
ननान्दा तु स्वसा पत्युननन्दा नन्दिनीत्यपि । पन्यास्तु भगिनी ज्येष्ठा ज्येष्ठश्वश्रूः कुलीचसा ५५४ कनिष्टा श्यालिका हाली यन्त्रणीकेलिकुञ्चिका । केलिद्रवः परीहासः क्रीडा लीला च नर्म च ५५५ देवनं कूर्दनं खेला ललनं वर्करोऽपि च । वप्ता च जनकस्तातो बीजी जनयिता पिता ॥ ५५६ पितामहस्तस्य पिता तत्पिता प्रपितामहः । मातुर्मातामहाद्येवं माताम्बा जननी प्रसूः ॥ ५५७ सवित्री जनयित्री च कृमिला तु बहुप्रसः । धात्री तु स्यादुपमाता वीरमाता तु वीरसूः ॥ ५५८ श्वश्रूर्माता पतिपन्योः श्वशुरस्तु तयोः पिता । पितरस्तु पितुर्वश्या मातुर्मातामहा कुले ॥ ५५९ पितरौ मातापितरौ मातरपितरौ पिता च माता च । श्वश्रश्वशुरौ श्वशुरौ पुत्रौ पुत्रश्च दुहिता च५६० भ्राता च भगिनी चापि भ्रातरावथ बान्धवः । स्वो ज्ञातिः स्वजनो बन्धुः सगोत्रश्च निजः पुनः॥५६१. आत्मीयः स्वः स्वकीयश्च सपिण्डास्तु सनाभयः । तृतीयाप्रकृतिः पैण्डः षण्ढः क्लीबो नपुंसकम् ५६२
इन्द्रियायतनमङ्गविग्रहौ क्षेत्रगात्रतनुभूघनास्तनूः ।
मूर्तिमत्करणकायमूर्तयो वेरसंहननदेहसंचराः ॥ घनो बन्धः पुरं पिण्डो वपुः पुद्गलवर्मणी।। कलेवरं शरीरेऽस्मिन्नजीवे कुणपं शवः ।। ५६४ मृतकं रुण्डकवन्धौ वपशीर्षे क्रियायुजि । वयांसि तु दशाः प्रायाः सामुद्रं देहलक्षणम् ॥ ५६५ एकदेशे प्रतीकाङ्गावयवापधना अपि ।। उत्तमाझं शिरो मूर्धा मौलिमस्तकमुण्डके ।। ५६६ वराङ्गं करणत्राणं शीर्ष मस्तिकमित्यपि । तज्जाः केशास्तीर्थवाकाश्चिकुराः कुन्तलाः कचाः ॥ ५६७ वालाः स्युस्तत्पराः पाशो रचना भार उच्चयः।। हस्तः पक्षः कलापश्च केशभूयस्त्ववाचकाः ॥ ५६८ अलकस्तु कर्करालः खंखरश्चूर्णकुन्तलः । स तु भाले भ्रमरकः कुरुलो भ्रमरालकः ॥ ५६९ धमिल्लः संयताः केशाः केशवेशे कबर्यथा । वेणिः प्रवेणिः शीर्षण्यशिरस्यौ विशदे कचे ॥ ५७० केशेषु वर्त्म सीमन्तः पलितं पाण्डुरः कचः।चूडा केशी केशपाशी शिखा शिखण्डिका समाः५७१ सा बालानां काकपक्षः शिखण्डकशिखाण्डको । तुण्डमास्यं मुखं वक्र लपनं वदनानने ॥ ५७२ भाले गोध्यलिकालीकललाटानि श्रुतौ श्रवः । शब्दाधिष्ठानपैञ्जूषमहानादध्वनिग्रहाः॥ ५७३ कर्णः श्रोत्रं श्रवणं च वेष्टनं कर्णशष्कुली । पालिस्तु कर्णलतिकाशङ्खो भालश्रवोऽन्तरे॥ ५७४ चक्षुरक्षीक्षणं नेत्रं नयनं दृष्टिरम्बकम् । लोचनं दर्शनं हक्च तत्तारा तु कनीनिका॥ ५७५ वामं तु नयनं सौम्यं भानवीयं तु दक्षिणम् । असौम्येऽक्षण्यनक्षि स्यादीक्षणं तु निशामनम् ।। ५७६ निभालनं निशमनं निध्यानमवलोकनम् । दर्शनं द्योतनं निर्वर्णनं चाथार्धवीक्षणम् ॥ ५७७ अपाङ्गदर्शनं काक्षः कटाक्षोऽक्षिविकृणितम् । स्यादुन्मीलनमुन्मेषो निमेषस्तु निमीलनम् ॥ ५७८ अक्ष्णोर्वाह्यान्तावपाडौ भ्रा रोमपद्धतिः । सकोपभ्रूविकारे स्याद्भभ्रुभ्रूभूपरा कुटिः ॥ ५७९ कूच कूपं ध्रुवोर्मध्ये पक्ष्म स्यान्नेत्ररोमणि। गन्धज्ञा नासिका नासा घ्राणं घोणा विकूणिका ॥ ५८० नक्रं नर्कुटकं शिविन्योष्ठोऽधरो रदच्छदः । दन्तवस्त्रं च तत्प्रान्तौ सृक्वणी असिकं त्वधः ।। ५८१
असिकाधस्तु चिबुकं स्याद्गल्लः सृक्कणः परः । गल्लात्परः कपोलश्च परो गण्डः कपोलतः ॥ ५८२ । ततो हनुः श्मश्रु कूर्चमास्यलोम च मासुरी । दाढिका दंष्ट्रिका दाढा दंष्ट्रा जम्भो द्विजा रदाः५८३ रदना दशना दन्ता दंशवादनमल्लकाः । राजदन्तौ तु मध्यस्थावुपरिश्रेणिकौ क्वचित् ॥ ५८४ रसज्ञा रसना जिह्वा लोला तालु तु काकुदम् । सुधास्रवा घण्टिकाचलम्बिका गलशुण्डिका ।।५८५
१. पण्डुरपि. २. चिहुराः. ३. शब्दग्रहोपि. ४. विलोचनमपि. ५. तारकापि, ६. तेन 'भ्रकुटिः' इत्यादयः, ७. द्राढिकापि,
For Private and Personal Use Only
Page #37
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिधानसंग्रहः-६ अभिधानचिन्तामणिः । कंधरा धमनिीवा शिरोधिश्च शिरोधरा । सा त्रिरेखा कम्बुग्रीवावटु_टा कृकाटिका ॥ ५८६ कृकस्तु कंधरामध्यं कृकपाौँ तु वीतनौ । ग्रीवाधमन्यौ प्राग्नीले पश्चान्मन्ये कलम्बिके ॥ ५८७ ‘गलो निगरणः कण्ठः काकलकस्तु तन्मणिः । अंसो भुजशिरः स्कन्धो जत्रु संधिरुरोंऽसगः ॥५८८ भुजो वाहुः प्रवेष्टो दो हाथ भुजकोटरः । दोर्मूलं खण्डिकः। कक्षा पार्श्व स्यादेतयोरधः ॥ ५८९ कफोणिस्तु भुजामध्यं कफणिः कूपरश्च सः । अधस्तस्या मणिबन्धात्प्रकोष्टः स्यात्कलाचिका ॥५९० प्रगण्डः कूर्परासान्तः पञ्चशाखः शयःशमः । हस्तः पाणिः करस्यादौ मणिबन्धो मणिश्च सः ॥५९१ करभोऽस्मादाकनिष्ठं करशाखाङ्गुली समे । अङ्गुरिश्चाङ्गुलोऽङ्गुष्टस्तर्जनी तु प्रदेशिनी ॥ ५९२ ज्येष्ठा तु मध्यमा मध्या सावित्री स्यादनामिका । कनीनिका तु कनिष्ठावहस्तो हस्तपृष्टतः ॥ ५९३ कामाशो महाराजः करजो नखरो नखः । करशूकोभुजाकण्टः पुनर्भवपुनर्नवौ ॥ ५९४ प्रदेशिन्यादिभिः सार्धमङ्गुष्ठे वितते सति । प्रादेशतालगोकर्णवितस्तयो यथाक्रमम् ॥ ५९५ प्रसारिताङ्गुलौ पाणौ चपेटः प्रतलस्तलः । प्रहस्तस्तालिकस्तालः सिंहतालस्तु तौ युतौ ॥ ५९६ संपिण्डिताङ्गुलिः पाणिर्मुष्टिर्मुस्तुर्मुचुट्यपि । संग्राहश्चार्धमुष्टिः स्यात्खटकः कुब्जितः पुनः ॥ ५९७ पाणिः प्रसृतः प्रमृतिस्तौ युताव अलिः पुनः । प्रसृते तु जलाधारे गण्डूषश्रुलुकश्चलुः ।।०५९८ हस्तः प्रामाणिको मध्येमध्यमाङ्गुलिकूपरम् । बद्धमुष्टिरसौ रनिररत्निनिष्कनिष्ठिकः।। ५९९ व्यामव्यायामन्यग्रोधास्तिर्यग्बाहू प्रसारितौ । ऊर्वीकृतभुजापाणिनरमानं तु पौरुषम् ॥ ६०० दन्नद्वयसमात्रास्तु जान्वादेस्तत्तदुन्मिते । रीढकः पृष्टवंशः स्यात्पृष्ठं तु चरमं तनोः॥ ६०१ पूर्वभाग उपस्थोऽङ्कः क्रोड उत्सङ्ग इत्यपि।। क्रोडोरो हृदयस्थानं वक्षो वत्सो भुजान्तरम् ॥ ६०२ स्तनान्तरं हृदयं स्तनौ कुचौ पयोधरौ । उरोजौ च चूचुकं तु स्तनान्तशिखामुखाः ।। ६०३ तुन्दं तुन्दिगर्भकुक्षी पिचण्डो जठरोदरे । कालखण्डं कालखनं कालेयं कालकं यकृत् ॥ ६०४ दक्षिणे तिलकं क्लोम वामे तु रक्तफेनजः । पुष्पसः स्यादथ प्लीहा गुल्मोऽत्रं तु पुरीतति ॥ ६०५ रोमावली रोमलता नाभिः स्यात्तुन्दकृपिका । नाभेरधो मूत्रपुटं वस्तिमूत्राशयोऽपि च ॥ ६०६ मध्योऽवलग्नं विलग्नं मध्यमोऽथ कटः कटिः । श्रोणिः कलत्रं कटीरंकाञ्चीपदं ककुद्मती ॥ ६०७ नितम्बारोही स्त्रीकट्याः पश्चाज्जधनमग्रतः । त्रिकं वंशाधस्तत्पार्श्वकूपको तु कुकुन्दरे॥ ६०८ पूतौ स्फिजौ कटिप्रोथौ वराङ्गं तु च्युतिर्बुलिः । भगोऽपत्यपथो योनिः स्मरान्मन्दिरकूपिके ॥ ६०९ स्त्रीचिह्नमथ पुंश्चिह्न मेहनं शेपशेपसी । शिश्नं मेढ़ः कामलता लिङ्गं च द्वयमप्यदः ॥ ६१० गुह्यप्रजननोपस्था गुह्यमध्यं गुलो मणिः । सीवनी तदधःसूत्रं स्याँदण्डं पेलमण्डकः ॥ ६११ मुष्कोऽण्डकोषो वृषणोऽपानं पायर्गदं च्युतिः। अधोमर्म शकृहारं त्रिबलीकवली अपि ॥ ६१२ विटपं तु महावीज्यमन्तरा मुष्कवङ्क्षणम् । अरुसंधिर्वणः स्यात्सक्थ्यूरुस्तस्य पर्व तु॥ ६१३ जानुर्नलकीलोऽष्टीवान्पश्चाद्भागोऽस्य मन्दिरः । कपोली त्वग्रिमो जङ्घा प्रमृता नलकिन्यपि ॥६१४ प्रतिजङ्घा त्वग्रजङ्घा पिण्डिका तु पिचण्डिका । गुल्फस्तु चरणग्रन्थिर्युटिको घुण्टको घुटः ॥ ६१५ चरणः क्रमणः पादः पदंहिँश्चलनः क्रमः । पादमूलं गोहिरं स्यात्पाणिस्तु घुटयोरधः ॥ ६१६ पादाग्रं प्रपदं क्षिप्रं त्वङ्गुष्ठाङ्गुलिमध्यतः । कूर्च क्षिप्रस्योपयह्रिस्कन्धः कूर्चशिरः समे ॥ ६१७
१. कुर्परोऽपि. २. संहताल इत्यपि. ३. चलुकोऽपि. ४. यौगिकत्वादुरसिजवक्षोजादयः. ५. स्तनशब्दस्य वृ न्तादिभिरन्वयः. ६. तेन स्मरमन्दिरं, स्मरपिका. ७. आण्डोऽपि. ८. पेलकोऽपि. ९. अङ्गिरपि.
For Private and Personal Use Only
Page #38
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ मर्त्यकाण्डः ।
६१८
६२३
६२४
६३०
तलहृदयं तु तलं मध्ये पादतलस्य तत् । तिलकः कालकः पिल्लुर्जडुलस्तिलकालकः ॥ रसासृङ्मांसमेदोऽस्थिमज्जशुक्राणि धातवः । सप्तैव दश वैकेषां रोमत्वक्स्नायुभिः सह || ६१९ ग्स आहारतेजोऽग्निसंभवः षड्रसासवः | आत्रेयोऽसृकरो धातुर्घनमूल महापरः || रक्तं रुधिरमाग्नेयं विस्रं तेजोभवं रसात् । शोणितं लोहितमसृक्वासिष्टं प्राणदासुरे ॥ क्षतजं मांसकार्यस्रं मांसं पललजाङ्गले । रेक्तात्तेजोभवे क्रव्यं काश्यपं तरसामिषे | मेदस्कृत्पिशितं की पलं पेश्यस्तु तल्लताः । वुक्का हृद्धृदयं वृका सुरसं च तदग्रिमम् ॥ शुष्कं वल्लूरमुत्तप्तं पूर्यदृष्ये पुनः समे । मेदोऽस्थिद्वपा मांसात्तेजोजे गौतमं वसा । मां स्व गोदं तु मस्तकस्नेहो मस्तिष्को मस्तुलुङ्गकः । अस्थि कुल्यं भारद्वाजं मेदस्तेजश्च मज्जकृत् ।। ६२५ मांसपित्तं वदतिं कर्करो देहधारकम् । मेदोजं कीकसं सारं करोटिः शिरसोऽस्थनि ॥ ६२६ कपालकर्परौ तुल्यौ पृष्ठस्यास्थि कैशेरुका । शाखास्थनि स्यान्नलकं पार्श्वास्थि वर्शिके ॥ ६२७ शरीरास्थि करङ्गः स्यात्कङ्काल स्थिपञ्जरः । मज्जा तु कौशिकः शुक्रकरोऽस्थः स्नेहसंभवौ ||६२८ शुक्रं रेतो बलं वीर्य बीजं मज्जसमुद्भवम् । आनन्दप्रभवं पुंस्त्वमिन्द्रियं किट्टवर्जितम् ॥ ६२९ पौरुषं प्रधानधातुर्लोम रोम तनूरुहम् । वछविछादनी कृत्तिञ्चर्माजिनमसृग्धरा || वनसा तु नसास्नायुर्नाड्यो धमनयः शिराः । कण्डरा तु महास्नायुर्मलं किटं तदक्षिणम् ॥ ६३१ दूषीका दूषिका जै कुलुकं पिप्पिका पुनः । दन्त्यं कार्ण तु पिञ्जूषः शिङ्खाणो घ्राणसंभवम् ॥ ६३२ सृणीका स्यन्दिनी लालास्यासवः कफकूर्चिका । मूत्रं बस्तिमलं मेहः प्रस्रावो नृजलं स्रवः ॥ ६३३ पुष्पिका तु लिङ्गमविष्ठावरकरः शकृत् । गूथं पुरीषं शमलोच्चारौ वर्चस्कर्वर्चसी । ६३४ वेषो नेपथ्यमाकल्पः परिकर्माङ्गसंस्क्रिया । उद्वर्तनमुत्सादनमङ्गरागो विलेपनम् ॥ X ६३५ चर्चिक्यं समालभनं चर्चा स्यान्मण्डनं पुनः । प्रसाधनं प्रतिकर्म माष्टिः स्यान्मार्जना मृजा || ६३६ वासयोगस्तु चूर्ण स्यात्पष्टातः पटवासकः । गन्धमाल्यादिना यस्तु संस्कारः सोऽधिवासनम् || ६३७ निर्वेश उपभोगः स्यात्स्नानं सवनमाप्लवः । कर्पूरागुरुककोलकस्तूरीचन्दनद्रवैः ॥13 स्याद्यक्षकर्दमो मिश्रैर्वर्तिर्गात्रानुलेपनी । चन्दनागुरुकस्तूरीकुङ्कुमैस्तु चतुःसमम् ॥ अरु राजा लोहं कृमिजवंशिके । अनार्यजं जोङ्गिकं च मङ्गल्यामल्लिगन्धि यत् ॥ कालागुरुः कालतुण्डः श्रीखण्डो रोहणद्रुमः । गन्धसारो मलयजश्चन्दने हरिचन्दने ॥२६४१ तैलपर्णिक गोशीर्षौ पत्राङ्गं रक्तचन्दनम् | कुचन्दनं ताम्रसारं रञ्जनं तिलपर्णिका || ६४२ जातिकोशं जातिफलं कर्पूरो हिमवालुका | बनसारः सिताभ्रश्च चन्द्रोऽथ मृगनाभिजा || ६४३० मृगनाभिर्मृगमद: कस्तूरी गन्धधूल्यपि । कश्मीरजन्म घुसृणं वर्ण लोहितचन्दनम् || वल्कं कुङ्कुमं वह्निशिखं कालेयजागुडे । संकोचपिशुनं रक्तं धीरं पीतनदीपने ॥ लवङ्गं देवकुसुमं श्रीसंज्ञमथ कोलकम् । ककोलकं कोशफलं कोलीयकं तु जापकम् ॥ यक्षधूषो बहुरूपः सालवेष्टोऽग्निबल्लभः । सर्जमणिः सर्जरसो रालः सर्वरसोऽपि च ॥
६३८
६३९
६४०
६४४
For Private and Personal Use Only
}
२७
६२०
६२१
६२२
६४५
६४६
६४७
१. तेन घनधातु:, मूलधातुः, महाधातुः २ तेन रसतेज:, रसभवम्. ३. तेन रक्ततेजः, रक्तभवम्. ४. तेन मांसतेज:, मांसजम्. ५. कशारुका. ६. तेन अस्थिस्नेहः, अस्थिसंभवः ७. नाडिरपि. ८. अशुचि च ९. आ लोsपि. १०. वाह्निकमपि ११. संकोचं पिशुनम् इति नामद्वयमपि १२. कालानुसार्यमपि,
Page #39
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८
अभिधानसंग्रहः-६.अभिधानचिन्तामणिः । धपो वृक्षात्कृतिमाच तुरुष्कः सिल्हपिण्डकौ । पायसस्तु वृक्षधूपः श्रीवासः सरलद्रवः ॥ ६४८ स्थानात्स्थानान्तरं गच्छन्धूपो गन्धपिशाचिका । स्थासकस्तु हस्तबिम्बमलंकारस्तु भूषणम् ॥६४९ परिष्काराभरणे च चूडामणिः शिरोमणिः । नायकस्तरलो हारान्तर्मणिमुकुटं पुनः ॥ ६५० मौलिः किरीटकोटीरमुष्णीषं पुष्पदाम तु । मूनि माल्यं माला स्रक्स्वगर्भकः केशमध्यगम् ॥ ६५१ प्रभ्रष्टकं शिखालम्बि पुरोन्यस्तं लैंलामकम् । तिर्यग्वक्षसि वैकक्षं प्रालम्बमृजुलम्बि यत् ॥ ६५२ संदर्भो रचना गुम्फः सन्थनं ग्रन्थनं समाः। तिलके तमालपत्रचित्रपुण्ड्रविशेषकाः ॥ ६५३ आपीडशेखरोत्तंसाः वतंसाः शिरसः सजि । उत्तरौ कर्णपूरेऽपि पत्रलेखा तु पत्रतः॥ ६५४ भङ्गिवल्लीलताङ्गुल्यः पत्रपाश्या ललाटिका । वालपाश्या पारितथ्याकर्णिका कर्णभूषणम् ॥ ६५५ ताडङ्कस्तु ताडपत्रं कुण्डलं कर्णवेष्टकः । उक्षिप्तिका तु कर्णान्दुर्खालीका कर्णपृष्ठगा॥ ६५६ प्रैवेयकं कण्ठभूषा लम्बमाना ललम्बिका । प्रालम्बिका कृता हेनोरःसूत्रिका तु मौक्तिकैः ॥ ६५७ हारो मुक्तातःप्रालम्बस्रकलापावलीलता । देवच्छन्दः शतं साष्टं विन्द्रच्छन्दःसहस्रकम् ॥ ६५८ तद(विजयच्छन्दो हारस्त्वष्टोत्तरं शतम् । अर्ध रश्मिकलापोऽस्य द्वादश वर्धमाणवः ॥ ६५९ द्विादशार्धगुच्छः स्यात्पश्च हारफलं लताः । अर्धहारश्चतुःषष्टिर्गुच्छमाणवमन्दराः ॥ ६६० अपि गोस्तनगोपुच्छावर्धमधु यथोत्तरम् । इति हारायष्टिभेदादेकावल्येकयष्टिका ॥ कण्ठिकाप्यथ नक्षत्रमाला तत्संख्यमौक्तिकैः ।। केयूरमङ्गदं बाहुभूषाथ करभूषणम् ॥ ६६२ कटको वलयं पारिहार्यावापौ तु कङ्कणम्।। हस्तसूत्रं प्रतिसर ऊर्मिका त्वङ्गुलीयकम् ॥ ६६३ साक्षराङ्गलिमुद्रा सा कटिसूत्रं तु मेखला । कलापो रशना सा रसनं काञ्ची च सप्तकी॥ ६६४ सा शृङ्खलं पुंस्कटीस्था किंकिणी क्षुद्रघण्टिका।। नूपुरं तु तुलाकोटिः पादतः कटकाङ्गदे ॥ ६६५ मञ्जीरं हंसकं शिञ्जिन्यंशुकं वस्त्रमम्बरम् । सिचयो वसनं चीराच्छादौ सिक्चेलवाससी ॥ ६६६ पटः प्रोतोऽञ्चलोऽस्यान्तो वर्तिर्वस्तिश्च तद्दशाः । पत्रोण धौतकौशेयमुष्णीषो मूर्धवेष्टनम् ॥ ६६७ तत्स्यादुद्गमनीयं यद्धौतयोर्वस्त्रयोयुगम् । त्वक्फलकृमिरोमभ्यः संभवत्वाच्चतुर्विधम् ॥ क्षौमकार्पासकौशेयराङ्कवादिविभेदतः । क्षौमं दुकूलं दुगूलं स्यात्कार्पासं तु बादरम् ॥ ६६९ कौशेयं कृमिकोशोत्थं राङ्कवं मृगरोमजम् । कम्बलः पुनरुर्णायुराविकौरभ्ररल्लकाः ॥ नवं वासोऽनाहतं स्यात्तत्रकं निष्प्रवाणि च । प्रच्छादनं प्रावरणं संव्यानं चोत्तरीयकम् ॥ ६७१ वैकक्षे प्रावारोत्तरासङ्गौ बृहतिकापि च । वराशिः स्थूलशाटः स्यात्परिधानं त्वधोंशुकम् ॥ ६७२ अन्तरीयं निवसनमुपसंव्यानमित्यपि । तद्ग्रन्थिरुच्चयो नीवीवरख्योरुकांशुकम् ॥ चण्डातकं चलनकं चलनी वितरस्त्रियाः । चोलः कञ्चलिका कूर्पासकोङ्गिका च कचुके ॥ ६७४ शाटी चोट्यथ नीशारो हिमवातापहांशुके । कच्छा कच्छाटिका कक्षा परिधानापराञ्चले ॥ ६७५ कक्षापटस्तु कौपीनं समौ नक्तककर्पटौ । निचोल: प्रच्छदपटो निचुलश्चोत्तरच्छदे ॥ ६७६ उत्सवेषु सुहृद्भिर्यद्वलादाकृष्य गृह्यते । वस्त्रमाल्यादि तत्पूर्णपात्रं पूर्णानकं च तत् ॥ ६७७ तत्तु स्यादाप्रपदीनं व्याप्नोस्याप्रपदं हि यत् । चीवरं भिक्षुसंघाटी जीर्णवस्त्रं पटचरम् ॥ ६७८
१. तेन वृक्षधूपः, कृत्रिमधूपः. २. यावनोऽपि. ३. चूडारत्नशिरोरत्ने अपि. ४. ललाम नान्तमदन्तं च. ५. चित्रकमपि. ६. उत्तंसावतंसौ. ७. तेनत्पत्रभङ्गिः, पत्रवलिः, पत्राङ्गुलिः; एवं पत्रवल्लरी-पत्रमञ्जरीत्यादयोऽपि. ८. मुक्ताशब्दात्परं प्रालम्बादिलतान्ताः. ९. परिहार्यमपि. १०. कङ्कणीत्येके. ११. पादकटकम्, पादाङ्गदम.
६७०
For Private and Personal Use Only
Page #40
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ मर्त्यकाण्डः।
शाणी गोणी छिद्रवस्त्रे जलार्द्रा क्लिन्नवाससि । पर्यस्तिकापरिकरः पर्यश्वावसक्थिका ॥ ६७९ कुथे वर्णपरिस्तोमप्रवेणीनवतास्तराः । अपटी काण्डपटः स्यात्प्रतिसीरा जैवन्यपि ॥ ६८० तिरस्करिण्यथोल्लोचो वितानं कदकोऽपि च । चन्द्रोदये स्थुलं दूष्ये केणिका पटकुट्यपि ॥ ६८१ गुणलयनिकायां स्यात्संस्तरस्रस्तरौ समौ,। तल्पं शय्या शयनीयं शयनं तलिनं च तत् ॥ १६८२ मञ्चमश्चकपर्यङ्कपल्यङ्काः खट्या समाः । उच्छीर्षकमुपाद्धानवौंपाले पतग्रहः ॥ ६८३ प्रेतिमाहे. मुकुरात्मदर्शादर्शास्तु दर्पणे । स्याद्वेत्रासनमासन्दी विष्टरः पीठासनम् ॥ ६८४ कसिपुर्भोजनाच्छादावौशिरंशयनाशने । लाक्षा दुमामयो राक्षा रङ्गमाता पलंकषा ॥ ६८५ जतु क्षतना कृमिजा यावालक्तौ तु तद्रसः । अञ्जनं कज्जलं दीपः प्रदीपः कज्जलध्वजः ॥ ६८६. स्नेहप्रियो गृहमणिर्दशाकर्षों दशेन्धनः । व्यजनं तालवृन्तं तद्धवित्रं मृगचर्मणा ॥ ६८७ 'आलावतं तु वस्त्रस्य कङ्कतः केशमार्जनम् । प्रसाधनश्चाथ बालक्रीडनके गुडो गिरिः ॥ ६८८ गिरियको गिरिगुडः समौ कन्दुकगेन्दुकौ।। राजा राथिवीशक्रमध्यलोकेशभूभृतः ॥ ६८९ महीक्षित्पार्थिवो मूर्धाभिषिक्तो भूप्रजानृपः । मध्यमो मण्डलाधीशः स सम्राट् शास्ति यो नृपान ६९० यः सर्वमण्डलस्येशो राजसूयं च योऽजयत् । चक्रवर्ती सार्वभौमस्ते तु द्वादश भारते ॥ ६९१ आर्षभिर्भरतस्तत्र सगरस्तु सुमित्रभूः । मघवा वैजयिरथाश्वसेननृपनन्दनः ॥ सनत्कुमारोऽथ शान्तिः कुन्थुररो जिना अपि । सुभूमस्तु कार्तवीर्य पद्मः पद्मोत्तरात्मजः ॥ ६९३ हरिषेणो हरिसुतो जयो विजयनन्दनः । ब्रह्मसूनुर्ब्रह्मदत्तः सर्वेऽपीक्ष्वाकुवंशजाः ॥१ ,६९४ प्रजापत्यस्त्रिपृष्ठोऽथ द्विपृष्ठो ब्रह्मसंभवः । स्वयंभू रुद्रतनयः सोमभूः पुरुषोत्तमः ॥ ६९५ शैवः पुरुषसिंहोऽथ महाशिरःसमुद्भवः । स्यात्पुरुषपुण्डरीको दत्तोऽमिसिंहनन्दनः ॥ ६९६ नारायणो दाशरथिः कृष्णस्तु वसुदेवभूः । वासुदेवा अमी कृष्णा नव शुक्ला बलास्त्वमी ॥ ६९७९. अचलो विजयो भद्रः सुप्रभश्च सुदर्शनः । आनन्दो नन्दनः पद्मो रामो विष्णुद्विषस्त्वमी ॥ ६९८६ अश्वग्रीवस्तारकश्च मेरको मधुरेव च । निशुम्भबलिप्रल्हादलङ्केशमगधेश्वराः ॥ ६९९ जिनैः सह त्रिषष्टिः स्युः शलाकापुरुषा अमी । आदिराजः पृथुर्वैन्यो मांधाता युवनाश्वजः ॥७०० धुन्धुमारः कुवलाश्वो हरिश्चन्द्रस्त्रिशङ्कजः । पुरूरवा वौध ऐल उर्वशीरमणश्च सः॥ ७०१ दौष्यन्तिर्भरतः 'सेवैदमः शकुन्तलात्मजः । हैहयस्तु कार्तवीर्यो दोःसहस्रभृदर्जुनः॥ ७०२ कौशल्यानन्दनो दाशरथी रामोऽस्य तु प्रिया । वैदेही मैथिली सीता जानकी धरणीसुता ॥ ७०३ रामपुत्रौ कुशलवावेकयोक्त्या कुशीलवौ । सौमित्रिलक्ष्मणो वाली वालिरिन्द्रसुतश्च सः ।। ७०४ आदित्यसूनुः सुग्रीवो हनुमान्वज्रकङ्कटः । मारुतिः केसरिसुत आञ्जनेयोऽर्जुनध्वजः॥ ७०५ पौलस्त्यो रावणो रक्षो लड्देशो देशकंधरः । रावणिः शक्रजिन्मेघनादो मन्दोदरीसुतः ॥ ७०६ अजातशत्रुः शल्यारिधर्मपुत्रो युधिष्टिरः । कोऽजमीढो भीमस्तु मरुत्पुत्रो वृकोदरः॥ ७०७
१. पल्यङ्कोऽपि. २. यमनीत्यपि. ३. प्रस्तरोऽपि. ४. तेन उपधानम्, उपबर्हः. ५. प्रतिग्रहोऽपि. ६. पतवाहोऽपि. ७. गिरिकोऽपि. ८. गिरीयकोऽपि. ९. गेण्डुकोऽपि. १०. मूर्धावसिक्तोऽपि. ११. 'प'शब्दस्य 'भू'प्रभृतिनान्वयः; यौगिकत्वात् भूपालः, लोकपालः, नरपालः, इत्यादयः. १२. सर्वदमनोऽपि. १३. सुग्रीवाग्रजोऽपि. १४. हनूमानपि. १५. 'ईशशब्दस्य रक्षसाप्यन्वयः; यौगिकत्वात् राक्षसेशः, लङ्कापतिः. १६. दशास्य-दशशिरोदशकण्ठा अपि.
For Private and Personal Use Only
Page #41
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिधानसंग्रहः-६ अमिधानचिन्तामणिः । किर्मीरकीचकवकहिडम्बानां निसूदनः । अर्जुनः फाल्गुनः पार्थः सव्यसाची धनंजयः ॥ ७०८ राधावेधी किरिट्येन्द्रिजिष्णुः श्वेतहयो नरः । बृहन्नलो गुडाकेशः सुभद्रेशः कपिध्वजः ॥ ७०९ वीभत्सः कर्णजित्तस्य गाण्डीवं गाण्डिवं धनुः । पाञ्चाली द्रौपदी कृष्णा सैरंध्री नित्ययौवना ।।७१० वेदिजा याज्ञसेनी च कर्णश्चम्पाधिपोऽङ्गराट् । राधासुतोऽर्कतनयः कालपृष्ठं तु तद्धनुः॥ ७११ श्रेणिकस्तु भंभासारो हालः स्यात्सोतवाहनः । कुमारपालश्चौलुक्यो राजर्षिः परमार्हतः ॥ ७१२ मृतवमोक्ता धर्मात्मा मारिव्यसनवारकः । गजबीजी राजवंश्यो बीजवंश्यौ तु वंशजे ॥ ७१३ स्वाम्यमात्यः सुहृत्कोशो राष्ट्रदुर्गबलानि च । राज्याङ्गानि प्रकृतयः पौराणां श्रेणयोऽपि च ॥ ७१४ तनं खराष्ट्रचिन्ता स्यादावापस्त्वरिचिन्तनम् । परिस्पन्दः परिकरः परिवारः परिग्रहः ॥ ७१५ परिच्छदः परिबर्हस्तत्रोपकरणे अपि । राजशय्या महाशय्या भद्रासनं नृपासनम् ॥ ७१६ सिंहासनं तु तद्वैमं छत्रमातपवारणम् । चामरं बालव्यजनं रोमगुच्छः प्रकीर्णकम् ॥ ७१७ स्थगी ताम्बूलकरङ्को भृङ्गारः कनकालुका । भद्रकुम्भः पूर्णकुम्भः पादपीठं पदासनम् ॥ ७१८ अमात्यः सचिवो मत्री धीसखः सामवायिकः । नियोगी कर्मसचिव आयुक्तो व्यापृतश्च सः॥७१९ द्रष्टा तु व्यवहाराणां प्राड्विाकोऽक्षदर्शकः । महामात्रः प्रधानानि पुरोधास्तु पुरोहितः ॥ ७२० सौवस्तिकोऽथ द्वारस्थः क्षत्ता स्याहारपालकः । दौवारिकः प्रतीहारो वेव्युत्सारकदण्डिनः ॥ ७२१५ रक्षिवर्गेऽनीकस्थः स्यादध्यक्षाधिकृतौ समौ । पौरोगवः सदाध्यक्षः सूदस्खौदनिको गुणः ॥ ७२२ भक्तकारः सूपकारः सूपारालिकवल्लवाः । भौरिकः कनकाध्यक्षो रूप्याध्यक्षस्तु नैष्किकः ॥ ७२३ स्थानाध्यक्षः स्थानिकः स्याच्छुल्काध्यक्षस्तु शौल्किकः। शुल्कस्तु घट्टादिदेयं धर्माध्यक्षस्तु धार्मिकः७२४ धर्माधिकरणी चाथ हट्टाध्यक्षोऽधिकर्मिकः । चतुरङ्गबलाध्यक्षः सेनानीर्दण्डनायकः ॥ ७२५ स्थायुकोऽधिकृतो ग्रामे गोपो ग्रामेषु भूरिषु । स्यातामन्तःपुराध्यक्षेऽन्तर्वशिकावरोधिकौ ॥ ७२६ शुद्धान्तः स्यादन्तःपुरमवरोधोऽवरोधनम्।। सौविदल्ला कक्षुकिनः स्थापत्याः सौविदाश्च ते ॥ ७२७ पण्ढे वर्षवरः शत्रौ प्रतिपक्षः परो रिपुः । शात्रवः प्रत्यवस्थाता प्रत्यनीकोभियात्यरी ॥ ७२८
दस्युः सपत्नोऽसहनो विपक्षो द्वेषी द्विषन्वैर्यहितो जिघांसुः । दुहृत्परेः पन्थकपन्थिनौ द्विट्प्रत्यर्थ्यमित्रावभिमात्यराती॥
७२९ वैरं विरोधो विद्वेषो वयस्यः सवयाः सुहृत् । स्निग्धः सहचरो मित्रं सखा सख्यं तु सौहृदम् ॥ ७३० सौहार्दै साप्तपदीनमैत्रयजर्याणि संगतम् । आनन्दनं लाप्रच्छनं स्यात्सभाजनमित्यपि ॥ ७३१ विषयानन्तरो गजा शत्रुमित्रमतः परम् । उदासीनः परतरः पाणिग्राहस्तु पृष्टतः ॥ अनुवृत्तिस्त्वनुरोधो हेरिको गूढपूरुषः । प्रणिधिर्यथाहवर्णोऽवसर्पो मत्रविच्चरः ॥ वायनः स्पशश्चार आप्तप्रत्ययितौ समौ । सत्रिणि स्यागृहपतिर्दूत संदेशहारकः ॥ ७३४ संधिविग्रहयानान्यासनद्वैधाश्रया अपि । षड्गुणाः शक्तयस्तिस्रः प्रभुत्वोत्साहमबजाः ॥ ७३५ सामदानभेददण्डा उपायाः साम सान्त्वनम् । उपजापः पुनर्भेदो दण्डः स्यात्साहसं दमः ॥ ७३६
१. 'निसूदन'पदस्य किरीरेणाप्यन्वयः; यौगिकत्वात् किर्मारारित्यादयोऽपि. २. बीभत्सुरपि. ३. यौगिकत्वात् कर्णारिरित्यादयोऽपि. ४. यौगिकत्वात् राधेय इत्यादयोऽपि. ५. सालवाहनोऽपि. ६. परिजनोऽपि. ७. टङ्कपतिरपि. ८. आन्तःपुरिकोऽपि. ९. तेन परिपन्थकः; परिपन्थी.
For Private and Personal Use Only
Page #42
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ मर्त्यकाण्डः। प्राभृतं ढौकनं लम्बोत्कोचः कौशलिकामिषे । उपाञ्चारः प्रदानं दा हारो ग्राह्यायने अपि ॥ ७३७ मायोपेक्षेन्द्रजालानि क्षुद्रेपाया इमे त्रयः । मृगयाक्षः स्त्रियः पानं वाक्पारुष्यार्थदूषणे ॥ ७३८ दण्डपारुष्यमित्येतद्धेयं व्यसनसप्तकम् । पौरुषं विक्रमः शौर्य शौटीर्य च पराक्रमः ॥ :७३९ यत्कोषदण्ड तेजः स प्रभावः प्रतापवत् । भिया धर्मार्थकामैश्च परीक्षा या तु सोपधा ॥ ७४० तन्मन्त्राद्यषडक्षीणं यत्तृतीयाद्यगोचरः । रहस्यालोचनं मत्रो रहश्छन्नमुपह्वरम् ॥ ७४१ विविक्तविजनैकान्तनिःशलाकानि केवलम् । गुह्ये रहस्यं न्यायस्तु देशरूपं समञ्जसम् ॥ ७४२ कल्याभ्रेषौ नयो न्याय्यं तूचितं युक्तसांप्रते । लभ्यं प्राप्तं भजमानाभिनीतोपयिकानि च ॥ ७४३ प्रक्रिया त्वधिकारोऽथ, मर्यादा धारणा स्थितिः । संस्थापराधस्तु मन्तुळलीकं विप्रियागसी ॥७४४ बलिः करो भागधेयो द्विपाद्यो द्विगुणो दमः । वाहिनी पृतना सेना बलं सैन्यमनीकिनी ॥ ७४५ कटकं ध्वजिनी तत्रं दण्डोऽनीकं पताकिनी । वरूथिनी चमूश्चक्रं स्कन्धावारोऽस्य तु स्थितिः७४६ शिबिरं रचना तु स्याद्वयूहो दण्डादिको युधि । प्रत्यासारो व्यूहपाणिः सैन्यपृष्टे प्रतिग्रहः ॥७४७ एकेभैकरथा व्यश्वा पत्तिः पञ्चपदातिका । सेना सेनामुखं गुल्मो वाहिनी पृताना चमः ॥ ७४८ अनिकिनी च पत्तेः स्यादिभ्याद्यैत्रिगुणैः क्रमात् । दशानिकिन्येऽक्षौहिणी सज्जनं तूपरक्षणम् ॥७४९ वैजयन्ती पुनः केतुः पैताका केतनं ध्वजः । अस्योञ्चूलावचूलाख्यावूर्वाधोमुखकूर्चकौ ॥ ७५० गजो वाजी रथः पत्तिः सेनाङ्गं स्याच्चतुर्विधम् । युद्धार्थे चक्रवद्याने शताङ्गः स्यन्दनो रथः ॥ ७५१ स क्रीडार्थः पुष्परथो देवार्थस्तु मरुद्रथः । योग्यो रथो वैनयिकोऽध्वरथःपरियानिकः ॥ ७५२ कर्णीरथः प्रवहणं डयनं रथगर्भकः । अनस्तु शकटोऽथ स्याद्गत्रीकम्बलिबाह्यकम् ॥ ७५३ अथ काम्बलवास्त्राद्यास्तैस्तैः परिवृते रथे । स पाण्डुकम्बली यः स्यात्संवीतः पाण्डुकम्बलैः ॥ ७५४ स तु द्वैपो वैयाघ्रश्च यो वृतो द्विपिचर्मणा । रथाङ्गं रथपादोऽरि चक्रं धारा पुनः प्रधिः ॥ ७५५ नेमिरक्षाग्रकीले खण्याणी नाभिस्तु पिण्डिका । युगंधरं कवरं स्यायुगमीशान्तबन्धनम् ॥ ७५६ युगकीलकस्तु शम्या प्रासङ्गस्तु युगान्तरम् । अनुकर्षो दार्वधःस्थं धुर्वी यानमुखं च धुः ॥ ७५७ रथगुप्तिस्तु वरूथो रथाङ्गानि त्वपस्कराः । शिबिका याप्ययानेऽथा दोला प्रेवादिका भवेत् ॥ ७५८ वैनीतकं परस्परावाहनं शिविकादिकम् । यानं युग्यं पत्रं वाह्यं वह्यं वाहनधोरणे ॥ : १६.१ ७५९ नियन्ता प्राजिता यन्ता सूतः सव्येष्ठुसारथी । दक्षिणस्थप्रचेतारौ क्षत्ता रथकुटुम्बिकः ॥ ७६० रथारोहिणि तु रथी रथिके रथिरो रथी अश्वारोहे त्वश्ववारः सादी च तुरगी च सः ॥ ७६? हस्त्यारोहे सादियन्तृमहामातृनिषादिनः आधोरणा हस्तिपकगजाजीवेभपालकाः ॥ ७६२ योद्धारश्च भटा योधाः सेनारक्षास्तु सैनिकाः । सेनायां ये समवेतास्ते सैन्याः सैनिका अपि ॥७६३ ये सहस्रेण योद्धारस्ते साहस्राः सहस्रिणः । छायाकर श्छत्रधारः पताकी वैजयन्तिकः ॥ ७६४ परिधिस्थः परिचर आमुक्तः प्रतिमुक्तवत् । अपिनद्धः पिनद्धोऽथ, संनद्धो व्यूढकङ्कटः ॥ ७६५ दंशितो वैर्मितः सज्जः संनाहो वर्म कङ्कटः । जगरः कवचं दंशस्तनुत्रं माठ्युर छदः ॥ ७६६५ निचोलकः स्यात्कूर्पासो वारवाणश्च कञ्चकः । सारसनं त्वधिकाङ्गहृदि धार्य सकचकैः॥ ७६७ शिरस्त्राणे तु शीर्षण्यं शिरस्कं शीर्षकं च तत् । नागोदमुदरत्राणं जङ्घात्राणं तु मत्कुणम् ।। ७६८
१. तेन उपचारः, उपप्रदानम, उपदा, उपहारः, उपग्राह्यः, उपापनम्, २. शिबिरमित्यन्ये. ३. पराकापि. ४. कवचितोऽपि. ५. तनुत्राणमपि. ६. अधियाङ्गमित्येके; धियाङ्गमित्यन्ये. ७. खोलमपि,
For Private and Personal Use Only
Page #43
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७७८
अभिधानसंग्रहः-६ अभिधानचिन्तामणिः । वाहुत्राणं बाहुलं स्याज्जालिका त्वङ्गरक्षणी । जालप्रायायसी स्यादायुधीयः शस्त्रजीविनि ॥ ७६९ काण्डपृष्ठायुधिकौ च तुल्यौ प्रासिककौन्तिकौ । पारश्वधिकस्तु पारश्वधः परश्वधायुधः ॥ ७७० स्यु३त्रिंशिकशाक्तीकयाष्टीकास्तत्तदायुधाः । तूणी धेनु दानुष्कः स्यात्काण्डीरस्तु काण्डवान्॥७७१ कृतहस्तः कृतपुङ्खः सुप्रयुक्तशरो हि यः । शीघ्रवेधी लघुहस्तोऽपराद्धेषुस्तु लक्ष्यतः ॥ ७७२ च्युतेषुर्दूरवेधी तु दुरापाल्यायुधं पुनः । हेतिः प्रहरणं शस्त्रमत्रं तच्च चतुर्विधम् ॥ ७७३ मुक्तं द्विधा पाणियन्त्रमुक्तं शक्तिशरादिकम् । अमुक्तं शस्त्रिकादि स्याद्यष्टथाद्यं तु द्वयात्मकम्॥७७४ धैनुश्वापोऽस्त्रमिष्वासः कोदण्डं धन्व कार्मुकम् । द्रुणासौ लस्तकोऽस्यान्तरग्रं त्वतिरटन्यपि ॥ ७७५ 'मौर्वी जीवा गुणो गव्या शिक्षा बाणासनं द्रुणा । शिञ्जिनी ज्या च गोधा तु तलं ज्याघातवारणम् ॥७७६ स्थानान्यालीढवैशाखप्रयालीढानि मण्डलम् । समपादं च वेध्यं तु लक्ष्यं लक्षं शरव्यकम् ॥ ७७७
बाणे पृषत्कविशिखौ खगगार्धपक्षी काण्डाशुगप्रदरसायकपत्रवाहाः ।।
पत्रीष्वजिह्मगशिलीमुखकङ्कपत्ररोपाः कलम्बशरमार्गणचित्रपुत्राः॥ प्रक्ष्वेडनः सर्वलोहो नाराच एषणश्च सः । निरस्तः प्रहिते बाणे विषाक्ते दिग्धलिप्तकौ ॥ ७७९ बाणमुक्तिर्व्यवच्छेदो दीप्ति।गस्य तीव्रता । क्षुरप्रतद्वलार्धेन्दुतीरामुख्यास्तु तद्भिदः ॥ ७८० पक्षो वाजः पत्रणा तन्न्यासः पुलस्तु कर्तरी । तूणो निषङ्गस्तूणीर उपासङ्गः शराश्रयः ॥ ७८१
शरधिः कलापोऽप्यथ चन्द्रहासः करवालनिस्त्रिंशकृपाणखगाः ।
तरवारिकौक्षेयकमण्डलाया असिरृष्टिरिष्टी त्सरुरस्य मुष्टिः ॥ .. ७८२ प्रत्याकारः परीवारः कोशः खड्गपिधानकम् । अडुनं फलकं चर्म खेटकावरणफंगः ॥ ७८३ अस्य मुष्टिस्तु संग्राहः क्षुरी छुरी कृपाणिका । शख्यसेर्धेनुपुत्र्यौ च पत्रपालस्तु सायता ॥ ७८४ दण्डो यष्टिश्च लगुडः स्यादीली करवालिका । भिन्दिपाले मृगः कुन्ते प्रासोऽथ द्रुघणो घन:७८५ मुद्गरः स्यात्कुठारस्तु परशुः पर्नुपर्श्वधौ । परश्वधः स्वधितिश्च पॅरिघः परिघातनः ॥ .. ७८६ सर्वला तोमरे शल्यं शङ्कौ शूलेत्रिशीर्षकम् । शक्तिपट्टिशदुःस्फोटचक्राद्याः शस्त्रजातयः ॥ ७८७ खुरली तु श्रमो योग्याभ्यासस्तद्भूः खलूरिका । सर्वाभिसारः सर्वोघः सर्वसंहननं समाः ॥ ७८८ लोहाभिसारो दशम्यां विधिर्नीराजनात्परः। प्रस्थानं गमनं व्रज्याभिनिर्याणं प्रयाणकम् ॥ ७८९ यात्राभिषेणनं तु स्यात्सेनयाभिगमो रिपौ । स्यात्सुहृद्वलमासारः प्रचक्रं चलितं बलम् ।। ७९० प्रसारस्तु प्रसरणं तृणकाष्ठादिहेतवे । अभिक्रमो रणे यानमभीतस्य रिपून्प्रति ॥ ७९१ अभ्यमियोऽभ्यमित्रीयोऽभ्यमित्रीणोऽभ्यरि ब्रजन् । स्यादुस्वानुरसिल उर्जस्व्युर्जस्वलौ समौ ॥७९२ सांयुगीनो रणे साधुर्जेता जिष्णुश्च जित्वरः । जय्यो यः शक्यते जेतुं जेयो जेतव्यमात्रके ॥ ७९३ वैतालिका बोधकरा अधिकाः सौखसुप्तिकाः । पाण्टिकाश्चाक्रिकाः सूतो बन्दी मङ्गलपाठकः ॥७९४ मागघो मगधः संशप्तका युद्धानिवर्तिनः । नग्नः स्तुतिव्रतस्तस्य ग्रन्थो भोगावली भवेत् ॥ ७९५
प्राणः स्थाम तरः पराक्रमबलद्युम्नानि शौर्योजसी
____ शुष्मं शुष्म च शक्तिरू सहसी युद्धं तु संख्यं कलिः । ३ १. निषङ्गीत्यपि. २. यौगिकत्वात् धनुर्धरः, धन्वी, धनुष्मानित्यादयः. ३. धनूरपि. ४. स्फरकोऽपि. ५. असिधेनुः, असिपुत्री. ६. तरवालिकेत्यन्ये. ७. पलिघोऽपि. ८. सौखशायनिक-सौखसुप्तिकावपि. ९. ऊर्गपि.
For Private and Personal Use Only
Page #44
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३ मर्त्यकाण्डः ।
संग्रामाहवसंप्रहारसमरा जन्यं युदायोधनं
'संस्फोट : कलहो मृधं प्रहरणं संयद्रणो विग्रहः ॥ द्वन्द्वं समाघातसमाह्वयाभिसंपातसंमर्द समित्प्रघाताः । आस्कन्दनाजिप्रधनान्यनीकमभ्यागमश्च प्रविदारणं च ||
Acharya Shri Kailassagarsuri Gyanmandir
३३
For Private and Personal Use Only
७९६
७९७
७९८
७९९
८००
८०२
८०३
८०४
८०५
समुदायः समुदयो राटिः समितिसंगरौ । अभ्यामर्द : संपरायः समीकं सांपरायिकम् | आक्रन्दः संयुगश्चाथ नियुद्धं तद्भुजोद्भवम् । पटहाडम्बरौ तुल्यौ तुमुलं रणसंकुलम् ॥ नासीरं त्वप्रयानं स्यादवमर्दस्तु पीडनम् । प्रपातस्त्वभ्यवस्कन्दो धाट्यभ्यासादनं च सः ॥ तद्रात्रौ सौप्तिकं वीराशंसनं त्वाजिभीष्मभूः । नियुद्धभूरक्षवाटो मोहो मूर्छा च कश्मलम् ॥ ८०१ वृत्ते भाविनि वा युद्धे पानं स्याद्वीरपाणकम् । पलायनमपयानं संदावद्रवविद्रवाः ॥ अपक्रमः समुत्प्रेभ्यो द्रावोऽथ विजयो जयः । पराजयो रणे भङ्गो डमरे डिम्बविप्लवौ ॥ वैरनिर्यातनं वैरशुद्धिर्वैरप्रतिक्रिया । बलात्कारस्तु प्रसभं हठोऽथ स्खलितं छलम् || परापर्यभितो भूतो जितो भग्नः पराजितः । पलायितस्तु नष्टः स्यादृहीतदिक्तिरोहितः ॥ जिताहवो जितकाशी प्रस्कन्नः पतितः समौ । चारः कारा गुप्तौ वन्द्यां ग्रहकः प्रापतो महः ||८०६ चातुर्वर्ण्य द्विजक्षत्रवैश्यशूद्रा नृणां भिदः । ब्रह्मचारी गृही वानप्रस्थो भिक्षुरिति क्रमात् ॥ ८०७ चत्वार आश्रमास्तत्र वर्णी स्याद्ब्रह्मचारिणि । ज्येष्ठाश्रमीगृहमेवी गृहस्थः स्नातको गृही ॥ ८०८ वैखानसो वानप्रस्थो भिक्षुः सांन्यासिको यतिः । कर्मन्दी रक्तवसनः परिव्राजकतापसौ ॥ ८०९ पाराशरी पारिकाङ्क्षी मस्करी पारिरक्षकः । स्थाण्डिलः स्थण्डिलशायी यः शेते स्थण्डिले व्रतात् ॥ ८१० तपःक्लेशसहो दान्तः शान्तः श्रान्तो जितेन्द्रियः । अवदानं कर्म शुद्धं ब्राह्मणस्तु त्रयीमुखः ॥ ८११ भूदेवो वाडवो विप्रो व्यग्राभ्यां जातिजन्मजाः । वर्णज्येष्ठः सूत्रकण्ठः षट्कर्मा मुखसंभवः ।। ८१२ वेदगर्भः शमीगर्भः सावित्री मैत्र एव सः । बटुः पुनर्माणवको भिक्षा स्याद्वासमात्रकम् ॥ ८१३ उपनाय स्तूपनयो बटूकरणमानयः । अग्नीन्धनं त्वग्निकार्यमग्नीना चाग्निकारिका ॥ पालाशो दण्ड आषाढो व्रते राम्भस्तु वैणवः । बैल्वः सारस्वतो रौच्यः पैलवस्त्वौपरोधिकः ॥ ८१५ आश्वत्थस्तु जितनेमिरौदुम्बर उलूखलः । जटा सटा वृषी पीठं कुण्डिका तु कमण्डलुः ॥ ८१६ श्रोत्रिय छान्दसो यष्टान्वादेष्टा स्यान्मखे व्रती । याजको यजमानश्च सोमयाजी तु दीक्षितः ॥ ८१७ इज्याशीलो यायजूको यज्वा स्यादासुतीबलः । सोमपः सोमपीथी स्यात्स्थपतिर्गीः पतीष्टिकृत् ॥ सर्ववेदास्तु सर्वस्वदक्षिणं यज्ञमिष्टवान् । यजुर्विदध्वर्युऋग्विद्धोतोद्गाता तु सामवित् ॥ यज्ञो यागः सवः सत्रं स्तोमो मन्युर्मखः क्रतुः । संस्तरः सप्ततन्तुश्च वितानं बर्हिरध्वरः ॥ अध्ययनं ब्रह्मयज्ञः स्याद्देवयज्ञ आहुतिः । होमो होत्रं वषट्कार: पितृयज्ञस्तु तर्पणम् ॥ तच्छ्राद्धं पिण्डदानं च नृयज्ञोऽतिथिपूजनम् । भूतयज्ञो बलिः पञ्च महायज्ञा भवन्त्यमी ॥ पौर्णमासश्च दर्शश्च यज्ञौ पक्षान्तयोः पृथक् । सौमिकी दीक्षिणीयेष्टिर्दीक्षा तु व्रतसंग्रहः || ८२३ वृत्तिः सुगहना कुम्बा वेदी भूमिः परिष्कृता । स्थण्डिलं चत्वरं चान्या यूपः स्याद्यज्ञकीलकः ||८२४ चालो यूपकटको यूपकर्णो घृतावनौ । यूपाग्रभागेस्यातर्मारणिर्निर्मन्थदारुणि || ८२५
८१४
1
८१८
८१९
८२०
८२१
८२२
१. संस्फेटोsपि. २. अवस्कन्दोऽपि. ३. द्रावशब्दस्य समादिभिरन्वयः, नशनमपि. ४. भूतशब्दस्य परादिभिरन्वयः ५. ग्रहशब्द: प्रादिनान्वेति ५. यग्रशब्दौ प्रत्येकं जात्यादिनान्वेति
५
Page #45
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३४
अभिधान संग्रह: -- ६ अभिधानचिन्तामणिः ।
८२८
1
८३४
८३५
८३६
८३७
८३८
८३९
८४०
८४१
स्युर्दक्षिणाहवनीय गार्हपत्यास्त्रयोऽग्नयः । इदमग्नित्रयं त्रेता प्रणीतः संस्कृतोऽनलः ॥ ऋक्सामिधेनी धाय्या च समिदाधीयते यया । समिदिन्धनमेधेध्मतर्पणैधांसि भस्म तु ॥ स्याद्भूतिर्भसितं रक्षा क्षारः पात्रं स्वादिकम् । स्रुवस्स्रुगधरा सोपभृज्जुहूः पुनरुत्तरा ॥ ध्रुवा तु सर्वसंज्ञार्थं यस्यामाज्यं निधीयते । योऽभिमन्त्रय निहन्येत स स्यात्पशुरुपाकृतः || ८२९ परम्पराकं शंसनं प्रोक्षणं च वधो मखे । हिंसार्थ कर्माभिचारः स्याद्यज्ञार्ह तु यज्ञियम् ॥ ८३० हविः सांनाय्यममिक्षा शृतोष्णक्षीरगं दधि । क्षीरशरः पयस्या च तन्मस्तुनि तु वाजिनम् ||८३१ हव्यं सुरेभ्यो दातव्यं पितृभ्यः कव्यमोदनम् । आज्ये तु दधिसंयुक्ते पृषदाज्यं पृषातकम् || ८३२ दध्ना तु मधुसंयुक्तं मधुपर्क महोदय: । हवित्री तु होमकुण्डं हव्यपाकः पुनश्वरुः ॥ ८३३ अमृतं यज्ञशेषे स्याद्विघसो भुक्तशेषके । यज्ञान्तोऽवभृथः पूर्त वाप्यादीष्टं मखक्रिया ॥ इष्टापूर्ते तदुभयं बर्हिर्मुष्टिस्तु विष्टरः | अग्निहोत्र्यग्निविञ्चाहिताग्नावथाग्निरक्षणम् || अग्न्याधानमग्निहोत्रं दर्वी तु घृतलेखनी । होमाग्निस्तु महाज्वालो महावीरः प्रववत् ॥ होमधूमस्तु निगणो होमभस्म तु वैष्टुतम् । उपस्पर्शस्त्वाचमनं धारसेकौ तु सेचनम् ॥ ब्रह्मासनं ध्यानयोगासनेऽथ ब्रह्मवर्चसम् । वृत्ताध्ययनर्द्धि: पाठे स्याद्ब्रह्माञ्जलिरञ्जलिः ॥ पाठे तु मुखनिःकान्ता विप्रुषो ब्रह्मबिन्दवः । साकल्यवचनं पारायणं कल्पे विधिक्रमौ ॥ मूलेऽङ्गुष्टस्य स्याद्वाहां तीर्थं कायं कनिष्ठयोः । पित्र्यं तर्जन्यङ्गुष्ठान्तर्देवतं लङ्गुलीमुखे ॥ ब्रह्मत्वं तु ब्रह्मभूयं ब्रह्मसायुज्यमित्यपि । देवभूयादिकं तद्वदथोपाकरणं श्रुतेः ॥ संस्कारपूर्वं ग्रहणं स्यात्स्वाध्याय: पुनर्जप: । औपवस्तं तूपवासः कृच्छ्रं सांतपनादिकम् ॥ 1 प्रायः संन्यास्यनशने नियमः पुण्यकं व्रतम् । चरित्रं चरिताचारौ चारित्रचरणे अपि ॥ वृत्तं शीलं च सर्वैनोध्वंसिजप्येऽघमर्षणम् । समास्तु पादग्रहणाभिवादनोपसंग्रहाः ॥ उपवीतं यज्ञसूत्रं प्रोद्धृते दक्षिणे करे । प्राचीनावीतमन्यस्मिन्निवीतं कण्ठलम्बितम् ॥ प्राचेतसस्तु वाल्मीकिर्वल्मीककुशिनौ केविः । मैत्रावरुणवाल्मीकौ वेदव्यासस्तु माठरः ॥ द्वैपायनः पाराशर्यः कानीनो बादरायणः । व्यासोऽस्याम्बा सत्यवती वासवी गन्धकालिका ॥ ८४७ योजनगन्धा दाशेयी शालङ्कायनजा च सा । जामदग्न्यस्तु रामः स्याद्भार्गवो रेणुकासुतः ॥ ८४८ नारदस्तु देवा पिशुनः कलिकारकः । वसिष्ठोऽरुन्धतीजानिरक्षमाला त्वरुन्धती ॥ ८४९ त्रिशङ्कयाजी गाधेयो विश्वामित्रश्च कौशिकः । कुशारणिस्तु दुर्वासाः शतानन्दस्तु गौतमः || ८५० याज्ञवल्क्यो ब्रह्मरात्रियोंगेशोऽप्यथ पाणिनौ । सालातुरीयदाक्षेयौ गोनर्दीये पतञ्जलिः || कात्यायनो वररुचिर्मेधाजिच्च पुनर्वसुः । अथ व्याडिर्विन्ध्यवासी नन्दिनीतनयश्च सः ॥ स्फोटायनस्तु कक्षीवान्पालकाये करेणुभूः । वात्स्यायने मल्लनागः कौटल्यश्चणकात्मजः ॥ द्रामिल: पक्षिलस्वामीविष्णुगुप्तोऽङ्गुलश्च सः । क्षतत्रतोऽवकीर्णी स्याद्रात्यः संस्कारवर्जितः || ८५४ शिश्विदानः कृष्णकर्मा ब्रह्मबन्धुर्द्विजोऽधमः । नष्टानिवरहा जातिमात्रजीवी द्विजश्रुवः ॥ ८५५ धर्मध्वजीलिङ्गवृत्तिर्वेद हीनो निराकृतिः । वार्ताशी भोजनार्थ यो गोत्रादि वदति स्वकम् ॥ ८५६ उच्छिष्टभोजनो देवनैवेद्यबलिभोजनः । अजपस्त्वसदध्येता शाखारण्डोऽन्यशाखकः ॥
८४२
८४६
८५१ ८५२ ८५३
८५७
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
८२६
८२७
८४३
८४४
८४५
१. शमनमित्यन्ये. २. आदिकविरपि. ३. मैत्रावरुणिरपि. ४. रैणुकेयोऽपि . ५. योगीशोऽपि. ६. कात्योऽपि. ७. चाणक्योऽपि.
Page #46
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ मर्त्यकाण्डः।
३५
शस्त्राजीवः काण्डपृष्टो गुरुहा नरकीलकः । मलो देवादिपूजायामश्राद्धोऽथ मलिम्लुचः ॥ ८५८ पञ्चयज्ञपरिभ्रष्टो निषिद्धैकरुचिः खरुः । सुप्ते यस्मिन्नुदेत्यर्कोऽस्तमेति च क्रमेण तौ ॥ ८५९ अभ्युदिताभिनिर्मुक्तौ वीरोज्झो न जुहोति यः । अग्निहोत्रच्छलाद्याच्यापरो वीरोपजीविकः ॥८६० वीरविप्लावको जुह्वद्धनैः शूद्रसमाहितैः । स्याद्वादवाद्यार्हतः स्याच्छून्यवादी तु सौगतः ॥ ८६१ नैयायिकस्त्वक्षपादो योगः सांख्यस्तु कापिलः । वैशेषिकः स्यादौलूक्यो बार्हस्पत्यस्तु नास्तिकः ॥८६२ चार्वाको लौकायतिकश्चैते षडपि तार्किकाः । क्षत्रं तु क्षत्रियो राजा राजन्यो बाहुसंभवः ॥ ८६३ अर्या भूमिस्पृशो वैश्या ऊरव्या ऊरजा विशः । वाणिज्यं पाशुपाल्यं च कर्षणं चेति वृत्तयः।। ८६४ आजीवो जीवनं वार्ता जीविका वृत्तिवेतने । उञ्छो धान्यकणादानं कणिशाद्यर्जनं शिलम् ॥८६५ ऋतं तहयमनृतं कृष्टिम॒तं तु याचितम् । अयाचितं स्यादमृतं सेवावृत्तिः श्वजीविका ॥ ८६६ सत्यानृतं तु वाणिज्यं वणिज्या वाणिजो वणिक् । क्रयविक्रयिकपण्याजीवापणिकनगमाः ॥ ८६७ वैदेहः सार्थवाहश्च कायकः ऋयिकः कयी । केयदे तु विपूर्वास्ते मूल्ये वस्नायवक्रयाः ॥ ८६८ मूलद्रव्यं परिपणो नीवी लाभोऽधिकं फलम् । परिदानं विनिमयो नैमेयः परिवर्तनम् ॥ ८६९ व्यतिहारः परावर्तो वैमेयो विमयोऽपि च । निक्षेपोपनिधी न्यासे प्रतिदानं तदर्पणम् ॥ ८७० क्रेतव्यमात्रके क्रेयं क्रय्यं न्यस्तं क्रयाय यत् । पणितव्यं तु विक्रेयं पण्यं सत्यापनं पुनः ॥ ८७१ सत्यंकारः सत्याकृतिस्तुल्यौ विपणविक्रयौ । गण्यं गणेयं संख्येयं संख्या त्वेकादिका भवेत् ॥८७२ यथोत्तरं दशगुणं भवेदेको दशामुतः । शतं सहस्रमयुतं लक्षप्रयुतकोटयः॥ अर्बुदमब्जे खर्व च निखर्वं च महाम्बुजम् । शङ्कर्वाधिरन्त्यं मध्यं परार्धं चेति नामतः ॥ ८७४ असंख्यं द्वीपवा•दि पुङ्गलात्माद्यनन्तकम् । सांयात्रिकः पोतवणिग्यानापात्रं वहिनकम् ॥ ८७५ वोहित्यं वहनं पोतः पोतवाहो नियामकः । निर्यामः कर्णधारस्तु नाविको नौस्तु मङ्गिनी ॥ ८७६ तरीतरिण्यौ वेडी च द्रोणी काष्टाम्वुवाहिनी । नौकादण्डः क्षेपणी स्यागुणवृक्षस्तु कूपकः॥ ८७७ पोलिन्दास्त्वन्तरादण्डाः स्यान्मङ्गो मङ्गिनीशिरः । अभ्रिस्तु काष्टकुदालः सेकपात्रं तु सेचनम्॥८७८ केनिपातः कोटिपात्रमरित्रेऽथोडपः प्लवः । कोलो भेलस्तरण्डश्च स्यात्तरपण्यमातरः ॥ ८७९ वृद्ध्याजीवो द्वैगुणिको वाधुषिकः कुसीदकः । वाधुषिश्च कुसीदार्थप्रयोगौ वृद्धिजीवने ॥ ८८० वृद्धिः कलान्तरमृणं तूद्धारः पर्युदञ्चनम् । याच्चयाप्तं याचितकं परिवृत्त्यापमित्यकम् ॥ ८८१ अधमर्णो ग्राहकः स्यादुत्तमर्णस्तु दायकः । प्रतिभूलग्नकः साक्षी स्थेय आधिस्तु बन्धकः ॥ ८८२ तुलाद्यैः पौतवं मानं द्रुवयं कुडवादिभिः । पाय्यं हस्तादिभिस्तत्र स्याद्गुञ्जाः पञ्च माषकः ॥ ८८३ ते तु षोडश कर्षोऽक्ष: पलं कर्षचतुष्टयम् । विस्तः सुवर्णो हेनोऽक्षे कुरुबिस्तस्तु तत्पले ॥ ८८४ तुला पलशतं तासां विंशत्या भार आचितः । शाकटः शाकटीनश्च शलाटस्ते दशाचितः ॥ ८८५ चतुर्भिः कुडवैः प्रस्थः प्रस्थै श्चतुर्भिराढकः । चतुर्भिराढकोणः खारी षोडशभिश्च तैः ॥ ८८६ चतुर्विशत्यङ्गुलानां हस्तो दण्डश्चतुष्करः । तत्सहस्रं तु गव्यूतं क्रोशस्तौ द्वौ तु गोरुतम् ॥ ८८७ गव्या गव्यूतगव्यूती चतुष्कोशं तु योजनम् । पाशुपाल्यं जीववृत्तिर्गोमान्गोमी गवीश्वरे ॥ ८८८ गोपाले गोधुगाभीरगोपगोसंख्यबल्लवाः । गोविन्दोऽधिकृतो गोषु जाबालस्त्वजजीविकः ॥ ८८९ १. अनेकान्तवाद्यपि. २. जैनोऽपि. ३. बौद्धोऽपि. ४. लौकावितिकोऽपि. ५. प्रापणिकोऽपि. ६. गवेश्वरोऽपि.
For Private and Personal Use Only
Page #47
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३६
अभिधानसंग्रहः-६ अभिधानचिन्तामणिः । कटम्बी कर्षकः क्षेत्री हली कृषिककार्षिकौ । कृषीवलोऽपि जित्या तु हलिः सीरस्तु लाङ्गलम् ॥८९० गोदारणं हलमीषासीते तद्दण्डपद्धती। निरीषे कुटकं फाले कृषकः कुशिकः फलम् ॥ ८९१ दानं लवित्रं तन्मुष्टौ वण्टो मत्यं समीकृतौ । गोदारणं तु कुद्दालः खनित्रं त्ववदारणम् ॥ ८९२ प्रतोदस्तु प्रवयणं प्राजनं तोत्रतोदने । योत्रं तु योक्रमाबद्धः कोटिशो लोष्टभेदनः ॥ ८९३ मेधिर्मेथिः खले वाली खले गोबन्धदारु यत् । शूद्रान्त्यवर्णी वृषलः पद्यः पज्जो जघन्यजः ॥८९४ ते तु मूर्धाभिषिक्ताद्या रथकृन्मिश्रजातयः । क्षत्रियायां द्विजान्मूर्धाभिषिक्तो विनियां पुनः ॥८९५ अम्बष्ठोऽथ पारशवनिषादौ शूद्रयोषिति । क्षत्रान्माहिष्यो वैश्यायामुग्रस्तु वृषलस्त्रियाम् ॥ ८९६ वैश्यात्तु करणः शूद्रात्त्वायोगवो विशः स्त्रियाम् । क्षत्रियायां पुनः क्षत्ता चाण्डालो ब्राह्मणस्त्रियाम्८९७ वैश्यात्तु मागधः क्षत्र्यां वैदेहिको द्विजस्त्रियाम् । सूतस्तु क्षत्रियाज्जात इति द्वादश तद्भिदः॥८९८ माहिष्येण तु जातः स्यात्करण्यां रथकारकः । कारस्तु कारी प्रकृतिः शिल्पी श्रेणिस्तु तद्गणे ॥८९९ शिल्पं कला विज्ञानं च मालाकारस्तु मालिकः । पुष्पाजीवी पुष्पलावी पुष्पाणामवचायिनी ॥९०० कल्पपालः सुराजिवी शौण्डिको मण्डहारकः । वारिवासः पानवणिग्ध्वजो ध्वज्यासुतीबलः ॥९०१
मद्यं मदिष्ठा मदिरा परिनुता कश्यं परित्रुन्मधु कापिशायनम् ।
गन्धोत्तमा कल्पमिरा परिप्लता कादम्बरी स्वादुरसा हलिप्रिया ॥१५ ९०२ शुण्डाहाला हारहूरं प्रसन्ना वारुणी सुरा । मार्तीकं मदना देवसृष्टा कापिशमब्धिजा ॥ मध्वासवे माधवको मैरेये शीधुरासवः । जगलो मेदको मद्यपङ्कः किण्वं तु नग्नहः ॥ ९०४ नमहुर्मद्यबीजं च मद्यसंधानमासुतिः । आसवोऽभिषवो मद्यमण्डकारोत्तमौ समौ ॥ गल्वर्कस्तु चषकः स्यात्सरकश्वानुतर्षणम् । शुण्डापानं मदस्थानं मधुवारा मधुक्रमाः ॥ ९०६ सपीतिः सहपानं स्यादापानं पानगोष्ठिका । उपदंशस्त्ववदंशश्चक्षणं मद्यपाशनम् ॥ ९०७ • नाडिंधमः स्वर्णकारः कलादो मुष्टिकश्च सः । तैजसावर्तनी मूषा भस्त्रा चर्मप्रसेविका ॥ ९०८
आस्फोटिनी वेधनिका शाणस्तु निकषः कषः । संदंशः स्यात्कङ्कमुखो भ्रमः कुन्दं च यत्रकम्।।९०९ वैकटिको मणिकारः शौल्विकस्ताम्रकुट्टकः । शाङ्खिकः स्यात्काम्बविकस्तुन्नवायस्तु सौचिकः ॥९१० कृपाणी कर्तरी कल्पन्यपि सूची तु सेवनी । सूचीसूत्रं पिप्पलिकं तर्कुः कर्तनसाधने ॥२३ । ९११ पिञ्जनं विहननं च तूलस्फोटनकार्मुकम् । सेवनं सीवनं स्यूतिस्तुल्यौ स्यूतप्रसेवकौ ॥ ९१२ तन्तुवायः कुविन्दः स्यात्रसरः सूत्रवेष्टनम् । वाणिज्यूँतिर्वाणदण्डो वेमा सूत्राणि तन्तवः ॥ ९१३ निर्गेजकस्तु रजकः पादुकाकृत्तु चर्मकृत् । 'उपानत्पादुका पादूः पन्नद्धा पादरक्षणम् ॥ ९१४ प्राणहितानुपदीना लाबद्धानुपदं हि या । नधी वर्षी वरत्रा स्यादारा चर्मप्रभेदिका ॥ ९१५ कुलालः स्यात्कुम्भकारो दण्डभृच्चक्रजीवकः । शाणाजीवः शस्त्रमाजों भ्रमासक्तोऽसिधावकः ॥ ९१६ : धूसरश्चाक्रिकस्तैली स्यापिण्याकखलौ समौ । रथकृत्स्थपतिस्त्वष्टा काष्ठतड्तक्षवर्धकी ॥ ९१७ ग्रामायत्तो ग्रामतक्षः कौटतक्षोऽनधीनकः । वृक्षभित्तक्षणी वासी क्रकचं करपत्रकम् ॥ ९१८ स उद्घनो यत्र काष्ठे काष्ठं निक्षिप्य तक्ष्यते । वृक्षादनो वृक्षभेदी टङ्कः पाषाणदारकः ॥ ९१९ व्योकारः कर्मारो लोहकारः कूटं त्वयोधनः । व्रश्चनः पत्रपरशुरीषीका तूलिकेषिका ॥ ९२० भक्ष्यकारः कान्दविकः कन्दुस्वेदनिके समे । रङ्गाजीवस्तौलकिकश्चित्रकृच्चाथ तूलिका ॥ ९२१ १. कृषकोऽपि. २. कोटीशोऽपि. ३. धावकोऽपि. ४. पादत्राणम् अपि. ५. तिलंतुदोऽपि. ६. रथकारोऽपि.
For Private and Personal Use Only
Page #48
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४ तिर्यकाण्डः ।
३७
९२३
६९२६ ९२७
कूचिका चित्रमालेख्यं पलगण्डस्तु लेप्यकृत् । पुस्तं लेप्यादिकर्म स्यान्नापितश्चण्डिलः क्षुरी ॥ ९२२ क्षुरमर्दी दिवाकीर्तिर्मुण्डकोऽन्तावसाय्यपि । मुण्डनं भद्राकरणं वपनं परिवापनम् ॥ क्षौरं नाराची त्वेषण्यां देवाजीवस्तु देवलः । मार्दङ्गिको मौरजिको वीणावादस्तु वैणिकः ॥ ९२४ वेणुः स्याद्वैणविकः पाणिघः पाणिवादकः । स्यात्प्रातिहारिको मायाजीवी माया तु शाम्बरी ॥ ९२५ इन्द्रजालं तु कुहकं जालं कुसृतिरित्यपि । कौतूहलं तु कुतुकं कौतुकं च कुतूहलम् | व्याधो मृगवधाजीवी लुब्धको मृगयुश्च सः । पापर्द्धिर्मृगयाखेटो मृगव्याच्छोदने अपि ॥ for वागुरिको वागुरा मृगजालिका । शुम्बं वराटको रज्जुः शुल्वं तत्री वटी गुणः ॥ ९२८ धीरे दाशकैवर्ती बडिशं मत्स्यवेधनम् । आनायस्तु मत्स्यजालं कुवेणी मत्स्यबन्धनी ॥ ९२९ जीवान्तकः शाकुनिको वैतंसिकस्तु सौनिकः । मांसिकः कौटिक चाथ सूना स्थानं वधस्य यत् ॥ ९३० स्याद्बन्धनोपकरणं वीतंसो मृगपक्षिणाम् । पाशस्तु बन्धनग्रन्थिरवपातावटौ समौ ॥ उन्माथः कूटयत्रं स्याद्विवर्णस्तु पृथग्जनः । इतरः प्राकृतो नीचः पामरो बर्बरश्च सः ॥ चैण्डालेऽन्तावसाय्यन्तेवासिश्वपचपुक्कसाः । निषादलवमातङ्गदिवाकीर्तिजनंगमाः ॥ 2 पुलिन्दा नाहला निष्टाः शबरा वरुटा भटाः । माला भिल्लाः किराताश्च सर्वेऽपि म्लेच्छजातयः ॥ ९३४ इत्याचार्य हेमचन्द्रविरचितायामभिधानचिन्तामणौ नाममालायां मर्त्यकाण्डस्तृतीयः ॥ ३ ॥
९३१
९३२
९३३
41
९३७
९३९
९४२
भूर्भूमिः पृथिवी पृथ्वी वसुधोर्वी वसुंधरा । धात्री धरित्री धरणी विश्वा विश्वभरा धरा ॥ ९३५ क्षितिः क्षोणी क्षमानन्ता ज्या कुर्वसुमती मही । गौर्गोत्रा भूतधात्री क्ष्मा गन्धमाताचलावनिः ॥ ९३६ सर्वसहा रत्नगर्भा जगती मेदिनी रसा । काश्यपी पर्वताधारा स्थिरेला रत्नबीजसूः ॥ विपुला सागराच्चाग्रे स्युर्नमीमेखलाम्बराः । द्यावापृथिव्यौ तु द्यावाभूमी द्यावाक्षमे अपि ॥ ९३८ fragrant रोदस्यो रोदसी रोदसी च ते । उर्वरा सर्वसस्था भूरिरिणं पुनरूषरम् ॥ स्थलं स्थली मरुर्धन्वा क्षेत्राद्यप्रहतं खिलम् । मृन्मृत्तिका सा क्षारोषो मृत्सा मृत्स्ना च साशुभा ॥ ९४० रुमा लवणखानिः स्यात्सामुद्रं लवणं हि यत् । तदक्षीवं वशिरश्च सैन्धवं तु नदीभवम् ॥ ९४९ मणिमन्थं शीतशिवं रौमकं तु रुमाभवम् । वसुकं वस्तकं तच्च विडपाक्ये तु कृत्रिमे ॥ सौवर्चलेऽक्षं रुचकं दुर्गन्धं शूलनाशनम् । कृष्णे तु तत्र तिलकं यवक्षारो यवाग्रजः || यवनाजलः पाक्यश्च पाचनकस्तु टङ्कणः । मालतीतीरजो लोहश्लेषणो रसशोधनः || समास्तु खर्जिकाक्षारकापोत सुखवर्चिकाः । स्वर्जिस्तु खर्जिका स्त्रुघ्नी योगवाही सुवर्चिका ॥ ९४५ भरतान्यैरावतानि विदेहाश्च कुरून्विना । वर्षाणि कर्मभूम्यः स्युः शेषाणि फलभूमयः ॥ वर्ष वर्षधराद्व्यङ्कं विषयस्तूपवर्तनम् । देशो जनपदो नीवृद्राष्ट्रं निर्गश्च मण्डलम् || आर्यावर्तो जन्मभूमिर्जिनचत्रयर्धचक्रिणाम् । पुण्यभूराचारवेदी मध्यं विन्ध्यहिमागयोः ॥ गङ्गायमुनयोर्मध्यमन्तर्वेदिः समस्थली । ब्रह्मावर्तः सरखत्या दृषद्वत्याश्च मध्यतः ॥ ब्रह्मवेदिः कुरुक्षेत्रे पञ्चरामहूदान्तरम् । धर्मक्षेत्रं कुरुक्षेत्रं द्वादशयोजनावधि | हिमवद्विन्ध्ययोर्मध्यं यत्प्राग्विनशनादपि । प्रत्यगेव प्रयागाच्च मध्यदेशः स मध्यमः ॥
९४३
९४४
९४६
९४७
९४८
९४९
९५०
९५१
१. लेपकोऽपि. २. खद्द्विकोऽपि ३. चाण्डालोऽपि ४. सूशब्दो रत्नशब्देनाप्यन्वेति ५. सागरशब्दस्याग्रे नेम्यादीनामन्वयः; यौगिकत्वात् - समुद्ररशना, समुद्रमेखला, समुद्रवसना, इत्यादयः ६. माणिबन्धं माणिमन्तं च.
For Private and Personal Use Only
Page #49
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
૨૮
अभिधानसंग्रहः - ६ अभिधानचिन्तामणिः ।
९५४
९५५
९५७
देशः प्राग्दक्षिणः प्राच्यो नदीं यावच्छरावतीम् । पश्चिमोत्तरस्तूदीच्यः प्रत्यन्तो म्लेच्छमण्डलम् ९५२ पाण्डूदकृष्णतो भूमिः पाण्डूदकृष्णमृत्तिके । जेङ्गलो निर्जलोऽनूपोऽम्बुमान्कच्छस्तु तद्विधः || ९५३ कुमुद्वान्कुमुदावासो वेतस्वान्भूरिवेतसः । नडप्रायो नडकीयो नवांश्च नडुलश्च सः ॥ शाद्वल: शादहरिते देशो नद्यम्बुजीवनः । स्यान्नदीमातृको देवमातृको वृष्टिजीवनः ॥ प्राग्ज्योतिषाः कामरूपा मालवा: स्युरवन्तयः । त्रैपुरास्तु डाहलाः स्युश्चैद्यास्ते चेदयश्च ते ।। ९५६ वङ्गास्तु हरिकेलीया अङ्गाश्वम्पोपलक्षिताः । साल्वास्तु कारकुक्षीया मरवस्तु दशेरकाः ॥ जालंधरास्त्रिगर्ताः स्युस्तायिकास्तर्जिकाभिधाः । काश्मीरास्तु माधुमताः सारखता विकर्णिकाः ॥ ९५८ वाहीकाष्टकनामानो वाल्हीका वल्हिकाह्वयाः । तुरुष्कास्तु साखयः स्युः कारूषास्तु वृहद्गृहाः ॥९५९ लम्पाकस्तु मुरण्डाः स्युः सौवीरास्तु कुमालकाः । प्रत्यग्रथास्त्वहिच्छत्राः कीकटा मगधाह्वयाः ॥ ९६० ओड्राः केरलपर्यायाः कुन्तला उपहालको: । ग्रामस्तु वैसथः संनिप्रतिपर्युपतः परः ॥ ९६१ पटकस्तु तदर्धे स्यादाघाटस्तु घटोsवधिः । अन्तोऽवसानं सीमा च मर्यादापि च सीमनि ग्रामसीमा तूपशल्यं मालं ग्रामान्तराटवी । पर्यन्तभूः परिसरः स्यात्कर्मान्तस्तु कर्मभूः ॥ गोस्थानं गोष्ठमेतत्तु गौष्ठीनं भूतपूर्वकम् । तदाशितंगवीनं स्थागावो यत्राशिताः पुरा ॥ क्षेत्रे तु वप्रः केदारः सेतौ पाल्यालिसंबरा: । क्षेत्रं तु शाकस्य शाकशाकटं शाकशाकिनम् ॥ ९६५ यं शालेयं षष्टिक्यं कौद्रवीणमौद्गीने । व्रीह्यादीनां क्षेत्रेऽणव्यं स्यादाणवीनमणोः ॥
॥ ९६२
९६३
९६४
९७३
९६६ भङ्गयं भाङ्गीनमौमीनमुम्यं यव्यं यवक्यवत् । तिल्यं तैलीनं माषीणं माध्यं भङ्गादिसंभवम् ॥ ९६७ सीत्यं हल्यं त्रिल्यं तु त्रिसीत्यं त्रिगुणाकृतम् । तृतीयाकृतं द्विहल्याद्येवं शम्बाकृतं च तत् ॥९६८ बीजाकृतं तृप्तकृष्टं द्रौणिकाढकिपादयः । स्युर्द्रोणाढकवापादौ खलधानं पुनः खलम् ॥ ९६९ चूर्णे क्षोदोऽथ रजसि स्युधूलीपांसुरेणवः । लोष्टे लोप्टुर्दलिर्लेष्टुर्वल्मीक : कृमिपर्वतः ॥ वम्रीकूटं वामलूरो नाकुः शक्रशिरश्च सः । । नगरी पू: पूरी द्रङ्गः पंत्तनं पुटभेदनम् ॥ निवेशनमधिष्ठानं स्थानीयं निगमोऽपि च । शाखापुरं तूपपुरं खेटः पुरार्धविस्तरः || स्कन्धावारो राजधानी कोट्टदुर्गे पुनः समे । गया पूर्गयराजर्षेः कान्यकुब्जं महोदयम् ॥ कन्याकुब्जं गाधिपुरं कौशं कुशस्थलं च तत् । काशिर्वराणसी वाराणसी शिवपुरी च सा ॥ ९७४ साकेत कोशलायोध्या विदेहा मिथिला समे । त्रिपुरी चेदिनगरी कौशाम्बी वत्सपत्तनम् ॥ ९७५ उज्जयिनी स्याद्विशालावन्तीपुष्यकरण्डिनी । पाटलिपुत्रं कुसुमपुरं चम्पा तु मालिनी ॥ ९७६ लोमपादकर्णयोः पूँर्देवीकोट उमावनम् | कोटीवर्षे बाणपुरं स्याच्छोणितपुरं च तत् ॥ मधुरा तु मधूपनं मधुराथ गंजाह्वयम् । स्याद्धास्तिनपुरं हस्तिनीपुरं हस्तिनापुरम् ॥ तामलिप्तं दामलिप्तं तामलिप्ती तमालिनी । स्तम्बपूर्विष्णुग्रहं च स्याद्विदर्भा तु कुण्डिनम् ॥ ९७९ द्वारवती द्वारिका स्यान्निषधा नलस्य पूः । प्राकारो वरणः साले चयो वप्रोऽस्य पीठभूः ॥ ९८०
९७७
९७८
For Private and Personal Use Only
९७०
९७१
९७२
१. भूमशब्द: पाण्ड्रादिभिरन्वेति; एवं मृत्तिकशब्दोऽपि. २. जाङ्गलोऽपि ३. अत्र प्राग्ज्योतिष - मालव- चेदिवङ्ग अङ्ग-मगधाः प्राच्या, मरवः साल्वाश्च प्रतीच्याः, जालंधर - तायिक-कश्मीर- वाहीक बाल्हीक- तुरुष्क- कारूष-लम्पाक-सौवीर- प्रत्यग्रथा उदीच्याः, ओड्राः कुन्तलाच अपाच्याः इति ४. 'वसथ' शब्दस्य समादितः परप्रयोगः . ५. पवनमपि. ६. ‘पुर’शब्दस्य लोमपाद - कर्णाभ्यामन्वयः ७, गजपुरं नागनगरम् . ८. कुण्डिनपुरम् ; कुण्डिनापुरम्.
Page #50
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४ तिर्यक्काण्डः ।
३९
९८९
1
९९३
९९४
प्राकारायं कपिशीर्ष क्षौमाट्टाट्टालकाः समाः । पूरे गोपुरं रथ्याप्रतोलीविशिखाः समाः ॥ ९८१ परिकूटं हस्तिनखो नगरद्वारकूटके । मुखं निःसरणे वाटे प्राचीनावेष्टको वृतिः ॥ ९८२ पदव्येकपदी पद्या पद्धतिर्व वर्तनी । अयनं सरणिर्मार्गोऽध्वा पन्धा निगमः सृतिः ॥ ९८३ सत्पथे स्वतितः पन्था अपन्था अपथं समे । व्यधो दुरध्वः कदध्वा विपथं कापथं तु सः ॥ ९८४ प्रान्तरं दूरशून्योऽध्वा कान्तारो वर्त्म दुर्गमम् । सुरङ्गा तु संधिला स्याद्रूढमार्गो भुवोऽन्तरे ||९८५ चतुष्पथे तु संस्थाने चतुष्कं त्रिपथे त्रिकम् । द्विपथं तु चारुपथो गजाद्यध्वा त्वसंकुलः ॥ ९८६ घण्टापथः संसरणं श्रीपथो राजवर्त्म च । उपनिष्क्रमणं चोपनिष्करं च महापथः || २२ ९८७ विपणिस्तु वणिग्मार्गः स्थानं तु पदमास्पदम् । श्लेषस्त्रिमार्ग्य शृङ्गाटं बहुमार्गी तु चत्वरम् ॥ ९८८ स्मशानं करवीरः स्यात्पितृप्रेताद्वैनं गृहम् । गेहभूर्वास्तु गेहे तु गृहं वेश्म निकेतनम् ॥ मन्दिरं सदनं सद्म निकाय्यो भुवनं कुटः । आलयो निलयः शाला सभोदवसितं कुलम् ।। ९९० धिष्ण्यमावसथं स्थानं परत्यं संस्त्याय आश्रयः । ओको निवास आवासो वसतिः शरणं क्षयः ॥ ९९१ धामागारं निशान्तं च कुट्टिमं त्वस्य बद्धभूः । चतुःशालं संजवनं सौधं तु नृपमन्दिरम् || ९९२ उपकारिकोकार्या सिंहद्वारं प्रवेशनम् । प्रासादो देवभूपानां हर्म्य तु धनिनां गृहम् ॥ मठाव सध्यावसथाः स्युछात्रत्रतिवेश्मनि । पर्णशालोटजश्चैत्यविहारो जिनसद्मनि ॥ गर्भागारेऽपवरको वासौः शयनास्पदम् । भाण्डागारं तु कोशः स्याच्चन्द्रशाला शिरोगृहम् ॥ ९९५ कुप्यशाला तु संधानी कायमानं तृणौकसि । होत्रीयं तु हविर्गेहं प्राग्वंशः प्राग्घविर्गृहात् ॥ ९९६ आथर्वणं शान्तिगृहमास्थानगृहमिन्द्रकम् । तैलिशालाय त्रगृहमरिष्टं सूतिकागृहम् ॥ २९९७ 'सूदशाला रसवती पाकस्थानं महानसम् । हस्तिशाला तु चतुरं वाजिशाला तु मन्दुरा ॥ संदानिनी तु गोशाला चित्रशाला तु जालिनी । कुम्भशाला पाकपुटी तन्तुशाला तु गर्तिका ॥ ९९९ नापितशाला वपनी शिल्पा खरकुटी च सा । आवेशनं शिल्पिशाला सत्रशाला प्रतिश्रयः || १००० आश्रमस्तु मुनिस्थानमुपन्नस्त्वन्तिकाश्रयः । । प्रपा पानीयशाला स्थागञ्जा तु मदिरागृहम् ॥ १००१ पक्कणः शवरावासो घोषस्त्वाभीरपल्लिका । पुण्यशाला निषद्याट्टो हट्टो विपणिरापणः ॥ वेश्याश्रयः पुरं वेशो मण्डपस्तु जनाश्रयः । कुड्यं भित्तिस्तदेडूकमन्तर्निहित कीकसम् ॥ देवी वितर्दिरजिरं प्राङ्गणं चत्वराङ्गने । वलजं प्रतिहारो द्वाद्वरेऽथ परिघोऽर्गला || साल्पा त्वर्गलिका सूचिः कुचिकायां तु कूर्चिका । साधारण्यङ्कटचासौ द्वारयत्रं तु तालकम् ||१००५ अस्योद्घाटनयन्त्रं तु ताल्यपि प्रतितात्यपि । तिर्यग्द्वारोर्ध्वदारूत्तरङ्गं स्यादररं पुनः ॥ ९८१००६ कंपाटोsररिः कुवाटः पक्षद्वारं तु पेंक्षकः । प्रच्छन्नमन्तर्द्वारः स्याद्वहिर्द्वारं तु तोरणम् ॥ १००७ तोरणोर्ध्वे तु माङ्गल्यं दाम वन्दनमालिका | स्तम्भादेः स्यादधोदारौ शिला नासोर्ध्वदारुणि||१००८ गोपासनी तु वलभीछादने वऋदारुणि । गृहावग्रहणी देहल्युम्बरोदुम्बरोम्बुराः ॥ प्राणः प्रघणोलिन्दो बहिर्द्वारप्रकोष्टके । कपोतपाली विटङ्कः पटलछदिषी समे ॥ नीव्रं वलीकं तत्प्रान्त इन्द्रकोशस्तमङ्गकः । वलभीछदिराधारो नागदन्तास्तु दन्तकाः ॥ १०११ मत्तालम्बोऽपाश्रयः स्यात्प्रग्रीवो मत्तवारणे । वातायनो गवाक्षश्च जालकोऽथान्नकोष्टकः || १०१२
९९८
il
१००४
१००९
१०१०
जाय
For Private and Personal Use Only
१००२
१००३
१. 'पथि'शब्दः स्वतिभ्यां परः २. वन- गृहशब्दौ पितृ-प्रेतशब्दाभ्यां प्रत्येकमन्वेति ३. धाममपि ४. उपकपि. ५. प्रसादनोऽपि ६. शान्तीगृहमपि ७ अङ्गनमपि ८. कवाटमपि. ९. खटक्किकापि
Page #51
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
४०
www.kobatirth.org
अभिधान संग्रह: - ६ अभिधानचिन्तामणिः |
Acharya Shri Kailassagarsuri Gyanmandir
じい
कुलोsस्रिस्तु कोणोणि: कोटिः पाल्यत्र इत्यपि । आरोहणं तु सोपानं निःश्रेणिस्त्वधिरोहणी ||१०१३ स्थूणा स्तम्भः शालभञ्जी पाञ्चालिका च पुत्रिका । काष्टादिघटिता लेप्यमयी त्वञ्जलिकारिका ।। १०१४ नन्द्यावर्तप्रभृतयो विच्छिन्दा आन्यवेश्मनाम् । समुद्रः संपुट: पेटा स्यान्मञ्जूषाथ शोधनी ।। १०१५ संमार्जनी बहुकरी वर्धनी च समूहनी । संकरावकरौ तुल्यावुदूखलमुलूखलम् || १०१६ प्रस्फोटनं तु पवनमवघातस्तु कण्डनम् । कटः किलिजो मुसलोऽ यो कण्डोलकः पिटम् ||१०१७ चालनी तित: शूर्प प्रस्फोटनमथान्तिका । चुल्लयश्मन्तकमुद्धानं स्यादधिश्रयणी च सा || १०१८ स्थायुखा पिठरं कुण्डं चरुः कुम्भी घटः पुनः । कुटः कुम्भः करीरश्च कलशः कलसो निपः || १०१९ हसन्यङ्गाराच्छकटीधानीपात्र्यो हसन्तिका । भ्राष्ट्रोऽम्बरीष ऋचीपमृजीषं पिष्टपाकभृत् ॥ १०२० कम्बिर्दर्विः खजाकाथ स्यात्तर्दूर्दारुहस्तकः । वार्धान्यां तु गलन्त्यालू: कर्करी करकोऽथ सः ।। १०२१ नालिकेरजः करङ्कस्तुल्यौ कटाहकर्परौ । मणिकोऽलिंजरो गर्गरीकलस्यौ तु मन्थनी || १०२२ वैशाखः खजको मन्था मन्धानो मन्थदण्डकः । मन्थः क्षुब्धोऽस्य विष्कम्भो मञ्जीरः कुटरोऽपि च ॥ शालाजिरो वर्धमानः शरावः कौशिका पुनः । मल्लिका चषकः कंसः पारी स्यात्पानभाजनम् ||१०२४ कुतश्वर्मस्नेहपात्रं कुतुपं तु तदल्पकम् । दृतिः खल्लञ्चर्ममयी वालूः करकपात्रिका | १०२५ सर्वमावपनं भाण्डं पात्रामत्रे तु भाजनम् । तद्विशालं पुनः स्थालं स्यात्पिधानमुदश्चनम् || १०२६ शैलोऽद्रिः शिखरी शिलोच्चयगिरी गोत्रोऽचलः सानुमा न्यावः पर्वतभूभ्रभूधरधराहार्या नंगोऽथोदयः । पूर्वाद्रिश्चरमाद्रिरस्त उदगद्रिस्त्वद्रिराण्मेनका
प्राणेशो हिमवान्हिमालय हिमप्रस्थौ भवानीगुरुः ॥
१०२७ हिरण्यनाभो मैनाकः सुनाभश्च तदात्मजः । रजताद्रिस्तु कैलासोऽष्टापदः स्फटिकाचलः || १०२८ कौश्वः क्रुञ्चोऽथ मलय आषाढो दक्षिणाचलः । स्यान्माल्यवान्प्रस्रवणो विन्ध्यस्तु जलबालकः।। १०२९ शत्रुंजयो विमलाद्रिरिन्द्रकीलस्तु मन्दरः । सुवेलः स्यात्रिमुकुटस्त्रिकूटस्त्रिककुञ्च सः ॥ १०३० उज्जयन्तो रैवतकः सुदारुः पारियात्रिकः । लोकालोकचक्रवालोऽथ मेरुः कर्णिकाचलः ॥ १०३१ रत्नसानुः सुमेरुः स्वः स्वर्गिकाञ्चनतो गिरिः । शृङ्गं तु शिखरं कूटं प्रपातस्त्वतटो भृगुः ॥ १०३२ मेखला मध्यभागोऽद्रेर्नितम्बः कटकश्च सः । दरी स्यात्कन्दरोऽखातबिले तु गह्वरे गुहा ।। १०३३ द्रोणी तु शैलयोः संधिः पादाः पर्यन्तपर्वताः । दन्तकास्तु वहिस्तिर्यक्प्रदेशान्निर्गता गिरेः || १०३४ अधित्यकोर्ध्वभूमिः स्यादधोभूमिरुपत्यका । स्नुः प्रस्थः सानुरश्मा तु पाषाणः प्रस्तरो दृषत् ॥ १०३५ ग्रावा शिलोपलो गण्डशैलाः स्थूलोपलाश्चयुताः । स्यादाकरः खनिः खानिर्ग आ धातुस्तु गैरिकम् ।। १०३६ - शुक्लधातौ पाकशुक्ला कठिनी खटिनी खटी | लोहं कालायसं शस्त्रं पिण्डं पारशवं घनम् ॥। १०३७ गिरिसारं शिलासारं तीक्ष्णकृष्णामिषे अयः । सिंहान धूर्तमण्डूरसरणान्यस्य किट्टके ॥ १०३८ सर्वं च तैजसं लोहं विकारस्वयसः कुशी । ताम्रं म्लेच्छमुखं शुल्वं रक्तं व्यष्टमुदुम्बरम् || १०३९ म्लेच्छशावरभेदाख्यं मर्कटास्यं कनीयसम् । ब्रह्मवर्धनं वरिष्ठं सीसं तु सीसपत्रकम् ॥ नागं गण्डूपदभवं व सिन्दूरकारणम् । व स्वर्णारियोगेष्टे यवनेष्टं सुवर्णकम् ॥
Ne
१०४०
१०४१
१. कुशूलोsपि. २. पवन्यपि ३. अयोनिरपि ४ अङ्गारशब्दः शकट्यादिनान्वेति ५ अगोऽपि. ६. 'गिरि'शब्दः स्वरादिनान्वेति
For Private and Personal Use Only
Page #52
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४ तिर्यकाण्डः।
वङ्गं त्रपुः स्वर्णजनागजीवने मृद्वङ्गरङ्गे गुरुपत्रपिञ्चटे । स्याञ्चक्रसंज्ञं तमरं च नागजं कस्तीरमालीनकसिंहले अपि ॥ १०४२
स्याद्रूप्यं कलधौतताररजतश्वेतानि दुर्वर्णकं. ___खरं च हिमांशुहंसकुमुदाभिख्यं सुवर्ण पुनः । स्वर्ण हेमहिरण्यहाटकवसून्यष्टापदं काञ्चनं कल्याणं कनकं महारजतरैगाङ्गेयरुक्माण्यपि ॥
१०४३ कलधौतलोहोत्तमवह्निवीजान्यपि गारुडं गैरिकजातरूपे । तपनीयचामीकरचन्द्रभर्मार्जुननिष्ककार्तवरकर्बुराणि ॥
१०४४ जाम्बूनदं शातकुम्भं रजतं भूरि भूत्तमम् । हिरण्यकोशाकुप्यानि हेम्नि रूप्ये कृताकृतेः ॥ १.०४५ कुष्यं तु तहयादन्यहूप्यं तद्यमाहतम् । अलंकारसुवर्णं तु शृङ्गी कनकमायुधम् ॥ १०४६ रजतं च सुवर्ण च संश्लिष्टे घनगोलकः । पित्तलारेऽधारकूटः कपिलोहं सुवर्णकम् ॥ .., १०४७ रिरी रीरी च रीतिश्च पीतलोहं सुलोहकम् । ब्राह्मी तु राज्ञी कपिला ब्रह्मरीतिर्महेश्वरी ॥ १०४८ कांस्ये विद्युत्प्रियं घोषं प्रकाशं वङ्गशुल्वजम् । घण्टाशब्दमसुराहं रवणं लोहज मलम् ॥ १०४९ सौराष्ट्र के पश्चलोहं वर्तलोहं तु वर्तकम् । पारदः पारतः सूतो हरबीजं रसश्चलः ॥ १०५० अभ्रकं स्वच्छपत्रं खं मेघाख्यं गिरिजामले । स्रोतोञ्जनं तु कापोतं सौवीरं कृष्णयामुने ॥ १०५१ अथ तुत्थं शिखिग्रीवं तुत्थाञ्जनमयूरके । मूषातुत्थं कांस्यनीलं हेमतारं वितुन्नकम् ॥ १०५२ स्यात्तु कर्परिकातुत्थममृतासङ्गमञ्जनम् । रसगर्भ तार्यशैलं तुत्थे दारिसोद्भवे ॥ १०५३ पुष्पाञ्जनं रीतिपुष्पं पौष्पकं पुष्पकेतु च | माक्षिकं तु कदम्बः स्याचक्रनामाजेनामके ॥ १०५४ ताप्ये नदीनः कामारिस्तारारिविटमाक्षिकः । सौराष्ट्री पार्वती काक्षी कालिका पर्पटी सती॥१०५५ आढकी तुबरी कंसोद्भवा काक्षी मृदाह्वया । कासीसं धातुकासीसं खेचरं धातुशेखरम् ॥ १०५६ द्वितीयं पुष्पकासीसं कंसकं नयनौषधम् । गन्धाश्मा शुल्वपामाकुष्टॉरिर्गन्धिकगन्धकौ ॥ १०५७ सौगन्धिकः शूकपुच्छो हरितालं तु पिञ्जरम् । विडालकं विस्रगन्धि खजूरं वंशपत्रकम् ॥ १०५८ आलपीतनतालानि गोद॑न्तं नटमण्डनम् । वङ्गारिलॊमहृच्चाथ मनोगुप्ता मनःशिला ॥ १०५९ करवीरा नागमाता रोचनी रसनेत्रिका | नेपाली कुनटी गोला मनोबा नागजिविका ॥ १०६० सिन्दूरं नाग नागं रक्तं शृङ्गारभूषणम् । चीनपिष्टं हंसपादकुरुविन्दे तु हिङ्गुलः ।। १०६१ शिलाजतु स्यागिरिजमर्थ्य गैरैयमश्मजम् । क्षारः काचः कुलाली तु स्याच्चक्षुष्या कुलस्थिका॥१०६२ बोलो गन्धरसः प्राणः पिण्डो गोपरस: शशः । रत्नं वसु मणिस्तत्र वैदूर्य बालवायजम् ॥ १०६३ मरकतं त्वमगर्भ गारुत्मतं हरिन्मणिः । पद्मरागे लोहितकलक्ष्मीपुष्पारुणोपेलाः ॥ १०६४ नीलमणिस्त्विन्द्रनीलः सूचीमुखं तु हीरकः । वरारकं रत्नमुख्यं वपर्यायनाम च ॥ १०६५ विराटजो राजपट्टो राजावर्तोऽथ विद्रुमः । रक्ताङ्को रक्तकन्दश्च प्रवालं हेमकन्दलः ॥ १०६६ सूर्यकान्तः सूर्यमणिः सूर्याइमा दहनोपलः । चन्द्रकान्तश्चन्द्रमणिश्चान्द्रश्चन्द्रोपलश्च सः ॥ १०६७
१. चपलोऽपि. २. वैष्णवोऽपि. ३. अरिशब्दः शुल्वादिभिरन्वेति. ४. गोपित्तमपि. ५. नेपाल्यपि. ६. शृङ्गारमपि. ७. हिङ्गलुरपि. ८. गोपो रसोऽपि. ९. शोणरत्नमपि.
For Private and Personal Use Only
Page #53
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिधानसंग्रहः-६ अभिधानचिन्तामणिः । क्षीरतैलस्फटिकाभ्यामन्यौ खस्फटिकाविमौ । शुक्तिजं मौक्तिकं मुक्ता मुक्ताफलं रसोद्भवम् ॥१.०६८
इति पृथ्वीकायः ।
नीरं वारि जलं दकं कमुदकं पानीयमम्भः कुशं
तोयं जीवनजीवनीयसलिलार्णास्यम्बु वाः शंबरम् । क्षीरं पुष्करमेघपुष्पकमलान्यापः पयःपाथसी
कीलालं भुवनं वनं घनरसो यादोनिवासोऽमृतम् ॥ कुलीनसं कंबन्धं च प्राणदं सर्वतोमुखम् । अस्थाथास्थागमस्ताघमगाधं चातलस्मृशि ॥ १०७० निम्नं गभीरं गम्भीरमुत्तानं तद्विलक्षणम् । अच्छं प्रसन्नेऽनच्छं स्यादाविलं कलुषं च तत् ।। १०७१ अवश्यायस्तु तुहिनं प्रालेयं मिहिका हिमम् । स्यान्नीहारस्तुषारश्च हिमानी तु महद्धिमम् ॥ १०७२
पारावारः सागरोऽवारपारोऽकूपारोदध्यर्णवा वीचिमाली। ।
यादः स्रोतोवानंदीशः सरखान्सिन्धूदन्वन्तौ मितद्रुः समुद्रः ॥ आकरो मकराद्रनाज्जेलान्निधिधिराशयः । द्वीपान्तरा असंख्यास्ते सप्पैवेति तु लौकिकाः ॥ १०७४ लवणक्षीरदध्याज्यसुरेक्षुस्वावारयः। तरङ्गे भङ्गवीच्यूर्युत्कलिका महति त्विह ॥ १०७५ लहर्युल्लोलकल्लोला आवर्तः पयसां भ्रमः । तालूरो वोलकश्चासौ बेला स्याद्वृद्धिरम्भसः ॥ १०७६ डिण्डीरोऽब्धिकफः फेनो बुद्धदस्थासको समौ । मर्यादा कूलभूः कूलं प्रपातः कच्छरोधसी ॥१०७७ तटं तीरं प्रतीरं च पुलिनं तज्जलोज्झितम् । सैकतं चान्तरीपं तु द्वीपमन्तर्जले तटम् ॥ १०७८ तत्परं पारमवारं त्वक्पात्रं तदन्तरम् ।। नदी हिरण्यवर्णा स्याद्रोधोवक्रा तरङ्गिणी ॥ १०७९
सिन्धुः शैवलिनी वहा च ह्रदिनी स्रोतस्विनी निम्नगा __ स्रोतो निर्झरिणी सरिच्च तटिनी कूलंकषा वाहिनी । क—ीपवती समुद्रदयिताधुन्यौ स्रवन्तीसरस्वत्यौ पर्वतजापगा जलधिगा कुल्या च जम्बालिनी ॥
१०८० गणात्रिपथगा भागीरथी त्रिदशदीर्घिका । त्रिस्रोता जाह्नवी मन्दाकिनी भीष्मकुमारर्सः ॥ १०८१ सरिद्वरा विष्णुपदी सिद्धस्वःस्वर्गिखापगा । ऋषिकुल्या हैमवती स्वर्वापी हरशेखरा ।। १०८२ यमुना यमभगिनी कालिन्दी सूर्यजा यमी। रेवेन्दुजा पूर्वगङ्गा नर्मदा मेकलाद्रिजा ॥ १०८३ गोदा गोदावरी तापी तपनी तपनात्मजा । शुतुद्रिस्तु शतद्रुः स्यात्कावेरी त्वर्धजाह्नवी ॥ १०८४ करतोया सदानीरा चन्द्रभागा तु चन्द्रका । वासिष्ठी गोमती तुल्ये ब्रह्मपुत्री सरस्वती ॥ १०८५ विपाविपाशार्जुनी तु बाहुदा सैतवाहिनी । वैतरणी नरकस्था स्रोतोम्भःसरणं स्वतः ।।... १०८६ प्रवाहः पुनरोधः स्याद्वेणी धारा रयश्च सः । घट्टस्तीर्थावतारेऽम्बुवृद्धौ पूरः प्लवश्च सः ॥ १०८७ पुटभेदास्तु वक्राणि भ्रमास्तु जलनिर्गमाः । परीवाहा जलोच्छासाः कूपकास्तु विदारकाः ।। १०८८ ___ १. कं बन्धम् इति द्वे नामनी इत्येके. २. धूममहिषी, धूमिकाधूमयोऽपि. ३. ईशपदं याद:प्रभृतिभिरन्वेति, यौगिकत्वात्-यादःपतिरित्यादयः. ४. आकरशब्दो रत्नान्ताभ्यामन्वेति, यौगिकत्वात्-मकरालयो रत्नराशिरपि. ५. जलशब्दो निध्यादिभिरन्वेति, यौगिकत्वात्-वारिनिधिः वारिराशिरित्यादयः. ६. सूपदं भीष्मेणाप्यन्वेति. ७. आपगापदं सिद्धपदेनाप्यन्वेति. ८. कलिन्दतनयापि. ९. चान्द्रभागा च. १०. चक्राणि च.
For Private and Personal Use Only
Page #54
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
'४ तिर्यक्काण्डः ।
४३
प्रणाली जलमार्गोऽथ पानं कुल्या च सारणिः । सिकता वालुका विन्दौ पृषत्पृषतविषः ।। १०८९ जम्बालेचिकिलो पङ्कः कर्दमश्च निषद्वरः । । शादो हिरण्यबाहुस्तु शोणो नदे पुनर्वहः || १०९० अभिद्य उध्यः सरस्वांश्च द्रहोऽगाधजलो ह्रदः । । कूपः स्यादुदपानोऽन्धुः प्रार्हिर्नेमी तु तत्रिका || १०९९ नान्दीमुखो नान्दीपटो वीनाहो मुखबन्धने । आहावस्तु निपानं स्यादुपकूपेऽथ दीर्घिका ॥ १०९३ वापी स्यात्क्षुद्रकूपे तु चूरी चूण्डी च चूतकः । उद्घाटकं घटीय पादावर्तोऽरघट्टकः || १०९३ अखातं तु देवखातं पुष्करिण्यां तु खातकम् । पद्माकरस्तडागः स्यात्कासारः सरसी सरः || १०९४ वेशन्त: पल्वलोsल्पं तत्परिखा खेयखातके । स्यादालवालमावालमावापः स्थानकं च सः ॥ १०९५ आधारस्त्वम्भसां बन्धो निर्झरस्तु झरः सरिः । उत्सः स्रवः प्रस्रवणं जलाधारा जलाशयाः ।। १०९६ इति जलकायः ।
वह्निर्बृहद्भानुहिरण्यरेतसौ धनंजयो हव्यहविर्हुताशनः । कृपीटयोनिर्दमुना विरोचनाशुशुक्षणी छागरथस्तनूनपात् ॥ कृशानुवैश्वानरवीतिहोत्रा वृषाकपिः पावकचित्रभानू । अप्पित्तधूमध्वजकृष्णवर्त्मार्चिष्मच्छमीगर्भतमोन्नशुक्राः ॥ शोचिष्केशः शुचिहुतवहोषर्बुधाः सप्तमन्त्र - ज्वालाजिह्वा ज्वलनशिखिनौ जागृविर्जातवेदाः । र्वैर्हिः शुष्मानिलसखवसू रोहिताश्वाश्रयाश बर्हिज्र्ज्योतिर्दहनबहुलौ हव्यवाहोऽनलोऽग्निः ॥ १०९९ विभावसुः सप्तोदचिः स्वाहाग्नेयी प्रियास्य च । और्वः संवर्तकोऽब्ध्यग्निर्वाडवो वडवामुखः।। ११०० वो दानवविह्नरिरंमदः । छागणस्तु करीषाग्निः कुकूलस्तु तुषानलः ॥ २ ११०१ संतापः संज्वरो वाष्प ऊष्मा जिह्वाः स्युरचिषः । हेतिः कीला शिखा ज्वालाचिर्झलका महत्यपि ॥ स्फुलिङ्गोऽग्निकणो लाज्वालोल्कालातमुल्मुकम् । धूमः स्याद्वायुवाहोऽग्निवाहो दहनकेतनम् ||११०३ अम्भः सूः करमालश्च स्तरीर्जीमूतवाह्यपि । तडिदैरावती विद्युच्चलाशम्पाचिरप्रभा || ११०४ आकालिकी शतह्रदा चञ्चला चपलाशनिः । सौदामनीक्षणिका च हादिनी जलबालिका | ११०५ इत्यनिकायः ।
१०९७
For Private and Personal Use Only
१०९८
वायुः समीरसमिरौ पवनाशुगौ नभःश्वासो नभस्वदनलश्वसनाः समीरणः । वातोऽहिकान्तपवमानमरुत्प्रकम्पनाः कम्पाङ्कर्नित्यगतिर्गन्धवहप्रभञ्जनाः ॥ ११०६ मातरिश्वा जगत्प्राणः पृषदश्वो महाबलः । मारुतः स्पर्शनो दैत्यदेवो झञ्झा स वृष्टियुक् ॥ ११०७ प्राणो नासाग्रन्नाभिपादाङ्गुष्ठान्तगोचरः । अपानपवनो मन्यापृष्ठपृष्टान्तपाणिगः ॥ समानः संधिन्नाभिषूदानो हृच्छिरोन्तरे । सर्वखग्वृत्तिको व्यान इत्यङ्गे पञ्च वायवः ॥ ११०९ इति वायुकायः । पदा
११०८
१. चिरकल्लोऽपि. २. उद्घाटनमपि, उद्घातनमपि ३. तलमपि अशनशब्दो हव्याद्यैरन्वेति, यौगिकत्वात्हव्यभुक् इत्यादयः. ४. दमूना अपि ५. जिह्वशब्दः सप्तादिभिरन्वेति ६. व्यस्तं समस्तं च ७ क्षणप्रभा च. ८. सदागतिरपि ९. गन्धवाहोऽपि.
Page #55
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिधानसंग्रहः-६ अभिधानचिन्तामणिः । अरण्यमटवी सत्रं वाः च गहनं झषः । कान्तारं विपिनं कक्षः स्यात्षण्डं काननं वनम् ॥१.११.० दवो दावः प्रस्तारस्तु तृणाटव्यां झषोऽपि च । अपोपाभ्यां वनं बेलमारामः कृत्रिमे वने ॥ ११११ निष्कुटस्तु गृहारामो वाह्यारामस्तु पौरकः । आक्रीडः पुनरुद्यानं राज्ञां त्वन्तःपुरोचितम् ॥१११२ तदेव प्रमदवनममात्यादेस्तु निष्कुटे । वाटी पुष्पादृक्षाच्चासौ क्षुद्रारामः प्रसीदिका ॥ १११३
वृक्षोऽगः शिखरी च शाखिफलदावद्रिह रिदुर्दुमो
जीर्णो द्रुर्विटपी कुठः क्षितिरुहः कारस्करो विष्टरः । नन्द्यावर्तकरालिको तरुवसू पर्णी पुलायझिपः
सालानोकहगच्छपादपनगा रूक्षागमौ पुष्पदः ॥ कुञ्जनिकुअकुडङ्गाः स्थाने वृक्षैर्वृतान्तरे । पुष्पैस्तु फलवान्वृक्षो वानस्पत्यो विना तु तैः ॥ १११५ फलवान्वनस्पतिः स्यात्फलावन्ध्यः फलेग्रहिः । फलवन्ध्यस्त्ववकेशी फलवान्फलिनः फली ॥१११६
औषधिः स्यादोषधिस्तु फलपाकावसानिका । क्षुपो द्वस्वशिफाशाखः प्रततिव्रततिर्लता ।।८।१११७ वल्लयस्यां तु प्रतानिन्यां गुल्मिन्युपलवीरुधः । स्यात्प्ररोहोऽङ्करोऽङ्करो रोहश्च स तु पर्वणः ॥१११८ समुत्थितः स्याद्वलिशं शिखाशाखालताः समाः । साला शाला स्कन्धशाखा स्कन्धः प्रकाण्डमस्तके।। मूलाच्छाखावधिण्डिः प्रकाण्डोऽथ जटाशिफा | प्रकाण्डरहिते स्तम्बो विटपो गुल्म इत्यपि १.१२० शिरोनामाग्रं शिखरं मूलं वुघ्नोंहिनाम च । सारो मज्ज्ञि वेचि च्छल्ली चोचं वल्कं च वल्कलम्॥११२१ स्थाणौ तु ध्रुवकः शङ्कः काष्ठे दलिकदारुणी । निष्कुहः कोटरो मामञ्जरिवल्लरिश्च सा॥ ११२२ पत्रं पलाशं छदनं बर्ह पर्ण छदं दलम् । नवे तस्मिन्किसलयं किसलं पल्लवोऽत्र तु॥।॥ ११२३ नवे प्रवालोऽस्य कोशी शुङ्गा माढिदलनसा । विस्तारविटपौ तुल्यौ प्रसूनं कुसुमं सुमम् ॥ ११२४ पुष्पं सूनं सुमनसः प्रसवश्च मणीवकम् । जालकक्षारको तुल्यौ कलिकायां तु कोरकः ॥ ११२५ कुङ्मले मुकुलं गुम्छे गुच्छस्तबकगुत्सकाः । गुलुछोऽथ रजः पौष्पं परागोऽथ रसो मधु ॥११२६ मकरन्दो मरन्दश्च वृन्तं प्रसवबन्धनम् । प्रबुद्धोज्जम्भफुल्लानि व्याकोशं विकचं स्मितम् ॥ ११२७ उन्मिषितं विकसितं दलितं स्फुटितं स्फुटम् । प्रफुल्लोत्फुल्लसंफुल्लोच्छसितानि विजृम्भितम् ॥११२८ स्मेरं विनिद्रमुन्निद्रविमुद्रहसितानि च । संकुचितं तु निद्राणं मीलितं मुद्रितं च तत् ॥ ११२९ फलं तु सस्यं तच्छुष्कं वानमाम शलाटु च । ग्रन्थिः पर्व परुर्बीजकोशी शिम्बा शमी शिमिः ११३० शिम्बिश्च। पिप्पलोऽश्वत्थः श्रीवृक्षः कुञ्जराशनः । कृष्णावासो बोधितरुः प्लक्षस्तु पर्कटी जटी॥११३१ न्यग्रोधस्तु बहुपात्स्याद्वटो वैश्रवणालयः । उदुम्बरो जन्तुफलो मशकी हेमदुग्धकःः ॥ ११३२ काकोन्दुबरिका फल्गुमलयुर्जघनेफला। आम्रचूतः सहकारः सप्तपर्णस्त्वयुक्छदः ॥ ११३३ शिग्रुः शोभाञ्जनोक्षीवतीक्ष्णगन्धकमोचकाः । श्वेतेऽत्र श्वेतमरिचः पुंनागः सुरपर्णिका ॥ ११३४ बकुलः केसरोऽशोकः कंकेल्लिः ककुभोऽर्जुनः । मालूरः श्रीफलो बिल्वः किंकिरातः कुरण्टकः११३५ त्रिपत्रकः पलाशः स्याकिंशुको ब्रह्मपादपः । तृणराजस्तलस्तालो रम्भा मोचा कदल्यपि ।। ११३६ करवीरो हयमारः कुटजो गिरिमल्लिका । विदुलो वेतसः शीतो वानीरो वञ्जुलो रथः ॥ ११३७ कर्कन्धुः कुवली कोलिबंदर्यथ हलिप्रियः । नीपः कदम्बः सालस्तु सोंरिष्टस्तु फेनिलः ॥ ११३८
१. वनशब्दः अपोपाभ्यामन्वेति. २. वाटीशब्दः पुष्पवृक्षाभ्यामन्वेति. ३. यौगिकत्वात्-कुजमहीरुहादय:। ४. चरणपोऽपि. ५. त्वचापि, ६. माकन्दोऽपि. ७. कुरुण्टकोऽपि कुरुण्डक इत्यन्ये, ८. ककन्धरपि.
For Private and Personal Use Only
Page #56
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४ तिर्यकाण्डः ।
४५
११४०
११४१
१९४२
११५१
११५२
११५३
निम्त्रोऽरिष्टः पिचुमन्दः समौ पिचुलझावुकौ । कर्पासस्तु बादरः स्यात्पिचव्यस्तूलकं पिचुः ॥ ११३९ आरग्वधः कृतमाले वृषो वासाटरूषके । करअस्तु नक्तमाल: स्नुहिर्वो महातरुः || महाकालस्तु किंपा के मन्दार: पारिभद्रके । मधूकस्तु मधुष्टीलो गुडपुष्पो मधुद्रुमः ॥ पीलुः सिनो गुडफलो गुग्गुलस्तु पलंकषः । राजादन: पियालः स्यात्तिनिशस्तु रथद्रुमः || नागरङ्गस्तु नारङ्ग इङ्गुदी तापसद्रुमः । काश्मीरी भद्रपर्णी श्रीपर्ण्यम्लिका तु तिन्तिडी ॥ ११४३ शेलुः श्लेष्मान्तकः पीतसालस्तु प्रियकोऽसनः । पाटलिः पाटला भूर्जी बहुत्वक्को मृदुच्छदः॥ १.१४४ मोल: कर्णिकारे निचुले हिज्जलेऽज्जलौ । धात्री शिवा चामलकी कलिरक्षो विभीतकः । १९४५ हरीतक्यभया पथ्या त्रिफला तत्फलत्रयम् । तपिंछस्तु तमालः स्याच्चम्पको हेमपुष्पकः || १९४६ निर्गुण्डी सिन्दुवारेऽतिमुक्तके माधवीलता । वासन्ती चौड्रपुष्पं तु जैपा जातिस्तु मालती || १९४७ मल्लिका स्याद्विचकिलः सप्तला नवमालिका । मागधी यूथिका सा तु पीता स्याद्वेमपुष्पिका ।। ११४८ प्रियङ्गुः फलिनी श्यामा बन्धूको बन्धुजीवकः । करुणे मल्लिकापुष्पो जम्बीरे जम्भजम्भलौ ।।११४९ मातुलुङ्गो बीजपूरः करीरक्रकरौ समौ । पञ्चाङ्गुलः स्यादेरण्डे धातक्यां धातुपुष्पिका || ११५० कपिकच्छूरात्मगुप्ता धत्तूर: कनकाह्वयः । कपित्थस्तु दधिफलो नालिकेरस्तु लाङ्गली ॥ आमाको वर्षा तकः क्रकचच्छदः । कोविदारे युगपत्रः शल्लकी तु गजप्रिया ।। वंश वेणुर्य व फलस्त्वचि सारस्तृणध्वजः । मस्करः शतपर्वा च स्वनवान्स तु कीचकः ॥ तुकाक्षीरी वंशक्षीरी त्वक्क्षीरी वंशरोचना । पूगे क्रमुकगूवाकौ तस्योद्वेगं / पुनः फलम् ॥ ११५४ ताम्बूलवल्ली ताम्बूली नागपर्यायवलयपि । तुम्ब्यलाबू, कृष्णला तु गुञ्जा द्राक्षा तु गोस्तनी ॥ ११५५ मृद्वीका हारहूरा च गोक्षुरस्तु त्रिकण्टकः । श्वदंष्ट्रा स्थलशृङ्गाटो गिरिकर्ण्यपराजिता ॥ ११५६ व्याघ्री निर्दिग्धिका कण्टकारिका स्यादथामृता । वत्सादनी गुडूची च विशाला त्विन्द्रवारुणी ११५७ उशीरं वीरणीमूले ह्रीवेरे वालकं जलम् । प्रपुन्नास्त्वेडगजो दद्रुनश्चक्रमर्दकः ॥ लद्वायां महारजनं कुसुम्भं कमलोत्तरम् । लोध्रे तु गालवो रोघ्रतित्वशावरमार्जनाः ० ॥ मृणालिनी पुटकिनी नलिनी पङ्कजिन्यपि । कमलं नलिनं पद्ममरविन्दं कुशेशयम् ॥ परं शतसहस्राभ्यां पत्रं राजीवपुष्करे । विसप्रसूनं नांलीकं तामरसं महोत्पलम् || तज्जलात्सरसः पङ्कात्परे रुडुहजन्मजाः । पुण्डरीकं सिताम्भोजमथ रक्तसरोरुहे ॥ रक्तोत्पलं कोकनदं कैरविण्यां कुमुद्वती । उत्पलं स्यात्कुवलयं कुवेलं कुवलं कुवम् ॥ श्वेते तु तत्र कुमुदं कैरवं गर्दभाह्वयम् | नीले तु स्यादिन्दीवरं हलकं रक्तसंध्यके || ११६४ 'सौगन्धिकं तु कहारं बीजकोशो विराटकः । कर्णिका पद्मनालं तु मृणालं तन्तुलं बिसम् ।। ११६५किंजल्कं केसरं संवर्तिका तु स्यान्नवं दलम् । करहाटः शिफा च स्यात्कन्दे सलिलजन्मनाम् || १९६६ उत्पलानां तु शालूकं नील्यां शैवालशेवले । शेवालं शैवलं शेपाल जैलाच्छूकनीलिके ।। ११६७ धान्यं तु सस्यं सीत्यं च व्रीहिः स्तम्बकरिश्च तत् । आशुः स्यात्पाटलो व्रीहिर्गर्भपाकी तु षष्ठिकः ।। शालयः कलमाद्याः स्युः कलमस्तु कलामकः । लोहितो रक्तशालिः स्यान्महाशालिः सुगन्धिकः ११६९
११५८
११५९
११६०
११६१
११६२
११६३
१. वाशा च २. अटरूषोऽपि ३. प्रियालोऽपि ४. नार्यङ्गोऽपि ५. विभेदकोsपि ६. तापिच्छोsपि. ७. जवापि ८. रुट्प्रभृतयो जलादिभ्योऽनुयन्ति, यौगिकत्वात् - वारिजसरसीरुहादयः ९. कुमुदिन्यपि. १०. कुमुत् अपि ११. जलशब्दस्य शूकादिनान्वयः.
For Private and Personal Use Only
Page #57
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिधानसंग्रहः-६ अभिधानचिन्तामणिः । यवो हयप्रियस्तीक्ष्णशूकस्तोक्मस्त्वसौ हरित् । मङ्गल्यको मसूरः स्यात्कलायस्तु सतीनकः ॥११७० हरेणुः खण्डिकश्चाथ चणको हरिमन्थकः।। माषस्तु मदनो नन्दी वृष्यो बीजवरो बली ॥ ११७१ मुद्गस्तु प्रघनो लोभ्यो वलाटो हरितो हरित् । पीतेऽस्मिन्वसुखण्डीरप्रवेलजयशारदाः ॥ ११७२ कृष्णे प्रवरवासन्तहरिमन्यजशिम्बिकाः । वनमुद्दे तुवरकनिगूढककुलीनकाः ॥ ११७३ खण्डी च राजमुद्ने तु मकुष्टकमयुष्ठको । गोधूमे सुमनो वल्ले निष्पावः सितशिम्बिकः ॥ ११७४ कुलत्थस्तु कालवृन्तस्ताम्रवृन्ता कुलस्थिका । आढकी तुवरी वर्णा स्यात्कुल्माषस्तु यावकः॥११७५ नीवारस्तु वनव्रीहिः शामाकश्यामको समौ । कङ्गुस्तु कङ्गुनी क्वङ्गुः प्रियङ्गुः पीततण्डुला ।। ११७६ सा कृष्णा मधुका रक्ता शौधिका मुशटी सिता। पीता माधव्यथोदालः कोद्रवः कोरदूषकः॥११७७ चीनकस्तु काककऑर्यवनालस्तु योऽनलः । जूर्णाहयो देवधान्यं जोन्नाला बीजपुष्पिका ॥ ११७८ शणं भङ्गा मातुलानी स्यादुमा तु क्षुमातसी । गवेधुका गवेधुः स्याज्जतिलोऽरण्यजस्तिलः ॥११७९ षण्डतिले तिलपिञ्जस्तिलपेजोऽथ सर्षपः । कदम्बकस्तन्तुभोऽथ सिद्धार्थः श्वेतसर्षपः ॥ ११८० माषादयः शमीधान्यं शूकधान्यं यवादयः । स्यात्सस्यशूकं किंशारुः कैणिशं सस्यशीर्षकम्॥११८१ स्तम्बस्तु गुच्छो धान्यादेर्नालं काण्डोऽफलस्तु सः । पलः पलालो धान्यत्वक्तुषो बुसे कडंगरः ॥ धान्यमावसितं रिद्धं तत्पूतं निर्वसीकृतम् । मूलपत्रकरीराग्रफलकाण्डाविरूढकाः ॥ ११८३ वक्पुष्पं कवकं शाकं दशधा शिकं च तत् । तण्डुलीयस्तण्डुलेरो मेघनादोऽल्पमारिषः ॥११८४ विम्बी रक्तफला पीलुपी स्यात्तुण्डिकेरिका । जीवन्ती जीवनी जीवा जीवनीया मधुस्रवा॥११८५ वास्तुकं तु क्षारपत्रं पालङ्कयां मधुसूदनी । रसोनो लसुनोऽरिष्टो म्लेच्छकन्दो महौषधम् ॥११८६ महाकन्दो रसोनोऽन्यो गृञ्जनो दीर्घपत्रकः । भृङ्गराजो भृङ्गरजो मार्कवः केशरञ्जनः ॥ ११८७ काकमाची वायसी स्यात्कारिवेल्लः कठिल्लकः । कूष्माण्डकस्तु कर्कारुः कोशातकी पटोलिका११८८ चिर्भटी कर्कटी वालुक्येर्वारुखपुसी च सा । अर्शोन्नः सूरणः कन्दः शृङ्गवेरकमार्दकम् ॥ ११८९ कर्कोटकः किलासन्नस्तिक्तपत्रः सुगन्धकः । मूलकं तु हरिपर्ण सेकिम हस्तिदन्तकम् ॥ ११९० तृणं नडादि नीवारादि च शष्पं तु तन्नवम् । सौगन्धिकं देवजग्धं पौरं कत्तृणरोहिषे ॥ ११९१ दर्भः कुशः कुथो बर्हिः पवित्रमथ तेजनः । गुन्द्रो मुञ्जः शरो दूर्वा वनन्ता शतपर्विका ॥ ११९२ हरिताली रुहा पोटगलस्तु धमनो नडः । कुरुविन्दो मेघनामा मुस्ता गुन्द्रा तु सोत्तमा ॥ ११९३ वल्वजा उलपोऽथेक्षुः स्याद्रसालोऽसिपत्रकः । भेदाः कान्तारपुण्डाद्यास्तस्य मूलं तु मोरटम् ॥११९४ काशस्त्विषीका घासस्तु यवसं तृणमर्जुनम् । विषः श्वेडो रसस्तीक्ष्णं गरलोऽथ हैलाहलः॥११९५ वत्सनाभः कालकुटो ब्रह्मपुत्रः प्रदीपनः । सौराष्टिकः शौल्किकेयः काकोलो दारदोऽपि च॥११९६ अहिच्छत्रो मेषशृङ्गकुष्टवालकनन्दनाः । कैराटको हैमवतो मर्कटः करवीरकः ॥ ११९७ सर्षपो मूलको गौराईकः सक्तुककर्दमौ । अङ्कोल्लसारः कालिङ्गः शृङ्गिको मधुसिक्थकः ॥ ११९८ इन्द्रो लाङ्गलिको विस्फुलिङ्गपिङ्गलगौतमाः । मुस्तको दालवश्चेति स्थावरा विषजातयः ॥ ११९९ कुरण्ट्याद्या अग्रबीजा मूलजास्तूत्पलादयः । पर्वयोऽनय इक्ष्वाद्याः स्कन्धजाः सल्लकीमुखाः।।१२०० शाल्यादयो वीजरुहाः संमूर्छजास्तृणादयः । स्युर्वनस्पतिकायस्य षडेते मूलजातयः ॥ १२०१
इति वनस्पतिकायः।
AAAAAmandakin
१. सातीनोऽपि. २. कनिशमपि. ३, हालाहलः, हालहलः अपि.
For Private and Personal Use Only
Page #58
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४ तिर्यकाण्डः ।
नीलङ्गुः कृमिरन्तर्जः क्षुद्रः कीटो बहिर्भवः । पूलकास्तूमयेऽपि स्युः कीकसा कृमयोऽणवः ॥ १२०२ काष्ठकीटो घुणो गण्डूपदः किंचुलकः कुसूः । भूलता गण्डूपदी तु शिल्यस्रपा जलौकसः ॥१२०३ जलालोका जलूका च जलौका जलसर्पिणी । मुक्तास्फोटाब्धिमण्डूकी शुक्तिः कम्बुस्तु वारिजः ॥ त्रिरेखः षोडशावर्तः शङ्खोऽथ क्षुद्रकम्बवः । शङ्खनकाः क्षुल्लकाश्च शम्बूकास्त्रम्बुमात्रजाः ॥१२०५ कपर्दस्तु हिरण्यः स्यात्पणास्थिकवराटकौ । दुर्नामा तु दीर्घकोशी पिपीलकस्तु पीलकः ॥ १२०६ पिपीलिका तु हीनाङ्गी ब्राह्मणी स्थूलशीषिका । घृतली पिङ्गकपिशाथोपजिह्वोपदेहिका ॥ १२०७ कच्युपदीका लिक्षा तु रिक्षा यूका च षट्पदी । गोपालिका महाभीरुगोमयोत्था तु गर्दभी ॥१२०८ मत्कुणस्तु कोलकुण उदंशः किटिभोत्कुणौ । इन्द्रगोपस्त्वग्निरजो वैराटस्तितिभोऽग्निकः ॥ १२०९ ऊर्णनाभस्तन्तुवायो जालिको जालकारकः । कृमिर्मर्कटको लूतालालास्रावोष्टपाच सः॥ १२१० कर्णजलौका तु कर्णकीटा शतपदी च सा । वृश्चिको द्रुण आल्यालिरलं तत्पुच्छकण्टकः ॥१२११ भ्रमरो मधुकद्धङ्गश्चञ्चरीकः शिलीमुखः । इन्दिन्दिरोऽली रोलम्बो द्विरेफोऽस्य षडङ्ग्यः ॥१२१२ भोज्यं तु पुष्पमधुनी खद्योतो ज्योतिरिङ्गणः । पतङ्गः शलभः क्षुद्रा सरघा मधुमक्षिका ॥ १२१३ माक्षिकादि मधु क्षौद्रं मधूच्छिष्टं तु सिक्थकम् । वर्वणा मक्षिका नीला पुत्तिका तु पतङ्गिका१२१४ वनमक्षिका तु दंशो दंशी तज्जातिरल्पिका । तैलाटी वरटा गन्धोली स्याचीरी तु चीरुका।।१२१५ झिल्लीका झिल्लिका वर्षकरी भृङ्गारिका च सा। पशुस्तियङ्चरिहिंस्रेऽस्मिन्व्यालः श्वापदोऽपि च१२१२
हस्ती मतङ्गजगजद्विपकर्यनेकपा मातङ्गवारणमहामृगसामयोनयः । ।
स्तम्बरमद्विरदसिन्धुरनागदन्तिनो दन्तावल: करटिकुञ्जरकुम्भिपीलवः ॥ १२१७ इभः करेणुर्गोऽस्य स्त्री धेनुका वशापि च । भद्रो मन्द्रो मृगो मिश्रश्चतस्रो गजजातयः ॥ १२१८, कालेऽप्यजातदन्तश्च स्वल्पाङ्गश्चापि मत्कुणः । पञ्चवर्षो गजो बालः स्यात्पोतो दशवार्षिकः ॥१२१९ विको विंशतिवर्षः स्यात्कलभस्त्रिंशदब्दकः । यूधनाथो यूथपतिमत्ते प्रभिन्नगजितौ ॥ १२२० मदोत्कटे मदकलः समावुद्वान्तनिर्मदौ । सज्जितः कल्पितस्तिर्यग्घाती परिणतो गजः ॥ १२२१ व्यालो दुष्टगजो गम्भीरवेद्यवमताङ्कुशः । राजबाह्यस्तूपबाह्यः संनाह्यः समरोचितः ॥ १२२२ उदग्रदन्नीषादन्तो बहूनां घटना घटा । मदो दानं प्रवृत्तिश्च वमथुः करशीकरः ॥ १२२३ हस्तिनासा करः शुण्डा हस्तोऽस्याग्रं तु पुष्करम् । अङ्गुलिः कर्णिका दन्तौ विषाणौ स्कन्ध आसनम् कर्णमूलं चूलिका स्यादीषिका बक्षिकूटकम् । अपाङ्गदेशो निर्याणं गण्डस्तु करटः कटः ॥ १२२५ अवग्रहो ललाटं स्यादारक्षः कुम्भयोरधः । कुम्भौ तु शिरसः पिण्डौ कुम्भयोरन्तरं विदुः ॥१२२६ वातकुम्भस्तु तस्याधो वाहित्थं तु ततोऽप्यधः । वाहित्थाधः प्रतिमानं पुच्छमूलं तु पेचकः ॥१२२७९ दन्तभागः पुरोभागः पक्षभागस्तु पार्श्वकः । पूर्वस्तु जङ्घादिदेशो गात्रं स्यात्पश्चिमोऽपरा ॥ १२२८ बिन्दुजालं पुनः पद्मं शृङ्खलो निगडोऽन्दुकः । हिजीरश्च पादपाशो वारिस्तु गजबन्धभूः ॥१२२९? त्रिपदी गात्रयोर्बन्ध एकस्मिन्नवरेऽपि च । तोत्रं वेणुकमालानं बन्धस्तम्भोऽङ्कुशः शृणिः ॥ १२३० अपष्ठं बङ्कुशस्याग्रं यातमङ्कुशवारणम् । निषादिनां पादकर्म यतं वीतं तु तहयम् ॥ १२३१
१. किंचुलुकोऽपि. २. क्रिमिरपि. ३. द्रुतोऽपि. ४. इकारान्तो नकारान्तो वा. ५. तेन घट्पदः, षडंहिः, षट्चरणः, इत्यादयः. ६. तेन पुष्पलिट , पुष्पंधयः, मधुव्रतः, मधुलिट्, मधुपः, इति सिद्धम्. ७. ऊपवाह्योऽपि. ८. अवरापि. ९. निगलोऽपि.
For Private and Personal Use Only
Page #59
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
४८
अभिधान संग्रह: - ६ अभिधानचिन्तामणिः ।
१२३६
१२३७
१२३८
१२३९
कक्ष्या दृष्या वरत्रा स्यात्कण्ठबन्धः कलापकः । घोटकस्तुरगस्तार्क्ष्यस्तुरंगोऽश्वस्तुरंगमः || १२३२ गन्धर्वोऽर्वा सप्तिवीती वाहो वाजी हयो हरिः । वडवाश्वा प्रसूर्वामी किशोरोऽल्पवया हयः।। १२३३ जवाधिकस्तु जवनो रथ्यो वोढा रथस्य यः | आजानेयः कुलीनः स्यात्तत्तदेशास्तु सैन्धवा || १२३४ वनायुजाः पारशीकाः काम्बोजा बाल्हिकादयः । विनीतस्तु साधुवाही दुर्विनीतस्तु शुकलः ।। १२३५ कश्यः कशार्हो हृद्वावर्ती श्रीवृक्षकी हयः । पञ्चभद्रस्तु हृत्पृष्ठमुखपार्श्वेषु पुष्पितः ॥ पुच्छोरः खुर के शास्यैः सितैः स्यादष्टमङ्गलः । श्वेते तु कर्ककोकाहौखोङ्गाहः श्वेतपिङ्गले ॥ पीयूषवर्णे सेराहः पीते तु हरियो हये । कृष्णवर्णे तु खुङ्गाहः कियाहो लोहितो हयः ॥ आनीलस्तु नीलकोsr त्रियूहः कपिलो हयः । वोल्लाहस्त्वयमेव स्यापाण्डुकेसरबालधिः || उराहस्तु मनाक्पाण्डुः कृष्णजङ्घो भवेद्यदि । सुरूहको गर्दभाभो वोरुखानस्तु पाटलः ॥ १२४० कुलाहस्तु मनापीतः कृष्णः स्याद्यदि जानुनि । उकनाहः पीतरक्तच्छायः स एव तु क्वचित १२४१ कृष्णरक्तच्छविः प्रोक्तः शोणः कोकनदच्छविः । हरितः पीतहरितच्छायः स एव हालकः ।। १२४२ पङ्गुलः सितकाचाभो हलाहश्चित्रितो हयः । ययुरश्वोऽश्वमेधीय: प्रोथमश्वस्य नासिका || १२४३ मध्यं कश्यं निगालस्तु गल्लोद्देशः खुराः शफाः । अथ पुच्छं बालहस्तो लाङ्गूलं लूम वालधिः १२४४ अपावृत्तपरावृत्तलुठितानि तु वेतेि । धोरितं वल्गितं प्लुत्युत्तेजितोत्तेरितानि च ॥ १२४५ गतयः पञ्च धाराख्यास्तुरंगाणां क्रमादिमाः । तत्र धौरितकं धौर्य धोरणं धोरितं च तत् ।। १२४६२ बभ्रुकङ्गशिखिकोडगतिवद्वल्गितं पुनः । अग्रकायसमुल्लासात्कुञ्चितास्यं नतत्रिकम् ॥
१२४७
१२४८
१२५३
१२५४
१२५५
१२५३
तं तु लङ्घनं पक्षिमृगगत्यनुहारकम् । उत्तेजितं रेचितं स्यान्मध्यवेगेन या गतिः ॥ उत्तेरितमुपकण्ठमास्कन्दितकमित्यपि । उत्प्लुत्योत्प्लुत्य गमनं कोपादिवाखिलैः पदैः ॥ १२४९ आश्वीनोऽध्वा स योऽश्वेन दिनेनैकेन गम्यते । कवी खलीनं कविका कवियं मुखयन्त्रणम् || १२५० पाङ्गी पट्टे तु तलिका तलसारकम् । दामाञ्चनं पादपाशः प्रक्षरप्रखरौ समौ ॥ १२५१ 'चर्मदण्डे कशा रश्मौ वैल्गावक्षेपणी कुशा । पर्याणं तु पल्ययनं वीतं फल्गु हयद्विपम्' ।। १२५२ वेसरोऽश्वतरो वेगसरश्चाध क्रमेलकः । कुलनाशः शिशुनामा शलो भोलिर्मरुप्रियः ॥ मेयो महाङ्गो वासन्तो द्विककुद्दुर्गलङ्घनः । भूतन्न उष्ट्रो दाशेरो रवणः कण्टकासनः || दीर्घग्रीवः केलिकीर्णः करभस्तु त्रिहायणः । स तु शृङ्खलको दारुमयैः स्यात्पादबन्धनैः ॥ गर्दभस्तु चिरमेही वायो रासभः खरः । चक्रीवाञ्शङ्कुकर्णोऽथ ऋषभो वृषभो वृषः || वाडवेयः सौरभेयो भद्रः शकरशाकरौ । उक्षानवान्ककुद्मान्गौर्बलीवर्दश्व शांकरः ॥ उक्षा तु जातो जातोक्षः स्कन्धकः स्कन्धवाहकः । महोक्षः स्यादुक्षतरो वृद्धाक्षस्तु जरद्भवः १२५८ षण्ढतोचित आर्षभ्यः कूटो भविषाणकः । इदूरोगोपतिः षण्ढो गीवृषो मदको हलः । १२५९ वत्सः शकृत्करिस्तर्णो दम्यवत्सतरौ समौ । नस्योतो नस्तितः षष्टवाट् तु स्याद्युगपार्श्वगः || १२६० युगादीनां तु वोढारो युग्यंप्रासङ्गयशाकटाः । स तु सर्वधुरीणः स्यात्सर्वो वहति यो धुरम् ॥ १२६१ एकधुरीणैकधुरावुभावेकधुरावहे । धुरीणधुर्यधौरेयधौरेयकधुरंधराः ॥ धूर्वऽथ गलिर्दुष्टवृषः शक्तोऽप्यधूर्वहः । स्थैौरीष्पृष्टयः पृष्ठवाह्यो द्विदन्षोद्विषदौ । १२६३ वहः स्कन्धोंऽसकूटं तु ककुदं नैचिकं शिरः । विषाणं कूणिका शृङ्गं सास्ना तु गलकम्बल: १२६४ १. वल्गवागे अपि २. मयुरित्येके. ३. इत्वर इत्येके.
१२५७
१२६२
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
Page #60
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४ तिर्यकाण्डः।
गौः सौरभेयी माहेयी माहा सुरभिरर्जुनी । उसाच्या रोहिणी सृङ्गिण्यनड्डाह्यनडुाषा ॥ १२६५ तम्पा निलिम्पिका तम्बा सा तु वर्णैरनेकधा । प्रष्ठौही गर्भिणी वन्ध्या वशा वेहडषोपगा ॥१२६६ अवतोका स्रवद्गी वृषाक्रान्ता तु संधिनी । प्रौढवत्सा बष्कयिणी धेनुस्तु नवसूतिका ॥ १२६७ परेष्टुर्बहुसूतिः स्यादृष्टिः सकृत्प्रसूतिका । प्रजने काल्योपसर्या सुखदोह्या तु सुव्रता ॥ १२६८ दुःखदोह्या तु करटा बहुदुग्धा तु वञ्जला । द्रोणदुग्धा द्रोणदुघा पीनोन्नी पीवरस्तनी ॥ १२६९ पीतदुग्धा तु धेनुष्या संस्थिता दुग्धबन्धकैः । नैचिकी तूत्तमा गोषु पलिक्नी बालगर्भिणी ॥ १२७० समांसमीना तु सा या प्रतिवर्ष प्रजायते । स्यादचण्डी तु सुकरा वत्सकामा तु वत्सला ॥ १२७१ चतुस्रायणी ब्येकाद्धायन्येकादिवर्षिका । आपीनमूधो गोविट् तु गोमयं भूमिलेपनम् ॥ १२७२ तत्र शुष्क तु गोग्रन्थिः करीषछगणे अपि।। गवां सर्वं गव्यं व्रजे गोकुलं गोधनं धनम् ॥ १२७३ . प्रजने स्यादुपसरः कील: पुष्पलकः शिवः । बन्धनं दाम संदानं पशुरज्जुस्तु दामनी ॥ १२७४ अजः स्याच्छगल छाग छगो बस्तः स्तभः पशुः । अजा तु च्छागिका मञ्जा सर्वभक्षा गलस्तनी ।। यवाजो वर्करोऽवौ तु मेषोर्णायुहडोरणाः । उरभ्रो मेण्ढको वृष्णिरेडको रोमशो हुडुः ॥ १२७६ संफालः शृङ्गिणो भेडो मेषी तु कुररी रुजा । जालकिन्यविला वेण्यथेडिकः शिशुवाहकः॥१२७७ पृष्टशृङ्गो वनाजः स्यादविदुग्धे त्ववेः परम् । सोढं दूसं मरीसं च कुक्कुरो वक्रवालधिः ॥ १२७८ अस्थिभुम्भेषणः सारमेयः कौलेयकः शुनः । शुनिः श्वानो गृहमृगः कुर्कुरो रात्रिजागरः ॥ १२७९ रसनालि तपराः कीलशायिव्रणान्दुकाः । शालावृको मृगदंशः श्वालर्कस्तु स रोगितः ॥ १२८० विश्वकद्रुस्तु कुशलो मृगव्ये सरमा शुनी । विट् चरः शूकरो ग्राम्ये महिषो यमवाहनः ॥ १२८१ रजस्खलो वाहरिपुर्जुलायः सैरिभो महः । धीरस्कन्धः कृष्णशृङ्गो जरन्तो दंशभीरुकः ॥ १२८२ रक्ताक्षः कासरो हंसकालीतनयलालिको । अरण्यजेऽस्मिन्गवलः सिंहः कण्ठीरवो हरिः ॥ १२८३ हर्यक्षः केसरीभारिः पञ्चास्यो नखरायुधः । महानादः पञ्चशिखः पारीन्द्रः पत्यरी मृगात् ॥ १२८४ श्वेतपिङ्गोऽप्यथ व्याघ्रो द्वीपी शार्दूलचित्रको । चित्रकायः पुण्डरीकस्तरक्षुस्तु मृगादनः ॥ १२८५ शरभः कुञ्जरारातिरुत्पादकोऽष्टपादपि । गवयः स्याद्वनगवो गोसदृक्षोऽश्ववारणः ॥ १२८६ खड्गी वाध्रीणसः खड्गो गण्डकोऽथ किरः किरिः । भूदारः सूकरः कोलो वराहःक्रोडपोत्रिणौ १२८७ घोणी घष्टिः स्तब्धरोमा दंष्टी किट्यास्यलाङ्गलौ । आखनिकः शिरोमर्मा स्थूलनासो बहुप्रजः॥१२८८ भाल्लूकभालूकआच्छभल्लभल्लुकभल्लुकाः । सृगालो जम्बुकः फेरुः फेरण्ड: फेरवः शिवा ॥ १२८९ घोरवाशी भूरिमायो गोमायुगधूर्तकः । हूरवो भरुजः क्रोष्टा शिवाभेदेऽल्पके किखिः ॥ १२९० पृथौ गृण्डिबलोपाको कोकस्त्वीहामृगो वृकः । अरण्यश्वा मर्कटस्तु कपिः कीशः प्लवंगमः ॥१२९१ प्लवंगः प्लवगः शाखामृगो हरिर्वलीमुखः । वनौका वानरोऽथासौ गोलाङ्गलोऽसिताननः ॥ १२९२ मृगः कुरङ्गः सारङ्गो वातायुहरिणावपि । मृगभेदा रुरुन्यङ्कुरङ्गोकर्णशम्बराः ॥ १२९३ चमूरुचीनचमराः समरैणर्यरौहिषाः । कदली कन्दली कृष्णसारः पृषतरोहितौ ॥ १२९४ दक्षिणेर्मा तु स मृगो व्याधैर्यो दक्षिणे क्षतः । वातप्रमीतिमृगः शशस्तु मृदुलोमकः ॥ १२९५॥ शूलिको लोमकर्णोऽथ शल्ये शललशल्यको । श्वाविच्च तच्छलाकायां शललं शलमित्यपि ॥ १२९६
१. तेन अविमरीसमित्यन्ता बोध्या:. २. भषकोऽपि. ३. तेन रतकीलः, रतशायी, रतत्रणः, रतान्दुकः. ४. मृगशब्दः पत्यरिभ्यां संबध्यते. ५. अष्टापदोऽपि.
For Private and Personal Use Only
Page #61
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५०
अभिधान संग्रह: - ६ अभिधानचिन्तामणिः ।
१३००
atar feraritaritaरौ दुष्टतत्सुते । गौधेयोऽन्यत्र मुसली गोधिकागोलिके गृहात् || १२९७ माणिक्या भित्तिका पल्ली कुड्यमत्स्यो गृहोलिका । स्यादञ्जनाधिका हालिन्यञ्जनिका हलाहलः १२९८ स्थूलाञ्जनाधिकायां तु ब्राह्मणी रक्तपुच्छका । कृकलासस्तु सरटः प्रेतिसूर्यः शयानकः ॥ १२९९ मूषिको मूषको वज्रदशनः खनकोन्दुरौ | उन्दुरुर्वृष आखुश्च सूच्यास्यो वृषलोचने || छुछुन्दरीगन्धमूष्यां गिरिका बालमूषिका । बिडाल ओतुर्मार्जारो हीकुश्च वृषदंशकः ॥१३०१ जाहको गात्रसंकोची मण्डली नकुलः पुनः । पिङ्गलः सर्पहा बभ्रुः सर्पोऽहिः पवनाशनः ॥१३०२ भोगी भुजंगभुजगावरगो द्विजिह्वव्याला भुजंगममरीसृपदीर्घजिह्वाः । काकोदरो विषधरः फणभृत्प्रदा कुकर्ण कुण्डलिबिलेशय दन्दशूकाः || दर्वीकरः कञ्चुकिचक्रिगूढपात्पन्नगा जिह्मगलेलिहानौ ।' कुम्भीनसाशीविषदीर्घपृष्ठाः स्याद्राजसर्पस्तु भुजंगभोजी ||
१३११
१३०४ चक्रमण्डल्यजगरः पारीन्द्रो वाहसः शयुः । अलगर्दो जलव्यालः समौ राजिलडुण्डुभौ ।। १३०५ भवेत्तिलित्सो गोनासो गोनसो घोणसोऽपि च । कुकुटाहिः कुकुटाभो वर्णेन च रवेण च ॥१३०६ नागाः पुनः काद्रवेयास्तेषां भोगावती पुरी । शेषो नागाधिपोऽनन्तो द्विसहस्राक्ष आलुकः || १२०७ स च श्यामोऽथवा शुक्लः सितपङ्कजलाञ्छनः । वासुकिस्तु सर्पराजः श्वेतो नीलसरोजवान्॥१३०८ तक्षकस्तु लोहिताङ्गः स्वस्तिकाङ्कितमस्तकः । महापद्मस्त्वतिशुक्लो दशविन्दुकमस्तकः ॥ १३०९ शङ्खस्तु श्वेतो विभ्राणो रेखामिन्दुसितां गले । कुलिकोर्द्धचन्द्रमौलिलाधूमसमप्रभः ॥ १३१० अथ कम्बलाश्वतरधृतराष्ट्रबलाहकाः । इत्यादयोऽपरे नागास्तत्तत्कुलसमुद्भवाः ॥ निर्मुक्तो मुक्तनिर्मोकः सविषा निर्विषाश्च ते । नागाः स्युद्देग्विषा लूनविषास्तु वृश्चिकादयः ॥ १३१२ यात्रादयो लोमविषा नखविषा नरादयः । लालाविषास्तु लूताद्याः कालान्तरविषाः पुनः ।। १३१३ मूषिकाद्या दूषीविषं त्ववीर्यमोषधादिभिः । कृत्रिमं तु विषं चारं गरश्चोपविषं च तत् ॥ १३१४ भोगोऽहिकायो दंष्ट्राशीर्दर्वी भोग: फट: स्फट: | फणोऽहिकोशे तु निर्व्वयनी निर्मोककक्षुकाः ॥ विहगो विहंगमखगौ पतगो विहंगः शकुनिः शकुन्तशकुनौ विवयः शकुन्ताः । नभसंगमो विकिरपत्ररथौ विहायो द्विजपक्षिविष्किरपतत्रिपतत्पतङ्गाः ॥ १३१६ पित्सन्नीडाण्डजोगौकाश्चक्षुश्चञ्च सृपाटिका । त्रोटिश्च पत्रं पतत्रं पिच्छं वाजस्तनूरुहम् ॥ १३१७ पक्षो गरुच्छदश्चापि पक्षमूलं तु पक्षतिः । प्रडीनोड्डीनसंडीनडयनानि नभोगतौ ॥ १३१८ पेशी कोशोऽण्डे कुलायो नीडे केकी तु सर्पभुक् । मयूरबर्हिणौ नीलकण्ठो मेघसुहृच्छिखी ॥ १३१९ शुक्लापाङ्गोऽस्य वाकेका पिच्छं बर्हे शिखण्डकः । प्रचलाकः कलापञ्च मेचकश्चन्द्रकः समौ ॥ १३२० वनप्रियः परभृतस्ताम्राक्षः कोकिलः पिकः । कलकण्ठः काकपुष्टः काकोऽरिष्टः सकृत्प्रजः ।। १३२१ आत्मघोषश्चिरजीवी घूकारिः । करटो द्विकः । एकदृग्बलिभुग्ध्वाङ्क्षो मौकुलिर्वायसोऽन्यभृत् ॥ १३२२ वृद्धद्रोणदग्धकृष्णपर्वतेभ्यस्त्वसौ परः । वनाश्रयश्च काकोलो मदुस्तु जलवायसः ॥
१३२३
घूके निशाटः काकारिः कौशिकोलूकपेचकाः । दिवान्धोऽथ निशावेदी कुक्कुटश्चरणायुधः ॥ १३२४ कृकवाकुस्ताम्रचूडो विवृताक्षः शिखण्डिकः । हंसाञ्चक्राङ्गवाङ्गमानसौकः सितच्छदाः || १३२५
For Private and Personal Use Only
१३०३
१. तेन गृहगोधिका, गृहगोलिका. २. 'प्रतिसूर्यशयानकः' इत्येकं नामापि ३. एककुण्डलोऽपि. ४. निर्लयनीत्यपि. ५. जशब्दो नीडेनाप्यन्वेति ६. तेन वृद्धकाक इत्यादयः.
Page #62
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४ तिर्यकाण्डः।
राजहंसास्त्वमी चचचरणैरतिलोहितैः । मल्लिकाक्षास्तु मलिनैर्धार्तराष्ट्राः सितेतरैः ॥ १३२६ कादम्बास्तु कलहंसाः पक्षैः स्यादतिधूसरैः॥ वारला वरला हंसी वारटा वरटा च सा ॥ १३२७ दाघाटः शतपत्रः खञ्जरीटस्तु खञ्जनः । सारसस्तु लक्ष्मणः स्यात्पुष्कराख्यः कुरंकरः ॥ १३२८ सारसी लक्ष्मणाथ क्रुक्रौञ्चे चाषे किंकीदिविः। चातकः स्तोकको वप्पीहः सारङ्गो नभोम्बुपः१३२९ चक्रवाको रथाङ्गाह्वः कोको द्वन्द्वचरोऽपि च । टिट्टिभस्तु कटुक्काण उत्पादशयनश्च सः ॥ १३३० चटको गृहबलिभुक्कलविङ्कः कुविङ्ककः । तस्य योषित्तु चटका रुयपत्ये चटका तयोः ॥ १३३१ पुमपये चाटकैरो दात्यूहे कालकण्टकः । जलरङ्कर्जलरञ्जो, बके कहो बकोटवत् ॥ १३३२ बलाहकः स्याद्वलाको बलाका बिसकण्ठिका। भृङ्गः कलिङ्गो धूम्याटः कङ्कस्तु कमनच्छदः॥१३३३ लोहपृष्टो दीर्घपादः कर्कटः स्कन्धमल्लकः । चिल्लः शकुनिरातापी श्येनः पत्री शशादनः ॥ १३३४ दाक्षाय्यो दूरदृग्गृध्रोऽथोक्रोशो मत्स्यनाशनः । कुररः कीरस्तु शुको रक्तपादः फलादनः॥ १३३५ शारिका तु पीतपादा गोराटी गोकिराटिका । स्याचर्मचटकायां तु जतुका जिनपत्रिका ॥ १३३६ वल्गुलिका मुखविष्टा परोष्णी तैलंपायिका । कर्करेटुः करेटुत्स्यात्करटुः कर्कराटुकः ॥ १३३७ आतिराटिः शरारिः स्यात्कृकणक्रकरौ समौ । भासे शकुन्तः कोयष्टौ शिखरी जलकुकुभः॥१३३८ पारावत: कलरवः कपोतो रक्तलोचनः । ज्योत्स्नाप्रिये चलचञ्चचकोरविषसूचकाः॥ १३३९ जीवंजीवस्तु गुन्द्रालो विषदर्शनमृत्युकः । व्याघ्राटस्तु भरद्वाजः प्लवस्तु गात्रसंप्लवः ॥ १३४० तित्तिरिस्तु खरकोणो हारीतस्तु मृदङ्कुरः । कारण्डवस्तु मरुलः सुगृहश्चक्षुसूचिकः ॥ १३४१ कुम्भकारकुकुटस्तु कुकुभः कुहकस्वनः । पक्षिणा येन गृह्यन्ते पक्षिणोऽन्ये स दीपकः ॥ १३४२ छेका गृह्याश्च ते गेहासत्ता ये मृगपक्षिणः। मत्स्यो मीनः पृथुरोमा झषो वैसारिणोऽण्डजः॥१३४३ संघचारी स्थिरजिह्व आत्माशी स्वकुलक्षयः । विसारः शकली शल्की शंबरोऽनिमिषस्तिमिः ॥१३४४ सहस्रदंष्टे वादालः पाठीने चित्रवल्लिकः । शकुले स्यात्कलकोऽथ गडकः शकुलार्भकः ॥ १३४५ उलूपी शिशुके प्रोष्ठी शफरः श्वेतकोलके । नलमीनश्चिलिचिमो मत्स्यराजस्तु रोहितः ॥ १३४६ मद्गुरस्तु राजशृङ्गः शृङ्गी तु मद्गुरप्रिया । क्षुद्राण्डमत्स्यजातं तु पोताधानं जलाण्डकम् ॥ १३४७ महामत्स्यास्तु चीरल्लितिमिंगिलगिलादयः । अथ यादांसि नकाद्या हिंसका जलजन्तवः ॥ १३४८ नक्रः कुम्भीर आलास्यः कुम्भी महामुखोऽपि च । तालुजिह्वः शङ्खमुखो गोमुखो जलसूकरः १३४९ शिशुमारस्त्वम्बकूर्म उष्णवीर्यो महावसः । उद्रस्तु जलमार्जारः पानीयनकुलो वसी ॥ १३५० प्राहे तन्तुस्तन्तुनागोऽवहारो नागतन्तुणौ । अन्येऽपि यादोभेदाः स्युबहवो मकरादयः ॥ १३५१ कुलीरः कर्कटः पिङ्गचक्षुः पार्थोदरप्रियः । द्विधागतिः षोडशांभिः कुरचिल्लो बहिश्चरः ॥ १३५२ कच्छपः कमठः कूर्मः क्रोडपादश्चतुर्गतिः । पञ्चाङ्गगुप्तदौलेयौ जीवथः कच्छपी दुली ॥ १३५३ मण्डूके हरिशालूरप्लवभेकप्लवंगमाः । वर्षाभूः प्लवग: शालुरजिह्वव्यङ्गदर्दुराः ॥ १३५४ स्थले नरादयो ये तु ते जले जलपूर्वकाः । अण्डजाः पक्षिसर्पाद्याः पोतजाः कुञ्जरादयः ।। १३५५ रसजा मद्यकीटाद्या नृगवाद्या जरायुजाः । यूकाद्याः स्वेदजा मत्स्यादयः संमूर्च्छनोद्भवाः ॥१३५६
१. लक्ष्मणीत्यपि. २. किकी, दिविः इति द्वे नामनी अपि । किकिदिविरपि. ३. टीटिभ इत्येके. ४. दात्योहोऽपि. ५. वकेरुकापि. ६. निशाटन्यपि. ७. चिलीचीमोऽपि. ८. शङ्कमुखोऽपि. ९. वरुणपाशोऽपि.
For Private and Personal Use Only
Page #63
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५२
अभिधानसंग्रहः-६ अभिधानचिन्तामणिः । उद्भिदः खञ्जनाश्वोपपादुका देवनारकाः । रसयोनय इत्यष्टावुद्भिदुद्भिज्जमुद्भिदम् ॥ १३५७
इत्याचार्यहेमचन्द्रविरचितायामभिधानचिन्तामणौ नाममालायां तिर्यकाण्डश्चतुर्थः ॥ ४ ॥ स्युर्नारकास्तु परेतप्रेतयात्यातिवाहिकाः । आजूविष्टिर्यातना तु कारणा तीव्रदेवना ॥ नरकस्तु नारकः स्यान्निरयो दुर्गतिश्च सः । घनोदधिधनवाततनुवातनभःस्थिताः ॥ १३५९ रत्नशर्करावालुकापङ्कधूमतमःप्रभाः। महातमःप्रभा चेत्यधोधो नरकभूमयः ॥
१३६० क्रमात्पृथुतराः सप्ताथ त्रिंशत्पञ्चविंशतिः । पञ्च पञ्चदश त्रीणि लक्षाण्यूनं च पञ्चभिः ॥ १३६१ लक्षं पञ्चैव नरकावासाः सीमन्तकादयः । एतासु स्युः क्रमेणाथ पातालं वडवामुखम् ॥ १३६२ बलिवेश्माधोभुवनं नागलोको रसातलम् । रन्धं विलं नियंथनं कुहरं शुषिरं शुषिः ॥ १३६३ छिद्रं रोपं विवरं च निम्नं रोकं वपान्तरम् । गर्तश्वभ्रावटागाधदरास्तु विवरे भुवः ॥ १३६४
__इत्याचार्यहेमचन्द्रविरचितायामभिधानचिन्तामणौ नाममालायां नरककाण्डः पञ्चमः ॥ ५ ॥ स्याल्लोको विष्टपं विश्वं भुवनं जगती जगत् । जीवाजीवाधारक्षेत्रं लोकोऽलोकस्ततोऽन्यथा ॥१३६५ क्षेत्रज्ञ आत्मा पुरुषश्चेतनः स पुनर्भवी । जीवः स्यादसुमान्सत्वं देहेभृज्जन्युजन्तवः ॥ १३६६ उत्पत्तिर्जन्मजनुषी जननं जनिरुद्भवः । जीवेऽसुजीवितप्राणा जीवातुर्जीवनौषधम् ॥ १३६७ श्वासस्तु श्वसितं सोऽन्तर्मुख उच्छास आहरः । आनो बहिर्मुखस्तु स्यान्निःश्वासः पान एतनः॥१३६८ आयुर्जीवितकालोऽन्तःकरणं मानसं मनः । हृच्चेतो हृदयं चित्तं स्वान्तं गूढपथोच्चले ॥ १३६९ मनसः कर्म संकल्पः स्यादथो,शर्मनिर्वृतिः । सातं सौख्यं सुखं दुःखं खसुखं वेदना व्यथा।।१३७० पीडा बाधातिराभीलं कृच्छं कष्टं प्रसूतिजम् । आमनस्यं प्रगाढं स्यादाधिः स्यान्मानसी व्यथा॥१३७१ सपत्राकृतिनिष्पत्राकृती त्वत्यन्तपीडने । भुज्जाठराग्निजा पीडा व्यापादो द्रोहचिन्तनम् ॥ १३७२ उपज्ञा ज्ञानमाद्यं स्याचर्चा संख्या विचारणा । वासना भावना संस्कारोऽनुभूताद्यविस्मृतिः ॥१३७३ निर्णयो निश्चयोऽन्तः संप्रधारणा समर्थनम् । अविद्याहंमत्यज्ञाने भ्रान्तिर्मिथ्यामतिर्धमः ॥ १३७४ संदेहद्वापरारेका विचिकित्सा तु संशयः । परभागो गुणोत्कर्षों दोषे त्वादीनवाश्रवौ ॥ १३७५ खाद्रूपं लक्षणं भावश्चात्मप्रकृतिरीतयः । सहजो रूपतत्त्वं च धर्मः सर्गो निसर्गवत् ॥ १३७६ शीलं सतत्त्वं संसिद्धिरवस्था त दशा स्थितिः । स्नेहः प्रीतिः प्रेम हार्दै दाक्षिण्यं त्वनुकूलता॥१३७७
विप्रेतिसारोऽनुशयः पश्चात्तापोऽनुतापश्च । अवधानसमाधानप्रणिधानानि तु समाधौ स्युः ॥
१३७८ धर्मः पुण्यं वृषः श्रेयः सुकृते नियतौ विधिः । दैवं भाग्यं भागधेयं दिष्टं चायस्तु तच्छुभम् ॥१३७९ अलक्ष्मीनितिः कालकर्णिका स्यादथाशुभम् । दुष्कृतं दुरितं पापमेनः पाप्मा च पातकम् ॥ १३८० किल्बिषं कलुषं किण्वं कल्मषं वृजिनं तमः । अंहः कल्कमधं पङ्क उपाधिर्धर्मचिन्तनम् ॥ १३८१ त्रिवर्गा धर्मकामार्थाश्चतुर्वर्गः समोक्षकाः । बलतूर्याश्चतुर्भद्रं प्रमादोऽनवधानता ॥ १३८२ छन्दोऽभिप्राय आकृतं मतभावाशया अपि । हृषीकमक्षं करणं स्रोतः खं विषयीन्द्रियम् ॥ १३८३ बुद्धीन्द्रियं स्पर्शनादि पाण्यादि तु क्रियेन्द्रियम् । स्पर्शादयस्त्विन्द्रियार्थी विषया गोचरा अपि ॥१३८४
१. यौगिकत्वात्-नारकिक-नैरयिक-नारकीयादयः. २. प्रभाशब्दः प्रत्येकं रतादिभिरन्वयः. ३. दन्त्यादिरित्येके. ४. जीवोऽपि. ५. यौगिकत्वात्-देहभाक् शरीरीत्यादयः ६. अदन्तोऽपि. ७. जीवातुरपि. ८. अनिन्द्रियमपि. ९. विकल्पोऽपि. १०. शर्ममपि. ११. स्वशब्दो रूपादिभिरन्वेति. १२. विप्रतीसारोऽपि. ११. अर्था अपि.
For Private and Personal Use Only
Page #64
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ सामान्यकाण्डः।
शीते तुषार: शिशिरः सुशीमः शीतलो जडः । हिमोऽथोष्मे तिग्मस्तीक्ष्णस्तीत्रश्चण्डः खरः पटुः ॥ कोष्णः कवोष्णः कदुष्णो मन्दोष्णश्वेषदुष्णवत् ।निष्ठुरः कस्खटः क्रूरः परुषः कर्कशः खरः॥१३८६ दृढः कठोरः कटिनो जरठः कोमलः पुनः । मृदुलो मृदुसोमालसुकुमारा अकर्कशः ॥ १३८७ मधुरस्तु रसज्येष्ठो गुल्यः स्वादुमधूलकः।। अम्लस्तु पाचनो दन्तशठोऽथ लवणं सरः ॥ १३८८ सर्वरसोऽथ कटुः स्यादोषणो मुखशोधनः । वक्रभेदी तु तिक्तोऽथा कषायस्तुवरो रसाः ॥ १३८९ गन्धो जनमनोहारी सुरभिर्घाणतर्पणः । समाकर्षी तु निर्हारी स आमोदो विदूरगः॥ १३९० विमर्दोत्थः परिमलोऽथामोदी मुखवासनः । इष्टगन्धः सुगन्धिश्च दुर्गन्धः पूतिगन्धिकः ॥ १३९१ आमगन्धि तु विस्र स्याद्वर्णाः श्वेतादिका अमी । श्वेतः श्यतः सितः शुक्लो हरिणो विशदः शुचिः॥ अवदातगौरशुभ्रवलक्षधवलार्जुनाः । पाण्डुरः पाण्डरः पाण्डुरीषत्पाण्डुस्तु धूसरः॥ १३९३ कापोतस्तु कपोताभः पीतस्तु सितरञ्जनः । हारिद्रः पीतलो गौरः पीते। नीलः पुनर्हरित् ॥ १३९४ पालाशो हरितस्तालकाभो रक्तस्तु रोहितः । माञ्जिष्टो लोहितः शोणः श्वेतरक्तस्तु पाटलः ।।१३९५ अरुणो बालसंध्याभः पीतरक्तस्तु पिञ्जरः । कपिल: पिङ्गलः श्यावः पिशङ्गः कपिशो हरिः॥१३९६ बभ्रुः कद्रुः कडारश्च पिङ्गे कृष्णस्तु मेचकः । स्याद्रामः श्यामलः श्यामः कालो नीलोऽसितः शितिः॥ रक्तश्यामे पुनधूम्रधूमलावथ कर्बुरः । किर्मीर एतः शबलश्चित्रकल्माषचित्रलाः ॥ १३९८ शब्दो निनादो निर्घोषः स्वानो ध्वानः स्वरो ध्वनिः । निर्हादो निनदो हादो निस्वानो निस्वनः स्वनः॥ रवो नादः स्वनिर्घोष: संव्याङ्भ्यो राव आरवः । कणनं निक्कणः क्वाणो निक्काणश्च कणो रणः ॥ षड्ज ऋषभगान्धारा मध्यमः पञ्चमस्तथा । धैवतो निषधः सप्त तत्रीकण्ठोद्भवाः स्वराः ॥ १४०१ ते मन्द्रमध्यताराः स्युरुरःकण्ठशिरोद्भवाः ।। रुदितं ऋन्दितं कुष्टं तदपुष्टं तु गह्वरम् ॥ .. १४०२ शब्दो गुणानुगगोत्थः प्रणादः सीत्कृतं नृणाम् । पर्दनं गुदजे शब्दे कर्दनं कुक्षिसंभवे ॥ १४०३ क्ष्वेडा तु सिंहनादोऽथ क्रन्दनं सुभटध्वनिः । कोलाहलः कलकलस्तुमुलो व्याकुलो रवः ॥१४०४ मर्मरो वरपत्रादेर्भूषणानां तु शिञ्जितम् । हेषा हेषा तुरंगाणां गजानां गर्जवृंहिते ॥ १४०५ विस्फारो धनुषां हंभारम्भे गोर्जलदस्य च । स्तनितं गर्जितं गर्जिः स्वनितं रसितादि च ॥ १४०६ कूजितं स्याद्विहंगानां तिरश्चां रुतवाशिते । वृकस्य रेषणं रेषा बुकनं भषणं शुनः ॥ १४०७ पीडितानां तु कणितं मणितं रतकूजितम् । प्रकाणः प्रक्कणस्तव्या मर्दलस्य तु गुन्दलः ॥ १४०८ क्षीजनं तु कीचकानां भेर्या नादस्तु दर्दुरः । तारोऽत्युच्चैर्ध्वनिमन्द्रो गम्भीरो मधुरः कलः ॥१४०९ काकली तु कल: सूक्ष्म एकतालो लयानुगः । काकुर्ध्वनिविकारः स्यात्प्रतिश्रुत्तु प्रतिध्वनिः ॥१४१०
संघाते प्रकरौघवारनिकरव्यूहाः समूहश्चयः __संदोहः समुदायराशिविसरत्राताः कलापो ब्रजः । कूटं मण्डलचक्रवालपटलस्तोमा गणः पेटकं वृन्दं चक्रकदम्बके समुदयः पुञ्जोत्करौ संहतिः ॥
१४११ समवायो निकुरम्बं जालं निवहसंचयौ । जातं तिरश्चां तथं, संघसार्थौ तु देहिनाम् ॥ १४१२ कुलं तेषां सजातीनां निकायस्तु सर्मिणाम् । वर्गस्तु सदृशां स्कन्धो नरकुञ्जरवाजिनाम् ॥ १४१३
१. सुषीमोऽपि. २. रावशब्द: समादिभिरन्वेति. ३. गर्जापि. ४. मद्रोऽपि. ५. काकलिरपि. ६. आकरोऽपि.
For Private and Personal Use Only
Page #65
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिधानसंग्रहः-६ अभिधानचिन्तामणिः । ग्रामो विषयशब्दास्त्रभूतेन्द्रियगुणाद्रजे | समजस्तु पशूनां स्यात्समाजस्त्वन्यदेहिनाम् ॥ १४१४ शुकादीनां गणे शौकमायूरतैत्तिरादयः । भिक्षादेभैक्षसाहस्रगाभिणयौवतादयः ॥ १४१५ गोत्रार्थप्रत्ययान्तानां स्युरौपगविकादयः । उक्षादेरौक्षकं मानुष्यकं वार्द्धकमौष्ट्रकम् ॥ १४१६ स्याद्राजपुत्रकं राजन्यकं राजकमाजकम् । वात्सकौरभ्रके कावचिकं कवचिनामपि ॥ १४१७ हास्तिकं तु हस्तिनां स्यादापूपिकाद्यचेतसाम् । धेनूनां धैनुकं धेन्वन्तानां गौधेनुकादयः ॥ १४१८ केदारकं कैदारकं कैदार्यमपि तद्गणे । ब्राह्मणादेब्राह्मण्यं माणव्यं वाडव्यमित्यपि ॥ १४१९ गणिकानां तु गाणिक्यं केशानां कैश्यकैशिके । अश्वानामाश्वमश्वीयं पशूनां पार्श्वमप्यथ ॥ १४२० वातूलवात्ये वातानां गव्यागोत्रे पुनर्गवाम् । पाश्याखल्यादि पाशादेः खलादेः खलिनीनिभाः॥१४२१ जनता बन्धुता ग्रामता गजता सहायता । जनादीनां रथानां तु स्याद्रथ्या रथकट्यया ॥ १४२२ राजिर्लेखा तती वीथी मालाल्यावलिपङ्क्तयः । धोरणीश्रेण्युभौ तु द्वौ युगलं द्वितयं द्वयम् ॥ १४२३ युगं द्वैतं यमं द्वन्द्वं युग्मं यमलयामले । पशुभ्यो गोयुगं युग्मपरं षट्वे तु षड् गवम् ।। १४२४ परश्शताद्यास्ते येषां परा संख्या शतादिकात् । प्राज्यं प्रभूतं प्रचुरं बहुलं बहु पुष्कले ॥ १४२५ भूयिष्ठं पुरुहं भूयो भूर्यदभ्रं पुरु स्फिरम्।। स्तोकं क्षुल्लं तुच्छमल्पं दभ्राणुतलिनानि च ॥ १४२६ तनु क्षुद्रं कृशं सूक्ष्मं पुनः श्लक्ष्णं च पेलवम् । त्रुटौ मात्रा लवो लेशः कणो द्वस्वं पुनर्लघु ॥१४२७ अत्यल्पेऽल्पिष्ठमल्पीयः कणीयोऽणीय इत्यपि,। दीर्घायते समे तुङ्गमुच्चमुन्नतमुदुरम् ॥ १४२८ प्रांशूच्छितमुदग्रं च न्यङ्नीचं इस्वमन्थरे । खर्व कुब्जं वामनं च 'विशालं तु विशङ्कटम् ॥१४२९ पृथूर पृथुलं व्यूढं विकटं विपुलं बृहत् । स्फारं वरिष्ठं विस्तीर्ण ततं बहु महद्गुरुः॥ १४३० दैर्घ्यमायाम आनाह आरोहस्तु समुच्छ्रयः । उत्सेध उदयोच्छायौ परिणाहो विशालता ॥ १४३१ प्रपञ्चाभोगविस्तारव्यामाः शब्दे स विस्तरः । समासस्तु समाहारः संक्षेपः संग्रहोऽपि च ।। १४३२ सर्व समस्तमन्यूनं समग्रं सकलं समम् । विश्वाशेषाखण्डकृत्स्नन्यक्षाणि निखिलाखिले ॥ १४३३ खण्डेऽर्धशकले भित्तं नेमशल्कदलानि च । अंशो भागश्च वण्टरः स्यात्पादस्तु तुरीयकः ॥ १४३४ मलिनं कच्चरं म्लानं कश्मलं च मलीमसम् । पवित्रं पावनं पूतं पुण्यं मेध्यमथोज्ज्वलम् ॥ १४३५ विमलं विशदं वीभ्रमवदातमनाविलम् । विशुद्धं शुचि चोक्षं तु निःशोध्यमनवस्करम् ॥ १४३६ निणिक्तं शोधितं मृष्टं धौतं क्षालितमित्यपि । संमुखीनमभिमुखं पराचीनं पराङ्मुखम् ॥ १४३७
मुख्यं प्रकृष्टं प्रमुखं प्रबह वयं वरेण्यं प्रवरं पुरोगम् । अनुत्तरं प्राग्रहरं प्रवेकं प्रधानमग्रेसरमुत्तमाये ॥
१४३८ प्रामण्यग्रण्यग्रिमजात्याग्र्यानुत्तमान्यनवरार्ध्यवरे ।। प्रेष्टपरार्थ्यपराणि श्रेयसि तु श्रेष्ठसत्तमे पुष्कलवत् ॥ :
१४३९ स्युरुत्तरपदे व्याघ्रपुंगवर्षभकुञ्जराः । सिंहशार्दूलनागाद्यास्तल्लजश्च मतल्लिका ॥ १४४० मचर्चिका प्रकाण्डोद्वौ प्रशस्यार्थप्रकाशकाः । गुणोपसर्जनोपाग्र्याण्यप्रधानेऽधर्म पुनः ॥ १४४१ निकृष्टमणकं ग मवद्यं काण्डकुत्सिते । अपकृष्टं प्रतिकृष्टं याप्यं रेफोऽवमं ब्रुवम् ॥ १४४२ खेटं पापमपशदं कुपूर्व चेलमर्व च । तदासेचनकं यस्य दर्शनादृग्न तृप्यति ॥
१४४३ १. ग्रामशब्दो गुणान्तैरन्वेति. २. विग्रहोऽपि. ३. निःशेषमपि. ४. खण्डनमपि. ५. कल्मषमपि. ६. याव्यमपि. ७. रेपोऽपि.
For Private and Personal Use Only
Page #66
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
६ सामान्यकाण्डः ।
१४४४
१४४५
चारु हारि रुचिरं मनोहरं वल्गु कान्तमभिरामबन्धुरे | वामरुच्य सुषमाणि शोभनं मञ्जुमञ्जुलमनोरमाणि च ॥ साधुरम्यमनोज्ञानि पेशलं हृद्यसुन्दरे । काम्यं क कमनीयं सौम्यं च मधुरं प्रियम् ॥ व्युष्टिः फलमसारं तु फल्गु शून्यं तु रिक्तकम् । शुन्यं तुच्छं वशिकं च निबिडं तु निरन्तरम् ।। १४४६ निविरीसं घनं सान्द्रं नीरन्धं बहलं दृढम् । गाढमविरलं चाथ, विरलं तनु पेलवम् ॥ नवं नवीनं सद्यस्कं प्रत्ययं नूननूतने । नव्यं चाभिनवे जीर्णे पुरातनं चिरंतनम् || पुराणं प्रतनं प्रत्नं जरन्मूर्त तु मूर्तिमत् । उच्चावचं नैकभेदमतिरिक्ताधिके समे || पार्श्वसमीपं सविधं समीपाभ्याशंसवेशान्तिकसंनिकर्षः । सदेशमभ्यग्रसनीडसंनिधानान्युपान्तं निकटोपकण्ठे ॥
१४४७
१४४८
१४४९
-
Acharya Shri Kailassagarsuri Gyanmandir
५५
१४५५
1
१४५६
१४५७
१४५८
१४५९
संनिकृष्टसमर्यादाभ्यर्णान्यासन्नसंनिधी | अव्यवहितेऽनन्तरं संसक्तमपटान्तरम् || नेदिष्ठमन्तिकतमं विप्रकृष्टपरे पुनः । दूरेऽतिदूरे दविष्टं दवीयोऽथ सनातनम् || शाश्वतश्वरे नित्यं ध्रुवं स्थेयस्त्वतिस्थिरम् । स्थास्नु स्थेष्टं तत्कूटस्थं कालव्याप्येकरूपतः ॥ स्थावरं तु जङ्गमान्यज्जङ्गमं तु सं चरम् । चराचरं जगदिङ्गं चरिष्णुश्चाथ चञ्चलम् || तरलं कम्पनं कम्पं परिप्लवचलाचले । चटुलं चपलं लोलं चलं पारितवास्थिरे ॥ ऋजावजिह्मप्रगुणाववाग्रे ऽवनतानते । कुञ्चितं नतमाविद्धं कुटिले व वेल्लिते || वृजिनं भङ्गुरं भुग्नमरालं जिह्ममूर्मिमत् । अनुगेऽनुपदान्वक्षान्वञ्चयेकाक्येक एककः ॥ एकात्तानायनसर्गाप्राण्यैकाग्रं च तद्गतम् । अनन्यवृत्यैकायतनगतं चाथाद्यमादिमम् ॥ पौरस्त्यं प्रथमं पूर्वमादिरप्रमथान्तिमम् । जघन्यमन्त्यं चरममन्तपाश्चात्यपश्चिमे । मध्यमं माध्यमं मध्यमीयं माध्यंदिनं च तत्। अभ्यन्तरमन्तरालं विचाले मध्यमान्तरे ॥ तुल्यः समानः सदृक्षः सरूपः सदृशः समः । साधारणसधर्माणौ सवर्णः संनिभः सदृक् ॥ स्युरुत्तरपदे प्रख्यः प्रकारः प्रतिमो निभः । भूतरूपोपमाः काशः संनीप्रप्रतीतः परः ॥ औपम्यमनुकारोऽनुहारः साम्यं तुलोपमा । कक्षोपमानमर्चा तु प्रतर्मायातना निधिः || छाया छन्दः कायो रूपं विम्बं मानकृती अपि । सूर्मी स्थूणायः प्रतिमा हरिणी स्याद्धिरण्मयी || १४६४ प्रतिकूलं तु विलोममपसव्यमपष्ठुरम् । वामं प्रसव्यं प्रतीपं प्रतिलोममपष्टु च ॥ वामं शरीरेऽङ्गं सव्यमपसव्यं तु दक्षिणम् । अवाधोच्छृङ्खलोद्दामा नियन्त्रितमनर्गलम् ॥ निरङ्कुशे स्फुटे स्पष्टं प्रकाशं प्रकटोल्बणे । व्यक्तं वर्तुलं तु वृत्तं निस्तलं परिमण्डलम् || बन्धुरं तून्नतानतं स्थपुटं विषमोन्नतम् | अन्यदन्यतरद्भिन्नं त्वमेकमितरच तत् ॥ करम्ब: कबरो मिश्रः संपृक्तः खचितः समाः । विविधस्तु बहुविधो नानारूपः पृथग्विधः || १४६९
१४६०
१४६१
१४६२
१४६३
१४६५
१४६८
त्वरितं सत्वरं तूर्ण शीघ्रं क्षिप्रं दुतं लघु । चपलाविलम्बिते च झम्पा संपातपाटवम् ॥ | अनारतं त्वरितं संसक्तं सततानिशे । नित्यानवरताजस्रासक्ताश्रान्तानि संततम् ॥ साधारणं तु सामान्यं दृढसंधि तु संहतम् । कलिलं गहने संकीर्णे तु संकुलमाकुलम् ॥ १४७२
१४७० १४७१
2
For Private and Personal Use Only
१४५०
१४५१
१४५२
१४५३
१४५४
१४६६
१४६७
१. रमणीयमपि २. लडहोऽपि ३ शाश्वतिकमपि ४ अवगणोऽपि ५. एकशब्दस्य तानादिभिरन्वय:. ६. मध्यंदिनमपि. ७. काशशब्दः समादिभ्यः परो योज्यः. ८. प्रतेः परत्र कृतिपर्यन्ता योज्याः ९. निरर्गलमपि. १०. बहुरूप- पृथग्रूप - नानाविधा अपि.
Page #67
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिधानसंग्रहः-६ अभिधानचिन्तामणिः । कीर्णमाकीर्ण च पूर्णे त्वाचितं छन्नपूरिते । भरितं निचितं व्याप्तं प्रत्याख्याते निराकृतम् ॥ १४७३ प्रत्यादिष्टं प्रतिक्षिप्तमपविद्धं निरस्तवत् । परिक्षिप्ते वलयितं निवृत्तं परिवेष्टितम् ॥ १४७४ परिस्कृतं परीतं च त्यक्तं तूत्सृष्टमुज्झितम् । धूतं हीनं विधूतं च विन्नं वित्तं विचारिते ॥ १४७५ अवकीर्णे त्ववध्वस्तं संवीतं रुद्धमावृतम् । संवृतं पिहितं छन्नं स्थगितं चापवारितम् ॥ १४७६ अन्तर्हितं तिरोहितमन्तर्धिस्त्वपवारणम् । छदनं व्यवधान्तर्धापिधानस्थगनानि च ।। १४७७ व्यवधानं तिरोधानं दर्शितं तु प्रकाशितम् । आविष्कृतं प्रकटितमुच्चण्डं ववलम्बितम् ॥ १४७८ अनाहतमैवाज्ज्ञातं मानितं गणितं मतम् । रीढविज्ञावहेलान्यसूक्षणं चाप्यनादरे ॥ १४७९ उन्मूलितमावहितं स्यादुत्पाटितमुद्धृतम्।। प्रेढोलितं तरलितं लुलितं प्रेङ्कितं धुतम् ॥ १४८० चलितं कम्पितं धूतं वेल्लितान्दोलिते अपिः। दोलाप्रेखोलनं प्रेखा फाण्टं कृतमयत्नतः ॥ १४८१ अधःक्षिप्तं न्यश्चितं स्यादूर्ध्वक्षिप्तमुदञ्चितम् । नुन्ननुत्तास्तनिष्टयूतान्याविद्धं क्षिप्तमीरितम् ॥ १४८२ समे दिग्धलिप्ते रुग्णभुग्ने रूषितगुण्डिते । गूढगुप्ते च मुषितमूषिते गुणिताहते ॥ १४८३ स्यान्निशातं शितं शातं निशितं तेजितं क्ष्णुतम् । वृत्ते तु वृत्तवावृत्तौ ह्रीतहीणौ तु लज्जिते॥१४८४ संगूढः स्यात्संकलिते संयोजित उपाहिते । पक्के परिणतं पाके क्षीराज्यहविषां शृतम् ॥ १४८५ निष्पकं कथिते प्लुष्टपुष्टदग्धेषिताः समाः । तनूकृते खष्टतष्टौ विद्धे छिद्रितवेधितौ ॥ १४८६ सिद्धे निर्वृत्तनिष्पन्नौ विलीने विद्रतद्रुतौ।। उतं प्रोते स्यूतमूतमुतं च तन्तुसंतते ॥ १४८७ पाटितं दारितं भिन्ने विदरः स्फुटनं भिदा । अङ्गीकृतं प्रतिज्ञातमूरीकृतोररीकृते ॥ १४८८ संश्रुतमभ्युपगतमुररीकृतमाश्रुतम् ।। संगीर्ण प्रतिश्रुतं च छिन्ने लूनं छितं दितम् ॥ १४८९ छेदितं खण्डितं वृणं कृत्तं प्राप्तं तु भावितम् । लब्धमासादितं भूतं 'पतिते गलितं च्यतम्॥१४९० स्रस्तं भ्रष्टं स्कन्नपन्ने संशितं तु सुनिश्चितम्।। मृगितं मागितान्विष्टान्वेषितानि गवेषिते ॥ १४९१ तिमिते स्तिमितक्लिन्नसाााक्ताः समुन्नवत् । प्रस्थापितं प्रतिशिष्टं प्रतिहतप्रेषिते अपि ॥ १४९२ ख्याते प्रतीतप्रज्ञातवित्तप्रथितविश्रुताः । तप्ते संतापितो दूनो धूपायितश्च धूपितः ॥ १४९३ शीने स्त्यानमुपनतस्तूपसन्न उपस्थितः । निर्वातस्तु गते वाते निर्वाणः पावकादिषु ॥ १४९४ प्रवृद्धमेधितं प्रौढं विस्मितान्तर्गते समे । उद्वान्तमुद्गते गूनं हन्ने मीढं तु मूत्रिते ॥ १४९५ विदितं बुधितं बुद्ध ज्ञातं सितगते अवात् । मनितं प्रतिपन्नं च स्यन्ने रीणं त्रुतं स्नुतम् ॥ १४९६ गप्तगोपायितत्रातावितत्राणानि रक्षिते । कर्म क्रिया विधा हेतुशून्या वास्या विलक्षणम् ॥ १४९७ कार्मणं मूलकर्माथ संवननं वशक्रिया । प्रतिबन्धे प्रतिष्टम्भः स्यादास्या वासना स्थितिः॥१४९८ परस्परं स्यादन्योन्यमितरेतरमित्यपि । आवेशाटोपौ संरम्भे निवेशो रचना स्थितौ ॥ १४९९ निर्बन्धोऽभिनिवेशः स्यात्प्रवेशोऽन्तर्विगाहनम् । गतौ वीङ्खा विहारेर्यापरिसर्पपरिक्रमाः ॥ १५०० व्रज्याटाट्या पर्यटनं चर्या वीर्या पथस्थितिः । व्यत्यासस्तु विपर्यासो वैपरीत्यं विपर्ययः ॥ १५०१ व्यत्ययेऽथ स्फातिवृद्धौ प्रीणनेऽवनतर्पणौ । परित्राणं तु पर्याप्तिहस्तधारणमित्यपि ॥ १५०२ प्रणतिः प्रणिपातोऽनुनयेऽथ शयने क्रमात् । विशय उपशायश्च पर्यायोऽनुक्रमः क्रमे ॥ १५०३ परिपाट्यानुपूातृदतिपातस्त्वतिक्रमः । उपात्ययः पर्ययश्च समौ संबाधसंकटौ ॥ १५०४
१. अवशब्दस्य ज्ञातादिभिरन्वयः. २. अवमाननावगणने अपि. ३. असूक्षणमपि. ४. आन्दोलनमपि. ५. चोदितमपि. ६. वित्तमपि. ७. अवशब्दात्सितगते बोध्ये. ८. अटाटापि, अट्यापि.
For Private and Personal Use Only
Page #68
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
६ सामान्यकाण्डः ।
१५०५
१५०६
१५०७
१५०८
१५०९
1
कामं प्रकामं पर्याप्तं निकामेष्ठे यथेप्सितम् । अत्यर्थे गाढमुद्गाढं वाढं तीव्रं भृशं दृढम् ॥ अतिमात्रातिमर्यादनितान्तोत्कर्षनिर्भराः । भरैकान्तातिवेलातिशया जृम्भा तु जृम्भणम् ॥ आलिङ्गनं परिष्वङ्गः संश्लेष उपगूहनम् । अङ्कपाली परीरम्भः कोडीकृतिरथोत्सवे || महः क्षणोद्धवोद्धर्षा मेलके सङ्गसङ्गमौ । अनुग्रहोऽभ्युपपत्तिः समौ निरोधनिग्रहौ || विघ्नेऽन्तरायप्रत्यूहव्यवायाः समये क्षणः । वेला वाराववसरः प्रस्तावः प्रक्रमान्तरम् ॥ अभ्यादानमुपोद्धात आरम्भः प्रोषतः क्रमः । प्रत्युत्क्रमः प्रयोगः स्यादारोहणं त्वभिक्रमः || १५१० आक्रमेऽधिक्रमक्रान्ती व्युत्क्रमस्तूत्क्रमाक्रमौ । विप्रलम्भो विप्रयोगो वियोगो विरहः समाः १५११ आभा राढा विभूषा श्रीरभिख्याकान्तिविभ्रमाः । लक्ष्मीश्छाया च शोभायां सुषमा सातिशायिनी १६१२ संस्तवः स्यात्परिचय आकारस्त्विङ्ग इङ्गितम् । निमित्ते कारणं हेतुर्बीजं योनिर्निबन्धनम् ॥ १५१३ निदानमथ कार्य स्यादर्थः कृत्यं प्रयोजनम् । निष्ठानिर्वहणे तुल्ये प्रवाहो गमनं बहिः || १५१४ जातिः सामान्यं व्यक्तिस्तु विशेषः पृथगात्मिका । तिर्यक्साचिः संहर्षस्तु स्पर्धाद्रोहत्वपक्रिया १५१५ वन्ध्ये मोघाफलमुधा अन्तर्गडुर्निरर्थकम् । संस्थानं संनिवेशः स्यादर्थस्यापगमे व्ययः ॥ १५१६ संमूर्च्छनं त्वभिव्याप्तिर्भेषो भ्रंशो यथोचितात् । अभावो नाशे संक्रामसंक्रमौ दुर्गसंचरे ॥ १५१७ नीवाकस्तु प्रयामः स्यादवेक्षा प्रतिजागरः । समौ विस्रम्भविश्वासौ परिणामस्तु विक्रिया ।। १५१८ 1 चक्रावर्तो भ्रमो भ्रान्तिर्भूमिघूर्णिश्च चूर्णने । विप्रलम्भो विसंवादो विलम्भस्त्वतिसर्जनम् ॥ १५१९ उपलम्भस्त्वनुभवः प्रतिलम्भस्तु लम्भनम् । नियोगे विधिसंप्रेषौ विनियोगोऽर्पणं फले ॥ १५२० लवोऽभिलावो लवनं निष्पावः पवनं पवः । निष्ठेवष्टीवनष्टतष्ठेवनानि तु भूत्कृते ॥ निवृत्तिः स्यादुपरमो व्यपोपाभ्यः परा रेतिः । विधूननं विधुवनं रिङ्खणं स्खलनं समे ॥ १५२२ रक्ष्णस्त्राणे हो ग्राहे व्यधो वेधे क्षये क्षिया । स्फरणं स्फुरणे ज्यानिजीर्णावथ वरो वृतौ ॥ १५२३ समुच्चयः समाहारोऽपहारापचयौ समौ । प्रत्याहार उपादानं बुद्धिशक्तिस्तु निष्क्रमः ॥ १५२४ इत्यादयः क्रियाशब्दा लक्ष्या धातुषु लक्षणम् । अथाव्ययानि वक्ष्यन्ते स्वः स्वर्गे भू रसातले ॥१५२५ yat farer व्यनद्यावाभूम्योस्तु रोदसी । उपरिष्टादुपर्यूर्ध्वं स्यादधस्तादधोऽप्यवाक् ।। १५२६ वर्जने वन्तरेण हिरुग्नाना पृथग्विना । साकं सत्ता समं सार्धममा सह कृतं वलम् ॥ १५२७ भवत्वस्तु च किं तुल्याः प्रेत्यामुत्र भवान्तरे । तूष्णीं तूष्णीकां जोषं च मौनं दिष्टया तु संमदे || १५२८ परितः सर्वतो विष्वक्समन्ताच्च समन्ततः । पुरः पुरस्तात्पुरतोऽग्रतः प्रायस्तु भूमनि ॥ सांप्रतमधुनेदानीं संप्रत्येतर्ह्यथाञ्जसा । द्राक्खागरं झटित्याशु मङ्क्ष्वह्नाय च सत्वरम् ॥ सदा सनानिशं शश्वद्भूयोऽभीक्ष्णं पुनः पुनः । असकृन्मुहुः सायं तु दिनान्ते दिवसे दिवा || १५३१ सहसैकपदे सद्योऽकस्मात्सपदि तत्क्षणे । चिराय चिररात्राय चिरस्य च चिराचिरम् || चिरेण दीर्घकालार्थे कदाचिज्जातु कर्हिचित् । दोषा नक्तमुषा रात्रौ प्रगे प्रातरहर्मुखे ॥ तिर्यगर्थे तिरः साचि निष्फले तु वृथा सुधा । मृषा मिध्यानृतेऽभ्यर्णे समया निकषा हिरुक् ॥ शं सुखे बलवत्सुष्ठु किमुतातीव निर्भरे । प्राक्पुरा प्रथमे संवद्वर्षे परस्परं मिथः ॥ उषा निशान्तेऽल्पे किंचिन्मनागीषच्च किंचन । आहो उताहो किमुत वितर्के किं किमूत च || १५३६ इतिह स्यात्संप्रदाये हेतौ यत्तद्यतस्ततः । संबोधनेऽङ्ग भोः पाट् प्याट् है है हंहोऽरे रेऽपि च ।। १५३७
१५२१
१५२९ १५३०
१५३५
१. क्रमशब्द: प्रोपाभ्यां परो योज्यः २. रतिशब्दः व्यादिभिरन्वेति
.
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
५७
१५३२
१५३३
१५३४
Page #69
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिधानसंग्रहः-६ अभिधानचिन्तामणिः । श्रौषट्वौषट्वषट्स्वाहा स्वधा देवहविर्हतौ । रहस्युपांशु मध्येऽन्तरन्तरेणान्तरेऽन्तरा ॥ १५३८ प्रादुराविः प्रकाशे स्यादभावे व न नो नहि । हठे प्रसह्यमा मास्म वरणेऽस्तमदर्शने ॥ १५३९ अकामानुगतौ कामं स्यादोमां परमं मते । कच्चिदिष्टपरिप्रश्नेऽवश्यं नूनं च निश्चये ॥ १५४० बहिर्बहिर्भवे ह्यः स्यादतीतेऽह्नि श्व एष्यति । नीचैरल्पे महत्युञ्चैः सत्त्वेऽस्ति दुष्टु निन्दने ।। १५४१ ननुच स्याद्विरोधोक्तौ पक्षान्तरे तु चेद्यदि । शनैर्मन्देऽवरे त्वग्रोिषोक्तावं नतौ नमः ॥ १५४२
इत्याचार्यहेमचन्द्रविरचितायामभिधानचिन्तामणो नाममालायां सामान्यकाण्डः षष्टः ॥ ६ ॥
इति श्रीहेमचन्द्राचार्यविरचितोऽभिधानचिन्तामणिः समाप्तः ।
For Private and Personal Use Only
Page #70
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ श्रीः॥
अभिधानसंग्रहः।
श्रीहेमचन्द्राचार्यविरचितः अभिधानचिन्तामणिपरिशिष्टः ।
निर्वाणे स्याच्छीतीभावः शान्ति श्चिन्त्यमन्तिकः । शिष्ये छात्रोभद्रे भव्यं काम्यं सुकृतसूनृते ॥ ?
इत्याचार्यहेमचन्द्रविरचितेऽभिधानचिन्तामणिपरिशिष्टे देवाधिदेवकाण्डः प्रथमः ॥ १ ॥ फलोदयो मेरुपृष्ठं वासवावाससैरिको । दिदिविर्दीदिविद्युश्च दिवं च स्वर्गवाचकाः ॥... २ निलिम्पाः कामरूपाश्च साध्याः शोभाश्चिरायुषः । पूजिता मर्त्यमहिताः सुबाला वायुभाः सुराः ॥ ३. द्वादशार्का वसवोऽष्टौ विश्वेदेवास्त्रयोदश । षट्त्रिंशत्तुषिताश्चैव, षष्टिराभास्वरा अपि || षट्त्रिंशदधिके माहाराजिकाश्च शते उभे । रुंद्रा एकादशैकोनपञ्चाशद्वायवोऽपि च ॥ ५ चतुर्दश तु वैकुण्ठाः सुशर्माणः पुनर्दश । साध्याश्च द्वादशेत्याद्या विज्ञेया गणदेवताः ॥ सूर्ये वाजी लोकबन्धुर्भानेमिर्भानुकेसरः । सहस्राङ्को दिवापुष्टः कालभृद्रात्रिनाशनः ॥ पपीः सदागतिः पीतुः सांवत्सररथः कपिः । दृशानः पुष्करो ब्रह्मा बहुरूपश्च कर्णसूः ।। वेदोदयः खतिलकः प्रत्यूषाण्डं सुरावृतः । लोकप्रकाशनः पीथो जगद्दीपोऽम्बुतस्करः ॥ ९ अरुणे विपुलस्कन्धो महासारथिराश्मनः । चन्द्रस्तु मास्तपोराजौ शुभांशुः श्वेतवाहनः ॥ १० जर्णः सृप्रो राजराजो यजतः कृत्तिकाभवः । यक्षराडौषधीगर्भस्तपसः शयतो बुधः ॥ ११ स्यन्दः खसिन्धुः सिन्धूत्थः श्रविष्टारमणस्तपा । आकाशचमसः पीतुः क्लेदुः पर्वरिचिक्लिदौ ॥१२ परिज्वा युवनो नेमिश्वन्दिरः स्नेहरेकभूः । भौमे व्योमोल्मुकैकाङ्गौ गी:पतिस्तु महामतिः ॥ १३ प्रख्याः प्रचक्षाः वाग्वाग्ग्मी गौरो दीदिविगीरथौ । शुक्रे भृगुः शनौ पङ्गुः श्रुतकर्मा महाग्रहः ॥ १४ श्रुतश्रवोऽनुजः कालो ब्रह्मण्यश्च यमः स्थिरः । क्रूरात्मा चाथ राहौ स्यादुपराग उपप्लवः ॥ १५ केतावूकचो ज्योतीरथग्रहाश्रयो ध्रुवे । अगस्त्ये विन्ध्यकूटः स्यादक्षिणाशारतिर्मुनिः ॥ १६ सत्याग्निर्वारुणिः काथिस्तपनः कलसीसुतः।। व्युष्टे निशात्यय(न्त)गोसर्गौ। निशा चक्रभेदिनी ॥१७ निषद्वरी निशीथ्या निट् घोरा वासरकन्यका । शताक्षी राक्षसी याम्या घृतार्चिस्तामसी तमिः ।।१८ शार्वरीक्षणिनीनत्तापैशाचीवासुरा उशा । दिनात्ययः प्रदोषे स्याहान्ते वृत्रो रजोवलम् ॥ १९
१. 'पूजिलाः' ख. २. 'वयुनाः' ख. ३. 'भद्राः' ख. ४. 'यक्षराजो' ख. ५. 'स्तथा' ख. ६. 'स्नेदुरेकभूः' ख, ७. 'गीपतिः' ख.८. 'निशि' ख. ९. 'उमा' ख.
For Private and Personal Use Only
Page #71
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिधानसंग्रहः-७ अभिधानचिन्तामणिपरिशिष्टः । रात्रिरागो नीलपङ्को दिनाण्डं दिनकेसरः । खपरागो निशावर्म वियतिदिगम्बरः ॥ २० पक्षः कृष्णः सितो द्वेधा कृष्णो निशाइयोऽपरः। शुक्लो दिनाद्वयः पूर्वो मासे वर्षांशको भवेत्॥२१ वर्षकोशो दिनमल: फाल्गुनालस्तु फाल्गुने।। चैत्रे मौहनिकः कामसखश्च फाल्गुनानुजः ॥ २२ वैशाखे तूत्सरो, ज्येष्ठमासे तु खरकोमलः । ज्येष्ठामूलीय इति च। कार्तिके सैरिकौमुदौ॥ २३ हिमागमस्तु हेमन्ते, वसन्ते पिकवान्धवः । पुष्पसाधारणश्चापि ग्रीष्मे तूष्मायणो मतः ॥ २४ आखोरपद्मौ वर्षे तु ऋतुवृत्तियुगांशकः । कालग्रन्थिर्मासमलः संवत्सर्वर्तुशारदौ ॥ वत्स इद्वत्सर इडावत्सरः परवाणिवत् । नक्षत्रवर्त्मनि पुनर्ग्रहनेमिनभोटवी ।। छायापथश्चा मेघे तु व्योमधूमो नभोध्वजः । गडयित्नुर्गदेयित्नुर्वार्मसिर्वारिवाहनः ॥ खतमालोऽप्यथासारे धारासंपात इत्यपि । करकेऽम्बुधनो मेघकफो मेघास्थि मिक्षिका ॥ वीजोदकं तोयडिम्भो वर्षावीजमिरावरम् । यथोत्तरेतरापाची तथापाचीतरोत्तरा ॥ २९ इन्द्रे तु खिदिरो नेरी यस्त्रिंशपतिर्जयः । गौरावस्कन्दी बन्दीको वराणो देवदुन्दुभिः ॥ ३० किणालातश्च हरिमान्यामनेमिरसन्महाः । शापी विमिहिरो वज्रदक्षिणो वयुनोऽपि च ॥ ३१ स्यात्पौलोम्यां तु शक्राणी चारुरावा शतावरी । महेन्द्राणी परिपूर्णसहस्रचन्द्रवत्यपि ॥ १.४ ३२ जयन्ते यागसंतानो वृषणश्वो हरेर्हये । मातलौ हयंकषः स्यादैरावणे मदाम्बरः ॥ ३३ सदादानो भद्ररेणुः पुरे त्वैन्द्रे सुदर्शनम् । नासिक्ययोस्तु नासत्यदस्रौ प्रवरवाहनौ ॥ ३४ गदान्तकौ यज्ञवाही यमे तु यमुनाप्रजः । महासत्यः पुराणान्त: कालकूटोऽथ राक्षसे ॥ ३५ पलप्रियः कैखापुत्रः कर्वरो नरविष्वणः । आशिरो हनुषः शङ्कुर्विषुरो जललोहितः ॥ उद्वरः स्तब्धसंभारो रक्तग्रीवः प्रवाहिकः । संध्याबलो रात्रिबलस्त्रिशिराः समितीपदः ॥ .. २७ वरुणे तु प्रतीचीशो दुन्दुभ्युद्दामसंवृताः । धनदे निधनाक्षः स्यान्महासत्त्वः प्रमोदितः ।। रत्नगर्भ उत्तराशाधिपतिः सत्यसंगरः । धनकेलि: सुप्रसन्नः परिविद्धोऽलका पुनः ॥ वसुप्रभा वसुसारा। शंकरे नन्दिवर्धनः । बहुरूपः सुप्रसादो मिहिराणोऽपराजितः ॥ कटीको गुह्य गुरुर्भगनेत्रान्तकः खरुः । परिणाहो दशबाहुः सुभगोऽण्वेकलोचनः ॥ गोपालो वरवृद्धोऽहिपर्यङ्कः पांसुचन्दनः । कूटकृन्मन्दरमणिर्नवशक्तिर्महॉम्बकः ॥ कोणवादी शैलधन्वा विशालाक्षोऽक्षतस्वनः । उन्मत्तवेषः शवरः सिताङ्गो धर्मवाहनः ॥ महाकान्तो वह्निनेत्रः स्त्रीदेहा? नृवेष्टनः । महानादो नराधारो भरिरेको दशोत्तमः ।। "यौटी यौटीङ्गोऽर्धकूटः समिरो धूम्रयोगिनौ । उलन्दो यतः कालो जटाधरदशाव्ययौ ॥ ४५ संध्यानाटी रेरिहाणः शङ्कुश्च कपिलाञ्जनः । जगहोरिर्धकालो दिशांप्रियतमोऽतलः ॥ ४६ जगत्स्रष्टा कटाटकः कटप्रूहीरहृत्कराः । गौतमी कौशिकी कृष्णा तामसी बाभ्रवी जया ॥ ४७ कालरात्रिमहामाया भ्रामरी यादवी वरा । बहिध्वजा शूलधरा परमब्रह्मचारिणी ॥ ४८ अमोघा विन्ध्यनिलया षष्टी कान्तारवासिनी । जाङ्गुली बदरीवासा वरदा कृष्णपिङ्गला ॥ ४९
१. 'दिवालयः' ख. २. 'सैर' ख. ३. 'नभोवटी' ख. ४. 'नभध्वजः' क. ५. 'गर्दयित्नु' क. ६. 'पुञ्जिका' ख. ७. 'जीवोदकम्' ख. ८. 'बाय' क-ख. ९. 'शपीवि' ख. १०. 'वियुनो' ख. ११. 'यज्ञवहौ' ख. १२. 'खषापुत्रः' ख. १३. 'विधुरः' ख. १४. 'मेकलोचन:' क. १५. 'महावुकः' ख. १६. 'जोटी जोटिको' ख. १७. 'यजतः' ख. १८. 'अर्धकलो' ख.
३६
For Private and Personal Use Only
Page #72
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२ देवकाण्डः।
हषद्वतीन्द्रभगिनी प्रगल्भा रेवती तथा । महाविद्या सिनीवाली रक्तदन्येकपाटला ॥ एकपर्णा बहुभुजा नन्दपुत्री महाजया । भद्रकाली महाकाली योगिनी गणनायिका ॥ ५१ हासा भीमा प्रकूष्माण्डी गदिनी वारुणी हिमा । अनन्ता विजया क्षेमा मानस्तोका कुहावती ॥५२ चारणा च पितृगणा स्कन्दमाता घनाञ्जनी । गान्धर्वी कर्वरी गार्गी सावित्री ब्रह्मचारिणी ॥ ५३ कोटिश्रीर्मन्दरावासा केशी मलयवासिनी । कालायनी विशालाक्षी किराती गोकुलोद्भवा ॥ ५४ एकानसी नारायणी शैला शाकंभरीश्वरी । प्रकीर्णकेशी कुण्डा च नीलवस्त्रोग्रचारिणी ॥ ५५ अष्टादशभुजा पौत्री शिवदूती यमस्वसा । सुनन्दा विकचा लम्बा जयन्ती नकुलाकुला ॥ ५६ विलङ्का नन्दिनी नन्दा नन्दयन्ती निरञ्जना । कालंजरी शतमुखी विकराली करालिका ॥ ५७ विरजाः पुरला जारी बहुपुत्री कुलेश्वरी । कैटभी कालदमनी दर्दुरा कुलदेवता ॥ ५८ रौद्री कुन्द्रा महारौद्री कालंगमा महानिशा । बलदेवस्वसा पुत्री हीरी क्षेमंकरी प्रभा ॥ ५९ मारी हैमवती चापि गोला शिखरवासिनी।। चामुण्डायां महाचण्डी चण्डमुण्डायथाखुगे ॥ ६० पृश्निगर्भः प्रभिशृङ्गो द्विशरीरस्त्रिधातुकः । हस्तिमल्लो विषाणान्तः स्कन्दे तु करवीरकः ॥ ६१ सिद्धसेनो वैजयन्तो बालचर्यो दिगम्बरः । भृङ्गी तु चर्मी ब्रह्मा तु क्षेत्रज्ञः पुरुषः सनत् ॥ ६२ नारायणे तीर्थपादः पुण्यश्लोको वलिंदमः । उरुक्रमोरुगायौ च तमोन्नः श्रवणोऽपि च ॥ ६३ उदारथिलतापर्णः समुद्रः पांसुजालिकः । चतुर्ग्रहो नवव्यूहो नवशक्तिः पंगण्डजित् ॥ ६४ द्वादशमूलः शतको दशावतार एकहक् । हिरण्यकेशः सोमोऽहिस्त्रिधामा त्रिककुत्रिपात् ॥ ६५ मानंजरः पराविद्धः पृश्निगर्भोऽपराजितः । हिरण्यनाभः श्रीगर्भो वृषोत्साहः सहस्रजित् ।। ऊर्ध्वकर्मा यज्ञधरो धर्मनेमिरसंयुतः । पुरुषो योगनिद्रालुः खण्डास्यः शलकाजितौ ॥ कालकुण्ठो वरारोहः श्रीकरो वायुवाहनः । वर्धमानश्चतुर्दष्ट्रो नृसिंहवपुरव्ययः ।। कपिलो भद्रकपिलः सुषेणः समितिंजयः । ऋतुधामा वासुभद्रो बहुरूपो महाक्रमः ॥ ६९ विधाताधार एकाङ्गो वृषाक्षः सुवृषोऽक्षजः । रन्तिदेवः सिन्धुवृषो जितमन्युर्वृकोदरः ॥ बहुशृङ्गो रत्नबाहुः पुष्पहासो महातपाः । लोकनाभः सूक्ष्मनाभो धर्मनाभः पराक्रमः ॥ पद्महासो महाहंसः पद्मगर्भः सुरोत्तमः । शतवीरो महामायो ब्रह्मनाभः सरीसृपः ॥ ७२ वृन्दाकोऽधोमुखो धन्वी सुधन्वा विश्वभुक्स्थिरः । शतानन्दश्चैरुश्चापि यवनारिप्रमर्दनः ॥ ७३ यज्ञनेमिर्लोहिताक्ष एकपाहिपदः कपिः । एकशृङ्गो यमकील आसन्दः शिवकीर्तनः ॥ ७४ शद्रुर्वशः श्रीवराहः सदायोगी सुयामुनः । बलभद्रे तु भद्राङ्गः फालो गुप्तवरो बली ॥ .. ७५ प्रलापी भद्रचलनः पौरः शेषाहिनामभृत् । लक्ष्म्यां तु भर्भरी विष्णुशक्तिः क्षीराब्धिमानुषी ॥ ७६ कामे तु यौवनोद्भेदः शिखिमृत्युर्महोत्सवः । शमान्तकः सर्वधन्वी राँगरज्जुप्रवर्तकः ॥ ७७ मनोदाही मथनश्च गरुडस्तु विषापहः । पक्षिसिंहो महापक्षो महावेगो विशालकः ॥ ७८ उन्नतीशः श्वमुखसूः शिलानीहोऽहिभुक्च सः।। वुद्धे तु भगवान्योगी बुधो विज्ञानदेशनः ॥ ७९ महासत्त्वो लोकनाथो बोधिरहन्सुनिश्चितः । गुणाब्धिर्विगतद्वन्द्वो वचने स्यात्तु जल्पितम् ॥ ८०
१. 'गण्डिनी' ख. २. 'किरामी' ख. ३. 'एकामसा' ख. ४. 'सुमन्दा' ख. ५. 'मन्दिनी मन्दा मन्दयन्ती' ख. ६. 'चिकसला' ख. ७. 'करवारकः' ख. ८. 'घडङ्गजित्' ख. ९. 'ऋतधाना' ख. १०. 'वृषोदरः' क. ११. 'सरुथापि' ख. १२. 'यवनारि:' ख. १३. 'अदक्षनेमिः' ख. १४. 'रागरज्ज: प्रकर्षक:' ख. १५. 'उलूतीशः' ख.
For Private and Personal Use Only
Page #73
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
४
८१
अभिधान संग्रह: - ७ अभिधानचिन्तामणिपरिशिष्टः । लपितोदितभणिताभिधानगदितानि च । हूतौ हकारकारौ च चण्डालानां तु वल्लकी ॥
काण्डवीणा कुवीणा च डक्कारी किंनरी तथा । सारिका खुडणी चाथ दर्दरे कलसीमुखः || ८२ सूत्रकोणो डमरुकं समौ पणवर्किकणौ । शृङ्गवाद्ये शृङ्गमुखं हुडुकस्तालमर्दलः ॥ काहला तु कुहाला स्याच्चैण्डको लाहला च सा । संवेशप्रतिबोधार्थी द्रगडकावुभौ | देवतार्चनतूर्ये तु धूमलो वलिरित्यपि । क्षुल्लकं मृतयात्रायां मङ्गले प्रियवादिका ॥ रणोद्य वर्धतूरो वाद्यभेदास्तथापरे । डिण्डिमो झर्झरो मस्तिमिला किरिकिञ्चिका । टैट्टरी वेया कलापूरादयोऽपि च । भयंकरे तु डमरमाभीलं भासुरं तथा ॥ फुलकं मोहो वीक्ष्यो लोतस्तु दृग्जले । निद्रायां तामसी सुप्ते सुष्वापः सुखसुप्तिका ॥ ८८ आकारगूहने चावकटिकावकुठारिका । गृहजालिकाथ सूत्रधारे स्याद्दीर्घदर्शकः ॥ पूज्ये भैरटको भट्टः प्रयोज्यः पूज्यनामतः ॥
८९ ९०
इत्याचार्यहेमचन्द्रविरचितेऽभिधानचिन्तामणिपरिशिष्टे देवकाण्डो द्वितीयः ॥ २ ॥
Acharya Shri Kailassagarsuri Gyanmandir
छेकालच्छेकिलौ छेके/काहलोऽस्फुटभाषिणि । मूके जडकडो मूर्खे खनेडो नामवर्जितः ।। परतन्त्रे वशायत्तावधीनोऽप्यथ दुर्गते । क्षुद्रो हीनश्च दीनच भाटिस्तु गणिकाभृतौ ॥ ॥
*
For Private and Personal Use Only
८३
८४
८५
८६
62
९१ ९२
९४
९५
तु चक्षुद्रप्रखलौ खले । चोरे तु चोरडो रात्रिचरो याच्या तु भिक्षणा || ९३ अभिषस्तिर्मार्गणा च बुभुक्षायां क्षुधाक्षुधौ । भक्तमण्डे तु प्रस्रावप्रस्रवाच्छोदनासवाः ॥ अपूपे पारिशालोऽथ करम्बो दधिसक्तुषु । इण्डेरिका तु वटिका शष्कुली वर्धलोटिका ॥ पर्पटास्तु मर्मराला घृताण्डी तु घृतौषणी । समिता खण्डाज्यकृतौ मोदको लड्डुकञ्च सः ॥ एलामरिचादियुतः स पुनः सिंहकेसरः । लाजेषु भरुडोद्भूषर्खेदिकापरिवारकाः ।। दुग्धे योग्यं बॉलसात्म्यं जीवनीयं रसोत्तमम् । सरं गव्यं मधुज्येष्ठं धारोष्णं तु पयोऽमृतम् ॥ ९८ श्रीमङ्गत कटुरसायणे । अर्शोघ्नं परमरस: कुल्माषाभिषुते पुनः ॥
९६
९७
९९ १००
जगल
गृहाम्बु मधुरा चाथ स्यात्कुस्तुम्बुरुरल्लुका । । मरिचे तु द्वारवृत्तं मरीचं वलितं तथा ॥ पिप्पल्यामोषेणा शौण्डी चपला तीक्ष्णतण्डुला । ऊँषणा तण्डुलफ़ला काला च कृष्णतण्डुला ॥ १०१ जीरे जीरणजरणौ हिङ्गौ तु भूतनाशनम् | अगूढगन्धमत्युग्रं / लिप्सौ लालसलम्पटौ ॥ १०२ लोलो लिप्सा तु धनाया रुचिरीप्सा च कामना । पूजा त्वपचितिरथा चिपिटो नम्रनासिके ॥ १०३ पङ्गुलस्तु पीठसर्पी किलीतस्त्वल्पवर्ष्मणि । सर्वे ह्रस्वोऽनेडमूकस्त्वन्धे न्युजस्त्वधोमुखे पित्ते पलाग्निः पललज्वरः स्यादग्निरेचकः । कफे सिंहानकः खेटः स्यात्कूकुदे तु कूपदः ॥ पारमितोऽथ कायस्थः करणोऽक्षरजीविनि । क्षमे समर्थोऽलंभूष्णुः पादातपदगौ समौ ॥ जाम्बूलमालिकोद्वा/ वरयात्रा तु दौन्दुभी । गोपाली वर्णके शान्तियात्रा वरनिमन्त्रणे ॥ स्यादिन्द्राणीमहे हेलिरूलुलुर्मङ्गलध्वनिः । स्यात्तु स्वस्त्ययनं पूर्णकलसे मङ्गलाह्निकम् ॥ शान्तिके मङ्गलस्नानं वारिपल्लववारिणा । हस्तलेपे तु करणं हस्तबन्धे तु पीडनम् ॥
1141
२०४
१०५
१०६
१०७
१०८
१०९
१. 'ऋकिणौ' ख. २. 'चन्द्र' ख. ३. 'क्षुण्णकम्' क. ४. 'लुञ्चिका' ख. ५. 'ढड्डूरी' ख. ६. 'वीक्ष: ' ख. ७. 'भटरक' इति प्रतिभाति 'भट्टारक' इति ख. पुस्तके पाठ : ८ 'दीनश्च नीचश्च' ख. ९. 'अस्तु' क. १०. ‘अर्धमोटिका' ख. ११ ' धृतोत्प्रणी' ख. १२ 'खटिका' क १३ 'बलसात्म्यम्' क १४ 'ऊषणा' क. १५ 'उषणा' ख १६ 'जीरेण' क. १७ 'किरातः ' क.
Page #74
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ मर्त्यकाण्डः। तच्छेदे समयभ्रंशो धूलिभक्ते तु वार्तिकम् । कुलटायां तु दुःशृङ्गी बन्धुदा कलकणिका ॥ ११० धर्षणी लाञ्छनी खण्डशीला मदननालिका । त्रिलोचना मनोहारी पालिः सश्मश्रुयोषिति॥ १११ श्रमणायां भिक्षुणी स्याद्वेश्यायां तु खगालिका । वारवाणिः कामलेखा क्षुद्रा। चेट्यां गणेरुका॥११२ वडवा कुम्भदासी च. पुढे तु कुलधारकः । सदायादो द्वितीयश्च पुत्र्यां धीदा समधुका ॥ ११३ देहसंचारिणी चाप्यपत्ये संतानसंतती। नप्ता तु दुहितुः पुत्रे स्यात्कनिष्ठे तु कन्यसः॥ ११४ ज्येष्ठभगिन्यां तु वीरभवन्ती स्यात्तु नर्मणि । सुखोत्सवो रागरसो विनोदोऽपि किलोऽपि च॥२१५ वप्पो जनित्रो रेतोधास्ताते: जानी तु मातरि । देहे सिनं प्रजनुकश्चतुःशाखं षडङ्गकम् ॥६- ११६ व्याधिस्थानं च देहैकदेशे गात्रं कचे पुनः । वृजिनो वेल्लितामोऽस्रो धम्मिल्ले मौलिजूटकौ-॥ ११७ कर्परी तु कबर्या स्यात्प्रलोभ्यो विशदे कचे। मुखे दैन्तालयं स्योनं घनं चरं धनोत्तमम् ॥ ११८ कर्णप्रान्तस्तु धारा स्यात्कर्णमूलं तु शीलकम् । अक्ष्णि रूपग्रहो देवदीपो नासा तु गन्धहृत् ॥११९ नसा गन्धवहा नस्या नासिक्यं गन्धनालिका। ओष्ठे तु दशनोच्छिष्टो रसालेपी च वाग्दलम् १२० श्मश्रुणि व्यञ्जनं कोटो दन्ते मुखखुरः खरुः । दालुजिह्वा तु रसिका रस्ना च रसमातृका ।। १२१ रसा काकुर्ललना चा वक्रदलं तु तालुनि । अवटौ तु शिरःपीठं कफणौ रनिपृष्टकम् ॥ १२२ बापबाहुसंधिश्च हस्ते भुजदलः सलः । अथ व्यामे वियामः स्याद्वाहुचापरतनूतलः ॥ १२३ हृद्यसहं मर्मवरं गुणाधिष्टानकं त्रसम् । स्तनौ तु धरणावग्रे तयोः पिप्पलमेचकौ॥ १२४ जठरे मलुको रोमलताधारोऽथ क्लोमनि । स्यात्ताण्ड्यं क्लपुष क्लोममथ। नाभौ पुँतारिका ॥ १२५ शिरामूलं कटीकूपौ तूचलिङ्गौ रतावुके । शिश्ने तु लङ्गुलं शङ्कु लाङ्गलं। शेफशेफसी ॥ १२६ रक्ते तु शोध्यकीलाले। मांसे तूद्वः समारटम् । लेपनं च रोमणि तु त्वग्मलं वालपुत्रकः॥ १२७ कूपजो मांसनिर्यासः परित्राणमथ स्नसा । तत्रीनखारुनावानः संधिबन्धनमित्यपि ॥ १२८ अगरौ प्रवरं शृङ्गं शीर्षकं मृदुलं लघु ॥ वरद्रुमः परमदः प्रकरं गन्धदारु च ॥2 १२९ चन्दने पुनरेकाङ्गं भद्रश्रीः फलकीत्यपि । जातीफले सोमनसं पुटकं मदशौण्डकम् ॥ १३० कोशफलं कुङ्कुमे तु करटं वासनीयकम् । प्रियङ्गु पीतकाबेरं घोरं पुष्परजो वरम् ॥ १३१ कुसुम्भं च जवापुष्पं कुसुमान्तं च गौरवम् । वृक्षधूपे तु श्रीवेष्टो दधिक्षीरघृताद्वयः॥ १३२ रचनायां परिस्पन्दः प्रतियत्नोऽथ कुण्डले । कर्णादों मेखला तु लालिनी कटिमालिका ॥ १३३ अथ किङ्किण्यां धर्धरी विद्या विद्यामणिस्तथा।। नूपुरे तु पादशीली मन्दीरं पादनालिका ॥ १३४ पादाङ्गुलीयके पादपालिका पादकीलिका । वस्त्रे निवसनं वस्त्रं सत्रं कर्पटमित्यपि ॥ १३५ दशासु वस्त्रपेश्योऽथ हिमवातापहांशुके । द्विखण्डको वरकश्च चक्रवर्तिन्यधीश्वरः॥ १३६ अर्जुने विजयश्चित्रयोधी चित्राङ्गसूदनः।। योगी धन्वी कृष्णपक्षो नन्दिघोषस्तु तद्रथः ॥ १३७ प्रन्थिकस्तु सहदेवो नकुलस्तन्तिपालकः । माद्रेयाविमौ कौन्तेया भीमार्जुनयुधिष्ठिराः॥ १३८ द्वयेऽपि पाण्डवेयाः स्युः पाण्डवाः पाण्डवायनाः । राजच्छत्रे नृपलक्ष्म चमरः स्यात्तु चामरे॥ १३९ स्यान्यायद्रष्टरि स्थेयो द्वाःस्थे द्वाःस्थितिदर्शकः । क्षुद्रोपकरणानां स्यादध्यक्षः पारिकर्मिकः ॥ १४०
१. 'शिनं' ख. २. 'स्तः' ख. ३. 'दन्तालयस्तेरे' ख. ४. 'वरं' ख. ५. 'शीलकः' ख. ६. 'तनूनलः' ख. ७. 'मर्मचरम्' क. ८. 'पुनारिका' ख. ९. 'क्षिरामूलं' क. १०. 'प्रकारं' क. ११. 'अलंकारशेखरश्च' इति पुस्तद्वयेऽप्यधिकमुपलभ्यते. १२ 'द्वाःस्थितदर्शक:' ख.
For Private and Personal Use Only
Page #75
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिधानसंग्रहः-७ अभिधानचिन्तामणिपरिशिष्टः । पुराध्यक्षे कोट्टपतिः पौरिको दाण्डपाशिकः । वेध्यं निमित्तं बाणे तु लक्ष्यहा मर्मभेदनः॥ १४१ वीरश्च वीरशङ्कुश्व कदम्बोऽप्यत्रकण्टकः।। नाराचो लोहनालोऽस्त्रसायकोऽसिस्तु सायकः ॥ १४२ श्रीगर्भो विजयः शास्ता व्यवहारः प्रजाकरः । धर्मप्रचारो धाराङ्गो धाराधरकरालिकौ ॥ १४३ चन्द्रभासश्च शस्त्रोऽथा क्षुर्यस्त्री कोशशायिका । पत्रं च धेनुका पत्रपाले तु हुलमातृका ॥ १४४ कुट्टन्ती पत्रफलाथ शक्तिः कासूर्महाफला । अष्टतालायता सा च पट्टिसस्तु खुरोपमः ॥ १४५ लोहदण्डस्तीक्ष्णधारो दुःस्फोटाराफलौ समौ।। चक्रं तु वलयप्रायमरसंचितमित्यपि ॥ १४६ शतघ्नी तु चतुस्ताला लोहकण्टकसंचिता । अयःकण्टकसंछन्नाशतन्ने च महाशिला ॥ १४७ “भुषुण्डी स्याहारुमयी वृत्तायःकीलसंचिता। कणयो लोहमात्रोऽथ चिरिका तु हुलाग्रका ॥ १४८ वराहकर्णकोऽन्वर्थः फेलपत्राग्रके हुलम् । मुनयोऽस्त्रशेखरं च, शराभ्यास उपासनम् ॥ १४९ जिष्णौ तु विजयी जैत्रः। स्याच्छृगाली तु विप्लवे । करमध्ये सौम्य तीर्थमथ स्यान्नियमे तपः॥१५० सत्यवत्यां गन्धवती मत्स्योदर्यथ वक्रये । भाटकोऽथासाक्षिणि स्यान्मध्यस्थः प्राश्निकोऽप्यथ।। १५१ कूटसाक्षी मृषासाक्षी सूची स्यादृष्टसाक्षिणि । पादुकायां पादरथी पादजङ्गुः पदत्वरा ॥ १५२ पादवीथी च पेशी च पादपीठी पदायता । नापिते ग्रामणीभण्डिवाहक्षौरिकभाण्डिकाः ॥ १५३
___इत्याचार्यहेमचन्द्रविरचितेऽभिधानचिन्तामणिपरिशिष्टे मर्त्यकाण्डस्तृतीयः ॥ ३ ॥ अथ पृथ्वी महाकान्ता क्षान्ता मेर्वद्रिकर्णिका । गोत्रकीला घनश्रेणी मध्यलोका जगद्वहा ॥ १५४ देहिनी केलिनी मौलिमहास्थल्यम्बरस्थली। गिरौ प्रपाती कुट्टार उर्वङ्गः कंदराकरः॥ १५५ कैलासे धनदावासो हराद्रिहिमवद्वसः । मलयश्चन्दनगिरिः। स्यालोहे धीनधीवरे ॥ १५६ ताने पवित्रं कांस्यं च सीसके तु महावलम् । चीनपिष्टं समेलूकं कृष्णं च त्रपुबन्धकम् ॥ १५७
पुणि श्वेतरूप्यं स्यात्सर्ट सलवणं रजः।। परासं मधुकं ज्येष्टं धनं च मुखभूषणम् ॥ १५८ रजते त्रापुषं वङ्गजीवनं वसु भीरुकम् । स्वभ्रं सौम्यं च शोध्यं च रूपं भीरु जवीयसम् ॥ १५९ सुवर्णे लोभनं शुक्रं तारजीवनमौजसम् । दाक्षायणं रक्तवर्ण श्रीमत्कुम्भं शिलोद्भवम् ॥ १६० वैणवं तु कर्णिकारच्छायं वेणुतटीभवम् ॥
१६१ इति पृथ्वीकायः। जले दिव्यमिरा सेव्यं कृपीटं घृतमङ्कुरः । विषं पिप्पलपातालमलिलानि च कम्बलम् ॥ १६२ पावनं षड्रसं चापि पल्लूरं तु सितं पयः । किट्टिमं तदतिक्षारं शालूकं पङ्कगन्धिकम् ॥ १६३ अन्धं तु कलुषं तोयमतिस्वच्छं तु काचिमम् ॥ समुद्रे तु महाकच्छो दाग्दो धरणीप्लवः ॥ १६४ महीप्रावार उर्वङ्गस्तिमिकोशो महाशयः । मुरंदरा तु मुरला सुरवेला तु नन्दिनी ।। चर्मण्वती रन्तिनदी संभेदः सिन्धुसंगमः । नीका तु सारणौ
इति जलकायः ।
__ अग्नौ चमिर्दीप्रः समन्तभुक् ॥१६६ पर्परीकः पविर्घासिः पृथुर्घघरिराशिरः । जुहुराणः पृदाकुश्च जुषाकुर्हवनो हविः ॥ १६७
१. 'वारश्च' ख. २. 'कलपत्रात्रके' ख.३. 'समोलूकम्' ख.४. 'श्वभ्रं' ख. ५. 'साध्य' ख. ६. 'मलिनानि' क. ७. 'वमिः' ख. ८. 'कर्परीकः' ख. ९. 'घसुरिराशिरः' क. १०. 'कुषाकुः' ख.
For Private and Personal Use Only
Page #76
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४ तिर्यकाण्डः।
१६
घृताचिर्नाचिकेतश्च प्रष्टो वश्चतिरञ्चतिः । भुजिर्भरथपीथौ च स्वनिः पवनवाहनः ॥
इत्यग्निकायः। वायौ सुरालयः प्राणः संभृतो जलभूषणः । शुचिर्वहालो नेघटः पश्चिमोत्तरदिक्पतिः ॥ १६९ अङ्कतिः क्षिपणुर्मर्को ध्वजप्रहरणश्चलः । शीतलो जलकान्तारो मेघारिः सृमरोऽपि च ॥ १७०
इति वायुकायः । वृक्षे त्वारोहकः स्कन्धी सीमिको हरितच्छदः । ऊर्जन्तुर्वह्निभूश्च
इति वनस्पतिकायः ।
स्यात्तु श्वेतः कपर्द के ॥ १७१ खद्योते तु कीटमणिज्योतिर्माली तमोमणिः । पगदो निमेषद्युत् ध्वान्तचित्रोऽथा कुञ्जरे ॥ १७२ पेचकी पुष्करी पद्मी पेचिल: सूचिकाधरः । विलोलजिह्वोऽन्तःस्वेदो महाकायो महामदः ॥ १७३ शूर्पकर्णो जलाकाको जटी च षष्टिहायनः । असुरो दीर्घपवनः शुण्डालः कपिरित्यपि।। १७४ वशायां वाशिता कर्णधारिणी गणिकापि च । अश्वे तु क्रमणः कुण्डी प्रोथी हेषी प्रकीर्णकः॥१७५ पाकल: परुल: किण्वी कुटर: सिंहविक्रमः । माषाशी केसरी हंसो मुद्गभुग्गूंढभोजनः ॥ १७६ वासुदेवः शालिहोत्रो लक्ष्मीपुत्रो मरुद्रथः । चामर्यकशोऽपि स्यादवायां पुनरर्वती ॥ १७७ मल्लिकाक्षः सितैर्नेत्रैः स्याद्वाजीन्द्रायुधोऽसितैः । ककुदी ककुदावर्तो निर्मुष्कविन्द्रवृद्धिक ॥१७८ शुनि क्रोधी रसापायी शिवारिः सूचको रुरुः । वनंतपः स्वजातिद्विकृतज्ञो भल्लहश्च सः ।। १७९ दीर्घनादः पुरोगामी स्यादिन्द्रमहकामुकः । मण्डलः कपिलो ग्राममृगश्चेन्द्रमहोऽपि च ॥ १८० महिषे कलुषः पिङ्गः कटाहो गद्गदस्वरः । हेरम्वः स्कन्धशृङ्गश्चा सिंहे तु स्यात्पलंकषः ॥ १८१ शैगाटो वनराजश्च नभःकान्तो गणेश्वरः । शृङ्गोष्णीषो रक्तजिह्वो व्यादीर्णास्यः सुगन्धिकः॥१८२ सूकरे कुमुखः कामरूपी च सलिलप्रियः । तलेक्षणो वक्रदंष्ट्रः पङ्कक्रीडनकोऽपि च ॥ .. १८३ मृगे त्वजिनयोनिः स्यादथो भुजगभोगिनि । अहीरणी द्विमुखश्च भवेत्पक्षिणि चञ्चमान् ॥ १८४ कण्ठाग्निः कीकसमुखो लोमकी रसनारदः । वारङ्गिनाडीचरणौ। मयूरे चित्रपिङ्गलः ॥ १८५ नृत्यप्रियः स्थिरमदः खिलखिल्लो गरव्रतः । मार्जारकण्ठो मरुको मेघनादानुलासकः ॥ १८६ मयुको बहुलग्रीवो नगावासश्च चन्द्रकी। कोकिले तु मदोल्लापी काकजातो रतोद्वहः ॥ १८७ मधुघोषो मधुकण्ठः सुधाकण्ठः कुह्रमुखः । घोषयित्नुः पोषयित्नुः कामवालः कुनालिकः॥ १८८ - कुक्कुटे तु दीर्घनादश्चर्मचूडो नखायुधः । मयूरचटकः शौण्डो रणेच्छुश्च कलाधिकः ॥ १८९ आरणी विष्किरो बोधिर्नन्दीकः पुष्टिवर्धनः । चित्रवाजो महायोगी स्वस्तिको मणिकण्ठकः॥१९० उषाकीलो विशोकश्च ब्राजस्तु ग्रामकुक्कुटः । हंसेषु तु मरालाः स्युः सारसे दीर्घजानुकः॥ १९१ गोनर्दो मैथुनी कामी श्येनाक्षो रक्तमस्तकः । गृध्रे तु पुरुषव्याघ्रः कामायुः कूणितेक्षणः ॥ १९२ सुदर्शनः शकुन्याजौ. शुके तु प्रियदर्शनः । श्रीमान्मेधातिथिग्रिमी। मत्स्ये तु जलपिप्पिकः॥ १९३ मूको जलाशयः शेवः पाठीने मृदुपाठकः ॥ .
१९४ इत्याचार्यहेमचन्द्रविरचितेऽभिधानचिन्तामणिपरिशिष्टे तिर्यकाण्डश्चतुर्थः ॥ ४ ॥
१. 'पृष्ठो' क. २. 'लघंट:' क; 'लघटः' ख. ३. 'उरुः' ख. ४. 'ग्रहभोजनः' ख, ५. 'मयूको' ख.
For Private and Personal Use Only
Page #77
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिधानसंग्रहः-७ अभिधानचिन्तामणिपरिशिष्टः । अथ रत्नप्रभा धर्मा वंशानुशर्कराप्रभा । स्याद्वालुकाप्रभा शैला भवेत्पङ्कप्रभाजना ॥ धूमप्रभा पुनारिष्टा माधव्या तु तमःप्रभा । महातमःप्रभा माधव्येवं नरकभूमयः ॥
इत्याचार्यहेमचन्द्रविरचितेऽभिधानचिन्तामणिपरिशिष्टे नारककाण्डः पञ्चमः ॥ ५ ॥
१९५
१९६
आनुकूल्यार्थकं प्राध्वमसाकल्ये तुचिच्चन । तुहिचस्महवै पादपूरणे पूजने स्वती ॥ वद् वा यथा तथैवैवं साम्येऽहो ही च विस्मये । स्युरेवं तु पुनर्वैवेत्यवधारणवाचकाः ॥ १९८ ऊं पृच्छायामतीते प्राक् निश्चयेऽद्धाअसाद्वयम् । अतो हेतौ महः प्रत्यारम्भेऽथ स्वयमात्मनि ।।१९९ प्रशंसने तु सुष्टु' स्यात्परश्वः श्वः परेऽहनि । अद्याबाह्रषथ पूर्वेऽहीत्यादौ पूर्वेद्युरादयः ॥ २०० समाने हति सद्यः स्यात्परे त्वति परेद्यवि । उभयास्तूभयेयुः समे युगपदेकदा ॥ स्यात्तदानीं तदा तर्हि यदा यद्यन्यदैकदा । परुत्परार्येषमोऽब्दे पूर्वे पूर्वतरेऽत्र च ॥ २०२ प्रकारेऽन्यथेतरथा कथमित्थं यथा तथा । द्विधा द्वेधा त्रिधा त्रेधा चतुर्धा द्वैधमादि च ।। २०३ द्विव्यश्चतुःपञ्चकृत्व इत्याद्यावर्तने कृते । दिग्देशकाले पूर्वादो प्रागुदक्प्रत्यगादयः ॥ २०४
इत्याचार्यहेमचन्द्रविरचितेऽभिधानचिन्तामणिपरिशिष्टे सामान्यकाण्डः षष्ठः ॥ ६॥ इति श्रीहेमचन्द्राचार्यविरचितोऽभिधानचिन्तामणिपरिशिष्टः समाप्तः ।
For Private and Personal Use Only
Page #78
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ श्रीः ॥
अभिधानसंग्रहः।
श्रीमदाचार्यहेमचन्द्रविरचितः
अनेकार्थसंग्रहः।
ध्यात्वार्हतः कृतैकार्थशब्दसंदोहसंग्रहः । एकस्वरादिषट्काण्ड्या कुर्वेऽनेकार्थसंग्रहम् ॥ १ अकारादिक्रमेणादावत्र कादिक्रमोऽन्ततः । उद्देश्यवचनं पूर्व पश्चादर्थप्रकाशनम् ॥ यत्रैक एव रूढोऽर्थो यौगिकस्तत्र देर्शितः । अनेकस्मिंस्तु रूढेऽर्थे यौगिकं प्रोच्यते न वा ॥ ३ पदानां भङ्गतो योऽस्मिन्ननेकार्थः प्रकाशते । प्रदर्शनीयो नैवासौ तस्यानन्त्यप्रसङ्गतः ॥ ४ को ब्रह्मण्यात्मनि रवौ मयूरेऽनौ यमेऽनिले।। के शीर्षेऽप्सु सुखे) खं स्वः संविदि व्योमनीन्द्रिये॥५ शून्ये बिन्दौ सुखे खस्तु सूर्ये गौरुदके दृशि । स्वर्गे दिशि पशौ रश्मौ वने भूमाविषौ गिरि ॥६ त्वग्वल्कले चर्मणि च न्यग्निम्ने नीचकाययोः। रंक्शोभाकिरणेच्छासु, वाग्भारत्यां वचस्यपि॥ ७ जूराकाशसरस्वत्यां पिशाच्यां जवनेऽपि च।। ज्ञः स्याद्विचक्षणे पद्मासने चीन्द्रमसायनौ ॥ ८ सद्विद्यमाने सये च प्रशस्तार्चितसाधुषु । भः शुक्रे भमुडौ भांशी भूस्तु भूमिरिव क्षितौ ॥ ९ स्थाने च मः पुनः शंभौ मा लक्ष्म्यां वारणेऽव्ययम् । किं क्षेपनिन्दयोः प्रश्न वितर्के ज्या तु मातरि १० मामौर्योझुर्दिने वह्नौ द्यौस्तु स्वर्गे विहायसि । रस्तीक्ष्णे दहने रास्तु सुवर्णे जलदे धने ।। ११ ट्रैः कामरूपिणि स्वर्णे धूर्यानमुखभारयोः।। पूः शरीरे चै नगरे श्रीलक्ष्म्यां सरलमे ॥ १२ वेषोपकरणे वेषरचनायां मतौ गिरि । शोभात्रिवर्गसंपत्त्योः स्वः स्रवे निर्झरेऽपि च ॥ १३ वः पश्चिमदिगीशे स्यादौपम्ये पुनरव्ययम् । द्यौः स्वर्गनभसोः स्वो ज्ञात्यात्मनोः स्वं निजे धने१४ दृग्दृष्टौ दर्शनेऽध्यक्षे विट्प्रवेशे नृवैश्ययोः । तृट् तृष्णावत्तर्षवच्च भवेल्लिप्सापिपासयोः ॥ १५ त्विट् शोभायां जिगीषायां व्यवसाये रुचौ गिरि | भाः प्रभावे मयूखे चःमास्तु मासे निशाकरे१६
इत्याचार्यहेमचन्द्रविरचितेऽनेकार्थसंग्रह एकस्वरकाण्डः प्रथमः ॥ १॥ अर्को दुभेदे स्फटिके ताने सर्ये विौजसि। अकं दुःखाघयोरङ्को भूषारूपकलक्ष्मसु ॥ १७ चित्राजौ नाटकाद्यशे स्थाने नोडेऽन्तिकागसोः।। एकोऽन्यः केवलः श्रेष्ठः संख्या कल्कोऽघविष्ठयोः ___१. 'नत्वा हरिम्' ख. २. 'क्रमोऽत्रादौ ककारादि' ख. ३. 'क्रमस्ततः' ग. ४. 'उद्देश' ख. ५. 'दर्श्यते' ख; 'दृश्यते' ग, ६. 'प्रकाश्यते' ख-ग. ७. 'नन्त' ख. ८. 'शीर्षऽप्सु च' ख. ९. 'क्' ख. १०. 'चान्द्रमसायने' ख-ग. ११. इतः परम् ‘ता जटायां च राक्षस्यां पतने दुर्भगस्त्रियाम्' इति .ख-पुस्तकेऽधिकः पाठः. १२. 'द्रुः' ग. १३. 'नगरे च' क; 'पत्तने च' ग. १४. 'द्रवे' क. १५. 'वेषे' ग. १६. 'च वौपम्ये' ख. १७. 'द्रष्टरि दर्शनेऽध्यक्षे' ग. १८. 'चित्रादौ' ख,
For Private and Personal Use Only
Page #79
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिधानसंग्रहः-८ अनेकार्थसंग्रहः ।
दम्भे पापिनि किट्टे चः कङ्को ब्राह्मणलिङ्गिनि । लोहपृष्ठे यमेकर्कः श्वेताश्वे देणे घटे ॥ १९ कर्केतनेऽग्नौ राशौ चाकाकः स्यात्पीठसपिणि । द्वीपमानद्रुभेदेषु शिरोवक्षालने द्विके॥ २० काकं काकसमूहे स्याद्रतबन्धे च योषिताम् । काका तु काकजङ्घायां काकोलीकाकनाशयोः॥२१ काकोदंबरिकाकाकमाचिकारक्तिकास्वफि किष्कुः प्रकोष्ठे हस्ते च वितस्तौ कुत्सितेऽपि च ॥ २२ कोको वृके चक्रवाके खजूंरीद्रुमभेदयोः । छेको विदग्धे विश्वस्तमृगनीड़जयोरपि ॥ २३ टको नीलकपित्थेऽसिकोशे कोपेऽश्मदारणे । मानान्तरे खनित्रे च जङ्घायां टङ्कणेऽपि च ॥ २४ तर्को वितर्के काङ्खायामूहकर्मविशेषयोः ।। त्रिका कूपस्य नेमौ स्यात्रिकं पृष्ठाधरे त्रये ॥ २५ तोकं संतानसुतयोदिकः स्यात्काककोकयोः । न्यङ्कुगे मुनौ नाकः स्वः खे नाकुस्तु पर्वते ॥२६ मुनिवल्मीकयोनिष्कः कर्षे हेमनि तत्पले । दीनारे साष्टसुवर्णशते वक्षोविभूषणे।। २७ पङ्कोऽधे कर्दमे पाकः पचने शिशुदैत्ययोः । बको रक्षोभिदि श्रीदे शिवमल्लीबकोटयोः॥ २८ भूकश्छिद्रे काले भेको मेघमण्डूकभीरुषु । मुष्को मोक्षद्रुमे सङ्घ तस्करे मांसलाण्डयोः ॥ २९ मूको दैत्यावाग्दीनेषु रङ्कः कृपणमल्लयोः।। राका कच्छां, दृष्टरजःकन्यायां सरिदन्तरे॥ ३० पर्णेन्दुपूर्णिमायां चा रेकः शङ्काविरेकयोः । हीनेऽपि रोक केयणभेदे नावि बिलेचरे ॥ ३१ रोकोऽशीलङ्का तु शाखा शाकिनी कुलटा पुरी। लोको विश्वे जने वल्कं शकले त्वचिा शल्कवत् । शको देशे राजभेदेो शङ्का स्यात्संशये भये।। शङ्कः पत्रशिराजाले संख्याकीलकशंभुषु ॥ ३३ यादोऽस्त्रभेदयोर्मेद्रेशाको द्वीपे नृपे द्रुमे । शक्तौ हरितके चापि शुको व्यासजकीरयोः॥ ३४ रक्षोऽमात्ये शुक्र अंन्धिपणेऽरत्नुशिरीषयोः । शुल्कं घट्टादिदातव्ये जामातुश्चापि बन्धके ॥ ३५ शूकोऽनुक्रोशकिं शार्वोः शोकेऽभिषवशुङ्गयोः।। शुका हल्लेखे श्लोकस्तु पद्यबन्धे यशस्यपिः॥ ३६ शौकं शुकानां समूहे स्त्रीणां च करणान्तरे। सूका बाणोत्पलवातः स्तोकः स्यान्चातकाल्पयोः॥३७ नखं पुनर्गन्धद्रव्ये नखः करजर्षण्ढयोः । न्युजः सामविशेषस्य षडोंकार्यामतिप्रिये ॥ ३८ पुङ्खः स्यान्मङ्गलाचारे शराङ्गश्येनयोरपिा। प्रेढा पर्यटन नृत्ते दोलायां वाजिनां गतौ ॥ ३९ मुखमुपाये प्रारम्भे श्रेष्ठे निःसरणास्ययोः।। रेखा स्यादल्पके छद्मन्याभोगोल्लेखयोरपि ॥ ४० लेखो लेख्ये दैवते च लेखा राज्यां लिपावपि । वीङ्खा तु शकशिम्बायां गतिभेदेऽपि नर्तने । ४१ शङ्खः कम्बौ निधिभेदे स्यान्नख्यामलिकास्थनिग शाखा द्रुमांशे वेदांशे भुजे पक्षान्तरेऽन्तिके ॥ ४२ शिखाग्रमात्रे चूडायां केकिचूडाप्रधानयोः । ज्वालायां लाङ्गलिकायां शिफाशाखाघृणिष्वपि।॥ ४३ सखा सहाये मित्रे च सुखं त्रिदिवशर्मणोः।। सुखा प्रचेतसः पुर्यामनः स्यान्नगवत्तरौ॥ ४४ शैले सरीसृपे भानावङ्गमन्तिकगात्रयोः । उपसर्जनभूते स्यादभ्युपायप्रतीकयोः ॥
१ 'दर्पटे' ख. २. 'विश्वस्ते' ग. ३. 'नीडकयो' ग. ४. 'टङ्कने' ग. ५. कर्मविशेषः क्रियाविशेषः । उपहास इति यावत्' इत्यनेकार्थकैरवाकरकौमुदी. 'वर्मविशे' ख; 'तर्कविशे' ग. ६. 'भूकः काले छिद्रे' ग. ७. 'कोले' ख. ८ 'ऽकस्मादृष्ट' ख. ९. 'क्रीयते येन तत्क्रयणं दीनारादि' इत्यनेकार्थकैरवाकरकौमुदी. 'कृपण' ग. १०. इतः परम् 'वङ्कः पर्याणभागे स्यान्नदीभेदे च भङ्गुरे' इति ख-पुस्तकेऽधिकः पाठः. ११. 'वस्त्रे वस्त्राञ्चलशिरस्त्रयोः' ग. १२. 'शुङ्गा नवोद्भिन्नपल्लवकोशी' इत्यनेकार्थकैरवाकरकौमुदी. 'मुद्गयोः' ख; 'शृङ्गयोः' ग. १३. 'शृगालबकनिरयेष्वपि । शृकेत्यायुधभेदेऽपि' इत्यनेकार्थकैरवाकरकौमुदी. १४. 'तु गन्धद्रव्ये स्यान्नखः' ख. १५. 'खण्डयोः' ख-ग. १६. 'नृत्ये ग. १७. 'शेषे' ख. १८. 'ज्यायां' ग. १९. 'च' ख-ग. २०. 'निधे दे' ख.
For Private and Personal Use Only
Page #80
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२ द्विखरकाण्डः |
४६
:/४७
४८
अङ्गा नीवृद्विशेषे स्युरिङ्गः स्यादिङ्गितेऽद्भुते । ज्ञानजङ्गमयोश्चापि खगोऽर्कमहपक्षिषु ॥ शरे देवेऽपि, खड्गोऽसौ खड्गिशृङ्गे च गॅण्डके । टेङ्गः खनित्रे जङ्घास्योस्त्यागो वर्जन दानयो:/ दुर्ग पुनर्दुर्ग स्याद्दुर्गा तु नीलिकोमयोः । नागो मतङ्गजे सर्वे पुंनागे नागकेसरे || क्रूराचारे नागदन्ते मस्तके वारिदेऽपि च । देहानिलविशेषे च श्रेष्ठे स्यादुत्तरस्थितः ॥ नागं रङ्गे सीसपत्रे स्त्रीबन्धे करणान्तरे । पिङ्गी शम्यां पिङ्गा हिङ्गुनाल्यां गोरोचनोमयोः ।। ५० पिङ्ग बालके पिशङ्गे पूगः क्रमुकसंघयोः । फल्गुः काकोदुम्बरिकावृक्षे निरर्थकेऽपि च ॥ ५१ भगोsर्कज्ञानमाहात्म्ययशोवैराग्यमुक्तिषु । रूपवीर्यप्रयत्नेच्छा श्रीधर्मैश्वर्ययोनिषु ॥
४९
५२
५६
५७
५८
५९
भङ्गस्तरङ्गे भेदे च रुग्विशेषे पराजये । कौटिल्ये भयविच्छित्योर्भङ्गा राणे भङ्गिः पुनः ॥ ५३ भक्तिवच्योर्भागो रूपार्थके भाग्यैकदेशयोः । । भृङ्गं त्वक्पत्रं भृङ्गास्तु खिङ्गधूम्याटमार्कवाः || ५४ पट्पदोऽथ भृगुः सानौ जमदग्निप्रपातयोः । । शुक्रे रुद्रे च भोगस्तु राज्ये वेश्याभृतौ सुखे ॥ ५५ धनेऽहिकायफणयोः पालनाभ्यवहारयोः । मार्गो मृगमदे मासे सौम्यर्क्षेऽन्वेषणे पथि ॥ मृगः कुरङ्गे याच्यायां मृगयायां गजान्तरे । पशौ नक्षत्रभेदे च मृगी तु वनितान्तरे | || युगं हस्तचतुष्के स्याद्रथाद्यङ्गे कृतादिके । वृद्धिनामौषधे युग्मे योगो विस्रम्भघातिनि ॥ अलब्धलाभ संगत्यां कार्मणध्यानयुक्तिषु । वपुः स्थैर्यप्रयोगे च संनाहे भेषजे धने ॥ विष्कम्भादावुपाये च रङ्गः स्यान्नृत्ययुद्भुवोः । रागे रङ्गं तु पुणि रागः स्याल्लोहितादिषु || गान्धारादौ / शादिकेऽनुरागे मत्सरे नृपे । लङ्गः सङ्गे च षिङ्गे च लिङ्गं मेहनचिह्नयोः || शिवमूर्वानुमाने सांख्योक्तर्विकृतावपि । वङ्गः कर्पासे वृन्ताके वङ्गा जनपदान्तरे ॥ वङ्गं त्रपुणि सीसे च वल्गुश्छागमनोज्ञयोः । व्यङ्गो भेके च हीनाङ्गे वेगो रयप्रवाहयोः ॥ रेतः किंपाकयपि शार्ङ्ग विष्णुधनुर्धनुः । शुङ्गयाम्रा वटे लक्षे शृङ्गं चिह्नविषाणयोः ।। क्रीडाम्बुयत्रे शिखरे प्रभुखोत्कर्षसानुषु । शृङ्गः कूर्चशीर्षे शृङ्गी स्वर्णमीनविशेषयोः || विषायामृषभौषध्यां सर्गस्यागस्वभावयोः । उत्साहे निश्चयेऽध्याये मोहानुमतिसृष्टिषु ।। अर्धः पूजाविधी मूल्येघं दुःखे व्यसनैनसोः । । उद्घो हस्तपुढे वह वायां देहजानिले ॥ ६७ ओघः प्रवाहः संघातो द्रुतनृत्तं परम्परा । उपदेशच मेघस्तु मुस्तके जलदेऽपि च ॥ मोघो दीने निष्फलेच मोघा स्यात्पाटलातरौ । लघुः सृका लध्वसारं ह्रस्वं चार्वगुरु द्रुतम् ॥६९ श्लाघोपास्तीच्छयोः स्तोत्रेऽर्चा पूजा प्रतिमापि च । कचः शुष्कत्रणे केशे बन्धे पुत्रे च गीः पतेः ॥ ७० कचा करेण्वां काचोऽक्षिरोगे शिक्ये मणौ मृदि । काशी गुञ्जामेखलयोः पुर्या/ कूच विकत्थने७१
६८
For Private and Personal Use Only
3
६०
६१
દર
६३
६४
६५
१. 'अङ्गो नीवृद्विशेषे स्यादिङ्गः ' ग. २ 'द्विशेषाः ' ख. ३. 'खड्ग' क. ४. 'कण्टके' ग. ५. इतः प्राक् 'गर्गो मुनिविशेषे स्यादृषे किंचुलिकेऽपि च' इत्यधिकः पाठः ख ग पुस्तकयोः ६. इतः परम् ‘तुङ्गः पुंनागनगयोर्बुधे स्यादुन्नतेऽपि च । तुङ्गी प्रोक्ता हरिद्रायां वर्वरायामपीष्यते ॥' इत्यधिकः पाठः ख-गपुस्तकयोः तत्र ग-पुस्तके 'उन्नतेऽन्यवत्' इति पाठ: ७. 'कोटे दु' ख; ' भवेद्दुर्गमे तु' ग. ८ 'स्यान्नीलिको' ग. ९. 'बलाके' ग. १०. अनेकार्थकैरवाकरकौमुद्यां तु 'भङ्गीभिरङ्गीकृतमानताङ्गयाः' इति भक्तौ, 'भङ्गीक्या विरचिततनुः स्तम्भितान्तर्जलौघः' इति वीच्यामुदाहृतम् ११. 'चतुर्थे' ग घ १२. सांख्योक्तायाः प्रकृतेः कार्यभूता विकृतिः । तत्र यथा - 'लिङ्गालिङ्गमिवानुरूपचरितं पुत्रं स लेभे मुनिः' इत्यनेकार्थ कैरवाकर कौमुदी. १३. 'प्रकृतावपि ' ख ग घ १४ ' जनपदान्तरे पुंभूनि' इति टीका. १५. 'मलोत्सर्गे प्रभावे शृङ्गारभावेऽपि ' इत्यनेकार्थ कैरवाकरकौमुदी. १६. 'अपदेश' ख.
Page #81
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिधानसंग्रहः-८ अनेकार्थसंग्रहः ।
श्मणि दम्भे भ्रमध्ये क्रौञ्चो द्वीपे खगे गिरौ। चर्चा स्याचर्ममुण्डायां चिन्तास्थासकयोरपि ।। ७२ चञ्चुः पञ्चाङ्गुले त्रोट्यां नीचः पामरखर्वयोः । मोचा शाल्मलिकदल्योर्मोचः शिनौ रुचितौ७३ स्पृहाभिष्वङ्गशोभासुविचः शुके वचौषधौ । शारिकायां विच्याल्यूर्योरवकाशे सुखाल्पयोः ॥ ७४ शचीन्द्राणीशतावर्योः शुचिः शुद्धे सितेऽनिले । ग्रीष्माषाढानुपहतेषूपधाशुद्धमत्रिणि ।। ७५ शृङ्गारे। सूच्यभिनये व्यधने करणे स्त्रियाम्।। अच्छो भन्लूके स्फटिकेऽमलेऽच्छाभिमुखेऽव्ययम्।७६ कच्छो द्रुभेदे नौकाङ्गेऽनूपप्राये तटेऽपि च । कच्छास्तु देशे कच्छा स्यात्परिधानापराञ्चले ॥ ७७ चीर्या वाराह्यांच गुच्छो गुञ्छे हारकलापयोः। पिच्छः पुच्छे पिच्छं वाजेपिच्छा शाल्मलिवेष्टके ७८ पैतौ पूगच्छटाकोशमण्डेष्वश्वपदामये । मोचायां पिच्छिले।म्लेच्छो जातिभेदेऽपभाषणे॥ ७९ अज छागे हरे विष्णौ रघुजे वेधसि स्मरेः। अब्जो धन्वन्तरौ चन्द्रे शलेऽन्जं पद्मसंख्ययोः-८० आजिः क्षणे समक्ष्मायां युध्यूर्जः कार्तिके बले: । कंजो वेधसि केशे च कंजं पीयूषपद्मयोः॥ ८१ कुञ्जो हनौ दन्तिदन्ते निकुळे च कुजो द्रुमे । आरे नरकदैत्ये च कुब्जो न्युजदुभेदयोः ॥ ८२ खजा दर्वीमथोः खर्जुः खजूरीकीटकण्डुषुः। गञ्जो भाण्डागारे रीढाखन्योर्गजा सुरागृहे।॥ ८३ गुञ्जा तु कृष्णलायां स्यात्पटहे मधुरध्वनौ।। द्विजो विप्रक्षत्रिययोर्वैश्ये दन्ते विहंगमे ॥ ८४ द्विजा भार्गीरेणुकयोर्ध्वजः पूर्वदिशो गृहे । शिश्ने चिह्ने पताकायां खट्वाङ्गे शौण्डिकेऽपि च ॥ ८५ निजो नित्ये स्वकीये च न्युजः कुब्जे कुंशे स्रुचि । अधोमुखेऽपि चा न्युजं कर्मरङ्गतरोः फले॥८६ प्रजा लोके संततौ च पिञ्जा तूलहरिद्रयोः।। पिञ्जो व्यग्रे वधे पिङ्ख बले बीजं तु रेतसि ॥ ८७ स्यादाधाने च तत्त्वे च हेतावङ्खरकारणे । भुजो बाहौ करे मर्जूः शुद्धौ च रजकेऽपि च ॥ ८८ राजी रेखायां पनौ च रुजा त्वामयभङ्गयोः।। लञ्जः पट्टे च कच्छे च लाजः स्यादातण्डुले। ॥८९ लाजास्तु भृष्टांनाः स्युर्लाजं पुनरुशीरके । व्रजोऽध्वगोष्ठसंघेषु। वणिग्वाणिज्यजीविनि।॥ ९० वाणिज्ये करणभेदे वाजं सर्पिषि वारिणि । यज्ञान्ने वाजस्तु पक्षे मुनौ निस्वनवेगयोः ॥ ९१ व्याजः शाठ्येऽपदेशे च सज्जौ संनद्धसंभृतौ । सञ्जो ब्रह्मशिवौ प्रज्ञः प्राज्ञ प्रज्ञा तु शेमुषी॥९२ यज्ञः स्यादात्मनि मखे नारायणहुताशयोः ।। संज्ञा नामनि गायत्र्यां हस्ताद्यैरर्थसूचने ॥ ९३ चेतनार्कस्त्रियोरट्टो हट्टाहालकयो शे । चतुष्कभक्तयोरिष्टमीप्सिते ऋतुकर्मणि ॥ ९४ पूज्ये प्रेयसि संस्कारे योगेऽथेष्टिमखेच्छयोः । संग्रहश्लोकेऽथा कटो गजगण्डे कटौ भृशम् ॥ ९५ शवे शवरथौषध्योः क्रियाकारश्मशानयोः । किलिने समये चापि कष्टं गहनकृच्छ्योः ॥ ९६ कटकार्ये मत्सरे च दूषणे च कटू रसे । तिक्ते प्रियङ्गुसुरभिकटुकाराजिकास्वपि ॥ ९७ कुटः कोटे शिलाकुट्टे गेहे घटेकुटी सुरा । चित्रगुच्छः कुम्भदासी कूटं पूर्द्वारयन्त्रयोः ॥ ९८ मायादम्भाद्रिशृङ्गेषु सीराङ्गेऽनृततुच्छयोः । निश्चलेऽयोधने राशौ कृष्टिः कर्षणधीमतोः॥ ९९ कोटयुत्कर्षाटनीसंख्यात्रिषु खटस्तृणे कफे । टङ्केऽन्धकूपे प्रहारे खाटिः शवरथे किणे ॥ १०० एकाहेऽथ खेटः स्याग्रामभेदे कफेऽधमे । स्फारे मृगव्ये गृष्टिस्तु सकृत्सूतगवी भवेत् ॥ १०१ वराहक्रन्तिा चा घटा घटने गजसंहतौ । गोष्ठयां घटस्विभशिरः कूटे समाधिकुम्भयोः ॥ १०२
१. 'पटाञ्चले' ख. २. 'पिच्छस्तुच्छे' ख. ३. 'पतिपूग' ख-ग-घ. ४. 'कुशस्रुचि' क. ५. 'मर्जः' ख. ६. 'धान्ये' ख. ७. 'घृते च' ख. ८. 'यज्ञान्ते' 'क-ख. ९ 'तप्ते पयसि दध्यानयति सा वैश्वदेव्यामिक्षा, वाजिभ्यो वाजिनम्' इति वाक्यव्याख्यायां 'वाजोऽन्नम्' इति मीमांसकैरुक्तत्वात्. १०. 'कान्ता' ख-ग-ध.
For Private and Personal Use Only
Page #82
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२ द्विस्वरकाण्डः। घृष्टिः स्पर्धाघर्षणयोर्विष्णुक्रान्तावराहयोः।। घोण्टा पूगवदरयोश्चटुश्चाटुपिचण्डयोः ॥ १०३ व्रत्यासने जटा केशविकारे मांसिमूलयोः।। झाटो व्रणादिसंमाष्टै कुञ्जकान्तारयोरपि ॥ १०४ त्वष्टार्के विश्वकृत्तक्ष्णोस्खटिः संशयलेशयोः । सूक्ष्मैलायां कालमाने।त्रोटिश्चयां खगान्तरे।।१०५ मीनकटफलयोर्दिष्टं दैवे दिष्टस्त्वनेहसि । दिष्टिरानन्दे माने च, दृष्टिानेऽक्ष्णि दर्शने ॥ १०६ पट्टश्चतुष्पथे पीठे राजादेः शासनान्तरे । व्रणादिवन्धने पेषाश्मनि। पट्टी ललाटिका ॥ १०७ रोधोऽथ पटु लवणे पटुस्तीक्ष्णपटोलयोः । स्फुटे रोगविहीने च छत्रायां चतुरेऽपि च ॥ १०८ पुष्टिः स्यात्पोषणे वृद्धौ फटा तु कैतवे फणे।। भटो वीरे म्लेच्छभेदेऽपि च भृष्टिस्तु भर्जने १०९ शून्यवाट्यामथाम्लिष्टं म्लानमस्पष्टभाषितम् । यष्टिर्भार्या मधुयष्टयां ध्वजदण्डेऽस्त्रहारयो।॥११० रिष्टं क्षेमेऽशुभे रिष्टोऽसौ लाटो वरदेशयोः। वटो गोले गुणे भक्ष्ये वृक्षे साम्यवराटयोः।। १११ वाटः पथि वृतौ वाट वरण्डेऽङ्गान्नभेदयोः । वाटी वास्तौ गृहोद्यानेकेट्योविटस्तु मूषके ।। ११२ खदिरे लवणे षिङ्गेऽद्रौ च व्युष्टं फले दिने । पर्युषिते प्रभाते च व्युष्टिः स्तुतिफलर्द्धिषु ॥ ११३ विष्टिः कर्मकरे मूल्ये भद्राजूप्रेषणेषु च।। सटा जटाकेसरयोः स्फुटो व्यक्तप्रफुल्लयोः ॥ ११४ सिते व्याप्तेः स्फुटिस्त्वझिस्फोटे निभिन्नचिर्भिटे। सृष्टिः स्वभावे निर्माणे सृष्टं निश्चितयुक्तयोः ११५ प्रचुरे निर्मिते चाथ हृष्टः स्याकेशरोमसु । जातहर्षे प्रतिहते विस्मिते हृषितो यथा ॥ ११६ कठो मुनौ स्वर ऋचां भेदे तत्पाठवेदिनोः । कण्ठो ध्वनौ संनिधाने ग्रीवायां मदनद्रुमे।।। ११७ काष्ठं दारुणि काष्ठा तु प्रकर्षे स्थानमात्रके । दिशि दारुहरिद्रायां कालमानप्रभिद्यपि ॥ ११८ कुण्ठोऽकर्मण्ये मुर्खे च। कुष्ठं भेषजरोगयोः । कोष्ठो निजे कुसूले च कुंक्षेरन्तर्गृहस्य च ॥ ११९ गोष्ठं गोस्थानको गोष्ठी संलापे परिषद्यपि।। ज्येष्ठः स्यादग्रजे श्रेष्टे मासभेदातिवृद्धयोः॥ १२० ज्येष्ठा भे गृहगोधायां निष्ठोत्कर्षव्यवस्थयोः । क्लेशे निष्पत्तौ नाशेऽन्ते निर्वाहे याचने व्रते॥१२१ पृष्ठं पश्चिममात्रे स्याच्छरीरावयवान्तरे । वण्ठः कुण्ठायुधे खर्वे भृत्याकृतविवाहयोः ।। १२२ शठो मध्यस्थपुरुषे धूर्ते धत्तूरकेऽपि च । श्रेष्ठोऽत्र्ये धनदे षष्ठी गौरी षण्णां च पूरणी॥ १२३ हठोऽम्बुपा प्रसभेऽण्डं पेशीकोशमुष्कयोः । इडेलावत्स्वर्गनाडीभूवाग्गोषु बुधस्त्रियाम् ॥ १२४ काण्डो नालेऽधमे वर्गे द्रुस्कन्धेऽवसरे शरे । संहः श्लाघाम्बुषु स्तम्बे क्रीडा केल्यामनादरे ॥१२५ कुण्डी कमण्डलौ कुण्डो जाराज्जीवत्पतेः सुते । देवतोयाशये स्थाल्या क्ष्वेडः कर्णामये ध्वनौ१२६ विषे वक्रेक्ष्वेडा सिंहनादवंशशलाकयोः ।। श्वेडं लोहितार्कफले घोषपुष्पे दुरासदे ॥ १२७ क्रोडः 'कोले शनौ कोडमङ्के खण्डोऽर्ध ऐक्षवे । मणिदोषे च गण्डस्तु वीरे पिटकचिह्नयोः ॥१२८ कपोले गण्डके योगे वाजिभूषणबुद्धदे । गडुः पृष्टगुडे कुब्जे गडो मीनान्तराययोः ॥ १२९ गुडः कुअरसंनाहे गोलकेक्षुविकारयोः । गुडा तु 'गुलिकास्नुह्योर्गोण्डः स्यादृद्धनाभिके ॥ १३० पामरजातौ चण्डस्तु यमदासेऽतिकोपने । तीब्रे दैत्यविशेषे च चण्डी तु शिवयोषिति ॥ १३१ चण्डा धनहरीशङ्खपुष्प्योश्चूडा शिखाग्रयोः । बाहुभूषावलभ्योश्च चोडः कक्षुकदेशयोः ॥ १३२
१. 'गृहोद्यानकट्योः' ख; 'गृहोद्याने कट्यां' ग-घ, २ 'इत्कटी औषधिविशेषः' इत्यनेकार्थकैरवाकरकौमुदी. ३. 'प्रेरणेषु' ख. ४. 'निश्रुत' ग-घ. ५ 'हृष्टो रोमाञ्चसंयुते' ख-ग-घ. ६. 'केशरोमस्विति वैषयिकेऽधिकरणे सप्तमी । तेन केशरोमविषये नानयोः पर्यायशब्दता' इत्यनेकार्थकैरवाकरकौमुदी. ७. 'प्रहसिते' ख. ८. 'कुहरेऽन्त' ख; 'कुक्षावन्त' ग-घ. ९. 'रहः' ख-ग-घ. 'सहो बलम्' इति टीका. १०. 'केले' ग-घ. ११. 'कपट' ख, १२. 'कोणे' ख. १३. 'गुडिका' ख-ग-घ.
For Private and Personal Use Only
Page #83
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिधान संग्रहः – ८ अनेकार्थसंग्रहः ।
१३४
१३५
१३८
१४३
जडो मूर्खे हिमाघाते, जडा स्याच्छूकशिम्बिका । ताडोऽद्रौ ताडने घोषे मुष्टिमेयतृणादिके ।। १३३ ताडी तालीदलतरौ दण्डः सैन्ये दमे यमे । मानव्यूहग्रहभेदेष्वऽर्कानुचरे मथि || प्रकाण्डे लगुडे कोणे चतुर्थोपायगर्वयोः । नाडी कुहनचैर्यायां घटिकागण्डदूर्वयोः || नाले गुणान्तरे स्नायौ नीडं स्थाने खगालये । पण्डः षण्डे पण्डा बुद्धौ पाण्डुः कुन्तीपतौ सिते १३६ पिण्डो वृन्दे जपापुष्पे गोले बोलेऽङ्गसियोः । कवले. पिण्डं तु वेश्मैकदेशे जीवनायसोः ।। १३७ बले सान्द्रे पिण्ड्यलाबूखर्जूर्योस्तगरेऽपि च । पीडार्तिमर्दनोत्तंसकृपासु सरलद्रुमे ॥ भाण्डं मूलवणिग्वित्ते तुरङ्गाणां च मण्डने । नदीकूलद्वयीमध्ये भूषणे भाजनेऽपि च || १३९. मण्डो मस्तुनि भूषायामेरण्डे सारपिच्छयोः । शाके मण्डा त्वामलक्यां मुण्डो मुण्डितशीर्षयोः । राहौ दैत्यान्तरे. रण्डा त्वाखकर्णी मृतप्रिया । व्याडो हिंस्रपशौ सर्पे शुण्डा करिकरः सुराः ॥ १४१ जलेभी नलिनी वारस्त्री शुण्डो मदनिर्भरे। शौण्डी चविकपिप्पल्योः शौण्डो विख्यातमत्तयोः १४२ षडः पेयान्तरे भेदे षण्डः कानन इंडरे । गूढं रहः संवृतयोर्दाढा दंष्ट्राभिलाषयोः ॥ दृढः शक्ते भृशे स्थूले बाढं भृशप्रतिज्ञयोः । माढिदैन्यं पत्रसिरा मूढस्तन्द्रिते जडे ।। १४४ राढा शुभेषु शोभायां व्यूढा त्यस्तोरुसंहताः । वोढा स्याद्भारिके सूते शण्ढषण्ढौ तु सौविदे १४५ वन्ध्यपुंसीडूवरे क्लीबे सोढा मर्षणशक्तयोः । अणिराणिवदत्रौ स्यात्सीमन्यज्ञानकीलके ॥ १४६ अल्पयोरुष्णा ग्रीष्मदक्षात पाहिमाः । ऊर्णा भ्रूमध्यगावर्ते मेषादीनां च लोमनि ।। १४७ ऋणं देथे जले दुर्गे कणो धान्यांशलेशयोः । कणा जीरकपिप्पल्योः कर्णञ्चम्पापतौ श्रुतौ ॥ १४८ क्षणः कालविशेषे स्यात्पर्वण्यवसरे महे । व्यापारविकलत्वे च परतन्त्रत्वमध्ययोः ॥॥ कीर्णः क्षिप्ते हते छन्ने कुणिः कुकरवृक्षयोः । कृष्णः काके पिके वर्णे विष्णौ व्यासेऽर्जुने कलौ १५० कृष्णा तु नील्यां द्रौपद्यां पिप्पलीद्राक्षयोरपि । कृष्णं तु मरिचे लोहे कोणो वीणादिवादने ॥ १५१ लगुडेऽश्र लोहिताङ्गे गणः प्रमथसंख्ययोः । समूहे सैन्यभेदेऽथ गुणो ज्यादतन्तुषु ॥ १५२ रज्जौ सत्त्वादौ संध्यादौ शौर्यादौ भीम इन्द्रिये । रूपादावप्रधाने च दोषान्यस्मिन्विशेषणे ।। १५३ नटे गायनेच घ्राणं तु प्रतिघोणयोः । घृणा तु स्याज्जुगुप्सायां करुणायां घृणिः पुनः १५४ अंशुज्वालातरङ्गेषु चूर्णानि वासयुक्तिषु । चूर्ण क्षोदे क्षारभेदे जर्णो जीर्णद्रुमेन्दुषु ॥ १५६ जिष्णुः शक्रेऽर्जुने विष्णौ जित्वरेऽर्के वसुष्वपि । झूणिः क्रमुकभेदे स्याद्दुष्टदेवश्रुतावपि ।। १५६ त्राणं त्राते रक्षणे च त्रायमाणौषधावपि । तीक्ष्णं समुद्रलवणे विषायोऽमरकाजिषु ॥ १५७ आत्मयागिनि तिग्मे च तूणी नीलीनिषङ्गयोः । द्रुणः स्यादृश्चिके भृङ्गे दुणं चापकृपाणयोः || १५८ गुणी कूर्म्या जलद्रोण्यां देष्णो दातरि दुर्गमे । द्रोणः पार्थगुरौ काके माने द्रोणी तु नीवृति ॥। १५९ नौदे शैलेसंधौ च पणः कार्षापणे ग्लहे । विक्रय्यकादिवद्धमुष्टौ मूल्ये भृतौ धने ॥ १६०
१४९
1
१. 'हिमाघाते' ग घ २. 'चर्चायां' ग घ ३. 'व्रणान्तरे' ख. ४. 'पर्णी' ख. ५. ' इत्वरे' ख ६. 'व्यस्तो ' ख. ७. 'सौविदौ' ग-घ. ८. 'कर्णोऽरित्रे नृपे श्रुतौ' ख. ९. 'प्रथम' ग घ १०. 'सूत्र' ख. ११. 'रूपादौ चप्रधाने' ग घ १२. 'गादाभ्यामेष्णक्' । वाच्यलिङ्गः । द्वयोर्यथा - ' गेष्णो विष्णुचरित्रस्य' इत्यनेकार्थकैरवाकरकौमुदी. 'गेष्णुर्नटे' ख ग घ १३. 'प्रातृप्रेययोः ' ग. १४. 'चूर्णो निवासमुक्तको:' ख. १५. 'चूर्यन्ते स्म चूर्णानि प्रायेण बहुवचनान्त:' इति टीका. १६. 'चूर्णः ' ग. १७. 'जीर्णो' ग घ १८. 'जिष्ण:' ग-घ. १९. ‘झणि:’ ख-ग. २०. ‘देष्णुर्दातरि दुर्दमे' ख ग घ २१. 'शैलभेदे' ग . २२. 'शाकादिमुष्टौ बद्धे' ग.
For Private and Personal Use Only
Page #84
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२. द्विवरकाण्ड: ।
I
१६५
१६६
१६७
व्यवहारे च द्यूताद्युत्सृष्टे गण्डकविंशतौ । पेर्णस्त्रिपत्रे पर्णं तु पत्रे, प्राणोऽनिले बले || १६१ हृद्वायौ पूरिते गन्धरसे प्राणास्तु जीविते । । पाष्णिः कुम्भ्यां चमूपृष्ठे पादमूलोन्मदस्त्रियोः ॥ १६२ पूर्णः कृत्स्ने पूरितेच फाणिर्गुडकरम्बयोः । । बाणो वृक्षविशेषे स्याच्छरस्यावयवे शरे || १६३ बलिपुत्रेऽप्यथ भ्रूणो गर्भिण्यां श्रोत्रियद्विजे । अर्भके स्त्रैणगर्भे च मणिस्त्वजागलस्तने ॥ १६४ मिणः सर्वकरण्डके । वाने नक्रमक्षिकायां रणः कोणे कॅणे युधि ॥ रेणुल्यां पर्पट वर्णः स्वर्णे व्रते स्तुतौ । रूपे द्विजादौ शुक्लादौ कुथायामक्षरे गुणे ॥ भेदे गीतक्रमे चित्रे यशस्तालविशेषयोः । अङ्गरागे च वर्ण तु कुङ्कुमे वाणिरम्बुदे || व्यूतौ मूल्ये सरस्वत्यां वीणा स्याद्वल्लकी तडित् । वृष्णिषे यादवे च वेणी सेतुप्रवाहयोः॥ १६८ देवताडे केशवन्धे वेणुर्वशे नृपान्तरे । शाणः कषे मानभेदे श्रेण्याल्यां कारुसंहतौ ॥ ॥ २०८५६९ शोणो नदे रक्तवर्णे श्योनाकेनौ हयान्तरे । स्थाणुः कीले हरे स्थूणा सूर्म्य स्तम्भे रुगन्तरे, १७० अन्तः स्वरूपे निकटे प्रान्ते निश्चयनाशयोः । अवयवेऽप्यथार्हन्स्यात्पूज्ये तीर्थकरेऽपि च ॥ १७१ 1 अस्तः क्षिप्ते पश्चिमाद्रवर्तिस्वटनिपीडयो:, । आप्तो लब्धे च सत्ये चाप्याप्तिः संबन्धलाभयो । १७२ ईतिरजन्ये प्रवासे स्यादूतिः स्फूर्तिरक्षयोः । । ऋतं शिलोच्छे पानीये पूजिते दीप्तसत्ययोः ॥ १७३ ऋतिर्जुगुप्साकल्याणगतिस्पर्धास्वथो' ऋतुः । स्त्रीणां पुष्पे वसन्तादा॑वेतः कर्बुर आगते ॥ १७४ क्षत्ता शूद्रात्क्षत्रियायां जाते सारथिवेधसोः । नियुक्ते दासेये द्वाःस्थोकन्तुः कामकुसूलयोः ॥ १७५ कान्तो रम्ये प्रिये प्राणि कान्ता प्रियङ्गुयोषितः । कान्तिः शोभाकमनयोः क्षितिर्गेहे भुवि क्षये ॥ ॥ कीर्तिर्यशसि विस्तारे प्रसादे कर्दमेऽपि च । कृतं पर्याप्तयुगयोर्विहिते हिंसिते फले ॥ कृत्तं छिन्ने वेष्टितेच. केतुर्युतिपताकयोः । महोत्पातारिचिह्नेषु गर्तोऽवटे ककुन्दरे ॥ त्रिगर्ताशेऽप्यथ ग्रस्तं जग्धे लुप्तपदोदिते । । गतिर्वहणे ज्ञाने यात्रोपायदशाध्वसु ॥ गीतिश्छन्दसि गाने गीतं शब्दितगानयोः । गुप्तं गूढे बाते गुप्तिर्य मे भूगर्तरक्षयोः ॥ कायां घृतमाज्याम्बुदतेष्वथ चिताचिती । मृतार्थदारुषु चये जगलोकेङ्गैवायुषु ॥ जातं जीत्योऽवजनिषु जातिः सामान्यगोत्रैयोः । मालत्यामामलक्यां च चुल्यां काम्पिल्यजन्मनोः ॥ जातीफले छन्दसि च ज्ञातिः पितृसगोत्रयोः । ततं वीणादिवाद्ये स्यात्ततो व्याप्तेऽनिले पृथौ । १८३ तातोऽनुकम्पतरि तिक्तस्तु सुरभौ रसे । तिक्ता तु कटुरोहिण्यां तिक्तं पर्पटकौषधे ॥ १८४ त्रेता युगेऽग्नित्रये च दन्तो दशनसानुनोः । दन्त्यौषध्यामथ दितिर्दैत्यमातरि खण्डने || १८५ दीप्तं र्निर्भासिते दग्धे द्रुतं शीघ्रविलीनयोः । द्युतिस्तु शोभादीधित्योर्धाता वेधसि पालके || १८६ धातू रसादौ श्लेष्मादौ भ्वादिप्रावविकारयोः । महाभूतेषु लोहेषु शब्दादाविन्द्रियेऽस्थनि ॥ १८७
पा
१७७
910
१८०
१८१
१०
Acharya Shri Kailassagarsuri Gyanmandir
१. ‘दाताद्युत्सृष्टे’ ग-घ. २. 'पर्णः पलाशे' ख; 'पर्णस्त्रिपर्णे' ग घ. ३. 'करण्डयोः' ग घ ४. 'माणः ' ख. ५. 'घुणे' ख. ६. 'स्रुतौ' ख. ७. 'सूतौ' ख. ८. 'द्रौ वर्ति' ग घ ९. 'प्रवाह' ख. १०. 'स्याद्दूतिः' गन्घ. ११ ‘दासजे' ख-ग-घ. १२ 'कमनयोः ' ख. १३. 'प्रासादे' ख ग घ १४. इतः प्राक् 'कुन्ती पाण्डुप्रियायां स्यात्सल्लक्यां गुग्गुलुद्रुमे' इत्यधिकं ख- पुस्तके. १५. 'चेष्टिते' ग घ. १६. 'दिचि 'ग. 'अरि: शत्रु:' इति टीका. १७. 'बृहद्वणे' ग घ 'वहमणो नाडीव्रण:' इति टीका. १९ इतः प्राक् ‘गाता पुंस्कोकिले भृङ्गे गन्धर्वे रोषणेऽपि च' इति ख-ग-ध-पुस्तकेषु. २०. 'गूढं गुप्ते' ख. २१. 'इङ्गं जङ्गमम्' इति टीका. २२. 'जातोऽथ ' ग-घ, २३. 'गात्रयोः' गन्ध. २४. 'जात' ख २५. 'निर्भासने' ग घ २६. 'संदीयो:' ख २७. 'लोहेषु'
ख-ग-घ.
For Private and Personal Use Only
१७८
१७९
Page #85
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
८
अभिधान संग्रह:: - ८ अनेकार्थसंग्रहः |
१९३
धुतं त्यक्ते कम्पिते च धूतौ कम्पितभत्तिौ । धूर्त तु खण्डलवणे धूर्तो धन्तूरमायिनोः || १८८ धृतिर्योगविशेषे स्याद्धारणाधैर्ययोः सुखे । संतोषाध्वरयोश्चापि नतस्तगरनम्रयोः ॥ १८९ नीतिर्नये प्रापणे च पंक्तिर्गौरवपाकयोः) । पश्छिन्दः श्रेण्योः पतिः सेनाभित्पद्गयोर्गतौ ।। १९० प्राप्तिर्महोला पित्सन्पिपतिषन्यथा । पतनेच्छौ विहङ्गे च पीतो वर्णनिपीतयोः ॥ १९१ पीता हरिद्रापीतिः पाने व प्रीतिः स्मरस्त्रियाम् । प्रेम्णि योगमुदो पुस्तं शिल्पे लेप्यादिकर्मणि || पुस्तके प्लुतमश्वस्य गतौ प्लुतस्त्रिमात्रके । पूर्त पूरितखाताद्योः पृषतवत्पृषन्मृगे ॥ विन्दौ प्रेतो मृते भूतविशेषे च परेतवत् । पोतः शिशौ प्रवहणे प्रोतं गुम्फितवाससोः ॥ १९४ भक्तमन्ने तत्परे च भर्ता पोष्टरि धारके । भक्तिः सेवागौणवृत्योर्भङ्गयां श्रद्धाविभागयोः || १९५ भास्वान्दी रवौ भ्रान्तिर्मिथ्याज्ञानेऽनवस्थितौ । भित्तिः कुड्ये प्रदेशे च भूतं सत्योपमानयोः १९६ प्राप्तेऽतीते पिशाचादौ पृथ्व्यादौ जन्तुयुक्तयोः । भूभृन्महीधरे पृथ्वीपतौ भूतिस्तु भस्मनि ॥ १९७ मांसपाकविशेषे च संपदुत्पादयोरपि । भृतिर्मूल्यभरणयोर्मतं तुं संमतेऽर्चिते ॥ १९८ महति तत्वे राज्ये मरुत्सुरेऽनिले ॥ । मतिर्बुद्धीच्छयोर्माता गौर्दुर्गा जननी मही ॥ १९९ मातरस्तु ब्रह्माण्याद्यामितिरैयत्यमानयोः । मुक्ता मौक्तिकपुंश्चल्योर्मुक्तिर्मोचनमोक्षयोः || २०० मूर्तिः पुनः प्रतिमायां कायकाठिन्ययोरपि । मृतं मृतौ याचिते च यन्ता सूते निषादिनि || २०१ यतिका विभि युतोऽन्विते पृथक् । युक्तिर्न्याये योजने च रक्तं नील्यादिरञ्जिते ॥ २०२ कुङ्कुमेऽसृज्यनुरक्ते प्राचीनामलकेऽरुणे । रतिः स्मरस्त्रियां रागे ते रीतिस्तु पित्तले ॥ वैदर्भ्यादौ लोहकिट्टे सीमनि स्रवणे गतौ । लता ज्योतिष्मतीदूर्वाशाखावल्लीप्रियङ्गुषु ।। स्पृक्कामाधव्योः कस्तूर्या लिप्तं भुक्तविलिप्तयोः । विषाक्ते लूता तु रोगे पिपीलिकोर्णनाभयोः ॥२०५ वतिर्गात्रानुलेपन्यां दशायां दीपकस्य च । दीपे भेषज निर्माणे नयनाञ्जनलेखयोः ॥ व्यक्तो मनीषिस्फुटयोर्वार्ता वार्ताक्युदन्तयोः । कृष्यादौ वर्तने वार्त लारोग्यारोगफल्गुषु ।। २०७ वृत्तिशालिन्यथ। व्याप्तिर्व्यापने लम्भनेऽपि च । वास्तु स्यादृहभूपुर्योर्गृहे सीमसुरङ्गयोः ॥ २०८ वित्तं विचारिते ख्याते धने वित्तिस्तु संभवे । ज्ञाने लाभे विचारे च वीतमङ्कुशकर्मणि ॥ २०९ साराश्वगजे शान्ते वीतिरवेऽशने गतौ । प्रजने धावने दीप्तौ वृत्तं वृत्तौ दृढे मृते ॥ चरित्रे वर्तुले छन्दस्यतीताधीतयोर्वृते । वृन्तं स्तनमुखे पुष्पबन्धे वृत्तिस्तु 'वर्तने ॥ कैशिक्यादौ विवरणे वृतिर्वरणवाटयोः । शक्तिरायुधभेदे स्यादुत्साहादौ बले स्त्रियाम् ॥ शस्तं क्षेमे प्रशस्ते च शान्तो दान्ते रसान्तरे । शास्ता जिने शासके च शान्तिर्भद्रे शमेऽर्हति ॥ शितः शातौ कृशे तीक्ष्णे शितिर्भूर्जे ऽसितेसिते । श्रीमान्मनोज्ञे तिलकपादपे धनवत्यपि ॥ २१४ शीतो हिमे च जिह्ये च वानीरबहुवारयोः । शीतं गुणे शुक्तमम्ले पूँतिभूते च कर्कशे ॥ २१५ शुक्तिः शङ्खनके शङ्खे कैंपालखण्डग्रुजोः । नख्यश्वावर्तयोर्मुक्तास्फोटदुर्नामयोरपि ॥
२०३ २०४
२०६
1
२१०
२११
२१२
२१६
Acharya Shri Kailassagarsuri Gyanmandir
१. 'कम्पने' ग-घ. २. ‘पङ्कि' ग घ ३. 'वासयो:' ग घ ४. 'दीते' ख; 'दीप्तौ ' ग घ ५. 'प्रभेदे' ख. ६. 'पृथ्वादौ' ग घ ७. 'उत्पाद उत्पत्ति:' इति व्याख्या. ८. 'दुत्पातयो' ग घ ९. 'स्यात्' ख ग घ . १०. 'विरते' ख. ११. 'श्रवणे' ख. १२. 'स्रवणं स्यन्दनम्' इति टीका. १३. 'लेपिन्यां ' क. १४. 'असारेऽश्वगतौ' ख. १५. 'वृत्ते' ख. १६. 'ते' ख. १७. 'वर्तिनि ' ख. १८. 'तिलके' ख ग घ १९. 'बहुवातयोः' ख. २० 'पूते भूते' ख ग घ 'पूतिभूतं दुर्गन्धम्' इति टीका. २१. 'कपालखण्डं शिरोस्थिशकलम्' इति टीका. ‘कपाले खड्गदृग्रुजो;' ख.
For Private and Personal Use Only
Page #86
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२ द्विस्वरकाण्डः। श्रुतमाणिते शास्त्रे श्रुतिराम्नायवार्तयोः । षड्डाद्यारम्भिकायां च कर्णाकर्णनयोरपि ॥ २१७ श्वेतं रूप्ये श्वेतो द्वीपे वर्णे शैले कपर्दके।। श्वेता तु शङ्खिनीकाष्ठपाटल्योः स्यात्सती पनः॥ २१८ कात्यायन्यां च साध्व्यां च सातिर्दानावसानयोः ।। सितस्त्ववसिते बद्धे वर्णे सिता तु शर्करा२१९ स्थित ऊर्वे सप्रतिज्ञे स्थितिः स्थाने च सीनि च ।। सीता जनकजागङ्गाभेदयोहलपद्धतौ ॥ २२० सुतः पुत्रे नृपे सुप्तिः स्वापे स्पर्शाज्ञतारुजिः । सूतः पारदसारथ्योः प्रसूतेरितबन्दिषु ॥ २२१ ब्राह्मण्यां क्षत्रियाज्जाते तक्ष्णि सृतिर्गतौ पथि। स्मृतिः स्मरणधीच्छासु शास्त्रे सेतुस्तु संवरे॥२२२ नदीसंक्रमेऽथा हस्तः करे मानोडुभेदयोः । केशाकलापे शुण्डायां हरिद्दिशि तृणान्तरे ॥ २२३ वर्णभेदेऽश्वभेदे च हितं पथ्ये गते धृते । हेतिालास्त्रसूर्यांशुष्वों हेतौ प्रयोजने ॥ २२४ निवृत्तौ विषये वाच्ये प्रकारद्रव्यवस्तुषु।। आस्था यत्नालम्बनयोरास्थानापेक्षयोरपि ॥ २२५ कन्था पुरे प्रावरणे क्वाथो व्यसनदुःखयोः । ट्रैवनिष्पाकेऽथ. कुथः स्यादास्तरणदर्भयोः ॥ २२६ कोथस्तु मथने नेत्ररुग्भेदे शैटितेऽपि च । ग्रन्थो गुम्फे धने शास्त्रे द्वात्रिंशद्वर्णनिर्मितौ ॥ २२७ ग्रन्थिर्वस्त्रादिवन्धे रुग्भेदे कौटिल्यपर्वणोः । ग्रन्थि तु प्रन्थिपणे स्यादाथा वाग्भेदवृत्तयोः गा२२८ तीर्थ शास्त्रे गुरौ यज्ञे पुण्यक्षेत्रावतारयोः । ऋषिजुष्टे जले सत्रिण्युपाये स्त्रीरजस्यपि ॥ २२९ योनौ पात्रे दर्शने च तुत्थोऽग्नौ तुस्थमअने।। तुत्था नील्यां सूक्ष्मैलायां दुःस्थो दुर्गतमूर्खयो:२३० प्रस्थः सानौ मानभेदे। पीथोऽ पीथमम्बुनिः। पृथुर्विशाले भूपाले वापिकाँकृष्णजीरयोः ॥ २३१ प्रोथोऽश्वघोणाध्वगयोः कट्यां मन्थो रवौ मथि । साक्तवे नेत्ररोगे च यूथं तिर्यग्गणे गण।।२३२ यूथी तु मागधीपुष्पविशेषयोः कुरण्टके ।। रथस्तु स्यन्दने पादे शरीरे वेतसद्रुमे)॥ २३३ वीथी वर्मनि पतौ च गृहाङ्गे नाट्यरूपके। संस्था स्पशे स्थितौ मृत्यौ।सार्थो वृन्दे वणिग्गणे२३४ सिक्थं नील्यां मधूच्छिष्टे सिक्थो भक्तपुलाकके। अब्दः संवत्सरे मेघे मुस्तके गिरिभिद्यपि ॥२३५ अन्दुः स्यान्निगडे भूषाभेदे। ककुदवत्ककुत् । श्रेष्ठे वृषाङ्गे राचिह्नोक्रव्यान्मांसाशिरक्षसोना२३६ कन्दोऽब्दे सूरणे सस्यमूलो कुन्दोऽच्युते निधौ। चक्रभ्रमौ च माध्ये चाक्षोदः पेषणचूर्णयोः२३७ गदः कृष्णानुजे रोगेोगदा प्रहरणान्तरे। छदः पत्रे पतत्रे च ग्रन्थिपर्णतमालयोः॥ २३८ छन्दो वशेऽभिप्राये चा दृषत्पाषाणमात्रके । निष्पेषणार्थपट्टेऽपि धीदा कन्यामनीषयोः॥ २३९ नदो वहेऽब्धौ निनदेः नन्दा संपद्यलिंजरे । तिथिभेदेऽपि नन्दिस्तु प्रतीहारे पिनाकिनः ॥ २४० आनन्दने च द्यूते च निन्दा कुत्सापवादयोः पदं स्थाने विभक्त्यन्ते शब्दे वाक्येऽङ्कवस्तुनोः २४१ त्राणे पादे पादचिह्ने व्यवसायापदेशयोः। पादो मूलोस्रतु-शाऋिषु प्रत्यन्तपर्वते ॥ २४२ भन्दं कल्याणे सौख्ये च भसद्भास्वरमांसयोः। भेदो विदारणे द्वैधे उपजापविशेषयोः ॥ २४३ मदो रेतस्यहंकारे मद्ये हर्षेभदानयोः । कस्तूरिकायां क्षैव्ये च मदी कृषकवस्तुनि ॥ २४४ मन्दो मूढे शनौ रोगिण्यलसे भाग्यवर्जिते । गजजातिप्रभेदेऽल्पे स्वैरे मन्दरते खले।॥ २४५
१. 'खगाद्यारम्भिकायां' ख. २. 'संचरे' ग-घ. ३ 'मानोडुमानयोः' खः 'मानद्रुभेदयोः' ग-घ. ४. 'द्रव्य' ग-घ. ५. 'घटिते' ख. ६. 'पृथ्वी च कृष्णजीरके' ख. ७. 'वापिका हिङ्गपर्णी' इति टीका. ८. 'संस्था नाशे व्यवस्थायां व्यक्तिसादृश्ययोः स्थितौ। ऋतुभेदे समाप्तौ च चरे च निजराष्ट्रगे ॥ सार्थो वणिग्गणे वृन्दे धनेन सहितेऽपि च ॥' ख-ग-घ. ९.'पिलाकके' ख. १० विषाङ्गे' ग-घ. ११.'दे' ख-ग-घ. १२. भेदे नदी सिन्धुर्नन्दिाःस्थे' ख. १३'वाक्यैकवस्तुनोः' ग-घ. १४. 'अङ्के लक्ष्मणि' इति टीका. १५. 'भद्रं' ग-घ. १६. 'द्वैधे द्विधाकरणे' इति टीका. 'वेधे' ख-ग-घ. १७. 'कृषकः कृषीवलः' इति टीका. 'चषक' ख-ग-घ.
For Private and Personal Use Only
Page #87
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिधानसंग्रहः-८ अनेकार्थसंग्रहः । मृद्वतीक्ष्णे कोमले च. रदो दन्ते विलेखने।। विदा ज्ञानधियोबिन्दुर्वियुट्ज्ञात्रो रदक्षते ॥ २४६ वेदिरङ्गुलिमुद्रायां बुधेऽलंकृतभूतले । शब्दोऽक्षरे यशोगीयोर्वाक्ये खे श्रवणे ध्वनौ।॥ २४७ शरद्वर्षात्यये वर्षे शादः कर्दमशष्पयोः । संवित्संभाषणे ज्ञाने संग्रामे नाम्नि तोषणे ॥ २४८ क्रियाकारे प्रतिज्ञायां संकेताचारयोरपि।। संपबृद्धौ गुणोत्कर्षे हारे।स्वादुस्तु सुन्दरे ॥ २४९ मृष्टे सूदः सूपकारे व्यञ्जनेऽपि च सूपवत्। स्वेदो धर्मे स्वेदने चान्धोऽन्धकारेऽक्षिवर्जिते ॥२५० अर्धः खण्डोऽध समांशेऽथाब्धिः सरसि सागरे। आधिर्मनोत्तौ व्यसनेऽधिष्टाने बन्धकाशयोः॥। ऋद्धं समृद्धे सिद्धान्ने गन्धः संबन्धलेशयोः ।। गन्धकामोदगर्वेषु स्याद्गाधः स्तालिप्सयोः ॥२५२ गोधा प्राणिविशेषे स्याज्याघातस्य च वारणे । दिग्धो लिप्ते विषाक्तेषौ प्रवृद्धस्नेहयोरपि ॥२५३ दुग्धं क्षीरे पूरितेच दोग्धा गोपालवत्सयोः।। अर्थोपजीवककवौ। बन्ध आधौ च बन्धने ॥२५४ बन्धुओतृबान्धवयोर्बाधा दुःखनिषेधयोः । बुधः सौम्ये कवौ बुद्धः पण्डिते बुधिते जिने ॥२५५ बोधिर्बोद्धसमाधौ चाहद्धर्माप्तौ च पिप्पले । मधुश्चैत्रर्तुदैत्येषु 'जीवाशाकमधूकयोः ॥ २५६ मधु क्षीरे जले मद्ये क्षौद्रे पुष्परसेऽपि च | मिद्धं चिन्ताभिसंक्षेपे निद्रालसतयोरपि॥ २५७ मुग्धो मूढे रम्यो मेधः क्रतो मेधा तु शेमुषी । राधो वैशाखमासे स्याद्राधा विद्युद्विशाखयोः२५८ विष्णुक्रान्तामलक्योश्च गोपीवेध्यविशेषयोः।। लुब्ध आकाङिणि व्याधे। वधो हिंसकहिंसयो।२५९ वधूः पत्न्यां स्नुषानार्योः स्पृक्काशारिवयोरपि । नवपरिणीतायां च व्याधो मृगयुदुष्टयोः ॥ २६० विद्धं सदृग्वेधितयोः क्षिप्ते विद्धिमूल्ययोः । प्रकारे भान्नविधिषु विधिर्ब्रह्मविधानयोः ॥ २६१ विधिवाक्ये च दैवे च प्रकारे कालकल्पयोः । विधुश्चन्द्रेऽच्युते वीरुल्लतायां विटपेऽपि च ॥ २६२ वृद्धः प्राज्ञे स्थविरे। च वृद्धं शैलेयरूढयोः । वृद्धिः कलान्तरे हर्षे वर्धने भेषजान्तरे॥ २६३ श्रद्धास्तिक्येऽभिलाषे च श्राद्धं श्रद्धासमन्विते । हव्यकव्यविधाने च शुद्धः केवलपूतयोः ।।२६४ स्कन्धः प्रकाण्डे कायेंऽसे विज्ञानादिषु पञ्चसु । नृपे समूहे व्यूहे च संधा स्थितिप्रतिज्ञयोः।।२६५ संधिर्योनौ सुरङ्गायां नाट्याङ्गे श्लेषभेदयोः।। साधुजैनमुनौ वाधुषिके सज्जनरम्ययोः ॥ २६६ सिद्धो याड्यादिके देवयोनौ निष्पन्नमुक्तयोः । नित्ये प्रसिद्ध सिद्धिस्तु मोक्षे निष्पत्तियोगयो।२६७ सिन्धुनद्यां गजमदेऽब्धौ देशनदभेदयोः । सुधा गङ्गेष्टिकास्नुह्योर्मूलेपामृतेषु च ॥ २६८ अन्नं भक्तेऽशितेऽश्वेिऽधमेऽध्वा कालवमनोः। संस्थाने सास्रवस्कन्धेऽर्थिनौ याचकसेवकौ२६९ आत्मा चित्ते धृतौ यत्ने धिषणायां कलेवरे । परमात्मनि जीवेऽर्के हुताशनसमीरयोः ॥ २७० स्वभावेऽथेन ईशेऽर्केऽथोऽन्नं क्लिन्ने दयापरे । ऊष्माणस्तु निदाघोष्णग्रीष्माः शषसहा अपि।।२७१ कर्म कारकभेदे स्याक्रियायां च शुभाशुभे । कामी स्याल्कमने चक्रवाके पारावतेऽपि च ॥ २७२
१. 'मृदुतीक्ष्णे' ग-घ. २. 'संयमे' ख-ग-घ, ३. 'दृद्धौ' ख-ग-घ. ४. 'सिद्धान्ते' ख-ग-घ. ५. 'सिद्धं संपन्नमन्नं सिद्धान्नम् । तत्र यथा 'सुस्निग्धमृद्धं मधुरं गुरुभ्यः' इति टीका. ६. 'गाधः स्यात्स्थानलिप्सयोः' ग-घ. ७. 'स्ताघे लभ्यतलस्पर्शे' इति टीका. ८. इतः प्राक् 'दधि गोरसभेदे स्यात्तथा श्रीवासवासयोः' इत्यधिक ख-ग-च-पुस्तकेषु. ९. 'ऽनौ' ग-घ. १०. 'जीविनि' ग-ध. ११. 'बोधिते' ख-ग-घ. १२. 'जीवाशाको डोडीशाकः' इति टीका. १३. जीवाशोक' ख-ग-घ. १४ 'चिन्ताभिसंक्षेपे' ख-ग-ध. १५. 'चित्ताभिसंक्षेपश्चित्तव्याक्षेपः' इति टीका. १६. 'लसितयो' ख-ग-ध.१७. 'वेध' ख-ग-घ.१८."श्लेषे यथा-'स्रस्ताङ्गसंधौ विगताक्षपाटवे रुजा निकामं विकलीद्धते रथे ।' संधानसंहितागुणविशेषा अपि श्लेषभेदा एव । भेदे विश्लेषे” इति टीका. 'श्लेष्म' ख-ग-ध. १९. 'जिने मुनौ' ग-घ; 'जैने मुनौ' ख. २०. 'व्याघ्रादिके' ख; 'व्यासादिके' ग-ध.
For Private and Personal Use Only
Page #88
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२ द्विखरकाण्डः ।
११
२८०
कृती योगे बुधे खड़ी गण्डके खड्गधारिणि ।। ग्रावाश्मनि गिरौ. गोमी फेरौ गोमत्युपासके ॥ ॥ २७३ घनः सान्द्रे दृढे दार्ध्वे विस्तारे मुद्गरेऽम्बुदे | संघे मुस्घनं मध्यनृत्तवाद्यप्रकारयोः ॥ २७४ चर्म त्वचि फरे चर्मी, भूर्जे फलकिभृङ्गिणोः । चक्री कोके कुलालेऽहौ वैकुण्ठे चक्रवर्तिनि ॥ २७५ चिह्नमङ्के पताकायां चीनो देशैणतन्तुषु । व्रीहौ वस्त्रे, छद्म शाठ्येऽपदेशे घातिकर्मणि ।। I २७६ छन्नं रहश्छादितयोश्छिन्ना स्यादमृतेत्वरी । छिन्नं भिन्ने जनो लोके जगद्भेदे पृथग्जने || २७७ जनी पावनियोजिनोऽर्हद्बुद्धविष्णुषु । ज्योत्स्ना स्याज्जोतिः संयुक्तनिशि चन्द्रातपेऽपि च ॥ २७८ ज्योत्स्नी पटोलीज्योत्स्नावन्निशोस्त नुर्वपुस्त्वचोः । विरलेऽल्पे कृशे दण्डी यमे द्वाःस्थसदण्डयो ! २७९ दानं मतं गजमदे रक्षणच्छेदशुद्धिषु । विश्राणनेऽप्यथ द्युम्नं द्रविणवद्धनौजसोः ॥ धनं वित्ते गोधने च स्याद्धन्व स्थलचापयोः । धन्वा मरौ धन्वी पार्थे छेके ककुभचापिनोः ||२८१ धनुः शब्दः पियालद्रौ राशिभेदे धनुष्यपि । धाम रश्मौ गृहे देहे स्थाने जन्मप्रभावयोः ।। २८२ धाना भृष्टrasङ्करे धान्याके चूर्णसक्तषु । धेनः समुद्रे धेनी तु नद्यां नग्नो विवाससि ॥ २८३ मागधे च क्षपणकेो नन्दी गिरिशवेत्रिणि । गर्दभाण्डे वटे / न्यूनं हीनवच्चोनगर्ह्ययो ॥ २८४ पर्व प्रस्तावोत्सवयोर्ग्रन्थौ विषुवदादिषु । दर्शप्रतिपत्संधौ च तिथिग्रन्थिविशेषयोः ' ॥ पक्ष्माक्षिलोम्नि तन्त्वादिसूक्ष्मांशे कुसुमच्छदे । गरुत्किञ्जल्कयोश्चापि पत्री काण्डे खगे द्रुमे ॥ २८६ rust रथिके श्येने प्रेम तु स्नेहनर्मणोः । ब्रह्मा तु तपसि ज्ञाने वेदेऽध्यात्मे द्विजे विधौ ॥ २८७ ऋलिग्योगभिदोश्चाथ बुध्नो गिरिशमूलयोः ।। भर्म भारे भृतौ हेनि भानुरंशौ रवौ दिने || २८८ भिन्नोऽन्यः संगतः फुल्लो दीर्णो भोगी भुजंगमे । वैयावृत्यकरे राज्ञि ग्रामण्यां नापितेऽपि च २८९ मानं प्रमाणे प्रस्थादौ मानचित्तोन्नतौ ग्रहे । मीनो मत्स्ये राशिभेदे' मृत्स्ना मृत्सा तुवर्यपि २९० यानं युग्ये गतौ योनिः कारणे भगतौयोः । रत्नं स्वजातिश्रेष्ठे स्यान्मणौ राजा तु पार्थिवे २९१ निशाकरे प्रभौ शक्ते यक्षक्षत्रिययोरपि ॥ '
२८५
२९४
२९२ स्नैप परागी कामिनि रेङ्करि । रोही रोहीतकेऽश्वत्थे वटे/ लग्नं तु लज्जिते ।। २९३ राशीनामुदये सक्ते' लक्ष्म प्रधानचिह्नयोः । वनं प्रस्रवणे गेहे प्रवासेऽम्भसि कानने ॥ बस्नं वस्त्रे धने मूल्ये भृतौ" वर्ष्म पुनस्तनौ । प्रमाणे सुन्दराकारे। वर्त्म नेत्रच्छदेऽध्वनि ॥ २९५ वर्णी पुनचित्ररे लेखके ब्रह्मचारिणि । वानं शुष्कफले शुष्के सीवने गमने कटे ॥ जलसंप्लववातोर्मिसुरङ्गासौरभेषु च । वाग्ग्मी पटुबृहस्पत्योर्वाजी बाणे हये खगे ॥ विन्नं विचारिते लब्धे स्थिते । वृषा तु वासवे । वृषभे तुरगे पुंसिः शाखी तु द्रुमवेदयोः ॥ २९८ राजभेदे शिखी व वृक्षे केतुग्रहे शरे । चूडावति बलीवर्दे मयूरे कुक्कुटे हये || शीनो मूर्खाजगरयोः श्येनः शुक्ले पतत्रिणि । स्वप्नः स्वापे सुप्तज्ञाने स्थानं स्थियैवकाशयोः ३००
२९६
२९७
२९९
१.२
१. 'नृत्य' ख-ग-घ. २. 'प्रभेदयोः ' ख. ३. 'स्फटे' ग घ ४. 'ज्योत्स्नी' ख ग घ ५. 'शब्दे' ख ग घ . ६. 'घेना' ख-ग-ध. ७. 'गौरादित्वाड्डी' इति टीका. ८. 'स्याद्भारतीभिदि । धेनुर्गोमात्रके दोग्ध्यां गवि ननो' ख-ग-घ. ९. 'ध्याये' ख. १० 'शे' ख. ११. ' वैयावृत्यकरः परिचारकः । व्यवहारिक इत्यन्ये' इति टीका. १२. इतः परं मुनिर्वाचंयमोऽर्हति । पियालागस्तिपालाशे' इत्यधिकं ख ग घ पुस्तकेषु. १२. ‘तोययोः' ख-ग-घ. १४. 'ताम्र शुल्वम्' इति टीका. १५. 'श' ग घ १६. 'सर्पाख्ये' ख. १७. 'रक्तरि' ख ग घ १८. 'भृति: कर्मकरादीनां वेतनम्' इति टीका. १९. 'मृतौ' ग घ २०. 'संप्लुत' ख ग घ २१. 'शुक्ले गुणे' इति टीका. २२. 'शुक्रे' ग घ २३. 'नित्याव' ख.
For Private and Personal Use Only
Page #89
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२
अभिधानसंग्रहः-८ अनेकार्थसंग्रहः । सादृश्ये संनिवेशे चास्नानं स्नानीय आप्लवे। स्त्यानं स्यास्निग्ध आलस्ये प्रतिध्वानघनत्वयोः३०१ सादी तुरङ्गमारोहे निषादिरथिनोरपि । स्वामी प्रभौ गुहे। सूनं पुष्पे सूना पुनः सुता ॥ ३०२ अधोजिह्वा वधस्थानं सूनुः पुत्रेऽनुजे रवौ । हनुः कपोलावयवे मरणामययोरपि ॥ ३०३ हरिद्रायामायुधे च हली कृषकसीरिणोः।। कल्पो विकल्पे कल्पद्रौ संवर्ते ब्रह्मवासरे ॥ ३०४ शास्त्रे न्याये विधौ कूपो गर्तेऽन्धौ गुणवृक्षके । मृन्माने कूपके क्षेपो गर्वे लङ्घननिन्दयोः॥ ३०५ विलम्बरणहेलासु गोपौ भूपालबल्लवौ । ग्रामौघगोष्टाधिकृतौ गोपी गोपालसुन्दरी ॥ ३०६ शारिवा रक्तिका तल्पमट्टे शय्याकलत्रयो । त्रपा लज्जा कुलटयोस्त्रपु सीसकरङ्गयो।। ३०७ तापः संतापे कृच्छ्रे च तापी तु सरिदन्तरे । दर्पो मृगमदे गर्वे पुष्पं विकास आर्तवे॥ ३०८ धनदस्य विमाने च कुसुमे नेत्ररुज्यपि । बाष्प ऊष्माक्षिजेलयो रूपं तु श्लोकशब्दयोः॥ ३०९ पाशावाकारे सौन्दर्ये नाणके नाटकादिके । ग्रन्थावृत्तौ स्वभावे च रेपः क्रूरे विगर्हिते ॥ ३१० रोपौ रोपणेषू रोपं रोने लेपस्तु लेपने । अशने च सुधायां च वपा विवरमेदसोः ॥ ३११ शष्पं तु प्रतिभाहीनतायां बालतृणेऽपि च । शापः शपथ आक्रोशे शिष्पं श्रुवे क्रियोचिते ॥ ३१२ स्वापो निद्रायां रुग्भेदे शपनाज्ञानमात्रयोः । गुम्फो दोभूषणे दृब्धौ. रेफोऽवद्यरवर्णयोः ॥ ३१३ शर्फ खुरे गवादीनां मूले विटपिनामपि।। शिफा मातरि मांस्यां च जटायां च सरित्यपि ॥ ३१४ कॅम्बिवंशलतादयोः कम्बुवलयशङ्खयोः । गजे शम्बूके कर्चुरे ग्रीवायां नलकेऽपि च ॥ ३१५ जम्बूर्मेरुतरङ्गिण्यां द्वीपवृक्षविशेषयोः । डिम्ब एरण्डभययोविप्लवे प्रीगि पुष्फसे॥ ३१६ बिम्बं तु प्रतिबिम्बे स्यान्मण्डले बिम्बिकाफले ।शम्बः पवौ लोहकाभ्यां स्तम्ब आलानगुल्मयोः३१७ ब्रीह्यादीनां प्रकाण्डे च कुम्भो वेश्यापतौ घटे । द्विपाङ्गे राक्षसे राशौ कुम्भं त्रिवृति गुग्गुलौ ॥ ३१८ कुम्भ्युषायां पाटलायां वारिपय] च कटफले । गर्भः कुक्षौ शिशौ संधौ भ्रूणे पनसकण्टके ॥ ३१९ मध्येऽनावपवरके जम्भः स्यादानवान्तरे । दन्तभोजनयोरंशे हनौ जम्बीरतणयोः॥ ३२० जृम्भा जृम्भणे विकासे डिम्भो वैधेयवालयोः । दम्भः कल्के कैतवे च नाभिः क्षत्रप्रधानयोः।। चक्रमध्ये मृगमदे प्राण्यङ्गे मुख्य जि चा निभः स्यात्सदृशे व्याजे, रम्भो वैणवदण्डके ॥ ३२२ रम्भा त्रिदशभामिन्यां कदल्यां च विभुः प्रभौ । व्यापके शंकरे नित्ये शंभुर्ब्रह्माहतोः शिवे ॥ ३२३ शुभो योगे.शुभं भद्रे स्तम्भः स्थूणागजाढ्ययोः । सभा सभ्येषु शालायां गोष्ठयां द्यूतसमूहयो।३२४ स्वभूविष्णौ विधावामोऽपक्के रुग्भेदरोगयोः । उमा गौर्या हरिद्रायां कीर्तिकान्त्यतसीष्वपि ।। ३२५ अमिः पीडाजवोत्कण्ठाभङ्गप्राकाश्यवीचिषु । वनसंकोचलेखायां क्रमः कल्पानिशक्तिषु ॥ ३२६ परिपाट्यां। क्षमः शक्ते हिते युक्ते क्षमावति । क्षमा क्षान्तौ क्षितौ कामं वाढेऽनुमतिरेतसो ३२७ कामः स्मरेच्छाकाम्येषु क्षुमा स्यान्नीलिकातसी। क्रिमिः कृमिवल्लाक्षायां कीटो क्षेमस्तु मङ्गले ३२८
१. 'कल्पाद्रौ' ग घ.२. 'विलम्बरण' ख.३. 'ईरणे प्रेरणे' इति टीका.४. 'जलयोः स्याद्रूपं श्लोक' ग-ध. ५. इतः प्राक् 'शोफ ओषधिभेदे स्यादृकृते त्वग्विवर्धने' इत्यधिक ख-पुस्तके. ६. 'मध्यमे चाप' ख-ग-ध. ७. "अमौ यथा-'शशाम न शमीगर्भः।” इति टीका. ८. 'हानौ' ख. ९. इतः परं 'दर्भो ग्रन्थे कुशेऽपि च । हग्भूः पवौ भास्करे च' इत्यधिकं ख-ग-घ-पुस्तकेषु. १०. 'राज्ञि' ख-ग-घ. ११. इतः परं 'शोभा कान्तीच्छयोर्मता । स्तम्भोऽङ्गजाड्ये स्थूणायां सभा द्यूतसमूहयोः ॥ गोष्ठयां सभ्येषु शालायां स्वभूर्विष्णौ विधावपि । स्तोभ: स्यात्सा. मविच्छेदे हेलने स्तम्भनेऽपि च ॥ आमोऽपक्के रोगभेदे रोगे चेध्मः समिद्भिदि। कामे वसन्ते काष्ठे स्यादुमो नगरघट्टयोः ॥' इत्येवं साधिकः पाठः ख-ग-घ-पुस्तकेषु. १२. 'लेखा' ख. १३. 'श्च लाक्षायां' ख.
For Private and Personal Use Only
Page #90
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२ द्विस्वरकाण्डः। लब्धसंरक्षणे मोक्षे क्षेमोमा धनहर्यपि । क्षौमं स्यादतसीवस्त्रे दुकलेऽट्टालकेऽपि च ॥ ३२९ खम क्षौमें पौरुषे च गमोऽध्वगतभेदयोः । सहपाठेऽप्यथ ग्रामो वृन्दे शब्दादिपूर्वकः ॥ ३३० पेड्डादौ संवसथे। च गुल्मः सैन्योपरक्षणे । रुकसैन्यघट्टभेदेषु स्तम्बे गुल्मी पटौकसि ॥ .. ३३१ आमलक्येलयोर्वन्यामथा धर्मो निदाघवत् । स्वेदाम्भस्यातपे ग्रीष्मोष्मणोर्जाल्मस्तु पामरे ॥ ३३२ असमीक्ष्यकारिणि च जामिः स्वसृकुलस्त्रियोः । जिह्मस्तु कुटिले मन्दे जिलं तगरपादपे॥ ३३३ तोक्मं कर्णमले तोक्मः स्याद्भरिते हरिद्यवे । दैमः स्यात्कर्दमे दण्डे दॆमने दमधेऽपि चा ॥ ३३४ देस्मस्तु हव्यवाहे स्याद्यजमाने मलिम्लुचे । धर्मो यमोपमापुण्यस्वभावाचारधन्वसु ॥ ३३५ सत्सङ्गेहत्यहिंसादौ न्यायोपनिषदोरपि।। धर्म दानादिक नेमस्त्वर्धे प्राकारगर्तयोः॥ ३३६ अवधौ कैतवे काले नेमिः कूपत्रिकाप्रधिः । तिनिशोऽरिष्टनेमिश्च पद्मो व्यूहे निधावहौ ॥ ३३७ संख्याब्जयोः। पद्ममिभबिन्दौ ब्राह्मी तु भारती । शाकभेदः पङ्कगण्डी हञ्जिका सोमवल्लरी ॥३३८ ब्रह्मशक्तिर्भमस्तु स्याद्रमणे वारिनिर्गमे । भ्रान्तौ कुन्दाख्ययत्रे च भीष्मो घोरे वृकोदरे ॥ ३३९ हरेऽम्लवेतसे चापि, भीष्मो गाङ्गेयरुद्रयोः । राक्षसे भीषणे भौमोऽङ्गारके नरकासुरे॥ ३४० यमः कालयमजयोरहिंसादिषु पञ्चसु । संयमे यमने ध्वाङ्ग्रे यामौ प्रहरसंयमौ ॥ ३४१ रमः कान्ते रक्ताशोके मन्मथे च रमा श्रियाम्।। रश्मिणिप्रग्रहयो रामः श्यामे हलायुधे।।३४२ पशुभेदे सिते चारौ राघवे रेणुकासुते । रामं तु वास्तुके कुठे रामा हिङ्गुलिनीस्त्रियोः॥ ३४३ रुक्मं लोहे सुवर्णे'च रुमा स्योल्लवणाकरे । सुग्रीवपत्न्यां लक्ष्मीः श्रीशोभासंपत्प्रियङ्गुषु ।। ३४४ वमिर्वान्ते नले वामः कामे सव्ये पयोधरे । उमानाथे प्रतिकूले चारौ। वामा तु योषिति ॥ ३४५ वामी शगाल्यां करभीरासभीवडवासु च । शमी द्रुभेदे वल्गुल्यां शिम्ब्यां श्यामोऽम्बुदेशितौ३४६ हरिते प्रयागवटे कोकिले वृद्धदारके।। श्यामं सैन्धवे मरिचे श्यामा सोमलतानिशोः ॥ ३४७ शारिवावल्गुलीगुन्द्रात्रिवृत्कृष्णाप्रियङ्गुषु । अप्रसूतस्त्रियां नील्यां श्रामो मण्डपकालयोः ॥ ३४८ शुष्ममोजसि सूर्ये चासमं साध्वखिलं सदृक् । सीमावाटे स्थितौ क्षेत्रे सूक्ष्मोऽणौ सूक्ष्ममल्पके। अध्यात्मे कतके सोमस्त्वोषधीतद्रसेन्दुषु । दिव्यौषध्यां घनसारे समीरे पितृदैवते ॥ ३५० वसुप्रभेदे सलिले वानरे किंनरेश्वरे। हिमं तुषारे शीते च हिमश्चन्दनपादपे॥ ३५१ होमिः सर्पिषि वहौ च स्यादयः स्वामिवैश्ययोः अर्थ्य शिलाजतुन्यर्थशालिनि न्याय्यविज्ञयो३५२ अन्योऽसदृशेतरयोरन्त्यस्त्वन्तभवेऽधमे । अर्घ्यमर्घार्थम_हमास्यं मुखभवे मुखे ॥ ३५३ मुखान्तरास्या तु स्थित्यामायौँ सज्जनसंविदौ। आर्योमाछन्दसोरिज्या दाने सङ्गेऽर्चनेऽध्वरे ३५४ इभ्यो धनवतीभ्या तु करेण्या सल्लकीतरौ । कल्यं प्रभाते मधुनि सज्जे दक्षे निरामये । ३५५ कल्या कल्याणवाचि स्यात्कश्यं कशार्हमद्ययोः । अश्वमध्ये। क्षयो गेहे कल्पान्तेऽपचये रुजि ३५६
१. 'क्षमे' ख.. २. 'खड्गादौ' ख. ३. 'दमनं तर्णकादीनाम् । दमथ उपशमः' इति टीका. ४. 'मदने' ग-घ. ५. 'दश्मस्तु' ख, ६. इतः प्राक् 'द्रुमस्तु पादपे पारिजाते किंपुरुषेश्वरे' इत्यधिकं खग-घ-पुस्तकेषु. ७. 'हन्यहिंसायां' ख. ८. 'जल' ख. ९. 'भामः क्रोधे रुचौ रवौ । भीमो वृकोदरे घोरे शं. करेऽप्यम्लवेतसे ॥ भीष्मो रुद्रे च गाङ्गेये राक्षसे च भयंकरे । भूमिः क्षितौ स्थानमात्रे भौमो मङ्गलदैत्ययोः ॥' इति साधिकः पाठः ख-ग-घ-पुस्तकेषु. १०. 'काले च यमजे' ख. ११. 'हिङ्गलिनिस्त्रियोः' ग-घ. १२. 'तु लव' ख. १३. 'वामस्थिते हरे वक्रे' ख. १४. 'मासयोः' ख. १५. 'न्यर्थ्यः संप्रार्थे' ख-ग-ध.
For Private and Personal Use Only
Page #91
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिधानसंग्रहः-८ अनेकार्थसंग्रहः । कन्या नार्यां कुमार्यां च राश्योषधिविशेषयो । कक्ष्या गृहप्रकोष्ठे स्वात्सादृश्योद्योगकाश्चिषु ॥३५७ वहतिकेभनाड्योश्च कार्य हेतौ प्रयोजने । कायः कदैवते मूर्ती संघे लक्ष्यस्वभावयो॥ ३५८ कायं मनुष्यतीर्थे च काव्या स्यात्पूतनाधियोः। काव्यं ग्रन्थे' काव्यः शुक्रे कांस्यं तैजसवाद्ययोः।। पानपात्रे मानभेदे। क्रिया कारणचेष्टयोः । कर्मोपायचिकित्सासु निष्कृतौ संप्रधारणे ॥ ३६० अर्चाप्रारम्भशिक्षासु।कुल्यं तु कुजलेऽस्थनि । सूर्पामिषाष्टद्रोणीषु कुल्या सरिति सारणौ ॥ ३६१ कृत्यो विद्विषि कार्ये चा कृत्या स्यादेवता क्रिया।। गव्यं क्षीरादिके ज्यायांरागवस्तुनि गोहिते३६२ गव्या गोवृन्दगव्यूत्योर्गुह्यः कमठदम्भयोः । गुह्यमुपस्थे रहस्ये गृह्यं तु मलवमनि॥ ३६३ गृह्योऽस्वैरिणि पक्ष्ये च गृहासक्तमृगाण्डजे।। गृह्या तु शाखानगरे गेयौ गातव्यगायनौ ॥ ३६४ गोप्यौ दासेरगोप्तव्यौ, चयः प्रकारपीटभूः । समूहोऽप्यथा चव्या स्याञ्चविकाशतपर्वयोः ॥ ३६५ चित्यं मृतकचैत्ये स्याच्चित्या मृतचितावपि । चैत्यं जिनौकस्तद्विम्बं चैत्यो जिनसभातरुः ॥३६६ उद्देश्यवृक्षे चोद्यं तु प्रेर्ये प्रश्नेऽद्धतेऽपि च । छाया पतौ प्रतिमायामर्कयोषित्यनातपे ॥ ३६७ उत्कोचे पालने कान्तौ शोभायां च तमस्यपि ।। जयो जयन्ते विजये।जयोमा तत्सखी तिथिः ३६८ पथ्या जयन्त्यग्निमन्थो। जन्यो जामातृवत्सले । जनके जननीये च नवोढानुचरादिषु॥ ३६९ जन्यं कौलीने युध्य? जन्या मातृसखीमुदोः । त्रयी त्रिवेद्यां त्रितये पुरन्ध्यां सुमतावपि ॥ ३७० ताय॑स्तु स्यन्दने वाहे गरुडे गरुडाग्रजे । अश्वकर्णाह्वयतरौ स्यात्तायं तु रसाञ्जने ॥ ३७१ तिष्यः पुष्पवत्कलौ भेतिष्या खामलकीतरौ । द्रव्यं भव्ये धने क्ष्मादौ जतुद्रुमविकारयोः।। ३७२ विनये भेषजे रीर्याः दस्युः प्रत्यर्थिचोरयोः।। दायो दाने यौतकादिधने सोल्लुण्ठभाषणे ॥ २७३ विभक्तव्यपितृद्रव्ये दिव्यं वल्गुलवङ्गयोः । द्युभवे दिव्यामलक्यां दूष्यं वाससि तद्गृहे ॥ ३७४ दूषणीये चाक दैत्योऽसुरे दैत्यासुरौषधौ । धन्यः पुण्ययुते धन्यामलक्यामुपमातरि ॥ ३७५ धान्यं तु ब्रीहौ धान्याको धिष्ण्यं स्थानोडुवेश्मसु ।बले धिष्ण्योऽग्नौ शुक्रे च नयः स्यान्नैगमादिषु । नीतिद्युतभिदो पथ्यं हिते पथ्या हरीतकी। पद्योऽन्त्यवर्णे स्यात्पद्यं श्लोको पद्या तु वर्त्मनि । प्रायो वयस्यनशने मृतौ बाहुल्यतुल्ययोः॥ ३७८ प्रियो वृद्धयौषधे हृचे पत्यौ पुण्यं तु सुन्दरे । सुकृते पावने धर्म पूज्यः श्वशुरवन्धयों: ।। ३७९ बल्यं रेतोबलकृतोभयं भीतौ भयंकरे । कुब्जकपुष्ये भव्यं तु फले योग्ये शुभेऽस्थनि ॥ ३८० सत्ये भाविनिा भव्यस्तु कर्मरङ्गतरौ सति।। भव्योमाकरिपिप्पल्योभर्भाग्यं कर्म शुभाशुभम् ॥ ३८१ मध्यं न्याय्येऽवलग्नेऽन्तर्मया दैत्योष्ट्रवेसराः।। मयुगाश्वमुखयोर्मन्युर्दैन्ये ऋतौ क्रुधि॥ ३८२ माल्यं मालाकुसुमयोः स्यान्माया शांबरी कृपा। दम्भो बुद्धिश्च मायस्तु पीताम्बरेऽम्बरेऽपि च ॥३८३
१. इतः परं 'ग्राम्यो ग्रामभवे जने।ग्राम्यं रतबन्धेऽश्लीले' इत्यधिकं ख-ग-घ-पुस्तकेषु. २. 'प्राकारपीठभूः प्राकारमूलबन्धः' इति टीका. ३. 'पीठयोः । समूहे' ख-ग-घ.४. 'पर्वणोः' ख-ग-घ. ५. 'चित्यं जनौक' ख-ग-घ. ६. 'वृक्षश्चोा ' ख-ग-घ. ७. 'युद्धेऽद्दे' ख-ग-घ. ८ इतः प्राक् 'जन्युः स्याज्जन्तुमात्रे च पावके परमेष्ठिनि' इत्यधिक ख-ग-घ-पुस्तकेषु. ९. 'रीरी पित्तलम्' इति टीका.१०. 'रीत्यां' ख-ग-घ. ११. इतः परं 'नाट्यं लास्ये तौर्यत्रिकेऽपि च।नित्यं ध्रुवे तते' इत्यधिकं ख-ग-घ-पुस्तकेषु. १२.'धवे' ख-ग-घ. १३. इतः प्राक् 'पेयं पातव्यपयसोः पेया श्राणाच्छमण्डयोः' इत्यधिकं ख-ग-ध-पुस्तकेषु. १४. इतः प्राक् 'मत्स्यो मीनान्तरे मीन विराटेऽभि(मु)ख्ययादवे' इत्यधिकं ख-ग-घ-पुस्तकषु.
For Private and Personal Use Only
Page #92
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२ द्विस्वरकाण्डः |
१५
३८५
३८६
३८७
मूल्यं वस्ने वेर्तने चभ्ययुर्यज्ञहये हये । याम्यापाच्यां भरण्यां च योग्यो योगार्हशक्तयोः || ३८४ उपायिनि प्रवीणेच योग्यमृद्ध्यादयौषधौ । योग्यार्कयोषित्यभ्यासे रम्यश्चम्पकहृद्ययोः ॥ रम्या रात्रावथा रथ्यो रथांशे रथवोदरि । रथ्या तु रथसंघाते प्रतोल्यां पथि चत्वरे ॥ रूप्यमाहतहेमादौ रजते रूपवत्यपि । लयस्तूर्यत्रयीसाम्ये संश्लेषणविलासयोः ॥ लभ्यं लब्धव्ये युक्ते च विन्ध्यो व्याधाद्रिभेदयोः । विन्ध्या त्रुटौ लवल्यां च वीर्यं तेजः प्रभावयोः ।। शुक्रे शक्तौ च वीक्ष्यं तु द्रष्टव्ये विस्मयेऽपिच । वीक्ष्यस्तु लासके वाहे, वेश्यं तु गणिकागृहे || ३८९ वेश्या तु पण्ययोषायां शल्यः स्यान्मदनद्रुमे । नृपभेदेऽश्वाविधि च सीनि शस्त्रशलाकयोः ॥ ३९० शय्या तल्पे शब्दगुम्फे शून्यं विन्दौ च निर्जने । शून्या तु नैलिका शौर्य चारभट्यां बलेऽपिच ॥ सह्यमारोग्ये सोढव्ये सह्योऽद्रौ सव्यं तु दक्षिणे । वामे च प्रतिकूले च सत्यं तु शपथे कृते ॥ ३९२
1
३९७
३९८
90
ये तद्वत सत्य लोकभित्संख्यमाहवे । संख्यैकादौ विचारे च संध्या कालनदीभिदोः || ३९३ चिन्तायां संश्रवे सीम्नि संधाने कुसुमान्तरे । साध्यो योगे साधनीये गणे दैवतभिद्यपि । ॥ ३९४ सायः शैरेऽपराह्णे च स्थेयोऽक्षदृक्पुरोधसोः । सेव्यमुँशीरे सेवार्हे सैन्यं सैनिक सैन्ययोः ॥ ३९५ सौम्यः सोमात्मजेऽनुग्रे मनोज्ञे सोमदैवते । सौम्याः पुनर्मृगक्षिरः शिरः स्थाः पञ्चतारका' ।। ३९६ हार्यः कलिद्रौ हर्तव्ये हृद्यं धवलजीरके । हृत्प्रिये हृद्धि ते हृज्जे हृद्या तु वृद्धिभेषजे || हृद्यश्च वशन्मत्रेऽग्रं पुरः प्रथमेऽधिके । उपर्यालम्बने श्रेष्ठे परिमाणे पलस्य च ॥ 1 भिक्षाप्रकारे संघाते प्रान्तेऽप्यद्रिस्तु पर्वते । सूर्ये शाखिनि चाभ्रं तु त्रिदिवे गगनेऽम्बुदे || ३९९ अस्रः शिरसिजे कोणे) स्यादत्रं शोणितेऽस्रुणि ॥ अस्त्रं चापे प्रहरणेऽप्यह्निः पादद्रुमूलयोः || ४०० अरो जिनेऽरं चक्राङ्गे शीघ्र शीघ्रगयोरपि । आरो रीरी शनिर्भीम, आरा चर्मप्रभेदिनी ॥ ४०१ इराम्भोवाक्तुराभूमिष्विन्द्रः शक्रेऽन्तरात्मनि । आदित्ये योगभेदे च स्यादिन्द्रा तु फणिज्झके । ४०२ उग्रः क्षत्रियतः शूद्रासूनावुत्कटरुद्रयोः । । उग्रा वचाछिक्किकयोरुस्रा गवोपचित्रयोः ॥ ४०३ उस्रो मयूखे स्यादुष्ट्री मृद्भाण्डे करभस्त्रियाम् । ऐन्द्रिरिन्द्रसुते काकेऽप्योड्रा जनपदान्तरे ||४०४ ओड्रो जने जपावृक्षे करः प्रत्यायशुण्डयोः । रश्मौ वर्षोपले पाणौ क्षरो मेघे क्षरं जले || ४०५ कद्दुः कनकपिङ्गे स्यात्कंद्रेस्तु नागमातरि । कारो बलौ वधे यत्ने हिमाद्रौ निश्वये यतौ ॥ ४०६ कारा बन्धनशालायां बन्धे दूत्यां प्रसेवके । स्याद्धेमकारिकायां च क्षारः कांचे रसे गुडे || ४०७ ref धूर्ते व कारिः शिल्पी क्रियापि च । कारुस्तु कारके शिल्पे विश्वकर्मणि शिल्पिनि ४०८ कीरः शुके जनपदे क्षीरं पानीयदुग्धयोः । क्षुरो गोक्षुरके कोकिलाख्ये छेदनवस्तुनि || क्षुद्रो दरिद्रे कृपणे निकृष्टेऽल्पनृशंसयोः । क्षुद्रा व्याघ्रीनटीव्यङ्गाबृहतीसरघासु च ॥ चाङ्गेरिकायां हिंसायां मक्षिकामात्र वेश्ययोः । कुरुः स्यादोदने भूपभेदे श्रीकण्ठजाङ्गले ॥ क्रूरा नृशंसवोरोष्णकठिनाः । कृच्छ्रमंहसि । कष्टे संतापने क्षेत्रं भरतादौ भगाङ्गयोः ॥ केदारे सिद्धभूपत्योः क्रोष्ट्री क्षीरविदारिका । सृगालिका लाङ्गली चाक्षौद्रं तु मधुनीरयोः ।। ४१३
४०९
४१२
For Private and Personal Use Only
४१०
४११
१. 'चेतने' गन्ध. २. 'तूलिका' ग घ ३. 'नलिका वंशादिमयी' इति टीका. ४. ' चारभटी भयहेतावपि निर्भयमनस्कता' इति टीका. ५. 'परे' ग-व. ६. 'सेव्यः सुशीले' ख ग घ ७. 'उशीरं वीरणमूलम्' इति टीका. ८. 'पललक्षणे परिमाणे इत्यर्थः ' इति टीका. ९. 'प्यङ्गिः ' ख ग घ १०. 'रीति' ख ग घ . ११. ' प्रत्यय' ख. १२. 'दू: स्यान्ना' गन्ध.
११
Page #93
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६
अभिधानसंग्रहः-८ अनेकार्थसंग्रहः । खरो रक्षोन्तरे तीक्ष्णे दुःस्पर्शे रासभेऽपि च । खरुः स्यादश्वहरयोर्दर्पदन्तसितेषु च ॥ ४१४ खुरः शफे कोलदले गरस्तूपविषे विषेः । रोगे गरं स्यात्करणे गात्रमङ्गशरीरयोः ॥ ४१५ गजाप्रदेशेऽथ गिरिः पूज्येऽक्षिरुजि कन्दुके । शैले गिरियके गीर्णावपि गुन्द्रस्तु तेजने ॥ ४१६ गुन्द्रा प्रियङ्गौ कैवर्तीमुस्तके भद्रमुस्तके। गुरुर्महत्याङ्गिरसे पित्रादौ धर्मदेशके ॥ ४१७ अलघौ दुर्जरे चापि गृध्रो गृनौ खगान्तरे । गोत्रं क्षेत्रेऽन्वये छत्रे संभाव्यबोधवर्त्मनोः ॥ ४१८ वने नाम्नि च गोत्रोऽद्रौ गोत्रा भुवि गवां गणे। गौरः श्वेतेऽरुणे पीते विशुद्धे चन्द्रमस्यपि ४१९ विशदे गौरं तु श्वेतसर्षपे पद्मकेसरे। गौर्युमानग्निकोर्वीषु प्रियङ्गौ वरुणस्त्रियाम् ॥ ४२० रजन्यां रोचनीनद्योर्घस्रो वासरहिंस्रयोः । घोरो हरे दारुणे चः चरः स्याज्जङ्गमे स्पशे ॥ ४२१ चले द्यूतप्रभेदे च चक्रं प्रहरणे गणे । कुलालाद्युपकरणे राष्ट्रे सैन्यरथाङ्गयोः ॥ ४२२ जलावर्ते दम्भे चक्र: कोके चन्द्रोऽम्बुकाम्ययोः । स्वर्णे सुधांशी कपूरे कम्पिल्ये मेचकेऽपि च ४२३ चरुर्हव्यान्ने भाण्डे च चारो बन्धासर्पयोः । गतौ पियालवृक्षे च चित्रं खे तिलकेऽद्भुते ॥ ४२४ आलेख्ये कर्बुरे चित्रा त्वाखुपर्णीसुभद्रयोः । गोडुम्बाप्सरसोर्दन्त्यां नक्षत्रोरगभेदयोः ॥ ४२५ चीरं वाससि चूडायां गोस्तने सीसपत्रके । चीरी कच्छाटिकाझिल्लयोश्चक्रस्त्वम्लेऽम्लवेतसे ४२६ वृक्षाम्ले चुक्री चाङ्गेयाँ चैत्रो मासाद्रिभेदयोः । चैत्रं मृतकचैत्ये च चौरो दस्युसुगन्धयोः ॥ ४२७ छत्रं स्यादातपत्राणे छत्रा मधुरिकौषधौ । धान्याके च शिलीन्द्रं च छिद्रं विवररन्ध्रवत् ।। ४२८ गर्ने दोषे जारस्तूपपतौ जायौषधीभिदि । जीरस्त्वजाज्यां खड्ने च टारो लिङ्गतुङ्गयोः ॥ ४२९ तवं सिद्धान्ते राष्ट्रे च परच्छन्दप्रधानयोः । अगदे कुटुम्बकृत्ये तन्तुवाने परिच्छदे ॥ ४३० श्रुतिशाखान्तरे शास्त्रे करणे व्यर्थसाधके । इतिकर्तव्यतातन्त्वोस्तत्री स्याद्वल्लकीगुणे ॥ ४३१ अमृतायां च नद्यां च शिरायां वपुषोऽपि च । तरिर्दशायां वेडायां वस्रादीनां च पेटके ।। ४३२ तन्द्री निद्रा प्रमीला च तारो निर्मलमौक्तिके । मुक्ताशुद्धावुञ्चनादे नक्षत्रनेत्रमध्ययोः ॥ ४३३ तारं रूप्ये तारा बुद्धदेव्यां सुरगुरुस्त्रियाम् । सुग्रीवपत्न्यां तानं तु शुल्वे शुल्बनिभेऽपि च ॥४३४ तीनं कटूष्णात्यर्थेषु तीव्रा तु कटुरोहिणी । गण्डदूर्वासुरी तीरो वङ्गे तीरं पुनस्तटे॥ ४३५ तोत्रं वेणुके प्रतोदे दरः स्याद्भयगर्तयोः।। दरी तु कन्दरे दस्रः खरो दस्रौ रवेः सुतौ ॥ ४३६ द्वारं निर्गमेऽभ्युपाये धरः कूर्माधिपे गिरौ । कर्पासतुलेऽथ धरा मेदोभूमिजरायुषः॥ ४३७ धारो जलधरासारवर्षणे स्यादृणेऽपि च । धारोकर्षे खड्गाद्यग्रे सैन्याने वाजिनां गतौ ॥ ४३८ जलादिपाते संतत्यां धात्री भुव्युपमातरि । आमलक्यां जनन्यां च धीरो ज्ञे धैर्यसंयुते ॥ ४३९ खैरे धीरं तु घुसणे नरो मर्येऽच्युतेऽर्जुने । नरं तु रामकर्पूरे नकं नासानदारुणोः॥ ४४० नको यादसि नीव्र तु वलीकवननेमिषु । चन्द्रे च रेवतीभे च नेत्रं वस्ने मथो गुणे ॥ ४४१ मूलाक्षिनेतृषु परो दरान्यश्रेष्ठशत्रुषु । परं तु केवलं पत्रं यानं पक्षश्छदश्छुरी ॥ ४४२
१. 'गैरीयके' ख-ग-घ. 'गिरियको गिरिगुडः काष्ठादिमयं क्रीडनकम्' इति टीका. २. 'कैवल्' ख-ग-घ. ३. 'दुधरे' ख. ४. 'वसर्पयोः' क-ग-घ. ५. 'कच्छाटिका पश्चालम्बमानपरिधानपश्चादञ्चलम्' इति टीका. ६. 'लिङ्गः खड्गः' इति टीका. ७. 'लङ्ग' ख-ग-घ. ८. 'स्वराष्ट्रचिन्तायां' ख. ९. 'शुल्बनिभोऽरुणः' इति टीका. १०. 'कर्पासमूले' ख. ११. 'नीधं' ख-ग-घ.
For Private and Personal Use Only
Page #94
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२ द्विस्वरकाण्डः।
१७ पारं प्रान्ते परतट पारी पूरपरागयोः । पात्र्यां कर्पूरिकायां च पादबन्धे च हस्तिनः ॥ ४४३ पात्रं तु कूलयोर्मध्ये पर्णे नृपतिमन्त्रिणि । योग्यभोजनयोर्यज्ञभाण्डे नाट्यानुकर्तरिः॥ ४४४ पुरं शरीरे नगरे गृहपाटलिपुत्रयोः । पुरस्तु गुग्गुलौ पुण्ड्रः कृमौ दैत्येक्षुभेदयोः॥ ४४५ वासन्त्यां तिलके पुण्डरीके पुण्ड्रास्तु नीवृति । पुरुः परागे प्रचुरे स्वर्लोकनृपभेदयो। ॥ ४४६ पूरः स्यादम्भसां वृद्धौ व्रणसंशुद्धिखाद्ययोः । पोत्रं वस्त्रे मुखाग्रे च सूकरस्य हलस्य च ॥ ४४७ पौरं कत्तुणे पुरजे बभ्रुः पिङ्गाग्निशूलिषु । मुनौ विशाले नकुले विष्णौ भद्रं तु मङ्गले ॥ ४४८ मुस्तकश्रेष्ठयोः साधौ काञ्चने करणान्तरे।। भद्रो रामचरे हस्तिजातौ मेरुकदम्बके । ४४९ गवि शंभौ भद्रा विष्टौ नभःसरिति कट्फले। कृष्णानन्ता रास्नासु च भरोऽतिशयभारयोः॥ ४५० भर्भर्तृकनकयो रो दशशतीद्वये । पलानां वीवधे चापि भीोषिति कातरे॥ ४५१ भूरि स्वर्णे प्रचुरे च मत्रो देवादिसाधने । वेदांशे गुप्तवादे च मरुः पर्वतदेशयोः ॥ ४५२ मारोऽनङ्गे मृतौ विघ्ने मारी चण्ड्यां जनक्षये।मात्रं ववधृतौ स्वार्थे कात्न्येमात्रापरिच्छदे४५३ अक्षरावयवे द्रव्ये मानेऽल्पे कर्णभूषणे । काले वृत्ते चा मित्रं तु सख्यौ मित्रो दिवाकरे ॥ ४५४ यात्रोत्सवे गतौ वृत्तौ गष्टमुत्पातनीवृतोः । रुरुर्दैत्ये मृगो रत्रं पीयूषपटवासयोः ॥ ४५५ रेतःसूतकयो रोधो लोभ्रे रोध्रमथागसोः । रौद्रो भीष्मे रसे तीव्र रौद्री गौर्या वरो वृतौ ॥ ४५६ विटे जामातरि श्रेष्ठे देवतादेरभीप्सिते । वरं तु घुसणे किंचिदिष्टे वरी शतावरी ॥ ४५७ वक्रं पुटभेदे वक्रः कुटिले क्रूरभौमयोः । वक्रमास्ये छन्दसि च वप्रः प्राकाररोधसोः ॥ ४५८ क्षेत्रे ताते चये रेणौ वज्रं कुलिशहीरयोः । बालको वज्रा लमृता वर्धः सीसवरत्रयोः॥ ४५९ व्यग्रो व्यापृताकुलयोचारः सूर्यादिवासरे । महेश्वरावसरयोवृन्दे कुब्जाख्यपादपे॥ वारं तु मदिरापात्रे वारि ह्रीवेरनीयोः । वारिर्घटयां सरस्वत्यां गजबन्धनभुव्यपि॥ ४६१ व्याघ्रः कर) शार्दूले रक्तैरण्डतरावपि । श्रेष्ठे तूत्तरपदस्थः स्याद्व्याघ्री कण्टकारिका ॥ ४६२ वीरो जिने भेटे श्रेष्ठे वीरं शृङ्गयां न तेऽपि च । वीरा गम्भारिकारम्भातामलक्येलवालुषु ४६३ मदिराक्षीरकाकोलीगोष्टोदुम्बरिकासु च । पतिपुत्रवतीक्षीरविदारीदुग्धिकास्वपि।। ४६४ वृत्रो मेघे रिपो ध्वान्ते दानवे वासवे गिरौ'। वेरं घुसृणवृन्ताकशरीरेषु शरं जले ॥ ४६५ शरः पुनर्दधिसरे काण्डतेजनयोरफि । शक्रोऽर्जुनतराविन्द्रे कुटजे शस्त्रमायुधे ॥ ४६६ लोहे शस्त्री छुरिकायां शद्रिजिष्णो 'तँडिखतिः । शरुः कोपे शरे वो शारः शवलवातयोः॥४६७ द्यूतस्य चोपकरणे शास्त्रं ग्रन्थनिदेशयोः । शारिः कुञ्जरपर्याणे शकुनौ द्यूतसाधने॥ ४६८ शिग्रुः शोभाञ्जने शाके शीघ्रं चक्राङ्गतर्णयोः । उशीरे शुक्रस्तु शुक्ले ज्येष्ठमासेऽग्निकाव्ययोः॥४६९ शुक्रं तु रेतोऽक्षिरुजोः। शुभ्र दीप्तेऽभ्रके सिते । शूरश्चारभटे सूर्ये सरौ दध्यप्रसायकौ॥ ४७० स्वरः शब्देऽचि पड्जादौ सत्रमाच्छादने क्रतो । सदादाने वने दम्झे स्वरुः स्याद्यूपर्खण्डके ४७१
१. 'हस्तिनाम्' ख-ग-घ. २. इतः प्राक् 'यन्त्रं दैवाद्यधिष्ठाने पात्रभेदे नियन्त्रणे' इत्यधिकं ख-ग-घ. ३. 'वेत्र' ग-घ. ४. 'दिष्टौ' ग-घ. ५. 'बालकं हीवेरम्' इति टीका, ६. 'नेत्रयोः' ख. ७. 'वन्द्यां' ख-ग-घ. 'घटी जलोदञ्चनी' इति टीका ८. 'वारी घटीभबन्धनी' ख. ९. 'नटे' ग-घ. १०. 'जम्मारिका' ख. ११. 'लुका' ग-घ. १२. 'दध्रि सारे' ख; 'दधिसारे' ग-घ. १३. 'र्जुने' ख. १४. 'तडित्यपि' ख-ग-घ. 'तडित्वान् मेघः' इति टीका. १५. 'शुक्रे' ग-घ. १६. 'पि खड्गादौ ख. १७. 'चापि' ख. १८. 'षण्डके' ग-घ.
For Private and Personal Use Only
Page #95
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८
अभिधान संग्रह:: - ८ अनेकार्थसंग्रहः ।
४७६
४७७
४८३
अध्वरे कुलिशे वाणे सारो मज्जास्थिरांशयोः । बले श्रेष्ठे च सारं तु द्रविणन्याय्यवारिषु ॥ ४७२ स्फारस्तु फरकादीनां बुद्बुदे विपुलेऽपि च । स्थिरो मोक्षे निश्चले च स्थिरा भूः शालपर्ण्यपि । ४७३ सिप्रः वेदे सिप्रा नद्यां सिरा नाड्यम्बुवाहिनी । सिरस्तु पिप्पलीमूलं सीरः स्यादंशुमालिनि ॥ ४७४ लाङ्गलेऽथ सुरो देवेःसुरा चषकमद्ययोः ।। सूत्रं तु सूचनाकारग्रन्थे तन्तुव्यवस्थयोः || ४७५ स्वैरो मन्दे स्वतन्त्रे च'हरो रौसभरुद्रयोः । वैश्वानरेऽप्यथ हरिर्दिवाकरसमीरयोः ॥ यमत्रासवसिंहांशुशशाङ्ककपिवाजिषु । पिङ्गवर्णे हरिद्वर्णे कोपेन्द्रशुकाहिषु || लोकान्तरे च हारस्तु मुक्तादामनि संयुगे । हिंस्रः स्याद्धातुके हिंस्रा मांसी काकादनी वसा ४७८ हीरो व हरे सर्पे हीरा पिपीलिकाश्रियोः । होरा तु लग्ने राश्यर्धे शास्त्ररेखाप्रभेदयोः || ४७९ अलिः सुरापुष्पलिहोरम्लो रसेऽम्लवेतसे । अम्ली चाङ्गेर्यामालं स्यादेनर्थहरितालयोः ॥ ४८० आलिः सख्यावलीसेत्वनर्थेषु विशदाशये । आलुर्गलन्तिकायां / स्यादालु भेलककन्दयोः ॥ ४८१ इलोर्वीवाग्बुधस्त्री गौः कलं त्वजीर्णरेतसोः । अव्यक्तमधुरध्वाने कला स्यात्काल शिल्पयोः ॥। ४८२ कलने मूलरैवृद्धौ षोडशांशे विधोरपि । कलिर्विभीतके शूरे विवादेऽन्त्ययुगे युधि ॥ कालः पुनः कृष्णवर्णे महाकालकृतान्तयोः । मरणाने हसोः काली कालिकाक्षीरकीटयोः || ४८४ मातृभेदोमयोर्न व्पमेघौघपरिवादयोः । । काला कृष्णत्रिवृन्नीत्योर्जिंग्यां कीलोऽग्नितेजसि ॥। ४८५ कफणिस्तम्भयोः शङ्कौ कीला रेताहतावपि । कुलं कुल्यगणे गेहे देहे जनपदेऽन्वये ॥ ४८६ कूलं तटे सैन्यपृष्ठे तडागस्तूपयोरपि । कोलो भेलक उत्सङ्गेऽङ्कपाल्यां चित्रके किंरौ ॥ ४८७ कोलं तु बदरे: कोला पिप्पल्यां चव्यभेषजे । खलः कल्के भुवि स्थाने क्रूरे कर्णेजपेऽधमे ||४८८ खल्लो निम्ने वस्त्रभेदे चर्मचातकपक्षिणोः ।। खल्ली तु हस्तपादावमर्दनाह्वयरुज्यपि ॥ गलः कण्ठे सर्जरसे गोल: स्यात्सर्ववर्तुले । गोला पत्राञ्जने गोदावर्या सख्यामलिञ्जरे || ४९० मण्डले च कुनद्यां च बालक्रीडनकाष्ठके । चिल्लः खगे से चुल्लच पिल्लवल्लिन्नलोचने ॥ ४९१ क्लिन्नाक्षिण चुली तूद्धाने चेलं गर्हितवस्त्रयोः । छ्लं छद्मस्खलितयो छल्ली संतानवीरुधोः || ४९२ वल्कले पुष्पभेदे च जलं गोकलले जडे । ह्रीवेरेऽम्बुनि जालं तु गवाक्षे क्षारके गणे ॥ ४९३ दम्भानाययोश्च जालो नीपे जाली पटोलिका । झला पुत्र्यामातपोम झिल्ली तूद्वर्तनाशके ॥ ४९४ वर्त्यात रुजश्रीतलं ज्याघातवारणे । तलञ्चपेटे तौलद्रौ स्वभावाधारयोः त्सरौ ॥ तल्लो जलाधारभेदे तली तु वरुणस्त्रियाम् ॥ तालः कालक्रियामाने हस्तमानदुभेदयोः ॥ करास्फोटे करतले हरिताले त्सरावपि । तुला माने पलशते सादृश्ये राशिभाण्डयोः ॥ गृहाणां दारुबन्धाय पीठ्यां तूलं तु खे पिच । ब्रह्मदारुण्यथा दलं शस्त्रीछेदेऽर्धपर्णयोः ॥ उत्सेधवद्वस्तुनि च नलो राज्ञि कपौ नडे । पितृदैवेऽथ नलं स्यात् नेली मनःशिला ॥ ४९९
४८९
४९५
४९६
४९७ ४९८
१. 'शालि' ख. २. 'कारि' ख ग घ ३. 'नाशक' ख ग घ द्वितीयटीकापुस्तके तु 'रुद्रेभसोः' इति दृश्यते . ४. 'पिप्पलिकास्त्रियोः ' ख. ५. 'दनल्प' ख ग घ ६. 'दंशशिल्पयो: ' ख. ७. 'पापे' ख. ८. ' महाकाले रुद्रे' इति टीका. ९. 'हतौ' ख; 'रत' ग घ 'रताहतिः सुरतप्रहरणम्' इति टीका. १०. 'कुल्ये' ख. 'कुल्याः सजातीयाः तेषां गणे' इति टीका. ११. 'गिरौ' ख. १२. 'स इति चिल्लशब्द:' इति टीका. १३. इतः प्राक् 'चोलः कूर्पासके देशे चौलं कर्मणि मुण्डने' इत्यधिकं ख ग घ १४. 'छली' ख. १५. 'कलने ' ख. १६. ' दम्भानामययो' ग घ १७. 'तालुद्रौ' ख. १८. 'शस्त्रीच्छदे शस्त्रीप्रत्याकारे' इति टीका. १९. 'छेदे ' २०. 'नाली' ख.
For Private and Personal Use Only
Page #96
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२ द्विस्वरकाण्डः । नालं काण्डे मृणाले चा नाली शाककदम्बके । नीलो वर्णे मणौ शैले निधिवानरभेदयोः ॥ ५०० नील्यौषध्यां लाञ्छने च पलमुन्मानमांसयो । पल्लिस्तु ग्रामके कुट्यां पालियूकास्रिपङ्क्तिषु ॥५०१ जातश्मश्रुस्त्रियां प्रान्ते सेतौ कल्पितभोजने । प्रशंसाकर्णलतयोरुत्सङ्गे प्रस्थचिह्नयोः ॥ ५०२ पीलुः पुष्पे द्रुमे काण्डे परमाणौ मतङ्गजे । तालास्थिखण्डेऽथ पुल: पुलके विपुलेऽपि च ।। ५०३ फलं हेतुकृते जातीफले फलकसस्ययोः । त्रिफलायां च ककोले शस्त्राने व्युष्टिलाभयोः ॥ ५०४ फली फैलन्यां फालं तु वस्त्रांशे फाल उत्प्लुतौ । कुशिके चा बलं रूपे स्थामनि स्थौल्यसैन्ययोः ।। बोले बलस्तु बलिनि काके दैत्ये हलायुधे।। बला त्वौषधिभेदे स्यादलिदैत्योपहारयोः ॥ ५०६ करे चामरदण्डे च गृहदारूदरांशयोः । त्वक्संकोचे गन्धके चा बालोऽज्ञेऽश्वेभपुच्छयोः॥ ५०७ शिशौ हीवेरकंचयोर्वाला तु त्रुटियोषितोः।। बाली भूषान्तरे मेधौ बिल उच्चैःश्रवोहये।॥ ५०८ बिलं रन्ध्र गुहायां चाभल्लो भल्लूकबाणयोः । भल्ली भल्लातके भालं स्याल्ललाटे महस्यपिः ॥ ५०९ भेलः प्लवे मुनिभेदे भीरौ बुद्धिविवर्जिते । मल्लः कपाले बलिनि मत्स्ये पात्रे मलस्त्वघे ॥ ५१० किट्टे कदर्ये विष्ठायां मालं तु कपटे वने।। मालो जने स्यान्माला तु पङ्क्तौ पुष्पादिदामनि॥५११ मालुः स्त्रियां पत्रवल्लयां मूलं पार्वाद्ययोरुडौ । निकुअशिफयोर्मला त्वञ्जने मेलकेऽपि च ॥ ५१२ मौलिः किरीटे धम्मिल्ले चूलाकङ्केलिमूर्धसु । लीला केलिविलासश्च शृङ्गारभावजक्रिया ॥ ५१३ लोलश्चले सतृष्णे चालोला तु रसनाश्रियोः।। वल्ली स्यादजमोदायां लतायां कुसुमान्तरे ॥५१४ व्यालो दुष्टगजे सर्प शठे श्वापदसिंहयोः । वेला बुधस्त्रियां काले सीमनीश्वरभोजने ॥ ५१५ अक्लिष्टमरणोऽम्भोधेस्तीरनीरविकारयोः। शालो हाले मत्स्यभेदे शालौकस्तत्प्रदेशयोः ॥ ५१६ स्कन्धशाखायां शालिस्तु गन्धोलौ कलमादिषु शालुः कषायद्रव्ये स्यान्चौरकाख्यौषधेऽपि च ॥५१७ शिलमुच्छ; शिला द्वाराधोदारु कुनटी दृषत्।। शिली गण्डूपदी, शीलं साधुवृत्तस्वभावयो ५१८ शुक्लं रूप्ये शुक्लो योगे श्वेते शूलं रुगस्त्रयोः । योगेशूला तू पण्यस्त्री वधहेतुश्च कीलकः॥ ५१९ शैलो भूभृति शैलं तु शैलेये तायशैलके । सालः सर्जतरौ वृक्षमात्रप्राकारयोरपि ॥ ५२० स्थालं भाजनभेदे स्यात्स्थाली तु पाटलोखयोः। स्थूलः पीने जडो हालः सातवाहनपार्थिवे । ॥ ५२१ हाला सुरायां हेला तु स्यादवज्ञाविलासयोः । हेलिरालिङ्गने सूर्येऽप्यविमूषिककम्बले ॥ ५२२ मेषे रवौ पर्वते चा स्यादूर्ध्व तु समुत्थिते । उपर्युन्नतयो कण्वो मुनौ। कण्वं तु कल्मषे ॥ ५२३ क्षवः क्षुते राजिकायां कविः काव्यस्य कर्तरि । विचक्षणे दैत्यगुरौ स्यात्कवी तु खलीनके ॥५२४ किण्वं पापे सुराबीजे, क्लीबोऽपौरुषषण्ढयो । खर्वहस्वी न्यग्वामनौ ग्रीवे शिरोधितच्छिरे॥५२५ छविस्तु रुचि शोभायां जवः स्याद्वेगवेगिनोः । जवोडपुष्प जिह्वा तु वाचि ज्वालारसज्ञयोः।५२६ जीवः स्यात्रिदशाचार्ये द्रुमभेदे शरीरिणि । जीवितेऽपि चा जीवा तु वचायां धनुषो गुणे ॥५२७ शिञ्जिते क्षितिजीवन्त्योवृत्तौ तत्त्वं परात्मनि । वाद्यभेदे स्वरूपे चा द्रवो विद्र्वनर्मणोः ॥ ५२८ प्रद्रावे रसगत्योश्च द्वन्द्वः से द्वन्द्वमाहवे । रहस्ये मिथुने युग्मे दवदावौ वनानले ॥ ५२९
१. 'जाति' ख. २. 'हेतुफले' ग-घ. ३. 'फलिन्यां' ख-ग-घ.४. 'वसने' ख; 'वाससि' ग-घ. ५. 'वचयोः' ख. ६. 'मध्ये' ग-घ. ७. 'कपोले' ख-ग-घ. 'कपालं शिरोस्थि' इति टीका. ८. 'शिफयोः स्वीये शिलायां च वशीकृतौ । प्रतिष्ठायामथो मेला' ख. ९. 'चूडा' ख-ग-घ. १०. 'भावजा' ग-ध. ११. 'शीलं' ख. १२. 'शात' ख; 'सीत' ग-घ. १३. 'विद्रवे पलायने' इति टीका. १४. 'आसवे' ख. 'प्रद्रावे प्रस्रवणे' इति टीका. १५. 'स इति समासस्य संज्ञा' इति टीका.
For Private and Personal Use Only
Page #97
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
__ अभिधानसंग्रहः-८ अनेकार्थसंग्रहः । वने दर्वी फणातोर्वी स्याद्देवदारुणि । हरिद्राद्वितये चापि दिवं खे त्रिदिवे दिने॥ ५३० देवं हृषीके देवस्तु नृपतौ तोयदे सुरे। देवी कृताभिषेकायां तेजनीस्पृक्कयोरपि,॥ ५३१ धवो धूर्ते नरे पयौ द्रुभेदेऽथ ध्रुवो वटे । वसुयोगभिदोराँतौ शङ्कावुत्तानपादजे ॥ ५३२ स्थिरे नित्ये निश्चिते च ध्रुवं खेऽजस्रतर्कयोः।। ध्रुवा मूर्वाशालिपर्योः नुग्भेदे गीतभिद्यपि ॥ ५३३ नवो नव्ये स्तुतौ। नीवी स्त्रीकटीवस्त्रबन्धने । मूलद्रव्ये परिपणे प्लवः प्लक्षे ततौ कपौ ॥ ५३४ शब्दे कारण्डवे म्लेच्छजातौ भेलकमेकयोः । क्रमनिम्नमहीभागे कुलके जलवायसे ॥ ५३५ जलान्तरे प्लवं गन्धतृणे मुस्तकभिद्यपि । पक्कं परिणते नाशाभिमुखे पार्श्वमन्तिके ॥ ५३६ कक्षाधोवयवे वैक्रोपायपशुसमूहयोः। प्राचं दूरपथे प्रवे बन्धे पूर्व तु पूर्वजे ॥ ५३७ प्रागने द्रुतभेदे च भवः सत्ताप्तिजन्मसु । रुद्रे श्रेयसि संसारे भावोऽभिप्रायवस्तुनोः ॥ ५३८ स्वभावजन्मसत्तात्मक्रियालीलाविभूतिषु । चेष्टायोन्योqधे जन्तौ शृङ्गारादेश्व कारणे ॥ ५३९ शब्दप्रवृत्तिहेतौ च रेवा मन्मथयोषिति । नील्यां मेकलकन्यायां लवः कालभिदि छिदि ॥ ५४० विलासे रामजे लेशे लेटा पक्षिकुसुम्भयोः । लध्वी ह्रस्वविवक्षायां प्रभेदे स्यन्दनस्य च।।। ५४१ विश्वाः सुरेषु विश्वं तु शुण्ठ्यां भुवनकृत्स्नयोः । विश्वा विषायां शिवं तु मोक्षे क्षेमे सुखे जले॥ शिवो योगान्तरे वेदे गुग्गुलौ वालुके हरे । पुण्डरीके द्रुमे काले शिवा झाटामलोमयोः ॥५४३ फेरौ शम्यां पथ्याधात्र्योः शिविर्भूर्जे नृपान्तरे। शुल्ब ताने यज्ञकर्मण्याचारे जलसंनिधौ॥ ५४४ सत्त्वं द्रव्ये गुणे चित्ते व्यवसायस्वभावयोः । पिशाचादावात्मभावे बले प्राणेषु जन्तुषु॥ ५४५ सान्त्व सामनिदाक्षिप्ये घुवा मूर्वा खुवः त्रुचि । हवस्तु सप्ततन्तौ स्यानिदेशाद्वानयोरपि ॥ ५४६ अंशुः सूत्रादिसूक्ष्मांशे किरणे चन्द्रदीधितौ । आशा कुकुभि तृष्णायामाशुस्तु ब्रीहिशीघ्रयो ५४७ ईशः स्वामिनि रुद्रे च स्यादीशा हलदण्डके। कोशस्तृणे रोगभेदे कीशः कपो दिगम्बरे ॥ ५४८ कुशो रामसुते दर्भे पापिष्ठे योक्रमत्तयोः । कुशी लोहविकारे स्यात्कुशा वला कुशं जले ॥ ५४९ केशः शिरसिजे पाशपाणौ ह्रीबेरदैत्ययोः।। क्लेशो राँगादौ दुःखे च कोशः कोष इवाण्डके ५५० कुमले चषके दिव्येऽर्थचये योनिशिम्बयोः । जातिकोषेऽसिपिधाने दर्शः सूर्येन्दुसंगमे ॥ ५५१ पक्षान्तेऽष्टौ दर्शने च दंशो वर्मणि मर्मणि । दोषे वनमक्षिकायां खण्डने भुजगक्षते।। ५५२ दशा वर्ताववस्थायां दशास्तु वसनाञ्चले । नाशः पलायने मृत्यौ परिध्वस्तावदर्शने ॥ ५५३ निशा हरिद्रायां रात्रौ पशुश्छागे मृगादिषु । प्रमथेऽपि च पाशस्तु मृगपक्ष्यादिबन्धने ॥ ५५४ कर्णान्ते क्षोभनार्थः स्यात्कचान्ते निकरार्थकः । छात्राद्यन्ते च निन्दार्थः पेशी मांस्यसिकोशयोः ।
१. 'तो' ग-घ. 'तारुहस्तः' इति टीका. २. 'भिदोः शंभौ' ख-ग-घ, ३. 'आति: शरारिः' इति टीका, ४. 'चक्रोपान्त' ग-घ. 'वक्रोऽनृजुरुपायः' इति टीका. ५. 'पशुसमूहयोः' ख. ६. 'प्रागिति दिग् देशः कालो वा । अग्रे प्रथमतोऽर्थे । श्रुतभेदे आगमविशेषे' इति टीका. ७. 'श्रुतिभेदे' ख-ग-घ. ८. 'च यवो धान्ये पृथकृतौ । यावोऽलक्ते पाकभेदे रेवा' ख-ग-घ. ९. 'तथा किंजल्कपक्ष्मणोः । गोपुच्छलोमस्वपि च लट्टा' ख. १०. 'बालके' ख-ग-घ. 'वालुकमोषधिः' इति टीका. ११. 'अंशो विभाजने प्रोक्त एकदेशेऽपि वस्तुनः । अंशु' ख-ग-घ. १२. 'कशा स्यादश्वताडन्यां रज्जौ मुखगुणेऽपि च' इत्यपीत: प्राक् ख-ग-घ. १३. रोगादौ' ग-घ. 'रागादयोऽविद्यास्मिताद्वेषाभिनिवेशाः' इति टीका. १४. 'पक्षान्तेष्टि: पक्षान्तयागः' इति टीका. १५. 'ऽब्धौ' ख-ग-घ. १६. 'छत्राद्यन्ते' ख-ग-घ.
For Private and Personal Use Only
Page #98
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२ द्विस्वरकाण्डः ।
२१ मण्डभेदे पलपिण्डे सुपक्ककणिकेऽपि च । भूस्पृग्वैश्ये मानवे च राशिमेषादिपुञ्जयोः ॥ ५५६ वशो जनस्पृहायत्तेष्वायत्तत्वप्रभुत्वयोः । वशा नार्यां वन्ध्यगव्यां हस्तिन्यां दुहितर्यपि ॥ ५५७ वंशः संधेऽन्वये वेणौ पृष्टाद्यवयवेऽपि च । वेशो वेश्यागृहे गेहे नेपथ्ये च शशः पशौ ॥ ५५८ बोले लोधे नृभेदे च स्पशो हेरिकयुद्धयोः। स्पर्शी वर्गाक्षरे दाने स्पर्शने स्पर्शके रुजि ॥ ५५९ अक्षो रथस्यावयवे व्यवहारे विभीतके । पाशके शकटे कर्षे ज्ञाने चात्मनि रावणौ ॥ ५६० अक्षं सौवर्चले तुत्थे हृषीके स्यादुषा निशि । बाणपुत्र्यां च ऋक्षस्तु स्यान्नक्षत्राच्छभल्लयोः॥ ५६१ महीधरविशेषे च शोणके कृतवेधने। ऋषिदे मुनौ कर्षः कर्षणे मानभिद्यपि॥ ५६२ कक्षो वीरुधिदोर्मूले कच्छे शुष्कवने तृणे । पापे कक्षा विभरज्जौ काश्यां गेहप्रकोष्टके ॥ ५६३ भित्तौ साम्ये रथभागेऽन्तरीयपश्चिमाञ्चले । उगाहण्यां च कर्षस्तु तुषाग्नौ कृषिकुल्ययोः।। ५६४ घोषः कांस्ये खेने गोपघोषकाभीरपल्लिषु । घोषा तु शतपुष्पायां चोक्षः सुन्दरगीतयोः ॥ ५६५ शुचौ झषस्तु मकरे वने मीने झषा पुनः । नागबलायां तुषस्तु धान्यत्वचि विभीतके।। ५६६ दक्षः प्रजापतौ रुद्रवृषभे कुक्कुटे पटौ । द्रुमे दक्षा तु मेदिन्यां ध्वाङ्गः काके बकेऽर्थिनि ॥ ५६७ गृहे ध्वानी तु ककोल्यां न्यक्षः काय॑निकृष्टयोः। जामदग्न्येऽपि पक्षस्तु मासार्धे गृहसाध्ययोः ॥ चुल्लीरन्ध्रे बले पार्श्वे वर्गे केशात्परश्चये । पिच्छे विरोधे देहाङ्गे सहाये राजकुञ्जरे।॥ ५६९ प्लक्षो द्वीपे गर्दभाण्डेऽश्वत्थे जटिनि पक्षके प्रेक्षा धीरीक्षणं नृत्तं प्रैषौ प्रेषणपीडने ॥ ५७० पौषो मासप्रभेदे स्यात्पौषं तु महयुद्धयोः । भिक्षा सेवाप्रार्थनयोभृतौ भिक्षितवस्तुनि ॥ ५७१ माषो माने धान्यभेदे मूर्खे खग्दोषभिद्यपि । मिषं त्याजे स्पर्धने च मेषो राश्यन्तरे हुडौ॥५७२ मोक्षो निःश्रेयसे वृक्षविशेषे मोचने मृतौः। यक्षः श्रीदे गुह्यके च रक्षा रक्षणभस्मनोः ॥ ५७३ रूक्षोऽस्निग्धपरुषयोर्लक्षं व्याजशरव्ययोः । संख्यायामपि वर्षस्तु समाद्वीपांशवृष्टिषु ॥ ५७४ वर्षवरेऽपि वर्षास्तु प्रावृष्यथ विषं जले । क्ष्वेडे विषा खतिविषा वृषो गव्याखुधर्मयोः॥ ५७५ पुंगशिभेदयोः शृङ्गयां वासके शुक्रलेऽपि च । श्रेष्ठे स्यादुत्तरस्थश्चा वृषी तु व्रतिविष्ठरे।। ५७६ वृषा पुनः कपिकच्छां शुषिः शुषिरशोषयोः । शेषोऽनन्ते वधे सीरिण्युपयुक्तरेऽपि च ॥ ५७७ शेषा निर्माल्यदाने स्याच्छोषः शोषणयक्ष्मणोः । अचिर्मयूखशिखयोरदोऽत्र च परत्र च ॥ ५७८ आगः स्यादनोवदघे मन्तावाशीहितैषिणि । उरगस्य च दंष्ट्रायामुषः संध्याप्रभातयोः ॥ ५७९ उरो वक्षसि मुख्ये स्यादोजो दीप्तिप्रकाशयोः । अवष्टम्भे बले धातुतेजस्योकस्तु सद्मनि ॥ ५८० ओकास्त्वाश्रयमात्रे स्यात्कंसस्तैजसमानयोः । पानपात्रे दैत्यभेदे कासूः शक्त्यायुधे रुजि ।। ५८१ बुद्धौ विकलवाचि स्याद्गुत्सः स्तम्बगुलुञ्छयोः । हारभेदे प्रन्थिपणे गोसो बोलविभातयोः ॥ ५८२ चास इक्षुपक्षिभिदोश्छन्दः पद्येच्छयोः श्रुतौ । ज्यायान्वृद्ध प्रशस्ये च ज्योतिर्वह्निदिनेशयोः ५८३
१. 'गृहे' ख. २. 'हेरक' ख. ३. 'क्षतवेधने' ख. 'कृतवेधनः कृतच्छिद्रः' इति टीका. ४. 'ऋषि' ख-ग-घ. ५. 'खरे' ख. ६. 'आभीर' ख. ७. 'नागलतायां' ग-घ. ८. 'कंकोल्यां' ख; 'काकोल्यां' ग-घ. ९. 'यामदम्ये' ग-घ. १०. 'ग्रह' ख-ग-घ. ११. 'बुद्धयोः' ख. १२. स्पर्शभेदे' ख. १३. 'वर्षधरे' ख-ग-घ. १४. 'वृषीति ऋषि' ख. १५. 'चित्राकपिकच्छोः ' ख-ग-ध. १६. 'अंस: स्कन्धे विभागे स्यादसि: खड्ने नदीभिदि' इत्यधिकमितः प्राक् ख-ग-घ. १७. 'देनस्यव' ग-घ. 'एनोवदिति । आगःशब्द एनःशब्दश्चेत्यर्थः इति टीका. १८. 'स्योकं तु' ग-ध.
For Private and Personal Use Only
Page #99
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२
अभिधानसंग्रहः-८ अनेकार्थसंग्रहः । प्रकाशे देशि नक्षत्रे तपः कृच्छादिकर्मणि । धर्मे लोकप्रभेदे च तपाः शिशिरमाघयोः ॥ ५८४ तमो राहौ गुणे पापे ध्वान्ते तरो जवे बले।। त्रासो भये मणिदोषे तेजस्विट्रेतसोर्बले ॥ ५८५ नवनीते प्रभावेऽगौ दासो धीवरभृत्ययोः । वृषले दानपात्रे चा दासी झिण्ट्यपि चेट्यपि ॥ ५८६ धेनुः शरासने राशौ पियाल द्रौ धनुर्धरे।। नभो व्योम्नि नभा घ्राणे बिसतन्तौ पतद्हे॥ ५८७ प्रावृषि श्रावणे नासा घोणाद्वारोव॑दारुणोः । पयः क्षीरे च नीरे च प्रसूरश्वा जनन्यपि ॥ ५८८ बहिः कुशेऽग्नौभासस्तु भासि गृध्रशकुन्तयोः । महस्तेजस्युत्सवे च मिसिर्मास्यजमोदयोः ॥५८९ शतपुष्पामधुर्योश्च मृत्सा वासी सुमृत्तिका । रसः स्वादे जले वीर्ये शृङ्गारादौ विषे द्रवे ॥ ५९० वोले रागे देहधातौ तिक्तादौ पारदेऽपि च । रसा तु रसनापाठामल्लकीक्षितिकङ्गुषु ॥ ५९१ रहो गुह्ये रते तत्त्वे रजो रेणुपरागयोः । स्त्रीपुष्पे गुणभेदे च रासः क्रीडासु गोदुहाम् ॥ ५९२ भाषाशृङ्खलके वत्सा उरस्तुवर्षतर्णकाः । वयस्तारुण्ये बाल्यादौ खगे. वर्चस्तु तेजसि ॥ ५९३ गूथे रूपे वसुस्वग्नौ देवभेदे नृपे रुचि । योक्रे शुष्के वसु स्वादौ रत्ने वृद्ध्यौषधे धने ॥ ५९४ वपुः शस्ताकृतौ देहे व्यासो मुनिप्रपञ्चयोः । वासो वेश्मन्यवस्थाने वासा स्यादाटरूषके ॥५९५ विद्वान् ज्ञात्मविदोः प्राज्ञे वेधा धातृज्ञविष्णुषु । शंसा वचसि वाञ्छायां शिरो मूर्धप्रधानयोः ।। सेनाप्रभागे श्रेयस्तु मङ्गले धर्मशस्तयोः।। सहो बले ज्योतिषि च सहा हेमन्तमासयोः ॥ ५९७ स्रोतः प्रवाहेन्द्रिययोर्हसोऽर्के मत्सरेऽच्युते । खगाश्वयोगिमादिभेदेषु परमात्मनि ॥ ५९८ निर्लोभनृपतौ प्राणवाते श्रेष्ठेऽग्रतः स्थिते । हविः सर्पिषि होतव्ये हिंसा चौर्यादिके वधे ॥ ५९९ अहिः सर्प वृत्रे वगै स्थादीहोद्यमवाञ्छयोः । कुहूर्नष्टेन्दुदर्श स्यात्वणिते कोकिलस्य च ॥ ६०० ग्रहो ग्रहणनिबन्धानुग्रहेषु रणोद्यमे । उपरागे पूतनादावादित्यादौ विधुतुदे ॥
६०१ ग्राहो ग्रहे जलचरे गुहः स्कन्दे गुहा पुनः । गहरे सिंहपुच्छ्यां च गृहा दारेषु सद्मनि ॥ ६०२ प्रौहो निपुणतर्के स्याद्गजाझिपर्वणोरपि । बह पणे परीवारे कलापे बहु भूयसि ॥ ६०३ त्र्यादिकासु च संख्यासु महावुत्सवतेजसी । मही भुवि नदीभेदे मोही मूर्छाविपर्ययौ ।। ६०४ लोहं कालायसे सर्वतेजसे जोङ्गिकेऽपि च । वहो वृषस्कन्धदेशे वायौ, वाहोऽश्वमानयोः ॥ ६०५ वृषे वाहा तु वाहौ स्याद्वयूहो निर्माणतर्कयोः । समूहे बलविन्यासे सहःक्षमे बलेऽपि च ।। ६०६ सहो- सहदेवायां कुमारू नखभेषजे । मुद्गपर्यों च सिंहस्तु राशिभेदे मृगाधिपे ॥ ६०७ श्रेष्ठे स्यादुत्तरस्थश्व सिंही स्वैर्भाणुमातरि । वासाबृहत्योः क्षुद्रायां स्नेहः प्रेम्णि घृतादिके ॥ ६०८
इत्याचार्यहेमचन्द्रविरचितेऽनेकार्थसंग्रहे द्विस्वरकाण्डो द्वितीयः ।
त्रिस्वरकाण्डः। अणुको निपुणेऽल्पे चाशोको कङ्केल्लिवजुलौ । निःशोकपारदौ चाप्यशोका तु कटुरोहिणी ॥६०९ अभीको निर्भये कनेऽप्यनीकं रणसैन्ययोः । अलीकमप्रिये भाले वितथेऽनूकमन्वये ॥ ६१०
१. 'दिशि' ग-घ. 'दृगत्र कनीनिकामध्यः यन्महः' इति टीका. २. 'स्यात्' ख. ३. 'वापे' ग-घ. ४. 'दासपात्रे' ग-ध. ५. 'धनुरिष्वासने' ख. ६. 'प्रियालद्रौ' ख-ग-घ, ७ 'अश्वेति सगर्भा वडवा' इति टीका. ८. 'रोगे ख-ग-घ. 'रागोऽनुरागः' इति टीका. ९. 'तुक् अपत्यम्' इति टीका. १०. 'शुक्रे' ख. ११. 'स्वर्णे' ख. १२. 'प्रासयोः' ग-घ. १३. 'योग' ख. १४. 'स्वर्भानु' ख-ग-ध. 'पूर्वपदात् इति णत्वम् इत्यभिधानचिन्तामणिः.
For Private and Personal Use Only
Page #100
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ त्रिस्वरकाण्डः।
६२०
शोलेऽनूको गतजन्मन्यंशुकं सूक्ष्मवाससि । उतरीये वनमात्रेऽप्यलकाचूर्णकुन्तलाः॥ ६११ अलका तु कुबेरस्य नगर्यामन्तिकं पुनः । पार्श्वेऽन्तिका तु चुल्लयां स्यात्सातलाख्यौषधेऽपि च६१२ अलर्को धैवलार्के स्याद्योगोन्मादितशुन्यपि ।। अम्बिकोमापाण्डुमात्रोर्देवताभिदि मातरि॥ ६१३ अन्धिका तु कैतवे स्यात्सर्षपीमिद्धयोरपि । अम्लिका तिन्तिडीकाम्लोद्गारचाङेरिकासु च ॥३१४ आलोको दर्शने वन्दिघोषणोहयोतयोरपि । आनकः पटहे भेर्या ध्वनन्मेघमृदङ्गयोः॥ ६१५ आन्तको रुजि शङ्कायां संतापे मुरजध्वनौ।। आह्निकं स्यात्पुनरहनिर्वृत्ते नित्यकर्मणि ॥ ६१६ भोजने ग्रन्थभागे चाढकः प्रस्थचतुष्टयम्।। आढकी तुवरीक्ष्वाकुः कटुतुम्ब्यां नृपान्तरे,।। ६१७ उदकस्तूत्तरकालफले मदनकण्टके । उष्णको धर्म उद्युक्तातुरयोरूमिका पुनः ॥ ६१८ उत्कण्ठायां भृङ्गनादे वस्त्रभङ्गेऽङ्गुलीयके । वीच्यां चाकनकं हेनि कनको नागकेसरे ॥ ६१९ धत्तुरे चम्पके काञ्चनारकिंशुकयोरपि । करको दाडिमे पक्षिभेदे केरे कमण्डलौ ॥ लटाकरञ्जयोर्वर्षोपले च कटुकं कटु । कटुरोहिणी व्योषं।च कञ्चकश्चोलचर्मणोः॥ ६२१ वर्धापकगृहीताङ्गवसने वीरवाणके । निर्मोके कटकस्त्वद्रिनितम्बे बाहुभूषणे ॥ ६२२ सेनायां राजधान्यां च क्रमुको भद्रमुस्तके । गूवाके पट्टिकालोने कण्टकः क्षुद्रवैरिणि ॥ ६२३ वेणौ दमाङ्गे रोमाचे कलङ्कोऽङ्कापवादयोः । कालायसमले चापि कणिका कर्णभूषणे ॥ ६२४ बीजकोशे सरोजस्य करमध्यागुलावपिः। कुट्टिन्यां हस्तिहस्ताने।कणिका सूक्ष्मवस्तुनि ॥ १२५ अग्निमन्थे कामुकास्तु काम्यशोकातिमुक्तकाः।। कारकं कर्तृकर्माद्ये कारिका यातना नटी ॥६२६ कृतिविवरणश्लोको नापितादिककर्म च कावृकः कुकुटे कोके पीतमुण्डेऽथा कार्मुकः॥ ६२७ वंशे कार्मुकमिष्वासे कर्मठे क्षारको रसे । कोरके पक्ष्यादिपाशे कालिका योगिनीभिदि ॥६२८ स्वर्णादिदोषे मेघाल्यां सुरागौर्योर्नवाम्बुदे । क्रमदेयवस्तुमूल्ये कार्यवृश्चिकपत्रयोः ॥ ६२९ रोमाल्यां धूमरीमांस्योः काकीपटोलशाखयोः।। किंपाको वृक्षभिद्यज्ञे कीटको निष्ठुरे कृमौगा३३० कीचको ध्वनिमद्वंशे दैत्यभेदे द्रुमान्तरे। कुलकं पञ्चादिश्लोकसमन्वये पटोलके ॥ ६३१ कुलकः कुलप्रधाने वल्मीके काकतिन्दुके । कुलिकस्तु कुलश्रेष्ठे द्रुमनागविशेषयो॥ ६३२ कुशिको मुनिभेदे स्यात्फाले सर्ने बिभीतके, क्षुल्लकः पामरे स्वल्पे कनिष्ठे दुःस्थिते खले ॥६३३ कूचिका क्षीरविकृतौ कुञ्चिकायां च कुङ्मले । आलेख्यकर्चिकासूच्योः कृषको फालकर्षकौ॥६३४ कोरकं तु कुङ्मले स्यात्ककोलकमृणालयोः।। कौतुकं नर्मणीच्छायामुत्सवे कुतुके मुदि॥ ६३५ पारम्पर्यागतख्याते मङ्गलोद्वाहसत्रयोः । गीतादौ भोगकाले चाकौशिकः शक्रघकयोः ॥ ६३६ कोशज्ञे गुग्गुलावाहितुण्डिके नकुले मुनौ।। कौशिकी चण्डिकानद्योः, खनकः संधितस्करे ॥६३७
१. 'गतजन्मा परिणतवयाः' इति टीका. २. 'नाट्योक्ती ज्येष्ठभगिनी अन्तिका प्रोच्यतेऽपि सा' इत्यधिकमितः प्राक् ख-ग-घ. ३. 'नृपे श्वेतार्के योगो' ख-ग-घ. ४. 'सर्षप्यां रात्रियोषितोः' ख; 'सर्षपीसिद्धयोः' ग-व. ५. 'मिद्धं निद्राकैतवम्' इति टीका. ६. 'वन्दिभाषणो' ख-ग-घ. ७. 'नदन्मे' ख. ८. 'उलूकः स्यात्काकशत्राविन्द्रे भारतयोधिनि । उष्ट्रिका मृद्भाण्डभेदे करभस्य च योषिति ॥' इत्यधिकमितः प्राक् ख-ग-घ. ९. 'हस्ते' ख. १०. 'व्योषयोश्च' ग-व. ११. 'कर्मणोः' ख; 'वस्त्रयोः' ग-घ, 'चर्म कवचम्' इति टीका. १२. 'वारवाणके नृनिचोले' इति टीका. १३. 'कृतौ विवरणश्लोके नापितादिककर्मणि' ख. १४.'कांस्योः' ग-व. १५. 'अज्ञो मूर्खः' इति टीका. १६. 'कृशे' ख. १७. 'फले' ख. १८. 'दुःखिते' ख-ग-घ. १९. 'कूपको गुणवृक्षे स्यात्तैलपात्रे ककुन्दरे' इत्यधिकमितः प्राक् ख-ग-घ.
१२
For Private and Personal Use Only
Page #101
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४
अभिधानसंग्रहः-८ अनेकार्थसंग्रहः । मूषिके भूमिवित्तज्ञे खट्टिको मांसविक्रयी । महिषीक्षीरफेनश्च खल्लकः स्वल्पनीचयोः ॥ ६३८ खोलकः पूगकोशे स्याच्छिरने नाकुपाकयोः । ग्रन्थिकं पिप्पलीमूले प्रन्थिपर्णकभेषजे ॥ ६३९ ग्रेन्थिको गुग्गुलौ दैवज्ञे मायकरीरयोः।। गण्डको विन्ने विद्यायां संख्यावच्छेदखङ्गिषुः ।। ६४० गण्डकी तु सरिद्रेदे गणको ग्रहवेदिनि । गणिकेभ्यां यूथिकायां तर्कार्या पण्ययोषिति ।। ६४१ ग्राहको ग्रहीतरि स्याब्याधानां घातिपक्षिणिः। गान्धिको लेखके गन्धवाणिजे. गुण्डकः पुनः॥६४२ कलौक्तौ मैलने धूलौ स्नेहपात्रेऽथा गैरिकम् । स्वर्णे धातौ गोलकस्तु जारतो विधवासुते ॥ ६४३ अलिअरे गुडे वापि गोरकर्ननवन्दिनोः । खगे चाचषको मद्ये सरके मद्यभाजने॥ ६४४ चलुकः प्रसृतौ भाण्डप्रभेदे चुलुको यथा। चारकोऽश्वादिपाले स्याद्वन्धे संचारकेऽपि च ॥६४५ चित्रकस्तु चित्रकाये द्रुमौषधविशेषयोः।। चुम्बकः कामुके धूर्ते बहुगुर्वश्मभेदयोः॥ ६४६
चुलुकी कुण्डिकाभेदे शिशुमारे कुलान्तरे। चूतकः कृप आनेच चूलिका नाटिकाङ्गके ॥६४७ करिणः कर्णमूले च जनकः पितृभूपयोः । जम्बुको वरुणे फेरौ जतुकं हिङ्गलाक्षयोः ॥ ६४८ जतुका चर्मचटका जीवको वृद्धिजीविनि । क्षपणे प्राणके पीतसालसेवकयोर्दुमे ।। ६४९ व्यालग्राहे जीविका तु जीवन्त्यां वर्तनेऽपि च । झिल्लीका झिल्लिकावत्स्याचीर्या रुच्यातपस्य च६५० विलेपनस्य च मले तक्षकस्तक्ष्णि पन्नगे । द्रुमभेदे तण्डकस्तु समस्तपदजातके ॥ ६५१ तरुस्कन्धे वेश्मदारुमायावहुलयोरपि । फेनखञ्जनयोश्चापि तारकः कर्णधारके ॥ . ६५२ दैये च तारकमुडौ नेत्रतन्मध्ययोरपि । तिलकोऽश्वद्रुमभिदोः पुण्डके तिलकालके ॥ ६५३ तिलकं रुचके 'क्लोग्नि त्रिशङ्कः शलभे नृपे । माजीरे च तुरुष्कस्तु देशे श्रीवाससिल्हयोः॥६५४ तूलिका तूलशय्या स्यादालेख्यस्य च लेखनी । दर्शको दर्शयितरि प्रतीहारप्रवीणयोः ॥ ६५५ द्रावकस्तु शिलाभेदे स्याद्घोषकविदग्धयोः । दारको भेदके पुत्रे दीपकं स्यादलंकृतिः॥ ६५६ दीपको दीप्तिकृद्दीपौ दीप्यकं त्वजमोदके । मयूरशिखायवान्योर्धनिको धान्यके धवे ॥ ६५७ धनाढ्ये धनिका वध्वां धेनुका धेनुरिभ्यपि । धैनुकं धेनुसंहत्या करणेऽपि च योषिताम् ॥ ६५८ नरको दैत्यनिरयौ नन्दकः कुलपालके । हर्षके विष्णुखड्ने च नर्तकः केलके नटे॥ ६५९ द्विपे पोटगले चापि नर्तकी लासिका द्विपी। नालीकोऽज्ञे शरे शल्ये नाली पद्मद्वने ॥ ६६० नायको मणिभिन्नेतृप्रधानेष्वथा नालिका । नाले काले चुल्लिरन्ध्रे विवरे वेणुभाजने ॥ ६६१ निपाकः पचने स्वेदासत्कर्मफलयोरपि । निर्मोको व्योम्नि संनाहे मोक्षके सर्पकचके ॥ ६६२
१. 'खुल्लकः' ख-ग-ध. २. 'ग्रन्थिलो' ख. ३. 'मलिने' ग-घ. 'मलनं धारणम्' इति टीका. ४. 'पिण्डे' खग-घ. ५. 'चुलको' ख. ६. 'चतुष्की मशकहाँ पुष्करिण्यन्तरेऽपि च' इत्यधिकमितः प्राक् ख-ग-व. ७. 'चित्रकारे' ख-ग-घ. 'चित्रकायः श्वापदविशेषः' इति टीका. ८. 'चुल्लकी' ग-घ. ९. 'भूषयोः' ग-घ. १०. 'क्षेपणे' ख. 'क्षपणः श्रमणः' इति टीका. ११. समस्तपदपुस्तके' ग-घ. 'समस्तपद जातके कृतसमासपदसमूहे' इति टीका. १२. 'तालाङ्कः करपत्रे स्याच्छाकभेदेऽच्युताग्रजे। महालक्षणसंपूर्णपुरुषे कच्छपे हरे ॥' इत्यधिकमितः प्राक् ख-ग-घ. १३. 'लोम्नि' ग-घ. 'क्लोम हृदयस्य दक्षिणे उदयो जलाधारः' इति टीका. १४. 'स्यात्प्रो. षक' ग-घ. १५. 'र्दूषिका तूलिका स्मृता । नयनस्य मलेऽपि स्याद्धनिको' ख-ग-घ. १६. 'रित्यपि' ख-ग-घ. १७. 'नग्निकानृतुकन्यायां नमको जिनवन्दिनोः' इत्यधिकमितः प्राक् ख-ग-ध. १८. 'बन्धने' ख; 'वर्धने' ग-घ. १९, 'निराकः' ग-घ. २०. 'नीलिका नीलिनीक्षुद्ररोगशेफालिकास्वपि' इत्यधिकमितः प्राक् ख.
For Private and Personal Use Only
Page #102
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ त्रिस्वरकाण्डः।
२५ पैर्यको मञ्चपर्यस्त्योः प्रतीकोऽङ्गप्रतीपयोः।। पताकाङ्के ध्वजे केतौ सौभाग्ये नाटकांशके ॥ ६६३ पातुको जलमातङ्गे पतयालुप्रपातयोः । प्राणको जीवकतरौ सत्त्वजातीयबोलयोः ॥ ६६४ पाटको रोधसि ग्रामैकदेशेऽक्षादिपातके | वाद्यभेदे महाकिष्कौ मूल्यस्यापचयेऽपि च ॥ ६६५ पालङ्कः शाकभेदे स्यात्सल्लक्यां वाजिपक्षिणि । पिनाकः शिवकोदण्डे पांशुवृष्टित्रिशूलयो॥६६६ प्रियकस्तु चञ्चरीके नीपे कश्मीरजन्मनि । प्रियंगौ चित्रहरणे पीतसालतरावपि ॥ ६६७ पिष्टको नेत्ररोगे स्याद्धान्यादिचमसेऽपि च । पिण्याकः कुङ्कुमे हिङ्गौ सिल्हके तिलचूर्णके॥६६८ पुलको गैजान्नपिण्डे रोमाञ्चे प्रस्तरान्तरे । असुराज्यां मणिदोषे गल्वर्के तालके कृमौ.।। ६६९ पुलाको भक्तसिक्थे स्यात्संक्षेपासारधान्ययोः। पुष्पकं मृतिकाङ्गारशकट्यां रत्नकङ्कणे ॥ ६७० कासीसे श्रीदविमाने नेत्ररोगे रसाञ्जने । लोहकांस्ये रीरिकायां, पुत्रकः शरभे शठे ॥ ६७१ शैले वृक्षप्रभेदे च पुत्रिका यावतूलिके । पाञ्चालिकादुहित्रोच, पूर्णकः स्वर्णचूडके ॥ ६७२ पूर्णिका नासिकार्छिन्यां पृथुकश्चिपिटेऽर्भके । पृदाकुश्चित्रकव्याघ्रवृश्चिकेषु सरीसृपे।। ६७३ पेचकः करिलाङ्गलमूले घूकेऽथ पेटकम् । मञ्जूषायां समूहेच बहुको जलखादके ॥ ६७४ दात्यूहे कर्कटेऽर्केच बन्धूकः पीतसालके । बन्धुनीवे बन्धकस्तु सत्यकारेऽथ बन्धकी ।। ६७५ स्वैरिण्यां च करिण्यांच बालिका कर्णभूषणे । पिच्छोलायां बालुकायां बालायांभिस्मकं रुजि ६७६ विडङ्गे कलधौते च भ्रामकः फेरुधूर्तयोः । सूर्यावर्तेऽश्मभेदे च भालाङ्कः कच्छपे हरे ॥ ६७७ महालक्षणसंपूर्णपुरुषे करपत्रके । रोहिते शाकभेदे च भूतीकं कटफलौषधे ॥
६७८ यवान्यां धनसारे च भूनिम्बे भूस्तृणेऽपि च।। भूमिका तु रचनायां रूपान्तरपरिग्रहे॥ ६७९ मशकः क्षुद्रग्जन्तुभेदयोर्मधुकं त्रपु । मधुयष्टिश्च मधुको वन्दिश्रीवदपक्षिणोः॥ मण्डूकी मण्डूकपण्यो। मण्डूको भेकशोणको। मल्लिको हंसभेदो स्यान्मल्लिका कुसुमान्तरे ६८१ मीने मृत्पात्रभेदे च मातृका करणेश्वरे । मातृवर्णसमानायोपमातृष्वथ मालिका ॥ ६८२ पक्षिमल्ले सरि दे |वेये पुष्पदामनि। मेचकः श्यामले कृष्णे तिमिरे बर्हिचन्द्रिके॥ ६८३ मोचको मोक्षकदलीशिग्रुद्रुमविरागिषु ।। मोदको हर्षले खाद्ये यमको यमजे व्रते.॥ ६८४ यमकं वागलंकारे याजको रॉजकुञ्जरे । याज्ञिके च युतकं तु यौतके युग्मयुक्तयोः ॥ ६८५ संशये चलनाग्रे स्त्रीवस्त्रभेदे पटाञ्चले। रजको धावकशुकौ रसिका कटिसूत्रके ॥ ६८६ रसनायां रसालायां त्रिकं पञ्चरात्रके । रात्रकस्तु पणवधू गृहान्तवर्षवासिनि ॥ ६८७ राजिका पतौ रेखायां केदारे राजसपे । रुचकं तु मातुलुङ्गे निष्के सौवर्चलेऽपि च ॥ ६८८
१. 'पद्मकः स्यात्पद्मकाष्ठे बिन्दुजालकयोरपि । पक्षकस्तु पार्श्वद्वारे पार्श्वमात्रेऽपि कथ्यते ॥' इत्यधिकमितः प्राक् ख-ग-घ, २. 'वालयोः' ख. ३. 'पावकोऽनौ सदाचारे वहिमन्थे च चित्रके । भल्लातके विडने च शोधयितृनरेऽपि च ॥' इत्यधिकमितः प्राक् ख-ग-घ. ४. 'पिटकः स्यात्तु विस्फोटे मञ्जूषायामपीष्यते' इत्यधिकमितः प्राक् ख-ग-घ. ५. 'यज्ञाङ्गखण्डे' ख. ६. 'असुराज्यां' ग-घ. ७. 'रीतिकायां' ख-ग-घ. ८. 'छित्त्यां' ग-घ. ९. 'बालकः पुनः । शिशौ मूर्खेऽश्वगजयोलधौ' इत्यधिकमितः प्राक् ख-ग-ध. १०. 'श्रीवह' ख. ११. 'मण्डूको भेकशोणयोः' ग घ. १२. 'मामकं तु मदीये स्यान्मामको मातुले स्मृतः' इत्यधिकमितः प्राक् ख-ग-घ. १३. 'हर्षके' ग-घ. १४. 'राजकुञ्जरो भूपश्रेष्ठः' इति टीका. १५. 'चलनाग्रे चण्डातकाग्रे' इति टीका. १६. 'रल्लकः कम्बले स्मृतः । तथैव कम्बलमृगे' इत्यधिकमितः प्राक् ख-ग-घ.
For Private and Personal Use Only
Page #103
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६
अभिधानसंग्रहः-८ अनेकार्थसंग्रहः । रूपकं नाटकायेषु काव्यालंकारधूर्तयोः।। रेणुका तु हरेण्वां स्याज्जमदग्नेश्च योषिति ॥ ६८९ लम्पाको लम्पटे देशेलासको केकिनर्तकौ । लूनकस्तु पशौ भिन्ने लोचको नीलवाससि ।। ६९० कज्जले मांसपिण्डेऽक्षितारे स्त्रीभालभूषणे । निर्बुद्धौ कर्णिकामोचाज्यासु भ्रूश्लथचर्मणि ॥ ६९१ वराकः शोच्यरणयोर्वर्तकोऽश्वखुरे खगे। वञ्चको जम्बुके गेहनकुले खलधूर्तयोः॥ ६९२ वैल्मीको नाकुवाल्मीक्यो रोगभेदेऽथ वर्णकः। विलेपने मलयजे चारणे वसुकं पुनः ॥ ६९३ रोमको वसुकस्तु स्याच्छिवमयर्कपर्णयोः । व्यलीकं व्यङ्गवैलक्ष्याप्रियाकार्येषु पीडन ॥ ६९४ वार्षिकं त्रायमाणायां वर्षाभवेऽथा वाल्हिकः । देशभेदेऽश्वभेदे च वाल्हिकं हिङ्गु कुङ्कुमम् ॥६९५ वाल्हीकवद्वार्धकं तु वृद्धत्वे वृद्धकर्मणि । वृद्धानां समवाये च वालुकं हरिवालुके॥ ६९६ वालुका तु सिकतासु-वितर्कः संशयोहयोः। विपाकः परिणामे स्यादुर्गतिस्वादुनोरफि॥ ६९७ विवेकः पुनरेकान्ते जलद्रोणीविचारयोः । वृषाङ्कः साधुभल्लातशंकरेषु महलके ॥ ६९८ वृश्चिकस्तु द्रुणे राशावौषधे शूककीटके । वैजिक कारणे शिग्रुतैले चा वैजिकोऽङ्करे ॥ ६९९ शङ्ख वलये कम्बौ। शङ्खकस्तु शिरोरुजि.। शम्पाकस्तु विपाके स्याद्यावके चतुरङ्गुले ॥ ७०० शम्बूको दैत्यविशेषे करिकुम्भान्तशङ्ख्योः। शलाका शारिका शल्यं श्वाविदालेख्यकर्चिका॥७०१ छत्रपञ्जरकाष्ठीषु शल्लकी श्वाविधि द्रुमे।। शार्ककः स्याहुग्धफेने शर्करायाश्च पिण्डके॥ ७०२ शिशुकः पादपे बाले शिशुमारेऽथ शीतकः । शीतकालेऽलसे स्वस्थे शूककः प्रावटे रसे॥७०३ स्वस्तिको मङ्गलद्रव्ये गृहभेदचतुष्कयोः । स्यमीकः पादपे नाकौ स्यात्स्यमीका तु नीलिका||७०४ सरको मदिरापात्रे मदिरापानमद्ययोः । सस्यको नालिकेरान्तः सस्याभमणिखड्गयोः ॥ ७०५ संपर्कः सुरते पृक्तौ सायको बाणखड्गयोः । स्थासको हस्तबिम्बे स्यात्स्फुरकादेश्च बुद्धदेो । ७०६ सूतकं जन्मनि रसे सूचकः शुनि दुर्जने । कथके सीवनद्रव्ये मार्जारे वायसेऽपि च॥ ७०७ सृदाकुर्वत्रे दावाग्नौ प्रतिसूर्ये समीरणे। सेवकोऽनुगे प्रसेके सेचकः सेक्तृमेघयोः॥ ७०८ हारको गद्यविज्ञानभिदोः कितवचौरयोः । हुडुको मदमत्ते स्यादात्यूहे वाद्यभिद्यपि ॥ ७०९ हेतुकस्तु महाकालगणवुद्धविशेषयोः । गोमुखं वाद्यभाण्डे स्याल्लेपने कुटिलौकसि॥ ७१० त्रिशिखो रक्षस्त्रिशिखं स्याकिरीटत्रिशूलयो । दुर्मुखो मुखरे नागराजे वाजिनि वानरे ॥ ७११ प्रमुखं प्रथमे मुख्यो मयूखा ज्वालरुक्त्विषः। विशिखा खनित्रिकायां रथ्यायां विशिखः शरे७१२ विशाखो याचके स्कन्दे। विशाखा भे कठिल्लके । वैशाखः खजके रांधे सुमुखो गरुडात्मजे ७१३ पण्डिते फणिभेदे। स्यादयोगः कठिनोद्यमे । विश्लेषे विधुरे कूटेऽपाङ्गो नेत्रान्तपुण्ड्योः ॥ ७१४ अङ्गहीनेऽप्यनङ्गं खे चित्तेऽनङ्गस्तु मन्मथे। आभोगः परिपूर्णत्वे वरुणच्छत्रयनयोः ॥ ७१५ आयोगो गन्धमाल्योपहारे व्यापृतिरोधयोः। आशुगोऽर्के शरे वायावुत्सर्गस्त्यागदानयोः॥७१६ वर्जने सामान्यविधावुद्वेगं पूगिकाफले। उद्वेगस्तूद्वेजने स्याकलिङ्गो नीवृदन्तरे ॥ ७१७ पूतीकरञ्जे धूम्याटे स्यात्कलिङ्गा नितम्बिनी । कलिङ्ग कोटजफले। कालिङ्गस्तु भुजङ्गमे ॥ ७१८ द्विरदे भूमिकर्कारौ कालिङ्गी राजकर्कटी।। चक्राङ्गः श्वेतगरुति चक्राङ्गी कटुरोहिणी ॥ ७१९
१. 'नाटके प्रोक्तं' ख-ग-घ. २. 'ज्याभूप्रश्लथ' ख-ग-घ. ३. 'व्यलीकं व्यङ्गवैलक्ष्याप्रियाकार्येषु पीडने' इतीतः प्राक् ख-ग-घ. ४. 'वारणे' ख. ५. 'महलकः सौविदलः' इति टीका. ६. 'प्रवृद्धोऽवटः कूपः' इति टीका. ७. 'समीहा तु' ख. ८. 'मद्ययोः' ख. ९. 'हाटको' ख. १०. 'मासे' ख, ११. 'स्तिमिते शी. प्रगामिनी । उद्वाहौ च भयेऽपि स्यात्' इत्यधिकमितः प्राक् ख-ग-ध.
For Private and Personal Use Only
Page #104
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ त्रिस्वरकाण्डः |
२७
७२१
ू
७३०
1
७३१
जिह्मगो मन्द सर्पेतुरगो वाजिचित्तयोः । तुरगी त्वश्वगन्धायां धाराङ्गस्तीर्थखङ्गयोः। ।। ७२० नैरङ्गं शफे वरण्डे, नारङ्गं विटजन्मिनोः । कणारसे नागरङ्गे निषङ्गस्तूणसङ्गयो ॥ 1 निसर्गः सृष्टौ स्वभावे प्लॅवगः कपिभेकयोः | अर्क सूते पन्नगस्तु पद्मकाष्ठे भुजङ्गमे । ॥ परागश्चन्दने रेणौ गिरौ ख्यात्युपरागयोः । स्नानीयपुष्परजसोः पतङ्गः सूर्यपक्षिणोः ॥ पारते शलभे शालौ पत्राङ्गं रक्तचन्दने । भूर्जपद्मकयोश्चापि प्रयागो वाजिशकयोः ॥ यज्ञे तीर्थविशेषे च प्रयोगस्तु निदर्शने । कार्मणे च प्रयुक्तौ च प्रियङ्ग राजसर्षपे ॥ I ७२५ पिप्पल्यां फलिनीकङ्ग्वोः पुन्नागः पादपान्तरे । जातीफले नरश्रेष्ठे भुजङ्गः सर्पषिङ्गयोः ॥ ७२६ मातङ्गः श्वपचो हस्ती, मृदङ्गो घोषवाद्ययोः । रक्ताङ्गो भौमे रक्ताङ्गं कम्पल्ये विद्रुमेऽपि च ७२७ रक्ताङ्गा जीवन्तिकायां रथाङ्गः कोकपक्षिणि । रथाङ्गं चक्रे वराङ्गं योनौ शीर्षे गुडत्वचि ७२८ कुञ्जरे च विडङ्गस्तु स्यादभिज्ञकृमिघ्नयोः । विसर्गो विसर्जनीये वर्चसि त्यागदानयोः ॥ ७२९ संभोगो भोगरतयोः शुण्डायां । सर्वगं जले। सर्वगस्तु विभौ रुद्रे सारङ्गी विहगान्तरे ॥ चातके चञ्चरीके च द्विपैणशबलेषु च । अमोघः सफले मोघा पुनः पथ्याविडङ्गयोः ॥ अनघः स्याद्वतपापे मनोज्ञे निर्मलेऽपि च । उल्लाघो निपुणे हृष्टे शुचिनीरोगयोरपि ॥ ७३२ काचिस्तु मूषके स्याच्छान्तकुम्भे छेमण्डके । परिघोऽत्रे योगभेदे परिघातेऽर्गलेऽपि च ॥ ७३३ पलिघः काचकलशे घटे प्राकार गोपुरे । प्रतिघौ रुट्प्रतीघातौ महार्घो लावकाण्डजे || ७३४ महामूल्येऽप्यवीचिस्त्वतरङ्गे नरकान्तरे । कवचस्तु तनुत्राणे पटहे नन्दिपादपे || क्रकचः करपत्रे स्याग्रन्थिलाख्यतरावपि । कणीचिः पुष्पितलतागुञ्जयोः शकटेऽपि च ॥ ७३६ नमुचिर्दितिजे का नाराचो लोहसायके । जैलेभेो नाराच्येषण्यां' प्रपञ्चो विप्रलम्भने || ७३६ विस्तारे संचये चापि मरीचिः कृपणे घृणौ । ऋषिभेदे च मारीचः ककोले योजकद्विपे || ७३७ 1 रक्षोभेदेऽथाण्डजः स्यात्कंकिण्डेऽहौ खगे झपे | अण्डजा तु मृगनाभावङ्गजो मन्मथे सुते ७३८ मदेकेशेऽङ्गजं रक्त कम्बोजो नीवृदन्तरे । शङ्खहस्तिभेदयोश्च । करजो नखवृक्षयोः ॥ काम्बोजः पुनरश्वानां भेदे पुंनागपादपे । वलक्षखदिरे चापि काम्बोजी माषपर्णिका ॥ कारुजः कलमे फेने वल्मीके नागकेसरे । गैरिके शिल्पिनां चित्रे स्वयंजाततिलेऽपि च ० ॥ ७४१ 1 कुटजोऽस्ये भेदे द्रोणे गिरिजम के । शिलाजतुनि लोहे च गिरिजा मातुलुङ्गयुमा ॥ ७४२ जलजं कमले शङ्खे नीरजं पद्मकुष्ठयोः । परञ्जोऽसौ तैलयत्रे क्षुरिकाफलफेनयोः ॥ बाहुजस्तु स्वयंजाततिले क्षत्रियकीरयोः ।। भूमिजौ नरकाङ्गारौ । भूमिजा जनकात्मजा० ॥ बलजं गोपुरे सस्ये क्षेत्रसंगैरयोरपि । सदाकारे बलजा तु पृथिव्यां वरयोषिति ॥
७३५
1
७३९
७४०
७४३ ७४४
७४५
For Private and Personal Use Only
७२२
_७२३
७२४
१. ‘मदने' ग-घ. २. ‘नराङ्गः' ग घ ३. 'स' ग घ ४. 'नीलाङ्गुः कृमिजातिके । भम्भराल्यां प्रसूने च' इत्यधिकमितः प्राक् ख ग घ ५. 'पद्मकोष्ठे' ख ग घ ६. 'कर्मणि' ग घ ७. 'खिङ्गयोः ' ख. ८. 'दुष्टे' ग घ. ९. 'शेमण्डके' ग घ 'छमण्डकः प्रदेशविशेष:' इति टीका. १०. 'वीचिस्तु तरङ्गे' ख; 'वीचिस्तर' ग घ. ११. 'जलहस्ती' इति टीका. १२. 'याज्ञिकद्विजे' ख ' याजकस्य द्विपः' इति टीका. १३. 'प्यण्डजः' ख. १४. 'च्छरटे' ग-ध. 'कक्विण्ड: कृकलासः' इति टीका. १५. 'मृगनाभ्यां स्याद' ख; 'तु मृगीनाभ्यां' ग-घ. १६. 'सुन्दरे च कम्बोजो' ख. १७. 'संगमयोर' ख.
१. मेदिन्यामपि 'काचिघः काञ्चनेऽपि स्याच्छेमण्डे मूषकेऽपि च' इत्येकारप्रथम एव दृश्यते.
Page #105
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८
अभिधानसंग्रहः-८ अनेकार्थसंग्रहः । बनजो मुस्तके स्तम्बेरमे वनजमम्बुजो । वनजा तु मुद्गपर्यो सहजः सहसंभवे ॥ ७४६ निसर्गे च सामजस्तु सामोत्थे कुञ्जरेऽपि च । हिमजो मेनकापुत्रे, हिमजा पार्वती शढी ॥ ७४७ क्षेत्रज्ञावात्मनिपुणौ दोषज्ञः प्राज्ञवैद्ययोः । सर्वज्ञस्तु जिनेन्द्रे स्यात्सुगते शंकरेऽपि च॥ ७४८ अवटः कृपखिलयोर्गर्ते कुहकजीविनि ।। अरिष्टो लशुने निम्बे फेनिले कङ्ककाकयोः ॥ ७४९ अरिष्टं सत्यगारेऽन्तचिह्न तके शुभेऽशुभे, अवटुर्गन्धुिघाटासूत्कटस्तीव्रमत्तयोः ॥ ७५० उच्चटा दम्भचर्यायां प्रभेदे लशुनस्य च । करटः करिगण्डे स्यात्कुसुम्भे निन्द्यजीवने ॥ ७५१ काके वाद्ये दुर्दुरुढे नवश्राद्धेऽथ कर्कटः । कुलीरे करणे स्त्रीणां राशौ खगेऽथ:कर्कटी॥ ७५२ शाल्मलीफलवालुङ्कयोः कार्यटो जतुकार्यिणोः।। कीटकः कृपणे निःस्वे देशभेदे तुरङ्गम।। ७५३ कुरण्टो झिण्टिकाभेदे। कुरण्टी दारुपुत्रिका, । कुक्कुटः कुक्कुभे ताम्रचूडे वह्निकणेऽपि च ॥ ७५४ निषादशूद्रयोः पुत्री कृपीटस्तूदरे जले,। चक्राटो धूर्ते दीनारे विषवैद्येऽथा चर्पटः॥ ७५५ चपेटे स्फारविपुले पर्पटे चिपुटः पुनः । पृथुके पिच्चटेऽपि स्याच्चिरण्टी तु सुवासिनी ॥ ७५६ तरुणी च जकूटस्तु वार्ताककुसुमे शुनि । यमले व्यङ्गटो धौताञ्जन्यां शिक्यभिदीश्वरे ।। ७५७ त्रिकूटं सिन्धुलवणे त्रिकूटस्तु सुवेलके । त्रिपुटौ तीरसातीनौ त्रिपुटा त्रिवृदौषधौ ॥ ७५८ सूक्ष्मैलायां मल्लिकायां द्रोहाटो मृगलुब्धके । चतुष्पदीप्रभेदे च विडालत्रतिकेऽपि च ॥ ६५९ धाराटश्चातकेऽश्वे च निर्दटो निष्प्रयोजने । निर्दयेऽन्यदोषरते. निष्कुटो गृहवाटिका ।। ७६० केदारकः कपाटश्च पर्पटो भेषजान्तरे । पिष्टविकृतौ परीष्टिः परीक्षापरिचर्ययोः॥ ७६१ स्यात्पर्कटी प्लक्षतरौ पूगादेनूतने फले।। पिच्चटस्तु नेत्ररोगे पिच्चटं त्रपुसीसयोः।॥ ७६२ वर्वटी व्रीहिभिद्वेश्या भाकूटः शैलमीनयोः । भावाटो भावके साधुनिवेशे कामुकेऽपि च ॥ ७६३ मर्कटस्तु कपावर्णनाभे स्त्रीकरणान्तरे।। मर्कटी करञ्जभेदे शूकशिम्ब्यथा मोरटम् ॥ ७६४ सप्तरात्रात्परे क्षीरेऽङ्कोष्टपुष्पेक्षुमूलयोः । मोरटा तु मूर्विकायां, मोचाटः कृष्णजीरके ॥ ७६५ चन्दने कदलीग: वर्णाटश्चित्रकारिणि । गायने स्त्रीकृताजीवे वरटा हंसयोषिति ॥ ७६६ गन्धोल्यां चाथ विकटः कराले पृथुरम्ययोः।। वेकटो जाततारुण्ये मणिकारेऽथा वेरटः ॥ ७६७ मिश्रीकृते च नीचे चावेरटं वैदरीफले । शैलाटो देवले शुक्लकाचे सिंहकिरातयोः ॥ ७६८ संसृष्टं तु संगते स्याच्छुद्धे च वमनादिना । अम्बष्ठो विप्रतो वेश्यातनये नीवृदन्तरे।॥ ७६९
१. 'शची' ग-घ. २. 'न्तश्चिद्दे' ख-ग-ध. 'अन्तचिढे मरणचिढ़े' इति टीका. ३. 'धर्तदीनारविष' ग-ध. ४. 'पिच्चटे खाद्यभेदे स्याद्विस्ततावपि । चिरण्टी तु सुवासिन्यां स्याद्वितीयवयःस्त्रियाम् । जकुटं वार्ताकपुष्पे जकुटो मलये शुनि । व्यङ्गट शिक्यभेदे स्याद्धौताञ्जन्यामाप स्मृतम् ।' ख. ५. 'यमलं युग्मम्' इति टोका. . 'स्याचैव पिष्टविकृतौ परीक्षा' ग-घ. ७. 'स्यात्पर्पटी' ख; 'स्यात्कर्कटी' ग-घ. 'पृच्यते पर्कटी' इति टीका. ८. 'कावटः कान्तिपुञ्जके । वारुण्डे मकरे पोते भाकूटः' ख. ९. 'भार्याटः पटहाजीवे लोभात्स्वस्त्रीसमर्पके । भावाटः' ख. १०. 'नटे' ख. ११. 'चीवा वानरी । बीजं च राजकर्कट्या प्राचीनामल. कस्य च । गवेधुकाफलं चापि चक्राङ्गी करजान्तरम् । मोरटं त्विक्षुमूले स्यादकोटकुसुमेऽपि च । सप्तरात्रात्परक्षीरे मो. रटा मूर्विका मता। मोचाटः कदलीगर्भ चन्दने कृष्णजीरके । रवटो दक्षिणावर्तशले जाङ्गलिकेऽपि च । रेवटो मोरटे रेणौ स्याद्वातूलवरायोः । वर्णाटो गायने चित्रकारे स्त्रीकृतजीवने । वरटा हंसयोषायां गन्धोल्यां विकटः पृथौ। कराले सुन्दरे चारे वेकटो जातयौवने । वैकटिके मणिकारे वेरटो मिश्रनीचयोः । वेरटं बदरीफले शैलाटो मृगवैरिणि । शुक्लकाचे किराते च देवले गिरिवारिणि । संसृष्टं' ख. 'म्ब्यां च मोरटम्' ग-घ. १२. 'मूले' ग-घ. १३. 'पृथुले' ग-घ. १४. 'वरटी' ग-घ. १५. 'हर्मटः कच्छपे प्रोक्तः सहस्रकिरणेऽपि च । अम्बष्ठो' ख.
For Private and Personal Use Only
Page #106
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ त्रिखरकाण्डः ।
२९
७७१
७७२
७७४
७७५
अम्बष्ठा स्यादम्ललोयां पाठायूथिकयोरपि । कनिष्ठोऽल्पेऽनुजे यूनि कनिष्ठा त्वन्तिमाङ्गुलौ ७७० कमठः कच्छपे दैत्यविशेषे मुनिभाजने । जरठः कर्कशे जीर्णे नर्मठौ षिङ्गचचुकौ ॥ प्रकोष्ठः कूर्पराधस्ताद्भूपकक्षान्तरेऽपि च । हस्ते च विस्तृत करे । प्रतिष्ठा गौरवे स्थितौ | छन्दोजातौ योगसिद्धौ मकुष्ठौ धान्यमन्धरौ । लघिष्ठो भेलकेऽल्पे / स्याद्वरिष्ठस्तु तित्तिरौ/७७३ वरिष्ठं मरिचे ताम्रे वरोरुतमयोरपि । । वैकुण्ठो वासवे विष्णौ श्रीकण्ठः कुरुजाङ्गले ॥ शंकरे चाथ साधिष्ठोऽत्यायें दृढतमेऽपि च । कारण्डो मधुकोशेऽसौ कारण्डवे दलाट कूष्माण्डौ गणकर्कारू कूष्माण्ड्या वम्बिकौषधी, । कोदण्डः कार्मुके देशभेदे भ्रूलतयोरपि ।। ७७६ गारुडं तु मरकते विषशास्त्रेऽथ तित्तिङः । दैत्यभेदे तित्तिडी तु कालदासे महीरुहे || ७७७ तिन्तिडी चुके चिञ्चायां निर्गुण्डी सिँन्दुवारकः । नीलशेफाल्यब्जकन्दः प्रचण्डः स्यात्प्रतापिनि ।। वलक्षकरवीरेऽपि प्रकाण्डः स्तम्बशस्तयोः । स्कन्धमूलान्तरे च द्रोः पिचण्डोऽवयवे पशो || ७७९ उदरे चाथ पूत्यण्डो गन्धैणे गन्धकीटके । भेरुण्डौ भीषणखगौ । भेरुण्डा देवताभिदि ॥ ७८० मारण्डोऽण्डे भुजङ्गानां मार्गे गोमयमण्डले । मार्तण्डस्तरणौ कोडे वरण्डो वेदनामये ।। ७८१ अन्तरावेदौ संघेच वर्तण्डा शारिका क्षुरी । वर्तिर्वारुण्डस्तु कर्णदृग्मले सेकभाजने ॥ ७८२ 'णिस्थराजे वितण्डा कच्छीशाके शिलाह्वये । करवीय वादभेदे शिखण्डो बर्हचूडयोः ॥ ७८३ सैरण्डः स्यात्कृकलासे भूषणान्तरधूर्तयोः । अध्यूढ ईश्वरेऽध्यूढा कृतसापत्न्ययोषिति ।। आषाढो मलयगिरौ 'तिदण्डे च मासि च । उपोढ ऊढे निकटेऽप्युदूढः पीवरोढयोः ॥ ७८५ प्ररूढो रठे वृद्धे, प्रगाढो दृढकृच्छ्रयोः । वारूढः शबले वाचलेऽमौ पञ्जरेऽरेरौ ॥ ७८६ विरूढ जाते विगूढो गर्ह्यगुप्तयो । समूढः पुञ्जिते सद्योजाते भुमेऽनुपलुते ॥ ७८७ 'संरूढोऽङ्कुरिते प्रौढेरुणोऽर्केऽनूरुपिङ्गयोः । संध्यारागे 'बुंधे कुठे निःशब्दाव्यक्तरागयोः ॥ ७८८ अरुणा त्रिवृति श्यामामञ्जिष्ठातिविषासु च । अभीक्ष्णं तु भृशं नित्यमीरिणं शून्य ऊषरे | ॥ ७८९
७८४
१. 'अम्बठा' ग-घ. २. 'योग' ग घ ३. 'कूष्माण्डी त्वम्बकौषधी' ख ४. 'विषोद्भवे । तरण्डो विसिनीसूत्रबद्धवस्तुनि भेलके । तित्तिsो दैत्यभेदे स्याद्यमदासेऽथ तित्तिडी । कालदोषे पादपे चतिन्तिडी चुचिञ्चयोः । द्रविडो वेधमुख्ये स्यान्नीवृदन्तरशङ्खयोः । निर्गुण्डी नीलशेफाली सिन्दुवारोSoकन्दुकः । प्रचण्डो दुर्वहे श्वेतकरवीरे प्रतापिन । प्रकाण्डो विटपे शस्ते मूलस्कन्धान्तरे तरोः । पिचण्डो जठरे प्रोक्तः पशोरवयवेऽपि च । पूत्यण्डः स्याद्गन्धमृगे सर्पभिगन्धकीटयोः । भेरुण्डौ' ख. ५. 'तिन्तिडीके' ग घ. ६. 'सिन्धुवारकः' गन्ध. ७. 'तरोः ' ग घ ८. 'मेरुण्डा' ग घ ९ ' मारण्डस्तु भुजङ्गाण्डे' ख. १०. 'वदनव्यथा' ख. ११. 'वेदिसंघौ' ख १२. 'अवतनोतीति वतण्डा' इति टीका. वरण्डा' ख ग घ १३. 'गणिराजद्वारपिण्ड्योर्वार्तण्डः खग उष्ट्रिणि । वितण्डा वादभेदे स्यात्कच्छीशा के शिलाह्वये । करवीर्यामपि प्रोक्तः शिखण्डो' ख. १४. 'सरति सरण्ड : ' इति टीका. 'शरण्ड : ' ग घ १५ ' व्रतिनां दण्डे मासे च मलयाचले' ख. १६. 'जठरे' ग घ १७. 'अररे' ख. 'अररि: कपाटम्' इति टीका. १८. 'संमूढोमूत्र घने । अभीक्ष्णं तु भृशे नित्येऽप्यरुणोऽनूरुपिङ्गयोः । संध्या- ' ख. १९. 'कुष्टभेदे' ग-घ. २०० 'व्याकुले कपि वर्णे रक्तवर्णेऽपि वाच्यवत् । अरुणा' ख. २१. 'त्रिवृता' ख. २२. 'अरणिस्तु भवेदग्निमन्थे निर्मयदारुणि । इन्द्राणी तु शचीसिन्दुवारयोः करणे स्त्रियाः । ईरिणं तूपरे शून्येऽपीक्षणं दर्शने दृशि । ऊषणा तु कणायां स्यादूषणं मरिचे मतम् । एषणी व्रणमार्गानुसारिण्यां च तुलाभिदि । कङ्कणं करभूषायां हस्तसूत्रे च शेखरे । कत्तृणं रौहिषं फङ्गा कल्याणं हेम्नि मङ्गले । करणः शूद्यां विट्पुत्रे करणं क्षेत्रगात्रयोः । गी
For Private and Personal Use Only
Page #107
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
अभिधानसंग्रहः-८ अनेकार्थसंग्रहः । इन्द्राणी शच्यां निर्गुण्ड्यां स्त्रीकरणेऽप्यथोषणा । कणोषणं तु मरिचे करुणो रसवृक्षयो।॥७९० करुणा तु कृपायां: स्यात्करणं क्षेत्रगात्रयोः । गीताङ्गहारसंवेशभित्सु कायस्थसंहतौ ॥ ७९१ वर्णानां स्पष्टतादौ च योगिनामासनादिषु । हृषीके साधकतमे ववादौ च कृतावपि ॥ ७९२ करणः शूद्राविटपुत्रे कङ्कणं करभूषणे । मण्डने हस्तसूत्रे च कल्याणं हेम्नि मङ्गले ॥ ७९३ कत्तृणं रौहिषं फङ्गा करेणुस्तु मतङ्गजे । द्विरदस्य च योषायां कर्णिकारतरावपि । ७९४ कारणं घातने हेतौ करणे कारणा पुनः । यातना कार्मणं मन्त्रादियोगे कर्मकारके॥ ७९५ काकणी मानदण्डस्य तुरीयांशे पणस्य च । कृष्णलायां वराटे।च कृपाणी कर्तरी छुरी॥ ७९६ कृपाणोऽसौ क्षेपणी तु नौदण्डजालभेदयोः।। कोकणः स्याज्जनपदो कोङ्कणं त्वायुधान्तरे ॥ ७९७ ग्रहणं स्वीकृतौ वन्द्यां धीगुणे शब्द आदरे । ग्रहोपरागे प्रत्यायो ग्रामणीः क्षुरमर्दिनि ॥ ७९८ प्रधाने भौगिके पत्यौ ग्रामिणी पण्ययोषिति । ग्रामेय्यां नीलिकायां चा गोकर्णः प्रमथान्तरे ॥७९९ अङ्गुष्ठा नामिकोन्माने मृगेऽश्वतरसर्पयोः।। गोकर्णी तु मूर्विकायां चरणो मूलगोत्रयोः ॥ ८०० बढचादौ च पादे चाचरणं भ्रमणेऽदने । जरणो रुचके हिङ्गौ जीरके कृष्णजीरके॥ ८०१ तरुणः कुजपुष्पे स्यादेरण्डे यूनि नूतने। तरणिस्तरणेऽऽसौ कुमार्योषधिनौकयोः ॥ ८०२ यष्टावब्धौ दक्षिणस्तु परच्छन्दानुवर्तिनि । दक्षेऽपसव्ये सरलेऽपाचीनेऽप्यर्थ दक्षिणा ॥ ८०३ दिक्प्रतिष्ठा यज्ञदानी हुँघणः पशुवेधसोः । मुद्गरेऽप्यथा दुर्वर्ण कलधौतकुवर्णयोः॥ ८०४ दौर्वीणं मृष्टपणे स्याद्धरितालीरसेऽपि च । धरणोऽहिपती लोके स्तने धान्ये दिवाकरे॥ ८०५ धरणं धारणे मानविशेषेधरणी भुविः। धर्षणं रतेऽभिभके धर्षणी त्वभिसारिका॥ ८०६ धिषणस्त्रिदशाचार्यो धिषणा तु मनीषिका निर्याणं निर्गमे मोक्षगजापाङ्गप्रदेशयोः ॥ ८०७ निर्वाणं मोक्षनिर्वृत्योविध्याते करिमज्जने । निर्माणं सारनिर्मित्योः कर्मभेदे समअसे ॥ ८०८ निःश्रेणिरधिरोहिण्यां खरीपादपेऽपि च । प्रघणोऽलिन्दके ताम्रकलशे लोहमुद्रे'॥ ८०९ प्रवणस्तु क्षणे प्रह्वे क्रमनिम्ने चतुष्पथे । औयत्ते च प्रमाणं तु मर्यादासत्यवादिनोः ॥ ८१० प्रमातर्येकतेयत्तानित्येषु हेतुशास्त्रयोः।। पत्तोर्ण धौतकौशेये स्यात्पत्तोर्णस्तु शोणके ॥ ८११ पक्षिणी पूर्णिमाखग्योः शाकिनीरात्रिभेदयोः । प्रवेणिवेणिकुथयोः। पुराणं प्रत्नशास्त्रयो। ॥ ८१२
ताङ्गहारसंवेशभिक्षुकायस्थसंहतौ । वर्णानां स्पष्टतादौ च योगिनामासनादिषु । हृषीके साधकतमे ववादौ च कृतावपि । करुणा तु कृपायां स्यात्करुणो रसवृक्षयोः । करेणुर्गजहस्तिन्योः कर्णिकारतरावपि । कारणं' ख.
१. "कक्यते काकणिः । 'ककेणित्' इत्यणिः" इति टीका. 'काकिणी' ख-ग-घ. २. 'मानदण्डे स्यात्' ख. ३. 'हस्त' ग-ध. ४. 'ग्रहणी तु रुगन्तरे । ग्रामणी गिके पत्यौ प्रधाने क्षुरमर्दिनि । ग्रामणीः पण्ययोषा स्यादामेयी नीलिकापि च । गोकर्णोऽश्वतरे सपै मृगभेदे गणान्तरे । अङ्गुष्ठानामिकोन्माने गोकर्णी मूर्विकौषधौ । चरणो बड्डचादौ स्यात्पादे च मूलगोत्रयोः । चरणं भ्रमणे अक्षे रासभस्य ध्वनावपि । जरणो' ख. ५. 'ग्राम: पेटकं संवसथो वास्त्यस्या ग्रामिणी' इति टीका. 'ग्रामणीः' ख-ग-घ, ६. 'ग्रामेयायां' ग-घ. ७. 'द्रविणं काञ्चने धने । पराक्रमे बलेऽपि स्यादृषणः' ख. ८. 'पशु' ग-घ. ९. 'पृष्ट' ख. १०. 'द्रिपतौ' ग-घ. ११. 'धरुणः सलिले स्वर्गे परमेष्ठिनि धर्मणः । सर्पभेदे वृक्षभेदे धर्षणी त्वभिसारिका । धर्षणं स्यात्परिभवे धारणी नाटिकाभिदि । धारणा स्यात्तु योगाङ्गे धारणं ग्रहणे मतम् । धिषण' ख, 'धरणं' ग-घ. १२. 'विधाते' ख. 'विश्रान्ते' ग-ध. १३. 'आवर्ते ग-ध. १४. 'पत्तोर्णः शोणकद्रुमे' ख.
For Private and Personal Use Only
Page #108
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ त्रिस्वरकाण्डः |
३१
८१३
८१९
८२२
८२५
८२७
८२८
८२९
पुराणः षोडशपणे पूरणं वानतन्तुषु । पूरके पिष्टभेदे च ( पूरणी शाल्मलिद्रुमे ॥ प्रोक्षणं सेकवधयोर्भरणं वेतने भृतौ । भरणी शोणके भे च ) भ्रमणी स्यादधीशितुः ॥ ८१४ क्रीडादौ कारुण्डिकायां भीषणं सल्लकीरसे ॥ । भीषणो दारुणेऽर्गाठे मत्कुणोऽश्मश्रुपूरुषे ॥ ८१५ उद्दशे नारिकेरे च निर्विषाणगजेऽपि च । मसृणोऽकठिने स्निग्धे मसृणा स्यादतस्यपि ॥ मार्गणं याचनेऽन्वेषे/ मार्गणस्तु शरेऽर्थिनि । यन्त्रणं बन्धने त्राणे नियमे रमणं पुनः ॥ पटोलमूले जघने रमणो रासभे प्रिये । रोषाणो रोषणे हेमघर्षे पारद ऊषरे ॥ रोहिणी सोमवल्के भे कण्ठरोगोमयोर्गवि । लोहिताकटुरोहिण्योलवणो राक्षसे रसे ॥ अस्थिभेदे लवणा लिट्' लक्षणं नामचिह्नयोः ॥ लक्ष्मणं च लक्षणस्तु सौमित्रौ. लक्ष्मणो यथा ॥८२० लक्ष्मणः श्रीयुते'लक्ष्मणौषधौ सारसस्त्रियाम् । वरुणोऽर्केऽप्पतौ वृक्षे वरणो वरुणडुमे || ८२१ प्राकारेवरणं वृत्यां वाणः स्यान्मतङ्गजे । वारणं तु प्रतिषेधे ब्राह्मणं विप्रसंहतौ ॥ वेदे च ब्राह्मणो विप्रे वारुणी पश्चिमा सुरा । गण्डदूर्वा विषाणं तु शृङ्गे कोलेभदन्तयोः ॥ ८२३ विषाणी मेषशृङ्गयां स्याद्विपणिः पण्यहट्टयोः । पण्यवीथ्यां श्रमणस्तु निर्मन्थे निन्द्यजीविनि ||८२४ श्रवण नक्षत्रभेदे श्रवणं श्रवसि श्रुतौ ।। शरणं रक्षणे गेहे वधरक्षकयोरपि ॥ श्रीपर्णमग्निमन्थेऽब्जे श्रीपण शाल्मली हठे । संकीर्णौ निचिताशुद्धौ सरणिः श्रेणिमार्गयोः ॥ ८२६ सौरणः स्यादतीसारे दशकन्धरमत्रिणि ।। सिंहाणं तु घ्राणमलेऽयः किट्टे काचभाजने ॥ सुषेण विष्णु सुग्रीववैद्ययोः करमर्दके । सुवर्णं काञ्चने कर्षे सुवर्णाला मखान्तरे ॥ कृष्णागुरुणि वि॑िस्ते `च सुपर्णः कृतमालके । गरुडे खर्णचूडे च सुपर्णा विनताब्जिनी ॥ हरणं 'हृतौ दोष्ण यौतकादिधनेऽपि च । हरिणौ पाण्डुसारङ्गौ / हरिणी चारुयोषिति || ८३० सुवर्णप्रतिमायां च हरितावृत्तभेदयोः । हर्षणस्तु श्राद्धदेवे हर्षके योगरुग्भिदोः ॥ हरेणुः कुलयोषायां रेणुकायां सतीनके । हिरणं हिरण्यमिव वराटे हेनि रेतसिः ।। अमृतं यज्ञशेषेऽम्बुसुधामोक्षेष्वयाचिते । अन्नकाश्चनयोर्जग्धौ खे स्वादुनि रसायने ॥ घृते हृद्ये गोरसे चामृतो धन्वन्तरौ सुरे । अमृतामलकी पथ्यागडूची मागधीषु च ॥ अनृतं कर्षणेऽलीके चाक्षतं स्यादहिंसिते । षण्ढे लाजेष्वदितं तु वातव्याधौ हतेऽर्थिते ।। अजितस्तीर्थ बुद्धे विष्णावनिर्जिते । अच्युतो द्वादशस्वर्गे केशवाभ्रष्टयोरपि॥ अव्यक्तं प्रकृतावात्मन्यव्यक्तोऽस्फुटमूर्खयोः । । अनन्तं खे निरवधावनन्तस्तीर्थक्रुद्भिदि ॥ ८३७ fart शेषेऽप्यनन्ता तु गडूची भूर्दुरालभा । विशल्या लाङ्गली दूर्वा सारिवा हैमवत्यपि ॥। ८३८ २. 'अर्गाटोऽपामार्ग : ' इति टीका. 'गाढे' ग घ. ३. 'उद्देशे क्षुद्रजन्तौ' इति टीका. 'उद्देशे' ख ४. ' रुष्यति रोषाणः कल्याणपर्याणादयः इति साधुः' इति टीका. 'रोषणः क्रोधने' ख; 'रोषणोऽमर्षणे' ग घ ५. 'रोमोमयो' खः 'रोगान्तरे' ग घ ६. 'बले' ग घ. ७. 'अब्धि' ख. ८. 'ब्राह्मणी वाडवस्त्रियाम् । स्पृक्कायां पञ्जिकायां च वारुणी' ख. ९. 'श्रमणा सुलता मांसी मुण्डिनी च सुदर्शना । श्रवणो' ख. १०. 'निबिडा' ख. ११. 'सारणी त्वल्पसरिति प्रसारण्यौषधावपि । सिङ्घाणं' ख. १२. 'विस्तः षष्टिः पलशतानि' इति टीका. 'वित्ते' ख ग घ १३. 'सुवर्ण' ग- घ. १४. 'यौतकद्रव्येऽप्यङ्गहारे भुजे हृतौ' ख; 'च हृतौ' ग घ १५. 'शेषाम्बु' ख; 'शेषे तु सुधामोक्षाप्स्वयाचिते' ग-घ. १६. 'स्वे' ग ध १७. 'माधवी' ख. १८. 'थिनि' ख. १९. 'सर्गे' ग घ.
८३१
८३२
१६
१५
८३६
१. धनुश्चिद्वयान्तः पाठो गन्ध पुस्तकयोर्नास्ति
१३
For Private and Personal Use Only
८१६
८१७
८१८
८३३
८३४
८३५
Page #109
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिधानसंग्रहः-८ अनेकार्थसंग्रहः । अस्वन्तमशुभे क्षेत्रे चुल्लयामनवधौ मृतौ । अमतिः काले चण्डे, चाप्यङ्कतिर्वद्विवेधसोः ॥ ८३९ अग्निहोत्रिण्यगस्तिर्द्वमुन्योः स्याददितिर्भुवि । देवमातरि पार्वत्यामंहतिस्त्यागरोगयोः॥ ८४० आपातः पाते तत्कालेऽप्यादृतः सादरेऽचिते । आख्यातं भाषितेत्यादावाघ्राते प्रस्तर्शिविते.८४१ आप्लुतः स्नातके नातेऽप्यावर्तः पयसां भ्रमे । आवर्तने चिन्तने चानों जनपदे जने ॥ ८४२ समरे नृत्यशालायामाहतं तु मृषार्थके । गुणिते ताडिते चाप्याध्मातः शब्दितदग्धयोः ॥ ८४३ वातरोगेऽप्यथास्फोतः कोविदारार्कपर्णयोः।। आस्फोता गिरिका च वनमल्लथामथाचित:८४४ छादिते शकटोन्मेये पलानामयुतद्वये । संगृहीतेऽप्यथायस्तः क्लेशिते तेजिते हते ॥ ८४५ क्रुद्धे क्षिप्तेऽथायतिः स्यात्प्रभावोत्तरकालयोः । दैये सङ्गेऽप्याकृतिस्तु जातौ रूपे वपुष्यपि॥८४६ आयत्तिर्वासरे स्नेहे वशित्वे स्थाग्नि सीनि च । आसत्तिः संगमे लाभेऽप्यापत्तिः प्राप्तिदोषयोः॥ आपद्यपीङ्गितं तु स्यान्चेष्टायां गमनेऽपि च । उत्तप्तं चञ्चले शुष्कमांससंतप्तयोरपिः॥ ८४८ उचितं विदितेऽभ्यस्ते मिते युक्तेऽप्यथोत्थितम् । वृद्धिमत्प्रोद्यतोत्पन्नेषूदितं तूगतोक्तयोः॥ ८४९ उद्धृतं स्यादुत्तुलिते परिभुक्तोज्झितेऽपि च । उषितं व्युषिते प्Yष्टेऽप्युच्छ्रितं तूच्चजातयोः ॥ ८५० प्रवृद्धे स्यादथोद्वान्त उद्गीर्णे निर्मदद्विपे।। उदात्तो दातृमहतो«द्ये च स्वरभिद्यपि ॥ ८५१ उन्मत्तो मुचुकुन्दे स्याद्धत्तूरोन्मादयुक्तयोः।। उदन्तः साधौ वार्तायामुद्धातः समुपक्रमे ॥ ८५२ मुद्गरेऽभ्यासयोगाय कुम्भकादित्रयेऽपि च । पादस्खलन उद्रङ्गेऽप्युन्नतिस्ता_योषिति ॥ ८५३ उदये च समृद्धावाप्येधतुर्नरि पावके । क्रन्दितं रुदिते हूतौ कलितं विदिताप्तयोः ॥ ८५४ किरातः स्यादल्पतनौ भूनिम्बम्लेच्छयोरपि । किराती कुट्टिनी गङ्गा. कृतान्तोऽक्षेमकर्मणि॥८५५ सिद्धान्तयमदैवेषु। गर्जितो मत्तकुञ्जरे । गजितं जलदध्वाने ग्रन्थितं हतब्धयोः ॥ ८५६ आक्रान्ते च गरुत्मांस्तु विहगे पन्नगाशने । गभस्तिः स्याद्दिनकरे स्वाहाकिरणयोरपि ॥ ८५७ गोदन्तो हरिताले स्यात्संनद्धे दंशितेऽपि च । गोपतिः शंकरे षण्ढे नृपतौ त्रिदशाधिपे ॥ ८५८ सहस्रकिरणे चापि ज्वलितो दग्धभास्वरौ । जयन्तावैन्द्रिगिरिशौ जयन्त्युमापताकयोः॥ ८५९ जीवन्त्योमिन्द्रपुत्र्यां च जगती छन्दसि क्षितौ । जम्बूवप्रे जने लोके। जामाता दुहितुः पतौ ८६० सूर्यावर्ते वल्लभे च जीमूतो वासवेऽम्बुदे । घोषकेऽद्रौ भृतिकरे जीवन्ती शमिवन्दयोः ॥ ८६१ जीवन्यां च गडूच्यां च जीवातुर्जीवनौषधे । जीविते चा जृम्भितं तु विचेष्टितप्रवृद्धयोः ॥ ८६२ जम्भायां स्फुटिते चापि त्वरितो वेगतद्वतोः। त्रिगतॊ गणिते देशे त्रिगर्ता कामुकस्त्रियाम् ८६३ घुघुर्यामथः तृणता तृणत्वे कार्मुकेऽपि च । दंशितो वर्मिते दष्टे स्रवन्ती द्रवन्त्यपि ॥ ८६४ नद्यामौषधिभेदे च द्विजातिव॑ह्मणेऽण्डजे । दुर्जातं व्यसनासम्यग्जातयोरथ दुर्गतिः॥ ८६५ नरके निःस्वतायां च दृष्टान्तः स्यादुदाहृतौ । शास्त्रेऽथ निकृतं विप्रलब्धे विप्रकृतेऽधमे ।। ८६६ निरस्तः प्रेषितशरे संत्यक्ते त्वरितोदिते । निष्ठचूते प्रतिहते च निमित्तं हेतुलक्ष्मणोः ॥ ८६७ ___१. 'अश्मन्त' ख; 'अश्वन्त' ग-घ. २. 'स्यादन्तिकचिह्नवेधसोः' ख. ३. 'अग्निहोत्रेऽप्यगस्ति' ख. ४. 'संधिनि' ग-घ. ५. 'स्नाने' ख-ग-घ. ६. 'उद्त्तं' ग-ध. ७. 'दतुलिते' ख. ८. 'उद्रन्थे' ग-घ, ९. 'उद्धतौ' ख. १०. 'कपोतः पारावते स्यात्कवकाख्यविहंगमे । कापोतं मज्जने सूर्यो कपोतानां च संहतो। किरात: ख, ११. 'अथितं' ग-घ. १२. 'न्त्यां सिंहपुत्र्यां' ग-घ. १३. 'शाकभेदे' ख. १४. 'प्रवृद्धे च विचेष्टिते' ख. १५. 'स्फुरिते' ख. १६. 'तानितं स्तनिते वस्त्रे वाद्यभाण्डे गुणे स्तृतौ । त्रिगों' ख. १७. स्त्रियोः' ग-घ. १८ 'वद्रवन्त्यपि खः 'चन्द्रवत्यपि' ग-ध. १९. 'दारिद्ये नरके चापि' ख.
For Private and Personal Use Only
Page #110
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१४.
३ त्रिस्वरकाण्डः |
३३
८६८
८७२
८७३
८७४
निवातो वातरहिते दृढसंनाह आश्रये । निर्मुक्तो मुक्तनिर्माकभुजङ्गे निष्परिग्रहे/ || निशान्तं सदने शान्ते प्रभातेऽप्यथः निर्वृतिः । मोक्षे मृत्यौ सुखे सौख्ये निकृतिः शठशाठ्ययोः ॥ भर्त्सनेऽभिभवे क्षेपे' निर्ऋतिर्निरुपद्रवे | अलक्ष्म्यां दिक्पतौ चापि नियती दैवसंयमौ ॥ ८७० प्रभूतमुद्गते प्राज्ये प्रसूतं जातपुष्पयोः । प्रतीतः सादरे प्राज्ञे प्रथिते ज्ञातहृष्टयोः ॥ ८७१ प्रहतं विस्तृतौ क्षुण्णे पलितं पङ्कतापयोः । पक्ककेशे केशपाके पण्डितः सिल्हधीमतोः ॥ प्रणीत उपसंपन्ने कृते क्षिप्ते प्रवेशिते । संस्कृतामौ० पर्याप्तं तु शक्ते पूर्ण निवारणे ॥ यथेष्टे प्रसृतस्त्वर्धाञ्जलौ वेगिविनीतयोः । तते च प्रसृता जङ्घा प्रमीतं प्रोक्षितेऽमृते ॥ पर्यस्तं तु हते स्रस्ते प्रपातः सौप्तिके भृगौ । पर्वतो गिरिदेवयः पक्षतिः प्रतिपत्तिथौ ।। ८७५ पक्षमूले। प्रसूतिः स्यादपत्ये प्रसवेऽपि च । पद्धतिः पथि पङ्कौ च प्रकृतियनिशिल्पिनोः || ८७६ पौरामात्यादिलिङ्गेषु गुणसाम्यस्वभावयोः । प्रत्ययात्पूर्विकायां च प्रततिर्विसृतिर्लता । प्रवृत्तिर्वृत्तौ वार्तायां प्रवाहे प्रार्थितं हते । याचिते शत्रुसंरुद्ध पार्वती द्रुपदात्मजा || सल्लकी जीवनी गौरी पण्डितं गुणिते धने । पिशितं मांसं पिशिता मांसिका पीडितं पुनः ८७९ बाधिते करणे स्त्रीणां यन्त्रान्तर्मदितेऽपि च । प्रोक्षितं सिक्तहतयोर्भरतः शबरे नटे || क्षेत्रे रामानुजे शास्त्रे दौष्यन्तावृषभात्मजे । तन्तुवाये भारतं तु शास्त्रे द्वीपांशभिद्यपि । ॥ भारती पक्षिणीवृत्तिभिदोर्वाच्यथ भावितम् । वासिते प्राप्ते भासन्तो मे सूर्ये रम्यभासयो/ ८८२ मथितं निर्जलघोले व्यालोडितनिघृष्टयो: । मौलती युवतौ काचमाच्यां जातिविशल्ययोः ॥ ८८३ ज्योत्स्नायां निशि नद्यां च मुषितं खण्डिते हृते । मूर्च्छितं सोच्छ्रये मूढे रजतं दन्तिदन्तयोः ८८४ धवले शोणिते हारे दुर्वर्णे हृदशैलयोः । रसितं स्वर्णादिलिप्ते रुतस्तैनितयोरपि' | रेवती बभार्यायां नक्षत्रभिदि मातृषु । रैवतः स्यादुज्जयन्ते सुवर्णाला पिनाकिनः || रोहितो लोहिते मीने मृगे रोहीतकद्रुमे । रोहितमृजुशास्त्रे धीरे ललितमीप्सिते ॥ लडिते हारमेदे च लोहितो मङ्गले नदे | 'वर्णभेदे लोहितं तु कुङ्कुमे रक्तचन्दने || गोशीर्षे रुधिरे युद्धे वर्धितं छिन्नपूर्णयोः । प्रसृते वनितं तु स्यात्प्रार्थिते सेवितेऽपि च ॥ वनितोत्पादितात्यर्थ रोगनार्यपि नार्यपि । वसतिः स्यादवस्थाने निशायां सदनेऽपि च ||
८८० ८८१
८८५
८८६
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
८७७
2612
८८७
८८८
८८९
८९०
'शैलजाते' ख. ४.
६.
१. 'पुष्टौ ' ख २. 'सौस्थ्ये' ख. ३. 'केशस्य पाकः शौक्लयम्' इति टीका. 'तृसौ' ख; 'तृप्ते' ग घ ५. 'कृच्छे दोषे च पर्याप्तिः परिरक्षणे । प्राप्तौ कामे प्रसृतोर्धा' खे 'प्रयातः ' ग घ. ७. 'सौप्तिको रात्रिधारी' इति टीका. 'निर्झरे' ख. ८. 'अवटे पतने कृच्छ्रे. पक्षतिः प्रतिपत्तिथौ । पक्षमूले पर्वतस्तु देवर्षी धरणीधरे । प्रसूतिः प्रसवोत्पत्तिः पुत्रेषु दुहितर्यपि । पद्धति : ' ख ९ 'प्रवृत्तिर्वृत्तिवृत्तान्तप्रवाहेषु प्रवर्तते । प्रचित्तः शकटोन्मेये पलानामयुतद्वये । प्रकृतं तु प्रस्तुतेऽपि प्रकृतः प्रकृतिस्थिते । प्रार्थितं शत्रुसंरुद्धे याचिते निहतेष्टयोः । पार्वती सलकी गौरी जीवनी द्रुपदात्मजा । पिण्डितं गुणिते सान्द्रे पिशितं मांसवाचकम् । पिशिता मांसिकायां स्यात्पीडितं करणे स्त्रियाः । बाधिते यन्त्रसंमद्ये पुटितः स्यूतपाटिते । हस्तिपुढे पृषतस्तु मृगे बिन्दौ खरोहिते । श्वेतविन्दुयुतेऽपि स्यात्प्रेषितं प्रेरिते गते । प्रोक्षितं' ख. १०. 'पार्षती' ग घ . ११. 'धने' ग घ . १२. ' यन्त्रितं मर्दिते' ग घ १३. ' दौष्मन्तौ भरतात्मजे' ग-घ.१४. ‘र्याच्यथ' ख. १५. 'महती तु बृहत्यां स्याद्वीणायां नारदस्य च । मालती' ख. १६. 'मुहूर्त - मल्पकाले स्याद्धटिकाद्वितयेऽपि च । मूर्छितं ' ख. १७. 'स्वनित' गन्ध. १८. 'हरेऽसुरे' ख. १९. 'बलभेदे' ग घ. २०. 'वृद्धयोः ' ख.
Page #111
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिधानसंग्रहः-८ अनेकार्थसंग्रहः। व्रततिस्तु प्रतानिन्यां विस्तारेऽप्यथा वापितम् । बीनाकृते मुण्डिते चा व्याघातो योगविघ्नयोः ८९१ घातेऽथ व्यायतं दीर्घ व्यापतेऽतिशये दृढे । वासन्तः परपुष्टे स्यात्करभेऽवहिते विटे॥ ८९२ वासन्ती माधवीयूथी पाटलास्वथा वासितम् । वस्त्रछन्ने ज्ञानमात्रे भावितेऽप्यथा वासिता ।। ८९३ स्त्रीकरिण्योविवस्वांस्तु देवे सूर्येऽथ विश्रुतम् । ज्ञात हृष्टे प्रतीते च विदितं बुधिते श्रुते॥ ८९४ विगतो निष्प्रभे वीते विविक्तो वेसुनन्दके। विविक्तं स्यादसंपृक्ते रहः पूतविवेकिषुः॥ ८९५ विधुतं कम्पिते त्यक्ते विकृतो रोग्यसंस्कृतः । बीभत्सश्च विनीतस्तु निभृते निर्जितेन्द्रिये ॥ ८९६ वाणिजे साधुवाह्यश्वे विनयग्राहिते हृते । विनतः प्रणते भुग्ने विनता पिटकाभिदि ॥ ८९७ सुपर्णायां विहस्तस्तु विह्वले पंण्डकेऽपि च । विश्वस्तः कृतविश्वासे विश्वस्ता विधवा स्त्रियाम्८९८ विजातो विकृते जाते. विजाता तु प्रसूतिका । विवर्ती नर्तने संघेऽपावृतौ विकृती रुजि ॥८९९ डिम्बे विकारे मैद्यादौ विपत्तिर्यातनापदोः । विच्छित्तिः स्यादङ्गरागे हीवविच्छेदयोरपि ॥ ९०० विधाता द्रुहिणे कामे विनेता देशके नृपे । वृत्तान्तस्तु प्रकरणे कास्न्ये वार्ताप्रकारयोः ॥ ९०१ वृहती क्षुद्रवार्ताक्यां छन्दोवसनभेदयोः । महत्यां वाचि वार्धान्यां वेल्लितं कुटिले धुते ॥ ९०२ प्लुते वेष्टितं लसके रुद्धे स्त्रीकरणान्तरे । शकुन्तो विहगे भासे। श्रीपतिर्विष्णुभूपयोः॥ ९०३ शुद्धान्तः स्याद्रहः कक्षान्तरे राज्ञोऽवरोधने । संख्यावान्मितसुधियोः सरस्वानुदधौ नदे॥९०४ संवतः प्रलयेऽद्रौ संहतं मिलिते दृढे। स्खलितं छलिते भ्रशे, संस्कृतं लक्षणान्विते ॥ ९०५ भूषिते कृत्रिमे शस्ते संघातो घातसंघयोः। "संहिता वर्णसंयोगे शास्त्रवेदैकदेशयो॥ ९०६ स्थपतिः सौविदेऽधीशे बृहस्पतीष्टियज्वनि । कारुके च संततिस्तु तनये दुहितर्यपि ॥ ९०७ परम्पराभवे पङ्को गोत्रविस्तारयोरपि । संनतिः प्रणतिध्वन्योः संगतिर्ज्ञानसङ्गयोः ॥ ९०८ संमतिर्वाञ्छानुमत्योः समितियुधि संगमे । साम्ये सभार्यामीर्यादौ संवित्तियविवादयोः ॥ ९०९ स्थापितं निश्चिते न्यस्ते स्तिमितौ क्लिन्ननिश्चलौ। सिकताः स्युर्वालुकायां सिकता सैकते रुजि॥ सुकृतं तु शुभे पुण्ये सुविधानेऽथा सुव्रता । सुखदोह्यसौरभेय्यां सुव्रतोऽर्हति सद्रते॥ ९११ सुनीतिर्बुवमाता स्यात्सुनयोऽप्यथ, सूनतम् । मङ्गले प्रियसत्योक्तौ हसन्ती शाकिनीभिदि ॥ ९१२ मल्लिकाङ्गारधान्योश्चा हारीतो विहगान्तरे । मुनौ छद्मन्यथाश्वत्थः पिप्पले गर्दभाण्डके ।। ९१३
१. 'विस्तारे वहतुः पथि । वृषभे वहतिर्धेन्वां सचिवेऽप्यथ वापितम्' ख. २. 'कोकिले मुद्रे' ख. ३. 'ज्ञानमात्रे यथा--'वासितं पादपेष्वपि' इति' इति टीका. 'ज्ञातमात्रे' ख. ४. 'भाविते विहगारवे । वासिता करिणीनार्यों विहितं तु कृते श्रुते । विदितं स्वीकृते ज्ञाते विवस्वान्देवसूर्ययोः । विश्रुतं तु प्रतीते स्याज्ज्ञातहर्षितयोरपि । विगतो' ख. ५. 'वसुनन्दकः स्फुरकः' इति टीका. 'वस्तु निन्दके' ख; 'वसुनन्दने' ग-घ. ६. 'विधूतं' ग-घ. ७. 'वाक्यस्थे' ख. ८. 'पण्डकेऽकरे' ख. ९. 'मद्यादयो मद्यमांसनवनीतमधुदुग्धदधितैलपक्कानगुडरूपा दश' इति टीका । 'मघादौ' ग-घ. १०. 'हावधिच्छेदयो' ग-घ. ११. 'देशिके' ग-घ. १२. 'बुध. मितयोः' ख. १३. 'क्षुद्रौ' ग-घ. १४. 'नरके च समाप्तिः स्यादवसाने समर्थने । संहिता' ख. १५. 'वाक्यानु' ख. १६.'ईयों आदिर्यस्यासौ ईर्यादिः । यदाह-'ईर्या भाषणादाननिक्षेपोत्सर्गसंज्ञकाः । पञ्चाङ्गः समितिः' इति' इति टीका. 'सभायां संवित्तिः प्रतिपत्त्यविवादयोः' ख-ग-घ.१७. सुनयः सुरतं पुनः। मैथुने सुरता देवभावे च सुहितः पुनः । तृप्तावुक्ते सुष्टुहिते सूनृतं प्रियसत्यवाक् । मङ्गलं च हसन्ती तु मल्लिकाङ्गारधानिका । स्मिताद्याशाकिनीभेदो हम्मितं क्षिप्तदग्धयोः । हारीतो मुनिभेदे स्यात्कैतवे विहगान्तरे । हृषितं विस्मिते प्रीते प्र. णते हृष्टरोमणि । अश्वत्थो गर्दभाण्डे स्यात्पिप्पले संसृतौ जले । अश्वत्थेष' ख.
For Private and Personal Use Only
Page #112
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ त्रिस्वरकाण्डः। अश्वत्थेषपौर्णमास्यामतिथिः कुशनन्दने । क्रुध्यागन्तावथोपस्थः पायुमेढ़ाङ्कयोनिषु ॥ ९१४ उन्माथो मारणे कूटयघातकयोरपि ।। क्षवथुः कासे छिकायां कायस्थोऽक्षरजीवकः ॥ ९१५ परमात्मा च कायस्था हरीतक्यामलक्यपि । दमथो दमने दण्डे। निर्ग्रन्थो नि:स्वमूर्खयोः ९१६ (श्रमेण च निशीथस्तु रात्रिमात्रार्धरात्रयोः।। प्रमथः शंकरगणे प्रमथा तु हरीतकी॥ ९१७ मन्मथः कामचिन्तायां पुष्पचापकपित्थयोः)। रुदथः कुकुटशुनोर्वश्चथः पिककालयोः ॥ ९१८ वरूथं तु तनुत्राणे रथगोपनवेश्मनोः । वयःस्थो मध्यमवया वयःस्था शाल्मलीद्रुमे ॥ ९१९ ब्राह्मी गडूची काकोलीसूक्ष्मैलामलकीषु च।। वमथुर्वमने कासे गंजस्य करसीकरे ॥ ९२० विदथो योगिनि प्राज्ञे शमथः सचिवे शमे । शपथः कार आक्रोशे, शपने च सुंतादिभिः॥ ९२१ शयथः स्यादजगरे निद्रालौ मरणेऽपि च । षड्ग्रन्थः करञ्जभेदो षड्ग्रन्था तु वचा सठी . ९२२ समर्थः शक्तिसंपन्ने संबद्धार्थे हितेऽपि च । सिद्धार्थः सर्षपे शाक्यसिंहेऽन्त्यजिनवप्तरि ।। ९२३ अर्बुदः पर्वते मांसकीलके दशकोटिषु । अर्धेन्दुः स्यादतिप्रौढस्त्रीगुह्याङ्गुलियोजने ॥ ९२४ गलहस्ते नखाङ्केऽर्धचन्द्रेऽङ्गादस्तु वालिजे।। अङ्गदं तु केयूरे स्यादङ्गादा याम्यदिग्गजी॥ ९२५ आस्पदं कृत्यपदयोरामोदो गन्धहर्षयोः । आक्रन्दो दारुणरणे सारावरुदिते नृपे॥ ९२६ क्षणदं तोये क्षणदो गणके क्षणदा निशिः। कपर्दी पार्वतीभर्तुर्जटाजूटे वराटके|| ९२७ कर्णान्दुः स्यात्कर्णपाश्युत्क्षिप्तिका कुमुदः कपौ । दिग्नागनागयोर्दैत्यविशेषे च सितोत्पले ॥ ९२८ कुमुदा कुम्भीगम्भार्योः कुसीदं वृद्धिजीवने । वृद्धथाजीवे कौमुदस्तु कार्तिके कौमुदीन्दुभा ॥९२९ गोविन्दस्तु गवाध्यक्षे वासुदेवे बृहस्पतौ।। गोष्पदं गोखुरश्वभ्रे गवां च गतिगोचरे ॥ ९३० जलदो मुस्तके मे जीवदो रिपुवैद्ययोः । प्रन्थिपणे तमोनुत्तु शशिमार्तण्डवह्निषु ॥ ९३१ दारदो विषभेदे स्यात्पारदे हिङ्गुलेऽपि च । दायादौ सुतसपिण्डौ धनदौ दातृगुह्यकौ॥ ९३२ नलदा मास्यां नलदमुशीरमकरन्दयोः । नर्मदा रेवानिर्माल्योनिषादः श्वपचे स्वरे॥ ९३३ निर्वादस्त्यैक्तवादेऽपवादे च प्रमुदो मुदि। प्रमदा स्त्री प्रसादोऽनुग्रहस्वास्थ्यप्रंसत्तिषु ॥ ९३४ काव्यगुणे प्रल्हादस्तु निनादे दानवान्तरे। प्रतिपत्संविदि तिथौ प्रासादो राजमन्दिरे ॥ ९३५ देवतायतने चापि मर्यादा स्थितिसीमयोः। माकन्दः स्यात्सहकारे माकन्द्यामलकी फले ॥९३६ मुकुन्दः पारदे रत्नविशेषे गरुडध्वजे । मेनादः केकिनि च्छागे मार्जारे वरदः पुनः ॥ ९३७ प्रसन्ने शान्तचित्ते च वरदा तु कुमारिका । विशदः पाण्डुरे व्यक्ते शारदो वत्सरे नवे ॥ ९३८ शरद्भवे पीतमुद्ने शालीनेऽप्यथा शारदी । सप्तपर्णाम्बुपिप्पल्योः सुनन्दा रोचनाङ्गना॥ ९३९
१. 'गन्तावव्यथस्तु व्यथाहीने च पन्नगे । अव्यथा तु हरीतक्यामुपस्थो योनिलिङ्गयोः । उत्सङ्गगुदयोश्चापि समीपस्थितवत्यपि । उन्मायो' ख. २. 'उदधस्ताम्रचूडे स्यान्महेन्द्रमहकामुके । क्षवथुः' ख. ३. गोग्रन्थिस्तु करीषे स्याद्गोष्ठे गोजिह्निकौषधौ । दमथो' ख. ४. 'दमके' ग-घ. ५. भिक्षुमूर्खयोः' ख. ६. धनुश्चिन्हान्तर्गतपाठो ग-घ-पुस्तकयोस्त्रुटितः. ७. 'वञ्चतीति वञ्चथः' इति टीका. 'वर्चथः' ख; 'वरूथः' ग. ८. 'मातङ्ग क' ख. ९. 'शीकरे' ग. १०. 'श्रुतादि' ख; 'शपनं सुतादिशरीरस्पर्शः' इति टीका. ११. 'शयथु' ग. १२. 'निद्रादौ' ख. १३. 'अन्त्यजिनो महावीरस्तस्य वप्ता जनकः' इति टीका. 'व्यञ्जनव' ख; 'अपि जिनवसरि' ग. १४. 'अङ्गजा' ग. १५. 'रसे' ग. १६. 'तु भा' ख. १७. 'क्षुर' ख, १८. 'तमोभित्तु' ख. १९. 'मातङ्ग' ख. २०. इतः परमित्यधिकः पाठः-'तोयदो मुस्तके मेधे तोयदं नवनीतजे' ख. २१. 'दरदो वि' ख. २२. 'दोहदो गर्भलक्षणे । अभिलाषे तथा गर्भे' ख. २३. 'लोकवादे' ग, २४. 'प्रसक्तिषु' ग. २५. 'सप्तपर्ण्यम्बु' ग. २६. 'संभेदः सिन्धुसंगमे । पुष्पादीनां विकासेऽपि स्यात्सुनन्दा तु रोचने' ख.
०M
For Private and Personal Use Only
Page #113
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३६
अभिधान संग्रह::--८ अनेकार्थसंग्रहः ।
जननी
९४०
९४६
९५२
बाहुबलिनोऽप्यगाधोऽस्ताघरन्धयोः । अवधिः स्यादवधाने कालसीमविलेष्वपि ॥ आनद्धं बद्धमुरजाद्याविद्धः क्षिप्तचक्रयोः । आबन्धो भूषणे प्रेम्णि बन्धेऽथोत्सेध उच्छ्रये ९४१ संहननेऽप्युपाधिस्तु कैर्मध्याने विशेषणे । कुटुम्बव्यापृते छद्मन्युपधिर्व्याधिचक्रयोः ॥ ९४२ कबन्धं र्तुन्दे रुण्डेप्सु कबन्धो राहुरक्षसोः । दुर्विधो दुर्जने निःस्वे न्यग्रोधो वटपादपे ॥ ९४३ शम्यां व्यामेः न्यग्रोधी तु मोहँनाख्यौषधीभिदि । वृषपर्ण्य निषेधस्तु पर्वते कठिने वरे ॥ ९४४ देशतद्राजयोश्चापि निरोधो नाशरोधयोः । प्रसिद्धो भूषिते ख्याते प्रणिधिर्याचने चरे ॥ ९४५ परिधिर्यज्ञियतरोः शाखायामुपसूर्यके । मागधो मगधोद्भूते शुक्लजीरकबन्दिनोः ॥ वैश्यतः क्षत्रियापुत्रे मागधी स्यात्तु पिप्पली । यूथी भाषाविशेषश्च विबुधः पण्डिते सुरे ॥ ९४७ विधोटे शान्ते विश्वस्तात्यर्थयोरपि । । विवधो वीवधो भारे पर्याहाराध्वनोरपि ॥ ९४८ संबाधः संकटे योनौ संरोधः क्षेपरोधयोः । । संनद्धो वर्मिते व्यूढे । समाधिः स्यात्समर्थने ॥ ९४९ चित्तैकायनियमयोर्मोने, संनिधिरन्तिके । प्रत्यक्षे चाथ, संसिद्धिः सम्यक्सिद्धिस्वभावयोः ||९५० अयनं पथि गेहेऽर्कस्योदग्दक्षिणतोगतौ । अम्लानस्त्वमले झिण्टीभेदेऽर्जुनं तृणे सिते ॥ ९५१ नेत्ररोगेऽर्जुनः पार्थे "ये 'केकिनि द्रुमे । मातुरेकसुते चार्जुन्युषा गौः कुट्टनी सरित् ॥ ॥ अङ्गनं प्राङ्गणे यानेऽप्यङ्गना तु नितम्बिनी । स्यादपानं गुदेऽपानस्तु तद्वायावअनं मशौ ॥ ९५३ रसाञ्जनेऽक्तौ सौवीरेऽथाञ्जनो दिमतङ्गजे । अञ्जना हनुमन्मातर्यञ्जनी लेप्ययोषिति ॥ अवनं रक्षणप्रीत्योरर्यमा पितृदैवते । तरणौ सूर्यभक्तायामशनिर्वज्रविद्युतोः ।। अरत्निः कूर्परे पाणौ संप्रकोष्टतताङ्गुलौ । आसनं विष्टरे ' हैंस्तिस्कन्धे यात्रानिवर्तने '|| आसनो जीवकतरा वाँसनी पण्यवीथिका । आपन्नं सापदि प्राप्तेऽध्यादानं वाजिभूषणे ॥ ९५७ ग्रहणेऽथोत्थानं सैन्यपौरुषे युधि पुस्तके । उद्योगमहर्षेषु वास्त्वन्तेऽङ्गनचैत्ययोः ॥ ९५८ मलोत्सर्गेऽप्यथोत्तानः सुप्तोन्मुखागभीरयोः । उद्यानं स्यान्निःसरणे वनभेदे प्रयोजने ॥ ९५९ उद्धानमुद्रमे चुल्लयामुदानः पवनान्तरे । सर्पभिद्युदरावर्ते कमनोऽशोकपादपे ॥ कामिकामाभिरूपेषु कठिनं निष्ठुरोखैयोः । कठिनी तु खेटिका स्यात्कठिना गुडशर्करा ।। ९६१ कर्तनं योषितां तूलसेवने छेदनेऽपि च । क्रन्दनं रोदने ह्राने कॅल्पनं कृप्तिकर्तने ॥ कैंल्पनेभसज्जनायां कलापी लक्षकेकिनोः । कञ्चुकी जोङ्गकतरौ मेहले पन्नगे विटे || काञ्चनं न किञ्जल्के काञ्चनो नागकेसरे । उदुम्बरे काञ्चनारे पुन्नागे चम्पकेऽपि च ।। ९६४ काञ्चनी तु हरिद्रायां / कानीनः कन्यकासुते । कर्णे व्यासे काननं तु ब्रह्मास्ये विपिने गृहे ॥ ९६५ कुहनी के सर्पे कुहना दम्भकर्मणि । कुण्डली वरुणे सर्पे मयूरे कुण्डलान्विते ॥ ९६६ केतनं सदने चिह्ने कृत्ये चोपनिमन्त्रणे । केसर्यर्वणि पुन्नागे नागकेसरसिंहयोः ॥ ९६७
९५४
९५५
९५६
९६०
९६२ ९६३
I
१. 'बाहुबलिन आदिनाथपुत्रस्य' इति टीका. 'मर्यादया स्थितौ नार्याम्' ख. २. 'अस्थाघरन्धयोः ' ख. ३. 'वक्र' ख-ग. ४. 'धर्म' ख - ग. ५. 'वक्र' ख. ६. 'सलिले तुण्डे' ख; 'उदके' ग. ७. 'सोहनाख्यौषधीभिदि ' ग. ८. 'निषेध: ' ख. ९. 'श्वरे ख. १०. 'विश्रब्धोऽनु' ख ग ११. 'हैहये' ख ग . १२. 'ककुभद्रु' ग. १३. ‘कुट्टिनी' ख. १४. ‘पशौ' ख; 'मस्तै' ग. १५. 'सकोष्ठ वितताङ्ग' ग. १६. 'हस्तस्क' ग. १७. 'आसीनी' ख. १८. 'आपन्नः' ख-ग. १९. 'चित्य' खः २०. 'मलोत्स' ख-ग. २१. 'उन्मुखग' ख- ग. २२. 'रोषयोः ' ख ग २३. 'खट्टिका' ग. २४. 'शर्करी' ग. २५. 'कल्पने' ख ग २६. इभसज्जनायां हस्तिसज्ज - नायाम् 'कल्पने भस्वज्ज' ख २७. 'सौविदल्ले नटेऽप्यहौ' ख. २८. 'भूपके' ख.
For Private and Personal Use Only
Page #114
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ त्रिस्वरकाण्डः। कौपीनं गुह्यदेशे स्यादकार्ये चीवरान्तरे। कौलीनं जनवादे हि पशुपक्षिशुनां युधि ॥ ९६८ अकार्ये गुह्यकौलीन्ये, गहनं वनदुःखयोः । गह्वरे कलिले चापि गन्धनं तु प्रकाशने ॥ ९६९ सूचनोत्साहहिंसासु। गर्जनं स्तनिते क्रुधि । गृञ्जनं विषदिग्धस्य पशोर्मीसे रसोनके॥ ९७० गोस्तनो हारभेदे स्याद्गोस्तनी हारहूंरिका।। घट्टना चलनावृत्योश्चलनः पादकॅम्पयोः ॥ ९७१ चलनं कम्पे चलनीचारीभिद्वस्त्रघर्घरी।। चन्दनो वानरभिदि श्रीखण्डे। चन्दनी नदी॥ ९७२ चेतनः स्यात्सहृदयप्राणिनोश्चेतना तु धीः । चोलकी तु नागरङ्गे किष्कुपर्वकरीरयोः॥ ९७३ छर्दनोऽलम्बुषे निम्बे छर्दनं वमनेऽपि च । छदनं पर्णगरुतोश्छेदनं कर्तने भिदि॥ ९७४ जयनं विजयेऽश्वादिसंनाहे जघनं कटौ । स्त्रियाः श्रोणिपुरोभागे जवनो वेगिवेगयोः ॥ ९७५ वेग्यश्वे नीवृति जवन्यपट्यामौषधीभिदि।। जीवनस्तु 'पुत्रंजीवे जीवनं वृत्तिवारिणोः ॥ ९७६ स्याज्जीवना तु मेदायां जीवनी तु मधुस्रवाः। तैलिनं विरले स्वच्छे स्तोकेऽथ तपनो रवौ ॥९७७ भल्लाते नरके ग्रीष्मे तलुनो यूनि मारुते । तमोघ्नो वह्निसूर्येन्दुबुद्धकेशवशंभुषु॥ ९७८ तपस्वी तापसे दीने तरस्वी वेगशूरयोः।। तेमनं व्यअने क्लेदो तेमनी चुल्लिभिद्यपि ॥ ९७९ तोदनं व्यथने तोत्रे दहनो दुष्टचेष्टिते । भल्लाते चित्रकेऽग्नौ च दमनो वीरपुष्पयोः ॥ ९८० दर्शनं दर्पणे धर्मोपलब्ध्योर्बुद्धिशास्त्रयोः । स्वप्नलोचनयोश्चापि दंशनं वर्मदेशयोः ॥ ९८१ द्विजन्मा वौ रदे विप्रे दुर्नामा पुनरर्शसि। दुर्नामा दीर्घकोश्यां स्याद्देवनोऽक्षेऽथादेवनम् ॥९८२ व्यवहारे जिगीषायां क्रीडायां धमनोऽनले । क्रूरे भस्राध्मापके चा धमनी कंधरा सिरी ॥ ९८३ दरिद्रा च धावनं तु गते शौचेऽथ नन्दनम् । इन्द्रोद्याने नन्दनस्तु तनये हर्षकारिणि ॥ ९८४ नलिनं नलिकातोयाम्बुजेषु। नलिनी पुनः । पद्माकरे गङ्गाजिन्यो निधनं कुलनाशयोः ॥ ९८५ निदानं कारणे शुद्धौ तपसः फलयाचने । वत्सदाम्न्यवसाने च प्रेधनं युधि दोरणे ॥ ९८६ प्रधानं प्रकृतौ बुद्धावुत्तमे परमात्मनि । महामात्र प्रसूनं तु प्रसूते फलपुष्पयोः। ॥ ९८७ प्रज्ञानं बुद्धौ चिढ़े च स्यात्प्रसन्नं प्रसादवत् । प्रसन्ना तु मदिरायां पवनो वायुवल्लयोः ॥ ९८८ पवनं पुनरापाके पद्मिनी योषिदन्तरे । अजेऽजिन्यां सरस्यां च पावनं जलकृच्छ्रयोः ॥ ९८९ पावनः पावके सिहेऽध्यासे पावयितर्यपि।। पावनी तु हरीतक्या पाठीनो गुग्गुलद्रुमे ॥ ९९० पाठके मीनभेदे। . पिशुनः सूचके खले । केप्यास्ये पिशुना स्पृका स्यात्पिशुनं तु कुङ्कुमम्।।९९१ पीतनं तु हरिताले पीतदारुणि कुङ्कुमे। पीतनः पुनराम्राते। पूतना तु हरीतकी ॥ ९९२ वैध्या च वासुदेवस्या पृतनानीकिनी चमः। सेना सैन्यविशेषश्चा फाल्गुनो मासपार्थयोः ॥ ९९३ नदीजेऽर्जुनवृक्षे च फोल्गुनी पूर्णिमाभिदि।। भवनं सदने भावे' भण्डनं कवचे युधिर॥ ९९४
१. 'चाम्बरान्तरे' ग. २. 'कायगुह्ये च कौ' ख. ३. 'स्वनिते' ग. ४. 'दग्धस्य' ख. ५. 'तूरिका' ख. ६. 'कम्प्रयोः' ख. ७. 'वारीभिः' ग. ८. 'चोलना तु' ख; 'चोलनं तु नागरङ्गम्' ग, ९. 'पर्णे गरुते' ग. १०. 'स्त्रियः श्रेणि' ग. ११. 'भवेत्पुत्रे' ग-ध. १२. 'श्रवा' ख. १३ 'तलनं' ख. १४. 'वेगिशू' ग-ध. १५. 'दृहनो दु' ख; 'दहने दु' ग-घ. १६. 'द्विजन्मानौ रदविप्रो' ग-घ, १७. 'दुर्नाम' ग-ध. १८. 'कोशी' ग-घ.१९. 'अनले' ग-ध. २०. 'शिरा' ग-घ. २१. 'प्रधान' ग-घ. २२ 'दारुणे' ख. २३. 'सिद्ध व्यासै' ग. २४. 'प्रार्थना याचने स्मृता । अभियाने रोधने च' इति ख-पुस्तकेऽधिकः पाठः, २५. 'कप्यासं कपिमुखम्' इति टीका. 'कार्पासे' ग-घ. २६. 'दुग्धदा वा' ग-घ. २७. 'फल्गुनीपू' ख.
For Private and Personal Use Only
Page #115
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
,
३८
अभिधान संग्रह::- ८ अनेकार्थसंग्रहः ।
1
1
खलीकारे भट्टिनी तु ब्रह्मण्यां नृपयोषिति । भावना वासना ध्यानं भुवनं लोकखाम्बुषु ॥ ९९५ भूतात्मा दुहि देहे मदनः सिक्थके स्मरे । राढे वसन्ते धत्तूरे मलिनं कृष्णदोषयोः ॥ ९९६ मलिनी रजस्वलायां मण्डनं तु प्रसाधने । मण्डनोऽलंकरिष्णौ स्यान्मार्जनो लोध्रशाखिनि ।। ९९७ मार्जनं शुद्धिकरणे मार्जना मुरजध्वनौ । मालिन्युमायां गङ्गायां चम्पावृक्षप्रभेदयोः || ९९८ मालक्यां मिथुनो राशौ. मिथुनं पुंस्त्रियोर्युगे । मुण्डनं रक्षणे क्षौरो मेहनं मूत्रशिनयोः ॥ ९९९ मैथुनं रतसंगत्योर्यमनं यमबन्धयोः । । यापनं कालविक्षेपे निरासे वर्तनेऽपि च ॥ १००० योजनं तु चतुः कोश्यां स्याद्योगपरमात्मनोः । रसनं ध्वनिते स्वादे रसज्ञारास्त्रयोरपिं ॥ १००१ रञ्जनं रञ्जके रक्तचन्दनेऽप्यथ रंजनी । मञ्जिष्ठारोचनानीलीगुडा । रजनी निशि ॥ १००२ लाक्षानीलीहरिद्रासु राधनं प्राप्तितोषयोः । साधने रेचनी गुण्डादन्ती रोनिका त्रिवृत् ॥ १००३ रोदनं त्वश्रुणि क्रन्दे रोचनः कूटशाल्मलौ । रोचना रक्तकहारे गोपित्ते वरयोषिति ॥ १००४ लङ्घनं भोजनत्यागे लवने क्रमणेऽपि च । ललामवलेला मावे शृङ्गे चिह्नपताकयोः ॥ १००५ रम्ये प्रधाने भूषायां पुण्ड्रे पुच्छप्रभावयोः । ललना स्त्रीनडिजिह्वा लाञ्छनं लक्ष्मसंज्ञयोः ॥ ॥ १००६ लाङ्गली स्याद्बलभद्रे नालिकेरेऽथ लेखनम् । भूर्जे छेदे लिपिन्यासे व्यसनं निष्फलोद्यमे || १००७ दैवानिष्टफले सक्तौ स्त्रीपानमृगयादिषु । पापे विपत्तावशुभे व्यञ्जनं श्मश्रुचिह्नयोः ॥ १००८ asara कादौ वमनं छर्दनेऽर्दने । वसनं छादने वस्त्रे वर्जनं त्यागहिंसयोः ॥ वर्धनं छेदने वृद्ध वर्धनी तु गलन्तिका । वपनं मुण्डने बीजाधानेऽथ वर्तनी पथि ॥ वर्तने तर्कुपिण्डे च वनश्वा विप्रेंतारके । शार्दूले गन्धमार्जारे वामनो दिग्गजेऽच्युते ॥ १०११ खर्वेऽङ्कोठे वाहिनी तु सेनातद्भेदसिन्धुषु । स्याद्वाणिनी तु नर्तक्यां छेकमत्तस्त्रियोरपि ॥ १०१२ वितानं कैद यज्ञे विस्तारे ऋतुकर्मणि । तुत्थे मन्दे वृत्तभेदे शून्यावसरयोरपि ॥ १०१३ विज्ञानं कार्मणे ज्ञाने विलग्नं मध्यलग्नयोः । विक्लिन्ना जीर्णशीर्णार्द्रा विलीनौ लीनविद्रुतौ ॥१०१४ विषघ्नः शिरीषतरौ विषघ्ना त्रिवृतामृता । विच्छन्नं तु कुटिले स्यात्समालब्धविभक्तयोः ।। १०१५ विमानं देवतायाने सप्तभूमिगृहेऽपि च । विधानं हस्तिकवले प्रेरणेऽभ्यर्चने धने ॥ चेतनोपायविधिषु प्रकारे वैरकर्मणि । विपन्नो भुजगे नष्टे विश्वप्सा वह्निचन्द्रयोः ॥ समीरणे कृतान्ते च विलासी भोगेंसर्पयोः । विषयी विषयासक्ते वैषयिकजने नृपे ॥ कामे विषय हृषीके व्युत्थानं प्रतिरोधने । विरोधवरणे स्वैरवृत्तौ समधिपारणे ।। वृजिनः केशे वृजिनं भुनेऽधे रक्तचर्मणि । वेष्टनं मुकुटे कर्णशष्कुल्युष्णीषयोर्वृतौ ॥ वेदना ज्ञाने पीडायां शयनं स्वापशय्ययोः । रते शमनस्तु यमे शमनं शौन्तिहिंसयोः ॥ १०२१ श्वसनं श्वासे श्वसनः पवने मदनद्रुमे । शकुनं स्याद्दैवशंसिनिमित्ते · शकुनः खगे ॥ शकुनिः खगे करणभेदे कौरवमातुले । शतघ्नी तु वृश्चिकाल्यां शस्त्रभेदकरञ्जयोः ॥
१००९
१०१०
1
१०१६
१०१७
१०१८
1
१०१२
१०२०
१०२२ १०२३
Acharya Shri Kailassagarsuri Gyanmandir
१. ‘खलिकारे' ख. २. 'ब्राह्मण्यां ' ख ग घ ३. 'लोकना कारखाम्बुषु' ग घ. ४. 'अस्मरे' ग घ. ५० 'वृक्ष प्र' ख-ग. ६. 'निराशे' ख. ७. 'राजिनी' ग घ ८. 'स्नुहीषु' ख; 'गण्डासु' ग घ ९. 'गुन्द्रादं ' ग घ. १०. 'रोचनका' ग घ ११. 'कलामा' ग घ १२. 'नारी' ग-व. १३. 'लाञ्चनं' ख. १४. 'लक्ष्यचिह्न ' ग घ. १५. 'पीठे' ग घ. १६. 'अपि प्रता' ख. १७. 'कोटे' ख; काण्डे' ग घ १८. ' कदक उल्लोचः ' इति टीका. 'कल्लोले' ख. १९. 'वसथयोः ' ख. २० ' सप्तभूम गृ' खः 'सार्वभौम' ग घ २१. ' भोगिस' ख-ग-घ, २२. 'आचरणे' ख ग घ २३ ' शान्तहिं' ग घ.
For Private and Personal Use Only
Page #116
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ त्रिस्वरकाण्डः ।
३९
शासनं नृपदत्तोर्व्या शास्त्राज्ञालेखशास्तिषु । शिखरी कोट्टकोयष्टयोर्दुमेऽपामार्गशैलयोः ॥ १०२४ शिखण्डी कुकुटे चित्रमेखले बर्हिबर्हयोः । भीष्मारौ बाणे शृङ्गारी सुवेषे क्रमुके द्विपे || १०२५ श्लेष्मघ्ना स्यान्मल्लिकायां कम्पिल्यकफणिज्जयोः । शोभनः सुन्दरे योगे सवनं स्नानयागयोः १०२६ सोमनिर्दलने चापि सदनं जैलसद्मनोः । स्तननं कुन्थने मेघगर्जितध्वनिमात्रयोः ॥ १०२७ स्पर्शनं हृषीके दाने स्पर्शे च स्पर्शनोऽनिले । स्यन्दनं स्रवणे तोये स्यन्दनस्तिनिशे रथे ॥ १०२८ संव्यानं छादने व समानो देहमारुते । वर्णभित्सत्समैकेषु संतानोऽपत्यगोत्रयोः ॥ १०२९ संततौ देववृक्षे च संस्थानं त्वाकृतौ मृतौ । चतुष्पथे संनिवेशे सज्जनं घट्टगुल्मके || १०३० सज्जनस्तु कुलीने स्यात्सज्जनापि च कल्पना । संधानं तु संघट्टनेऽभिषके संधिनी तु गौः १०३१ वृषाक्रान्ता कालदुग्धा [स्थापनं तु निवेशने । पुंसवने समाधौ च ] साधनं सिद्धिसैन्ययोः १०३२ 1 उपायेऽनुगमे मेण्द्रे निवृत्तौ कारके वधे । दापने मृतसंस्कारे प्रमाणे गमने धने || १०३३ सुकर्मा योगभेदे स्यात्सत्क्रिये देवशिल्पिनि । सुदामा पर्वते मेघे सुधन्वा त्वष्टृधन्विनोः ॥१०३४ सुपर्वा पर्वणि शरे त्रिदशे वंशधूमयोः । सूचना स्यादभिनये गन्धने व्यथने दृशि || १०३५ सेवनं सीवनोपास्त्योः सेनानीः सैन्यपे गुहे । हीयनोऽचित्रहिर्वर्ष हादिनी वज्रविद्युतो । १०३६ हिण्डनं क्रीडारतयोर्यानेऽनूपस्तु सैरिभे । जलप्रायेऽप्यथावापः पानभेदालवालयोः ॥ १०३७ प्रक्षेपे भाण्डपचनेऽप्याक्षेपः परिभर्त्सने । काव्यालंकरणाकृष्टयोः • स्यादाकल्पस्तु मण्डने || १०३८ कल्पनेचाप्युपस्तु गुल्मिनीतृणभेदयोः । उडुपः वैशशिनोः कलाषो बर्हतूणयोः ॥ १०३९ संहतौ भूषणे काथ्यांकच्छपो मलबन्धके । कमठे कच्छपी वीणा कैंसिपुर्भोज्यवस्त्रयोः ॥ १०४० एकैकस्मिन्द्वयोश्चापि कैश्यपो मुनिमीनयोः । काश्यप्युर्व्या कुतपस्तु छागकम्बलदर्भयोः ॥। १०४१ वैश्वानरे दिनकरे द्विजन्मन्यतिथौ गवि । भागिनेयेष्टमांशेऽह्नो वाद्येऽथ कुटपो मुनौ ॥ निष्कुटे मानभेदे च कुणपः पूतिगन्धिनि । शवे जिह्वापस्तु शुनि व्याघ्रे द्वीपिविडालयोः ॥१०४३ पदपो द्रौ पादपीठे पादपा पादरक्षणे । रक्तपः स्याद्यातुधाने रक्तपा तु जलौकसि ॥ १०४४ विपः पलवे स्तम्बे विस्तारे पिङ्गशाखयो: । सुरूपस्तु बुधे रम्ये प्राप्तरूपाभिरूपवत् ।। १०४५ कदम्बः सर्षपेनीपे केंदम्बं निर्कुरुम्बके । कलम्बो नालिकाशाके पृषत्के नीपपादपे ॥ १०४६ कादम्बः कलहंसेष्वोर्नितम्बः कटिरोधसोः । स्त्रियाः पश्चात्कटौ सानौ प्रलम्बस्तु प्रलम्बनम् १०४७ दैत्यस्तालाङ्कुरः शाखा,प्रालम्बस्तु पयोधरे । पुसे हारभेदे च भूजम्बूस्तु विकङ्कते ॥ १०४८ गोधूमादधान्ये च हेरम्बः शौर्यगर्विते । महिषे विघ्नराजे चारम्भस्तु वधदर्पयोः ॥ त्वरायामुद्यमे चाप्यात्मभूर्ब्रह्मणि मन्मथे । ऋषभः स्यादादिजिने वृषभे भेषजे स्वरे ॥ कर्णरन्ध्रे कोलपुच्छे श्रेष्ठे चाप्युत्तरे स्थितः । ऋषभी तु शूकशिम्ब्यां पुरुषाकारयोषिति ॥ १०५१
T
१०४२
1
१०४९
१०५०
१. 'शान्तहिं' ग व. २. 'चित्रामलेखेवर्षिवर्हयो:' ग घ ३ 'श्लेष्माध्मा' गन्ध. ४. ' शोचनः ' ग घ. ५. 'जनस' ग घ ६. 'क्रन्दिते' ख. ७. 'श्रवणे' ख. ८. 'वृक्षेषु' ग घ ९. 'संघट्टिते' ग घ १०. 'अभिषेके' ख. ११. धनुश्चिदान्तर्गत पाठ: ख- पुस्तके त्रुटितः १२. 'उपगमे' ख. १३. 'मेढ़े ' ख ग घ. १४. 'हापनोऽचित्रीहि ' ग घ १५. 'पवने' ग घ . १६. 'लवशीतांश्वो:' ख. १७. 'कशिपु' ग घ १८. 'काश्यपो मु' ग घ १९. ' प्रतापस्तेजसि स्वेदे पादपो वृक्षपीठयोः' इति ख- पुस्तकेऽधिकः पाठः २०. 'रक्तपो रक्षो रक्तपातु जलौका विटपः पुनः' इति ख- पुस्तक एवं पाठः २१. 'पल्लवेऽपि च वृक्षे च विस्तारे पिङ्गशाखिनो: ' ख- पुस्तक एवम्. २२. 'कदम्बे' ख २३. 'निकुरम्बके' ग घ. २४. 'कलहंसेश्वोर्नि' ख २५. 'त्रपुषे' ग घ .
१४
For Private and Personal Use Only
Page #117
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
४०
अभिधान संग्रह:: - ८ अनेकार्थसंग्रहः ।
१०५२
१०५३
१०५४
1
१०५८
विधवायां सिरालायां करभो मैय उष्ट्रके । अङ्गुलेश्च कनिष्ठाया मणिबन्धस्य चान्तरे || ककुभो वीणाप्रसेवे रोगभेदेऽर्जुनद्रुमे । कुसुम्भं तु शातकुम्भे स्यालद्वायां कमण्डलौ ॥ गर्दभो रास गन्धे गर्दभी जन्तुरुग्भिदोः । । गर्दभं कुमुदभेदे दुर्लभः केच्छुरे प्रिये ॥ दुष्प्रापेऽपि दुन्दुभिस्तु भेर्यां दितिसुते र्विषे । अक्षबिन्दुत्रिकद्वन्द्वो निकुम्भः कुम्भकर्णजे ॥ १०५५ दन्त्यां च वल्लभोऽध्यक्षे कुलीनाश्वे प्रियेsपि च । वर्षाभूः पुनर्नवायां स्याद्गण्डूपदभेकयोः ॥ १०५६ farsaभो विस्तृतौ योगविशेषप्रतिबन्धयोः । योगिनां च बन्धभेदे रूपकावयवेऽपि च ।। १०५७ विश्रम्भः केलिकलहे विश्वासे प्रणये वधे। वृषभः स्यादादिजिने वृषपुंगवयोरपि ॥ सनाभिर्ज्ञातिसदृशः सुरभिर्हेनि चम्पके । जातिफले मातृभेदे रम्ये चैत्रवसन्तयोः ॥ १०५९ सुगन्धौ गवि सल्लक्यामधमो न्यूनगर्ह्ययोः । आगमस्त्वागतौ शास्त्रेऽप्याश्रमो व्रतिनां मठे १०६० ब्रह्मचर्यादिचतुष्केऽप्युत्तमा दुग्धिकौषधौ । उत्तमं तु प्रधाने / स्यात्कलमः शालिचौरयोः ॥ १०६१ कुसुमं स्त्रीरंजोनेत्ररोगयोः फलपुष्पयोः । कृत्रिमं लवणभेदेः कृत्रिमः कृतसिहृयोः ॥ १०६२ गोधूमो भेषजे नागरङ्गत्रीहिप्रभेदयोः । गोलोमी वारयोषायां षड्यन्थासितदूर्वयोः ॥ १०६३ गौतमो गणभृद्भेदे शाक्यसिंहर्षिभेदयोः । गौतम्युमायां रोचन्यां तलिमं तल्पखङ्गयोः || १०६४ विनाते कुट्टिमे चापि दाडिमः करकैलयोः । निष्क्रमो निर्गमे बुद्धिसंपत्तौ दुष्कुलेऽपि च १०६५ नियमः स्यात्प्रतिज्ञायां निश्चये यन्त्रणे व्रते । निगमाः पूर्वणिग्वेदनिश्चयाध्ववणिक्पथाः ॥ १०६६ नैगमो नयपौरोपनिषेर्धृतिषु वाणिजे । प्रथमः स्यात्प्रधानाद्योः प्रक्रमोऽवसरे क्रमे || १०६७ पञ्चमो रुचिरे दक्षे पश्चानामपि पूरणे । रागभेदे पञ्चमी तु द्रौपद्यां परमः परे ॥ अप्रेसरप्रथमयोरोङ्कारे परमं पुनः । स्यादव्ययमनुज्ञायां [ प्रतिमा प्रतिरूपके || गजस्य दन्तबन्धे च], मध्यमो मध्यजे स्वरे । देहमध्ये मध्यदेशे मध्यमा कर्णिकाङ्गुलिः ॥ १०७० का रजस्वला चापि व्यायामः पौरुषे श्रमे । वियामे दुर्गसंचारे विलोम मरघट्टके ॥ 1 १०७१ विलोमो वरुणे सर्पे प्रतीपे कुर्कुरेऽपि च । विलोमी स्यादामलक्यां विक्रमः शक्तिसंपदि १०७२ क्रान्तौ च विद्रुमो वृक्षे प्रवालेऽप्यथ विभ्रमः । शोभायां संशये हाँवे सत्तमः श्रेष्ठपूज्ययोः १०७३ साधिष्टे संभ्रमो भीतौ संवेगादरयोरपि । सुषीमः शिशिरे रम्ये । सुषुमं रुचिरे समे ॥ १०७४ सुषमा तु स्यात्परमशोभायां कालभिद्यपि । अत्ययोऽतिक्रमे दोषे विनाशे दण्डकृच्छ्रयोः ॥ १०७५ अवध्यमवधार्हे स्यादनर्थकवचस्यपि । अभयमुशीराभीत्योरभया तु हरीतकी ॥ १०७६ अनयोऽशुभदैवे स्याद्विपद्व्यसनयोरपि । अश्वीयमश्वसङ्केऽश्वहितेऽधृष्यः प्रगल्भके ॥ १०७७ अधृष्या निम्नगाभेदेऽहल्या गौतमयोषिति । सरोभेदेऽप्यभिख्या तु शोभायां कीर्तिसंज्ञयो १०७८ अहार्यो हर्तुमशक्ये शैलेऽथाशय आश्रये । अभिप्रायपनसयोरादित्यस्त्रिदशार्कयोः ॥ १०७९
१०६८ १०६९
Acharya Shri Kailassagarsuri Gyanmandir
१. 'भय उ' ख. २. 'रोग' ग घ ३. 'मञ्जिष्ठायां क' ख. ४. 'कुमुदे श्वेते' ख; 'सितकुमुदे' ग घ . ५. 'कच्छपे ' ख. ६. 'विशे' घ. ७. 'अर्धबि' ग घ ८. 'शल्लक्याम्' ख ग घ ९. 'राजन्याम्' ग घ . १० . 'वणि' ख. ११. 'दृतिषु' ख ग घ १२. ' आकारे' ख; 'अकारे' ग घ १३. 'प्रतिमः प्रतिरूपके' ख; धनुश्चिद्वान्तर्गत पाठो ग घ - पुस्तकयोस्त्रुटितः १४. 'कन्यार' ग घ. १५. 'कुकुरे' ग घ. १६. 'ऋतौ ' ख. १७. ‘भावे' ख. १८. 'सुषमम्' ख. १९. 'विक्रमे' ख. २०. 'अश्वीयमश्वनिवहे तथाश्वस्य हितेऽपि च । अव्ययः शब्दभेदेऽपि निर्व्यये परमेश्वरे । अगस्त्यो मुनौ द्रुभेदे स्यात्' इति ग घ पुस्तकयोरधिकः पाठः. २१. 'अध्याश' ख ग घ
For Private and Personal Use Only
Page #118
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ त्रिस्वरकाण्डः। आत्रेयो मुनिरात्रेयी पुष्पवत्यां सरिद्भिदि। आतिथ्योऽतिथौ तद्योगेऽप्याम्नायः कुल आगमे १०८० उपदेशे चेन्द्रियं तु चक्षुरादिषु रेतसि,। उदयः पर्वतोन्नत्योरूर्णायुरविकम्बले ॥ १०८१ ऊर्णनाभे च मेषे चैणेयमेणीत्वगादिके । रतबन्धभिदि स्त्रीणां कषायः सुरभौ रसे ॥ १०८२ रागवस्तुनि निर्यासे क्रोधादिषु विलेपने । वर्णे कालेयस्तु दैत्ये कालेयं कुङ्कुमं यकृत् ॥ १०८३ कुलायः पक्षिणां स्थानगेहयोः क्षेत्रिया स्त्रियः।अन्यदेहचिकित्साऱ्या साध्यरुक्पारदारिका,१०८४ क्षेत्रियं क्षेत्रजतृणे गाङ्गेयं स्वर्णमुस्तयोः। कैसेरुण्यथ गाङ्गेयो गाङ्गवत्स्कन्दभीष्मयोः ।।१०८५ चक्षुष्यः सुभगे पुण्डरीकवृक्षे रसाञ्जने । कनकेऽक्षिहिते चापि, चक्षुष्या तु कुलत्थिका ॥ १०८६ चाम्पेयो हेम्नि किञ्जल्के चम्पके नागकेसरे । जघन्यं शिश्ने गद्देऽन्त्ये जटायुर्गुग्गुलौ खगे'१०८७ तपस्यः फाल्गुने मासे तपस्या नियमस्थितौ। द्वितीया तिथिगेहिन्योद्वितीयः पूरणे द्वयोः १०८८ नादेयी जलवानीरे भूजम्बूनागरङ्गयोः । काङ्गुष्टे च जपायां च निकायः सद्मसङ्घयोः ।। १०८९ परमात्मनि लक्षे च प्रणयः प्रेमयाच्चयोः । विथम्भे प्रसरे चापि प्रत्ययो ज्ञानरन्ध्रयोः ॥ १०९० विश्वासे शपथे हेतावाचारप्रैथितत्वयोः । अधीने निश्चये स्यादौ प्रणाय्यः कामवर्जिते ॥ १०९१ असंमते, प्रसव्यस्तु प्रतिकूलानुकूलयोः।। प्रतीक्ष्यः प्रतिपाल्ये स्यात्पूज्ये च प्रलयो मृतौ ॥ १०९२ संहारे नष्टचेष्टत्वे पर्यायोऽवसरे क्रमे । निर्माणे द्रव्यधर्मे च पर्जन्यो गर्जदम्बुदे ॥ १०९३ वासवे मेघशब्दे च पयस्यं तु पयोभवे । पयोहिते पयस्या तु काकोलीदुग्धिकापि च ॥ १०९४ प्रक्रिया तूत्पादने स्यादधिकारप्रकारयोः । पानीयं पेयजलयोः पारुष्यस्तु बृहस्पती॥ १०९५ पारुष्यं पुरुषभावे संक्रन्दनवनेऽपि च । पौलस्त्यो रावणे श्रीदे. भ्रातृव्यो भ्रातृजे रिपौ ॥१०९६ भुजिष्यः स्यादैनधीने किङ्करे हस्तसूत्रके । भुजिष्या गणिकादास्योर्मलेयः पर्वतान्तरे ॥ १०९७ शैलांशे देश आरामे मलया त्रिवृतौषधौ । मङ्गल्यो रुचिरेऽश्वत्थे त्रायमाणे मसूरके ॥ १०९८ बिल्वे मङ्गल्यं तु दनि मङ्गल्या रोचना शमी । शतपुष्या शुक्लवचा प्रियङ्गुः शङ्खपुष्प्यपि॥१०९९ अन्धपुष्पी मृगयुस्तु फेरौ ब्रह्मणि लुब्धके । रहस्यं गोपनीये, स्याद्रहस्या सरिदन्तरे ॥ ११०० लौहित्योऽब्धौ नदे ब्रीहौ ब्रह्मण्यो ब्रह्मणे हिते । शनैश्चरे व्यवायस्तु मैथुनव्यवधानयोः ॥११०१ वदान्यः प्रियाग्दानशीलयोरुभयोरपि । वक्तव्यो वाच्यवद्गखें वचोर्हहीनयोरपि ॥ ११०२ वलयः कङ्कणं कण्ठरुग्वालेयस्तु गर्दभे । वल्यर्थे कोमलेऽङ्गारवल्लयां विजयो जये ॥ ११०३ पार्थे विमाने विजयो मातत्सख्योस्तिथावपि ।। विषयो यस्य योऽज्ञातस्तत्र गोचरदेशयोः ॥ ११०४ शब्दादौ जनपदे च विस्मयोऽद्भुतदर्पयोः। विनयः शिक्षाप्रणयोर्विनया तु बलौषधौ । ११०५ विशल्या लाङ्गलीदन्तीगडूचीत्रिपुटासु च । शल्येन रहितायां च प्रियायां लक्ष्मणस्य च ।। ११०६
१. 'पर्वतोत्पत्योः' ग-घ. २. 'रतबन्धादिषु स्त्री' ख. ३. 'त्रयः' ख-ग-घ. ४. 'कशेरु' ख. ५. 'गर्हिते शिभे' ख. ६. 'अल्पे' ग-घ. ७. 'मासि' ख; 'पार्थे' ग-घ, ८. 'दये' ग-घ. ९. 'काङ्गण्यां च' ख; 'व्यङ्गछे च' ग-घ. १०. 'निलयोऽस्तमये गृहे । गोपनस्य प्रदेशेऽपि नेपथ्यं तु प्रसाधने । रङ्गभूमौ वेषभेदे' इति खपुस्तकेऽधिकः पाठः. ११. 'विस्तम्भे' ग-घ. १२. 'प्रेषित' ख. १३. 'स्वादौ ग-घ. १४. 'प्रसय्यस्तु' ख. १५. 'निर्वाणे' ख. १६. 'गर्जदम्बुजे' ख. १७. 'पयस्यस्तु' ख. १८. 'अवधीने' ग-य. १९. 'हस्तसूचके' ख. २०. 'भुवन्युर्वह्नि सूर्ययोः । मलयीदेश आरामे शैलांशे पर्वतान्तरे । मलया त्रिवृन्मङ्गल्यस्त्रायमाणे मसूरके ।' इति ख-पुस्तकस्थः पाठः. २१. 'विश्वे' ग-घ. २२. 'पुष्पा' ग-घ, २३. 'ब्रह्मणो हि' ग-ब. २४. 'वागुदारशी' ग-घ. २५. 'गृह्ये' ग-घ.
For Private and Personal Use Only
Page #119
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४२
अभिधानसंग्रहः-८ अनेकार्थसंग्रहः । श्वशुर्यो देवरे श्याले शाण्डिल्यः पावकान्तरे । बिल्वे मुनौ च शालेयं शतपुष्पाहयौर्षेधौ ।। ११०७ क्षेत्रे च शालिधान्यस्य, शीर्षण्यं शीर्षरक्षणे । शीर्षण्यो विशदे केशे, शैलेयं शैलसंभवे ॥ ११०८ सिन्धूत्थे तालपण्या च,शैलेयस्तु मधुव्रते । समयः शपथे भाषासंपदोः कालसंविदोः ॥ ११०९ सिद्धान्ताचारसंकेतनियमावसरेषु च । क्रियाकारे च निर्देशे, संस्त्यायो विस्तृतौ गृहे ॥ १११० संनिवेशे, संनयस्तु समवायानुसैन्ययोः । [सामर्थ्य योग्यताशक्त्योः सौरभ्यं गुणगौरवे ॥ ११११ सौगन्ध्यं चारुतायां च हिरण्यं पुनरक्षये । प्रधानधातौ कनके मानभेदे कपर्दके ॥ १११२ द्रविणाकुप्ययोश्चापि, हृच्छयो मन्मथात्मनोः ।] हृदयं वक्षसि स्वान्ते वृक्कायाममरः सुरे॥ १११३ सुहीवृक्षेऽस्थिसंहारेऽप्यमरा त्वमरावती । स्थूणा दूर्वा गडूची,चान्तरं रन्ध्रावकाशयोः ॥१११४ मध्ये विनार्थे तादर्थे विशेषेऽवसरेऽवधौ । आत्मीयात्मपरीधानान्तधिबाह्येष्वथावरम् ॥ १११५ चरमेऽवरा तु गौरीगजजङ्घान्त्यदेशयोः । अक्षरं स्यादपवर्गे परमब्रह्मवर्णयोः ।। १११६ गगने धर्मतपसोरध्वरे मूलकारणे | अधरोऽर्ध्वहीनोष्ठेष्वम्बरं व्योमवस्त्रयोः ॥ १११७ कर्पासे सुरभिद्रव्येऽररं छदकपाटयोः । अङ्कुरो रोम्णि सलिले रुधिरेऽभिनवोद्गमे ॥ १११८ अजिरं दर्दुरे कार्य विषये प्राङ्गणेऽनिले । अशिरोऽर्के राक्षसेऽग्नावङ्गारो लातभौमयोः ॥ १११९ अण्डीरः शक्तनरयोरसुरः सूर्यदैत्ययोः । असुरा रजनीवास्योरगुरुस्त्वगरौ लघौ ॥ ११२० शिंशपायमिथाहारो हार आहरणेऽशने । आसारो वेगवद्वर्षे सुहृदलप्रसारयोः॥ ११२१ आकार इङ्गिताकृत्योराधारो जलधारणे । आलवालेधिकरणेऽप्याकरो निकरे खनौ ॥ ११२२ इतरः पामरेऽन्यस्मिन्नित्वरः क्रूरकर्मणि । पथिके दुर्विधे नीचे स्यादित्वर्यभिसारिका ॥ ११२३ ईश्वरः स्वामिनि शिवे मन्मथेऽपीश्वराद्रिजा । उदरं तुन्दरणयोरुत्तरं प्रवरोर्ध्वयोः ।। ११२४ उदीच्यप्रतिवचसोरुत्तरस्तु विराटजे । उद्धारः स्यादृणोद्धृत्योरुदारो दक्षिणो महान् ॥ १२२५ दातोर्वरा तु भूमात्रे सर्वसस्थाढ्यभुव्यपि । ऋक्षरं वारिधारायामृक्षरः पुनर्ऋत्विजिः॥ ११२६ एकाग्रौ तद्गताव्यग्रावौशीरं शयनासने । उशीरजे चामरे च दण्डे च कररः खगे ॥ ११२७ करीरे क्रकचे दीने, कर्बुरं काञ्चने जले । कर्बुरो राक्षसे पापे शबले कन्दरोऽङ्कुशे ॥ ११२८ विवरे च गुहायां च. कर्करो मुकुरे दृढे । कदरः श्वेतखदिरे क्रकचक्षुद्ररोगयोः ॥ ११२९ कर्परस्तु कटाहे स्याच्छवभेदकपालयोः । कङ्करं कुत्सिते तक्रे कडारो दासपिङ्गयोः॥ ११३० केआरः कुअरे सूर्ये जरठे द्रुहिणे मुनौ । करीरः कलशे वंशाङ्कुरवृक्षविशेषयोः॥ ११३१ कलत्रं श्रोणी भार्यायां दुर्गस्थाने च भूभुजाम् । कटित्रं तु कटीवस्त्रे रसनाचर्मभेदयोः ॥] ११३२ कच्छरः पुंश्चले पामासहिते कच्छुरा सेंढी । दुःस्पर्शा शेकशिम्बी च कवरं लवणाम्लयोः ॥११३३ कबरी केशविन्यासशाकयोः कन्धरोऽम्बुदे । कन्धरा तु शिरोधौ स्यात्कशेरु पृष्ठकीकसे ॥११३४
१. 'विटे' ख. २. 'औषधे' ख-ग-घ. ३. 'शालिधैन्यस्य' ख. ४. धनुचिहान्तर्गतपाठो ग-ध-पुस्तकयोस्त्रुटितः. ५. 'भानभे' ख. ६. 'आत्मात्मीयप' ख; 'आत्मीयान्तःप' ग-ध. ७. 'अपामार्गे' ग-घ. ८. 'अम्बरे' ख. ९. 'अन्तर्द्धि' ख. १०. 'कार्पासे सुरभिद्रव्ये रदच्छदकपापयोः' ग-घ. ११. 'रोम्नि' ग-घ. १२. 'रास्योः ' ग-घ. १३. 'अथावीरा नारीपतिसुतोकिता । रजसासंयुताप्युक्ता' ख. १४. 'वेल' ख. १५. 'प्रवणोर्ध्व' ग-घ. १६. 'क्रकरः' ग-घ. १७. 'कन्दुरेऽङ्करे' ग-घ. १८. 'ककरं' ख. १९. धनुश्चिन्हान्तर्गतपाठः ख-पुस्तके त्रुटितः. २०. 'शढी' ख; 'शटी' ग घ. २१. 'सूक' ख-ग-ध.
For Private and Personal Use Only
Page #120
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ त्रिस्वरकाण्डः ।
११३९
११४५
तृणजातौ कन्दभेदे कणेरुस्तु गणेरुवत् । वेश्येभीकर्णिकारेषु कटप्रूरक्षदेवने ॥ विद्याधरे रुद्रेकान्तारं दुर्गवर्त्मनि । महारण्योपसर्गाद्योः कानने विशेषयोः ॥ काश्मीरं पुष्करमूले टङ्ककुङ्कमयोरपि । कावेरी तु हरिद्रायां वेश्यायां सरिदन्तरे ॥ किर्मीरः शवले दैये किशोरो हयशावके । सूर्ये यून्यथ किंशारुर्धान्यशूके शरेऽपि च ॥ ११३८ कुहरं गहरे छिद्रे कुकुरं ग्रन्थिपर्णके । कुक्कुरः वा कुबेरस्तु धनदे नन्दिपादपे ।। कुर्वनुकणी कुमारोऽश्वानुचारके । युवराजे शिशौ स्कन्दे शुके वरुणपादपे ॥ कुमारं जात्यक, कुमारी खपराजिता । नदीभिर्द्रौमितरणी कन्यकानवमाल्युमा ॥ जम्बूद्वीपविभागश्च कुटारं केवले रते । कुअरोऽनेकपे के कुञ्जरा धातकीद्रुमे ॥ पाटलायां कुठारुर्दुकीशयोः कूबरः पुनः । कुब्जे युगंधरे रम्ये, केसरी नागकेसरे ॥ तुरङ्गसिंहयोः स्कन्धकेशेषु बकुलद्रुमे । पुन्नागवृक्षे किञ्जल्के स्यात्केसरं तु हिङ्गुनि || केदार: क्षेत्रभिद्यावाले शङ्करशैलयोः । । केनारः कुम्भिनरके शिरःकपालसंधिषु ॥ केटि: शक्रगोपे स्यान्नकुले पाकशासने । 'कोट्टारो नागरे कूपे पुष्करिण्याश्च पाटके ।। ११४६ खर्परस्तस्करे भिक्षापात्रे धूर्तकपालयोः । खपुरो मस्तके पूगे लसके खपुरं घंटे ॥ ११४७ खर्जूरं रूप्यफलयोः खर्जूरः कीटवृक्षयोः । खण्डाभ्रमभ्रावयवे स्त्रीणां दन्तक्षतान्तरे ॥। ११४८ खदिरी शाके खदिरो दन्तधावनचन्द्रयोः । खितिरस्तु शिवाभेदे खट्वाङ्गे वारिवलिके ।। ११४९ खिराद्बहुत्वे च गह्वरो बिलदम्भयोः । कुञ्जेऽथ गर्गरो मीने स्याद्वर्गरी तु मन्थनी ॥ ११५० गान्धारो रागसिन्दूरस्वरेषु नीवृदन्तरे । गायत्री खदिरे छन्दोविशेषे गोपुरं पुनः ॥ ११५१ मुस्तके द्वार पूरे घर्घरस्तु नदान्तरे । चलद्वारिध्वनौ घूके, चन्दिरश्चन्द्रहस्तिनोः ॥ चत्वरं स्यात्पथां श्लेषे स्थण्डिङ्गणयोरपि । चङ्कुरः स्पन्दने वृक्षे चतुरो नेत्रगोचरे ॥ ११५३ चाटुकारे चक्रगण्डावपि चातुरको यथा । चमरचामरे दैत्ये चमरी तु मृगान्तरे || चिकुरोsat गृहे बौ केशे चञ्चलशैलयोः । पक्षिवृक्षभिदोश्चापि छिदिरोऽनौ परश्वधे ।। करवाले च रज्जौ च छिंवरो वैरिधूर्तयोः । छत्वरं छेदनद्रव्ये | जठरः कुक्षिद्धयोः ॥ ११५६ कठिने च जर्जरं तु वासवध्वजजीर्णयोः । जम्बीरः प्रस्थपुष्पाख्यशाके दन्तशठद्रुमे ॥ ११५७ जलेन्द्रो जम्भम्भोधौ वरुणेऽप्यथ झर्झरः । वद्ये नदे कलियुगे झलरीवत्तु झलरी ॥। ११५८ वाद्यभेदे केशचक्रे टङ्कारो ज्योरवेऽद्भुते । प्रसिद्धौ चाथ टगरटेंङ्कणकेकराक्षयोः॥
P
११५२
११५४
११५५
*
११५९
टट्ट
नृताख्याने लम्पापटहवाद्ययोः । । तमिस्रं तिमिरे को तमिस्रा दर्शयामिनी ॥ ११६०
For Private and Personal Use Only
४३
११३५
१९३६
११३७
११४०
११४१
११४२
११४३.
११४४
१. 'शणजा' ग-घ. २. 'कर्चूरं श...तालयोः । कठोरौ पूर्णकठिनौ' ख. ३. 'अब्ज' ग घ. ४. 'पुष्करे मूले' ख, 'पौष्करे मूले' ग घ ५. 'जानुकफोणी' ग घ ६. 'रामतरण्योषधिः' इति टीका. 'तरुणी' ख ग घ . ७. 'कुटीरं कम्बले' ख; 'कुटीरं' ग घ ८. 'कोशे' ख. ९. 'कीटयोः ख. १०. ' केटति केटिरु: सिम्रुगे . रुनमेर्वादयः' इति टीका. ११. 'कैटिरः श' ख; 'कोटिरः श' मेदिन्याम्. 'पुष्करिण्या नगर्याः पाटके एकदेशे' इति टीका. १२. 'खर्पर' ख. १३. 'घठे' ग. १४. 'वास्तुके' ख. १५. 'खिङ्खिरा' ख; 'खिङ्खिरी' ग-घ. १६. ‘अङ्गनयो' ग घ १७. 'चाटुकारे बुधे चक्रगण्डे चा' ख; 'चटुकारे' ग घ. १८. 'छित्वरो दैत्य' ख; 'छिदुरो वै' ग व. १९. 'वृद्ध' ख. २०. ' वाद्ये नदे कलियुगे झल्लरीवत्तु झर्झरी' ख; 'वाद्यभाण्डे . कलियुगे झल्लरीवत्तु झिल्लरी' ग घ २१. 'केशवक्रे' ग घ २२. 'भवेऽद्भु' ख. २३. 'टङ्कने केकराक्षके' ख; 'टङ्कणेकेकराक्षके' ग-घ.
Page #121
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
४४
अभिधान संग्रह :ह: - ८ अनेकार्थसंग्रहः ।
११६२
११६३
११६४
११६५ .
११६६
११६७
११७१
११७२
११७३
तमस्ततिस्तिमिरं तु दृष्टिरोगान्धकारयोः । तित्तिरिः पक्षिणी मुनौ तुषारो हिमदेशयोः ||११६१ शीकरे हिमभेदे च तुम्बरी धान्यकं शुनी । तूबरो श्मश्रुपुरुषे प्रौढा शृङ्गानडुह्यपि ॥ दहरो मूषिकास्वल्पभ्रात्रोर्डिम्भेऽथ दन्तुरः । उन्नतदन्ते विषमे दर्दुरो भेकमेघयोः ॥ वाद्यभाण्डे शैलभेदे | दर्दुरं ग्रामजालके । दर्दुरोऽमा दर्दरः स्यादीप गिरावपि ।। दैण्डारो वहने मत्तवारणे शरयत्रके । कुम्भकारस्य चक्रे च द्वापरं संशये युगे || दासेर उष्टे बेटे च दुर्द्धरस्त्वृषभौषधौ । दुःखधर्ये, धूसरस्तु रासभे स्तोकपाण्डुरे ॥ नरेन्द्रो वार्तिके राज्ञि विषवैद्येऽथ नागरम् । शुण्ठीमुस्तकपौरेषु निर्जरस्त्वंजरे सुरे | ॥ निर्जरा तु तालपत्र्यां गुडूच्यां तत्त्वभिद्यपि । निर्नरोऽर्काश्वे तुषाग्नौ निर्करः सारसङ्घयोः ||११६८ न्यायदातव्यवित्ते च निर्वरं तु गतत्र । कठिने निर्भये सारे निकारस्तु पराभवे ॥ ११६९ धान्योत्क्षेपेनीवरस्तु वास्तव्येऽपि वणिज्यपि । प्रवरं संततौ गोत्रे श्रेष्ठे च प्रखरः पुनः ॥ ११७० वेसरे हयसन्नाहे कुकुरेऽतिभृशं खरे | प्रकरः 'कीर्णे पुष्पादौ संहतौ प्रकरं पुनः ॥ जोङ्ग, प्रकरी वर्थप्रकृतौ चत्वरावनौ । प्रस्तरः प्रस्तारे प्रणि मणौ च प्रदरः शरे ॥ भङ्गे रोगे, प्रसरस्तु संगरे प्रणये जवे । प्रकारः सदृशे भेदे पङ्कारो जलकुब्जके ॥ सोपाने सेवले सेतौ पदारः पादधूलिषु । पादालिन्दे पवित्रं तु मेध्ये ताम्रे कुशे जले ॥ अर्धोपकरणे चापि पवित्रा तु नदीभिदि । प्रान्तरं कोटरेऽरण्ये दूरशून्यपथेऽपि च ॥ पार्परो भस्मनि यमे जराटे नीपकेसरे । क्षयरोगे भक्तसिक्थे, पामरो मूर्खनीचयोः ॥ पाटी मूलके व तितऔ वार्तिकेऽम्बुदे । केदारे वेणुसारे च पाण्डुरो वर्णतद्वतोः ॥ पाण्डुरं तु मरुबके, पिण्डारो भिक्षुके द्रुमे । महिषी पालके क्षेपे पिठरं मथि मुस्तके ॥ उखायां च पिअरस्तु "पीतरक्तेऽश्वभिद्यपि । पिञ्जरं शातकुम्भे स्यात्पीवरः स्थूलकूर्मयोः ॥ ११७९ पुष्करं द्वीपतीर्थाहिखगरीगौषधान्तरे । तूर्यास्येऽसिफले काण्डे शुण्डाग्रे खे जलेऽम्बुजे ।। ११८० ठरो यो धूरो रम्यनम्रयोः । बन्धुरस्तु तयोर्हसे बन्धुजीवविडङ्गयोः ।। बन्धुरा पयोषायां बेंबरा नीवृदन्तरे । बेर्बरस्तु हञ्जिकायां पामरे केशचैकले ॥ पुष्ये बर्बरा शा बर्करः पशुनर्मणोः । बैदरा स्यादेलापण्यां विष्णुक्रान्तौषधावपि बदरी कोलिकर्पास्योर्भङ्गुरौ वक्रनश्वरौ । भ्रामरं मधुदृषदोर्भास्करो वह्निसूर्ययोः ॥ भार्यारुरन्यस्त्रीपुत्रोत्पादके मृगशैलयोः । । भृङ्गारी तैं चीरिकायां भृङ्गारः कनकालुका ॥। ११८५ मत्सरः परसंपत्त्युक्षायां तद्वति क्रुधि । कृपणे मत्सरा तु स्यान्मक्षिका मकरो निधौ । ११८६ नक्रे राशिविशेषे चन्दरो मन्थपर्वते । स्वर्गमन्दारयोर्मन्दे बहले मधुरं विषे ॥ मधुरस्तु प्रिये स्वादौ रसे च रसवत्यपि । । मधुरा मथुरा पुर्या यष्टीमेदामधूलिषु ॥
११७४
११७५
११७६
११७७
११७८
११८१
I
११८७ ११८८
१. 'तुबरी धा' ख ग घ . २. 'श्रान्तडिम्भे' ख. ३. 'भेदे' ग घ ४. 'भेदे' ख. ५. 'दण्डरो वाहने' घ. ६. ‘यन्त्रे' ख. ७. ‘चेष्टे' ख. ८. 'धैर्ये' ग घ ९. 'असुरे' ख; 'निर्जरे' ग घ. १०. 'निर्झर' गन्ध. ११. 'निसारः गन्ध. १२. 'नीवारस्तु वास्तव्ये विपणिष्वपि' ख. १३. 'कीर्णपुष्पादौ ' ख ग घ १४. ‘ग्रावणिम' ग-घ. १५. ‘भीत' ख. १६. 'राजौष' ख. १७. 'मूर्खश' ख; 'अम्बष्ठ' ग घ १८. 'बन्धुरो 'ग घ. १९. 'बन्धुरं तु' ग घ २०. 'बर्बरो नी' ग घ २१. 'बर्बरस्तु दण्डिकायां' ख; 'बर्बरा तु फञ्जिकायां' ग घ. २२. 'वकले' ख २३. 'बन्दर' ख. २४. ' बादरं तु तयोः फले । बादरस्तु कर्पासा - fer' ख; 'बदरं तु' ग घ २५, 'स्याज्झिल्लिकायाम्' ग घ.
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
११८२
।। ११८३
११८४
Page #122
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ त्रिस्वरकाण्डः |
४५
११८९
११९६
११९७
११९८
११९९
मधुकुकुटिकायां च मिश्रेयाशतपुष्पयोः । मन्दिरो मकरावासे मन्दिरं नगरे गृहे / || मन्थरः सूचके कोशे वक्रे मन्दे पृथौ मथि । मन्थरं तु कुसुम्भ्यां स्यान्मन्दारस्त्रिदशद्रुमे ११९० . पारिभद्रेऽर्कपर्णे च मसूरो मसुरोऽपि च । मसुरा च मसूरा च चत्वारः पण्ययोषिति ॥ ११९१ तथा व्रीहिविशेषेऽपि मर्मरो वसनान्तरे । शुष्कपत्रध्वनौ चापि मर्मरी पीतदारुणि' ।। ११९२ मयूरः केकिचूडाख्यैौषधेऽपामार्गकेकिनोः । महेन्द्रो वासवे शैले मञ्जरी तिलकद्रुमे ॥ ११९३ वल्ल स्थूलमुक्तायां माठरो व्यासविप्रयोः । सूर्यानुगेऽथ, मार्जारः स्यात्खयांशबिडालयोः ।। ११९४ मिहिरोssम्बुदेबुद्धे, मुद्गरः कोरकास्त्रयोः । लोष्ठादिभेदने चापि मुहिरो मूर्ख कामयोः ॥ ११९५ मुदिर: कामुके मेघे मुकुरो मकुरो यथा । कुलालदण्डे बेकुले कोरकादर्शयोरपि ॥ मुर्मुरो मन्मथे सूर्यतुरगे तुषपावके । । रुधिरं घुसृणे रक्ते, रुधिरो धरणीसुते ॥ वैल्लरं कुञ्जमञ्जर्योः क्षेत्रेऽनम्भसि शाद्वले । । वल्लूरं तु वनक्षेत्रे वाहनोपरयोषिति ।। शुष्क मां से कोलमांसे वरत्रा वर्तिकक्षयोः । वागरो वारके शाणे निर्नरे वाडवे वृके ॥ मुमुक्षौ पण्डिते चापि परित्यक्तभयेऽपि च । वासरो रागभेदेऽह्नि, वार्दरं कृमिजे जले || काकचिम्ब्याश्वबीजे वाग्दक्षिणावर्तशङ्खयोः । वासुरा वासिताराज्योर्भुवि विष्टर आसने ॥ १२०१ पादपे कुशमुष्टौ च विस्तारौ स्तम्बविस्तृती । विदुरो नागरे धीरे धृतराष्ट्रानुजेऽपि च ॥ १२०२ विकारो विकृत रोगे विहारस्तु जिनालये । लीलायां भ्रमणे स्कन्धे विदारो युधि दारणे / १२०३ विदारी रोगभेदे स्याच्छालपर्णीक्षुगन्धयोः । । विधुरं स्यात्प्रविश्लेषे विकले, विधुरा पुनः || १२०४ सालायां विसरस्तु समूहे प्रसरेऽपि च । शबरो म्लेच्छ भेदेऽप्सु हरेऽथ शम्बरं जले || १२०५ चित्रे बौद्धव्रतभेदे शम्बरो दानवान्तरे । मत्स्यैणगिरिभेदेषु शम्बरी पुनरौषधौ ॥ शर्करा खण्डविकृतौ कर्परांशे रुगन्तरे । उपलायां शर्करायुग्देशे च शकलेsपि च । ॥ शर्वरी निशि नार्यां च शक्करी सरिदन्तरे । छन्दोजातौ मेखलायां शारीरं देहजे वृषे || १२०८ शावरं घातुके ध्वान्ते । शावरो रोधपापयोः । अपराधे शार्वरी तु शूकशिम्ब्यथ । शाक्करम् १२०९ छन्दोभिश्छीकरस्तूक्षा शालारं पक्षिपञ्जरे । सोपान हस्तिनखयो: । शिखरं पुलकाप्रयोः ॥ १२१० पक्कदाडिमबीजाभमाणिक्यशकलेऽपि च । वृक्षामे पर्वताग्रे च शिशिरः शीतले हिमे ।। १२११
१२००
१२०६ १२०७
१२
१७
1
ऋतुभेदे शिलिन्ध्रस्तु तरुमीनप्रभेदयोः ॥ शिलिन्धं कदलीपुष्पे कवक त्रिपुटाख्ययोः ॥ १२१२ शिलिन्धी विहगी गण्डूपदीमृदथ, शीकरः । वातास्तजलेऽम्बुकणे, शुषिरं वाद्यगर्तयोः ॥ १२१३ शुषिisit सरन्ध्रे च शृङ्गारो गजमण्डने । सुरते रसभेदे च शृङ्गारं नागसंभवे ॥ १२१४ चूर्णे लवङ्गपुष्पे च संस्तरः स्रस्तरे मखे । संगरोऽङ्गीकृतौ युद्धे क्रियाकारे विषापदोः ॥ १२१५ संगरं तु फले शैम्याः संभारः संभृतौ गणे । । संस्कारः प्रतियत्नेऽनुभवे मानसकर्मणि ॥ १२१६ गुणभेदेऽथ संकारोऽवकरेऽग्निचटत्कृतौ । संकारी भुक्तकन्यायां सामुद्रं लवणान्तरे ॥ १२१७
१. 'खट्टाङ्गवि' ख; 'खट्टाशवि' ग घ २. 'च कुले' ग घ. ३. 'वलुरं कु' ग घ ४ 'निर्नरो रवितुरगः ' इति टीका. 'नगरे वाडवेऽष्टके' ख; 'निर्नये वाड' गन्घ. ५. 'स्याद्द' ग घ ६. 'वासरा' ग घ ७. 'रागभेदे' ख. ८. 'चित्रबौ' ख. ९. 'शिम्ब्यां च ' ग घ १०. 'शार्करस्तूक्षा' ग घ ११. 'गिरिवृक्षाग्रकक्षासु' ख. १२. 'शिलीन्ध्रस्तु' ग घ . १२. ' शिलीन्ध्रं' ग घ १४. 'शिलीन्ध्री' ग घ १५. 'वातास्तेऽम्बुकणे शारे' ख. १६. 'राज' ग घ १७. इतः परम् 'संस्कारः प्रतियले स्यात्संकल्पेऽनुभवेऽपि च । सामुद्रं देहलक्षणे समुद्रलवणेऽपि च' ख. १८. 'प्रस्तरेऽध्वरे' ग घ १९. 'कृते' ग घ २०. 'सभ्यां' गन्ध. २१. 'तु' ग घ .
For Private and Personal Use Only
Page #123
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४६
अभिधान संग्रह :: - ८ अनेकार्थसंग्रहः ।
१२१८ १२१९
१२२१
१२२२
१२२३
१२२८
१२३०
लक्षणे च शरीरस्य सावित्रस्तु महेश्वरे । सावित्री देवताभेदे, सिन्दूरं नागसंभवे ॥ सिन्दूरस्तु वृक्षभेदे सिन्दूरी रक्तचेलिका । रोचनीधातकी सुन्दर्यङ्गनायां द्रुमान्तरे। ॥ सुनारस्तु शुनीस्तन्ये सर्पाण्डे चटकेऽपि च । सैरन्ध्री परवेश्मस्थशिल्पकृत्स्ववशस्त्रियाम् || १२२० वर्णसंकरसंभूतस्त्रीमैहल्लिकयोरपि । सौवीरं काञ्जिकास्रोतोऽञ्जनयोर्बदैरीफले ॥ स्यादर्गलं तु कैलोले परिधेऽप्यनलोऽनिले । वसुदेवे वसौ वह्नावरालः समदद्विपे ॥ व सर्जरसे चौप्यवेलस्तु स्यादपह्नवे । अवेला तु पूगचूर्णेऽचलस्तु गिरिकीलयोः ॥ अचला भुव्यञ्जलिस्तु कुडवे करसंपुटे । अङ्गुलिः करशाखायां कर्णिकायां गजस्य च ।। १२२४ आभीलं भीषणे कृच्छ्रेऽपील्वलो मत्स्यदैत्ययोः । इल्वलास्तारक भेदेऽप्युपलो प्रावरत्नयोः १२२५ उपला तु शर्करायामुत्पलं कुष्ठभूरुहे । इन्दीवरे मांसशून्येऽप्युज्ज्वलस्तु विकासिनि ॥ १२२६ शृङ्गारे विशदे दीप्तेऽप्युत्तालस्वरिते कपौ । श्रेष्टोत्कटकरालेषूत्फुलः स्त्रीकरणान्तरे || १२२७ विकस्वरोत्तालयोश्च, कमलं क्लोनि भेषजे । पङ्कजे सलिले ताम्रे कमलस्तु मृगान्तरे ॥ कमला श्रीवरनार्योः कपिलो वह्निपिङ्गयोः । कुर्कुरे मुनिभेदे च कपिला शिंशिपातरौ || १२२९ पुण्डरीककरिण्यां च रेणुकागोविशेषयोः । कपालं कुष्ठरुग्भेदे घटादिशकले गणे ॥ शिरोस्थान कन्दलं तु नैवाङ्करे कलध्वनौ । उपरागे मृगभेदे कैलापे कदली द्रुमे ॥ करालो रौद्रतुङ्गोरुध्यैणतैलेषु दन्तुरे । करालं तु कुठेरे स्यात्कम्बलः कृमिसास्त्रयोः || नागप्रभेदे प्रावारे वैकक्ष्ये, कम्बलं जले | कल्लोलोऽरौ हर्षवीच्योः कदली हरिणान्तरे ॥ १२३३ रम्भायां वैजयन्त्यां च कामलः कामिरेगयोः । मरुदेशेऽवतंसे च काकोलो मौकलौ विषे १२३४ कुला काहलंतु स्वाशे चाव्यक्तवाचि च । शुष्के च वाद्यभेदे च काहली तैरुणस्त्रियाम् १२३५ किट्टास्तु लोहगूथे ताम्रस्य कलशेऽपि च । कीलालं रुधिरे नीरे कुशलं क्षेमपुण्ययोः ।। १२३६ पर्याप्तौ कुशलोऽभिज्ञे कुवलं बदरीफले । मुक्ताफलोत्पलयोश्च कुम्भिलो झषचौरयोः ।। १२३७ श्लोकछायाहरेश्याले कुद्दालो भूमिदारणे । युगपत्रेऽथ कुटिलं भङ्गुरे, कुटिला नदी ।। १२३८ कुण्डलं वलये पाशे तौङ्के कुण्डली पुनः । कीचनद्रौगुडूच्यां च कुन्तलो हलकेशयोः ।। १२३९ कुन्तलाः स्युर्जनपदे कुकूलं तु तुषानले । शङ्कुसंयुक्त गर्ते च कुलालो वूकपक्षिणि ॥ १२४० कुकुभे कुम्भकारे च कुचेलः स्यात्कुवाससि । कुचेला र्चेि बद्धकय केवलं वेककृत्स्नयोः॥१२४१ निर्णीते कुहने ज्ञाने. केवली ग्रन्थभिद्यपि । कोमलं मृदुले तोये कोहलो मुनिमद्ययोः ।। १२४२ ग्रन्थिलो ग्रन्थिसहिते विकतकरीरयोः । गरलं पन्नगविषे तृणपूलकमानयोः ॥ १२४३ गन्धोली वरटाट्योर्भद्रायामथ गोकिलः । मुसले लाङ्गले चापि, गोपालो गोपभूपयोः ।। १२४४
१२३१
ू
१२३२
१. 'रोचना' ग घ २. 'महलक' ख; 'महलीक' ग. ३. 'वर्वरी' ख. ४. 'दण्डोर्मि' ख. ५. 'था' ग घ. ६. इतः परम् ‘अमला कमलायां स्यादमलं विशदेऽभ्रके' ख. ७. 'व्योम्नि' ख. ८. 'कुकुरे' ख; 'कुक्कुरे' ग-घ. ९. 'नवाङ्कुरे कल' ख; 'नवाङ्कुरे कर' ग घ १०. 'कपाले कदली' ख. ११. 'त्रण' ख; 'धूण' ग घ. १२. 'कुठारे' ग घ. १३. 'भृशे खले' ग घ १४, 'असंव्यक्तवा' ख. १५. 'वरुण' ख. १६. 'तोये' ग ध . १७. 'विन्ने' ग-घ. १८. 'कदलीफले' ग घ १९. 'चौरशालयोः ' ग घ २०. 'युगपात्रे' ग घ २१. 'ताटङ्के' ख-ग-घ. २२. ‘काञ्चनाद्रौ' ख. २३. 'कुकुभे' ग घ २४. 'स्यात् ' ख; 'त्वविकयों च' गग्घ. २५. 'निष्णाते' ख. २६. 'शच्यो' ख; 'शुण्ठ्यो' ग घ २७. 'नृपगोपयोः ' ख.
For Private and Personal Use Only
Page #124
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ त्रिस्वरकाण्डः |
U
स्याङ्गौरिलस्तु सिद्धार्थे लोहचूर्णेऽथ, चेन्द्रियः । नापिते वास्तुके रुद्रे चञ्चलोऽनिलकामिनोः ।। १२४५ चञ्चला तु तडिल्लक्ष्म्योश्चपलचोरके चले । क्षणिके चिकुरे शीघ्रे पारते प्रस्तरान्तरे ।। १२४६ मीने' च चपला तु स्यात्पिप्पल्यां विद्युति श्रियाम् । पुंश्चल्यामथ चात्वालो यज्ञकुण्डकगर्भयो:,१२४७ चूडालश्चूडया युक्ते, चूडालापि च चक्रला । छगलरछागे छगली वृद्धदरकभेषजे ।। १२४८ छगलं तु नीलवस्त्रे, जगलो मदनद्रुमे । मेदके कितवे पिष्टमद्येऽथ जटिलो जटी ॥ १२४९ जटिला तु मांसिकायां, जम्बूलः क्रकचच्छदे । जम्बूद्रुमेऽथ जम्बालं कर्दमे शैवलेऽपि च १२५० जङ्गलो निर्जले देशे पिशितेऽप्यथ जम्भलः । जम्बीरे देवताभेदे जाङ्गलः स्यात्कपिञ्जले ॥१२५१ जाङ्गली तु शूकशिम्ब्यां, जाङ्गलं जीलिनीफले । जाङ्गुली विषविद्यायां तरलो भाखरे चले १२५२ हारमध्यगणौ षिङ्गे तरला मद्यमुष्टिकाः । तमालो वरुणे पुण्ड्रेऽसौ तापिच्छेऽथ तण्डुलः १२५३ विडङ्गे धान्यसारे च ताम्बूलं क्रमुकी फले । ताम्बूली नागवल्लयां स्यात्तुमुलं रणसंकुले ॥१२५४ तुमुलो विभीतक तैतिल करणान्तरे । तैतिलो गण्डकपशौ दुकूलं सूक्ष्मवाससि । १२५५ क्षौमवस्त्रेऽथ, धवलो महोक्षे सुन्दरे सिते । धवली गौर्नकुलस्तु पाण्डवप्राणिभेदयोः ।। १२५६ नकुली कुक्कुटीमांस्योर्ना भीलं तूत्तमस्त्रियोः । वंक्षणे नाभिर्गर्भाण्डे, नाकुली च व्यरास्त्रयोः १२५७ कुक्कुटीकन्दे निचूलर्त्विज्जलद्रौ निचोलके । निस्तलं तु ले वृत्ते, निर्मलं विमलेऽभ्रके ।। १२५८ निर्माल्ये च निष्कलस्तु नष्टबीजे कलोज्झिते नेपाली मनःशिला स्यात्सुवहा नवमाल्यपि १२५९ प्रवाल विद्रुमे वीणादण्डेऽभिनवपल्लवे । प्रतलः पातालभेदे तताङ्गुलिकरेऽपि च ॥ पटलं तिलके नेत्ररोगे छदिषिसंचये । पिके परिवारे च पञ्चाला नीवृदन्तरे ॥ पञ्चाली पुत्रिकागत्योः पललं पङ्गमांसयोः । तिलचूर्णे पललस्तु राक्षसे, पीवलोऽनले ॥ अनिले राधनद्रव्ये पालो द्विरदज्वरे । पाकलं कुष्ठभैषज्ये, पातालं वडवानले ॥ रसातले पाटलं तु कुसुम श्वेतरक्तयोः । पाटलः स्यादाशुत्रीहौ पाटला पाटलीद्रुमे ॥ पांशुलो हरखद्वाङ्गे पुंश्चले, पांसुला भुवि । पतली मृत्तिकापात्रे नारीवागुरयोरपि ।। पिप्पलं सलिले वस्त्रच्छेदभेदेऽथ पिप्पलः । निरंशुले वृक्षपक्षिभेदयोः, पिप्पली कैणा ।। पिङ्गलः कपिले वह्नौ रुद्रेऽर्कपरिपाश्विके । कपौ मुनौ निधिभेदे, पिङ्गला कुमुदस्त्रियाम् || १२६७ केरायिकायां वेश्यायां नाडीभेदेऽथ पित्तलम् । पित्तवयारकूटे च पित्तला तोयपिप्पली || १२६८ पिचुलो निचुले तोयवायसे झावुकद्रुमे । पिञ्जलं स्यात्कुशपत्रे हरिद्राभेऽथ पिच्छिलः ॥ १२६९
1
१२६०
१२६१.
२१
१२६२
१२६३
१२६४
१२६५
१२६६
For Private and Personal Use Only
68
१. 'गैरिलस्तु' ख. २. 'चन्दति चन्द्रिल:' इति टीका. 'चण्डिलः' ख ग घ ३. 'अचले' ग घ ४. ‘चञ्चला' ख-ग-घ. ५. 'चाण्डालः ' ख; 'चत्वालः' ग-घ. ६. 'कुण्डल' ग घ ७. 'चूडाल्यपि ' ग घ . ८. 'वकला' ख. ९. 'दारुक' ख. १०. 'निर्जले देशे' ख; 'निर्जने देशे' ग घ ११. 'जालिनी लताभेद:' इत्यनेकार्थकैरवाकरकौमुदी; 'जीलिनीफले' ख; 'जलिनीफले' ग घ. १२. 'अचले' ग घ १३. 'मधुमक्षिका' ग घ . १४ . 'गाम्भीर्ये' ग-घ. १५. ' इज्जलद्रौ जलवेतसविशेषे' इत्यनेकार्थकैरवाकर कौमुदी. १६. 'वालवृत्ते' ख; 'तले वृन्ते' ग घ. १७. 'सुहवा' ख; 'सुहावा' ग घ १८. इतः पूर्वम् 'पटोलस्तु समाख्यातः फलवस्त्रविशेषयोः ' ख. १९. 'पटिके' ख. २०. 'पाचयतीति पाचल:' इति टीका. 'पाकलः ' ख. २१. 'अनिले' ग घ २२. 'अनले' ग-घ. २३. 'कुङ्कुमश्वेत' ग-घ. २४. 'पातयति पातली' इति टीका. 'पाटली' ख, 'पातिली' ग व. २५. 'कला' ख. २६. 'पारिपार्श्वके' ख; 'परिपार्श्वके' ग घ २७. 'करायिका पक्षिणीभेदः' इति टीका. 'कर्णिकायां' ग घ. २८. 'कामुक' ख.
+
१५
Page #125
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४८
अभिधान संग्रह:: - ८ अनेकार्थसंग्रहः ।
99
विज्जले पिच्छिला पोर्ताककायां सरिदन्तरे । शाल्मलौ शिंशिपायां च पिण्डिलो गणनापौ १२७० स्थूलज पुष्कलस्तु पूर्णे श्रेष्ठेऽथ पुद्गलः । काये रूपादिमद्द्रव्ये सुन्दराकार आत्मनि ॥ १२७१ पेशल: कुशले रम्ये फेनिलोऽरिष्टपादपे । फेनिलं मदनफले बदरे फेनवत्यपि । ॥ १२७२ बहुलं भूरिवियतोर्बहुलः पावके शितौ । कृष्णपक्षे बहुला तु सुरभ्यां नीलिकैलयोः ॥ १२७३ बहुला सुकृत्तिकासु, बिडालो वृषदंशके । पक्षिभेदेऽक्षिगोले च मण्डलो बिम्बदेशयोः ॥ १२७४ भुजङ्गभेदे परिधौ शुनि द्वादशराजके | संघाते कुष्टभेदे च मञ्जुलं च जलाश्वले ॥ १२७५ रम्ये कुञ्जे, मञ्जुलस्तु दात्यूहे, मङ्गलं पुनः । कल्याणे, मङ्गलो भौमे, मङ्गला श्वेतदूर्विका ॥ १२७६ महिला नौ गुन्द्रायां मातुलो मदनद्रुमे । धत्तूरेऽहिव्रीहिभिदोः पितुः श्यालेऽथ माचलः ॥ १२७७ वन्दिचौरे रुजिग्राहे, मुसलं स्यादेयोप्रके । मुसली तालमूल्याखुकर्णिकागृहगोधिका । ॥ १२७८ मेखलाद्रिनितम्बे स्याद्रशनाखड्गबन्धयोः । रसाल इक्षौ चूते च रसालं वोलसिल्हयोः ॥ १२७९ रसाला दूर्वाविदार्योर्जिह्वा मार्जितयोरपि । रामिलो रमणे कामे लाङ्गूलं शिश्नपुच्छयोः ।। १२८० लाङ्गलं तालहलयोः पुष्पभिगृहदारुणोः । लाङ्गली जलपिप्पल्यां लोहलोऽस्फुटवादिनि५ ।। १२८१ शृङ्खला धार्ये, वञ्झुलस्त्वशोके तिनिशद्रुमे । वानीरे चाथ वैवाल: रयुन्नौखनित्रयोः ॥ १२८२ वातूलो वातले वातसमूहे मारुता । वामिलो दाम्भिके वामे विपुलः पृथ्वगाधयोः ॥ १२८३ विपुलार्याभिदि क्षोण्यां विमलोऽर्हति निर्मले । वृषलस्तुरगे शूद्रे शकलं रागवस्तुनि ॥ १२८४ वल्कले त्वचि खण्डे च, शम्बलं मत्सरे तटे । पाथेये च शयालुस्तु निद्रालौ वाह से शुनि ||१२८५ श्यामलः पिप्पले श्यामे. शार्दूलो राक्षसान्तरे । व्याघ्रे च पशुभेदे च सत्तमे तूत्तरस्थितः । १२८६ शाल्मलिः पादपे द्वीपे शीतलः शिशिरेऽर्हति । श्रीखण्डे पुष्पकोसीसासनपर्ण्योः शिलोद्भवे १२८७ शृगालो दानवे फेरौ शृगाली स्यादुपप्लवे । शृङ्खलं पुंस्कंटीकायां लोहरज्जौ च बन्धने ॥ १२८८ शौष्कलः शुष्कमांसस्य पणिके पिशिताशिनि । षण्डाली सरसीतैलमानयोः कामुकस्त्रियाम्। १२८९ सङ्कुलोऽस्पष्टवचने व्याप्ते च / सरलस्वृजौ । उदारे पूतिकाष्ठे च सप्तला नवमालिका' ।। १२९० सातला पाटला गुञ्जासन्धिलौकः सुरङ्गयोः । नद्यां सिध्मलः किलासी० सिध्मला मत्स्यचूर्णके १२९१ सुतलोsट्टालिकाबन्धे पातालभुवनान्तरे । सुवेलः प्रणते शान्ते गिरिभेदेऽथ हेमलः ॥ १२९२ कलादे सटे ग्रावभिद्यभावः पुनर्मृतौ । असत्तायामथाक्षीबं वशिरे मदवर्जिते ।। आहवः समरे यज्ञेऽप्याश्रवो वचनस्थिते । प्रतिज्ञायां च क्लेशे च स्यादार्तवमृतद्भवे ॥ नारीरजसि पुष्पे, चोद्धवः केशवमातुले । उत्सवे ऋतुवहौ, चोत्सवोऽमर्षे महेऽपि च ।। १२९५ इच्छाप्रसर उत्सेके कारवी कृष्णजीरके । दीप्ये मधुरात्वक्पत्र्योः कितवः कनकाह्वये ।। १२९६
१२९३
१२९४
१. 'विज्जुले' ख. २. 'पदे' ख. ३. 'पूर्ण श्रेष्ठे' ग घ ४. 'सितौ' ग घ ५. इतः परम् 'बारला बरला चापि गन्धोलीहंसयोषितो: । बार्दलं दुर्दिने मस्यां मण्डलं देशबिम्बयोः ॥' ग घ ६. 'जलाञ्चलं सेवालं' इति टीका. 'च जलान्तरे' ख; 'सुन्दरेऽपि च ' ग घ ७. 'अङ्गनायाम्' ख. ८. 'शाले' ख. ९. ' अयोग्रमायुधविशेषः ' इति टीका. 'अयोग्रहे' ख. १०. 'मूर्विकाजिह्वयोरपि' ग घ ११. 'तिनिशे द्रुमे' ख. १२. 'वंवयोरालमत्र वैरल्यते वा वंवाल:' इति टीका. 'वण्टाल:' ग घ. १३. 'सूरणे' ख. १४. 'हते' ग घ १५. 'पृथुगाधयोः ' ख. १६. 'तूत्तमः' ख. १७. 'काशीशतालपयोः ' ग घ १८. 'चलीका ' ख. १९. 'सारला ' ख २०. ' दूतिकाबन्धे' ख. २१. 'पाताले भुवनान्तरे' ख. २२. 'संगरे' ख.
For Private and Personal Use Only
Page #126
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ त्रिस्वरकाण्डः। मत्ते च वञ्चके चापि केशवः केशसंयुते । पुंनागे वासुदेवे च कैतवं द्यूतदम्भयोः।। १२९७ कैतवः कितवे शत्रौ. कैरवं शतपङ्कजे। कैरवी तु चन्द्रिकायां गन्धर्वस्तु नभश्चरे ॥ १२९८ पुंस्कोकिले गायने च मृगभेदे तुरङ्गमे । अन्तराभवदेहे च गालवो मुनिलोध्रयोः॥ १२९९ गाण्डीवगाण्डिवो चापमात्रे पार्थधनुष्यपि।। ताण्डवं तृणभिन्नाढ्यभेदयोस्त्रिदिवं तु खे ॥१३०० स्वर्गे च त्रिदिवा नद्यां द्विजिह्वः खलसर्पयोः । निह्नवः स्यादविश्वासेऽपलापे निकृतावपि।।१३०१ निष्पावः पवने शूर्पपवने निर्विकल्पके । वल्ले कडङ्गरे शिम्ब्यां प्रभवो जन्मकारणे ॥ १३०२ आद्योपलब्धये स्थानेऽपांमूले मुनिभिद्यपि,। प्रसवः पुष्पफलयोरपत्ये गर्भमोचने ॥ उत्पादे च प्रसेवस्तु वीणाङ्गस्यूतयोई तौ।। प्रभावस्तेजसि शक्तौ पल्लवः किसले चले ॥ १३०४ विटपे विस्तरेऽलक्तरागे शृङ्गारषिङ्गयोः । पञ्चत्वं भावे पञ्चानां प्राणानामत्ययेऽपि च ॥ १३०५ पार्थिवो नृपतौ भूमिविकारे पार्थिवी तुका। पुंगवो गवि भैषज्ये प्रधाने, चोत्तरस्थितः ॥ १३.०६ फेरवो राक्षसे फेरौ बान्धवो बन्धुमित्रयोः।। भार्गवः परशुरामे सुधन्वनि मतङ्गजे ॥ १३०७ दैत्यगुरौ भार्गवी तु कृष्णदूर्वोमयोः श्रियाम्।। भैरवो भीषणे रुद्रे रागभेदेऽथ माधवः॥ १३०८ विष्णौ वसन्ते वैशाखे माधवी मधुशर्करा । वासन्ती कुट्टिनी हाला, राघवोऽब्धिझषान्तरे ॥१३०९ रघुजेऽप्यथा राजीवो मीनसारङ्गभेदयोः।। राजीवमब्जे रौरवो भीषणे नरकान्तरे॥ १३१० वल्लवः स्यात्सूपकारे गोदोग्धरि वृकोदरे।। वडवाश्वायां स्त्रीभेदे कुम्भदास्यां द्विजस्त्रियाम् ॥१३११ वाडवं करणे स्त्रीणां वडवौधे रसातले । वाडवो विप्र और्वे चाविद्रवो धीः पलायनम् ॥१३१२ विभावः स्यात्परिचये रत्यादीनां च कारणे। विभवो धननिर्वृत्योः शात्रवं शत्रुसंचये ॥ १३१३ शत्रुत्वे शात्रवः शंत्री संभवः कारणे जनौ । आधेयस्याधारानतिरिक्तत्वे जिनेऽपि च ॥ १३१४ सचिव: संहायेऽमात्ये सुषवी कृष्णजीरके । जीरके कारवेल्ले चा सैन्धवः सिन्धुदेशजे ॥ १३१५ सिन्धूत्थेस्यादादशेस्तु टीकायां प्रतिपुस्तके । दर्पणे चाप्यथोड्डीशश्चण्डीशे शास्त्रभिद्यपि ॥१३१६ उपांशुर्जपभेदे स्यादुपांशु विजनेऽव्ययम् । कर्कशो निर्दये क्रूरे कैम्पिल्यककृपाणयोः ॥ १३१७ इक्षौ साहसिके कासमर्दके परुषे दृढे।। कपिशौ सिल्हकश्यावी. कपिशा मोधवी सुरा॥ १३१८ कीनाशः क्षुद्रयमयोः कर्षकोपांशुघातिनो कुलिशो मत्स्यभित्पब्योगिरीशो वाक्पतौ हरे१३१९ अद्रिराजेऽथ तुङ्गीशः शशाङ्के शशिशेखरे । निस्त्रिंशोनिघृणे खड्गनिर्देशः कथनाज्ञयोः१३२०
१. 'कोटवी चण्डिका मता । वस्त्रहीना च वनिता' इति ख-पुस्तकेऽधिकः पाठः. २. 'सितपङ्कजे' ख-ग-घ. ३. 'गाजीव' ख. ४. 'खे' इति टीका. 'सुखे' ख. ५. 'पावने सूर्ये पवने' ख. ६. 'वल्लो धान्यभेदः कडङ्गरो बुसं शिम्बी बीजकोशी' इति टीका. 'बोले कडङ्गके शिम्यां' ग-घ. ७. 'आद्या प्रथमा उपलब्धि दर्शनं गङ्गादीनां तदर्थ स्नानं तत्र' इति टीका. 'आद्योपलम्भनस्थाने' ख; 'आद्योपलब्धसुस्थाने' ग-घ. ८. 'दृतिरालूश्चर्ममयी' इति टीका. 'हतौ' ख. ९. 'किशले बले' ग-घ. १०. 'षिङ्गयोः' ख. ११. 'तुका वंशरोचना' इति टीका. 'तुगा' ख: 'तुमा' ग-घ, १२. 'चोत्तरः स्थितः' ग-घ. १३. 'दैत्याचार्य' ख. १४. 'मधुजे' ग-घ. १५. 'अग्नौ' ग-ध. १६. 'परिभवे रसादीनां च' न. १७. 'संभवे' ख. १८. 'शास्त्रौ' ग-घ. १९. 'षाडवो रागमानयोः । संभवो जनने हेतौ मेलके चारुजन्मनि' ख. २०. 'समये' ख. २१. 'भृतके' ख. २२. 'कारवेल्ले च जीरे च सुग्रीवो वानराधिपे । चारुग्रीवे सैन्धवस्तु सिन्धुदेशोद्भवे हये ।। मणिमन्थेऽप्यथादर्शष्टीकायां' ख. २३. 'कम्पिल्लक' ख-ग-घ. २४. 'वशौ' ग-घ. २५. 'माधुरी' ग घ. २६. 'भययोः' ख. २७. इतःपरम् 'दुःस्पर्शस्तु खरस्पर्श कण्टकार्या यवासके' ख.
For Private and Personal Use Only
Page #127
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५०
अभिधान संग्रह::-८ अनेकार्थसंग्रहः ।
S
निर्वेशः स्यादुपभोगे मूर्च्छने वेतनेऽपि च । निवेशः सैन्यविन्यासे न्यासे ङ्गविवाहयोः ॥१३२१ निदेशः स्यादुपकण्ठे शासने परिभाषणे । नीकाशो निश्चये तुल्ये प्रकाशः स्फुटहासयोः ॥ १३२२ उद्योतेऽतिप्रसिद्धे च प्रदेशो देशमात्रके । भित्तौ मानविशेषे च पलाशः किंशुकेऽस्रपे || १३२३ हर पलाशं पत्रे पिङ्गाशं जात्यकाञ्चने । पिङ्गाशौ मत्स्यपल्लीशौ, पिङ्गाशी स्यात्तु नीलिका १३२४ बालिशस्तु शिशौ मूर्खे, भूकेशः शैवले वैटे । लोमशो लोमयुक्तेऽवौ / लोमशा शाकिनीभिदि ॥ १३२५ महामेदाकाकजङ्घाशृगालीजटिलासु च । कासीसेऽतिवलाशूकशिम्बीमर्कटिकासु च ॥ १३२६ विवशः स्यादवश्यात्मानिष्टदुष्टमतिश्च यः । विकाशो रहसि व्यक्ते विपाशः पाशवर्जिते || १३२७ विपाशा तु सरिद्भेदे सदेशोऽन्तिकदेशयोः । सदृशं तूचिते तुल्ये संकाशः सदृशेऽन्तिके ॥ १३२८ संवेशः शयने पीठे, सुखाशस्तु प्रचेतसि । शुभाशे राजतिनिशे हताशो निष्कृपे खले ॥ १३२९ अध्यक्षोऽधिकृते त्वक्षेsभीषुः प्रग्रहरोचिषोः । आरक्षो रक्षके हस्तिकुम्भाश्चामिषं पले ||१३३० सुन्दराकाररूपादौ संभोगे लोभलेञ्चयोः, । आकर्षः पाशके धन्वाभ्यासाने द्यूतइन्द्रिये ॥ १३३१ आकृष्टौ शारिफलकेऽप्युष्णीषं लक्षणान्तरे । शिरोवेष्टि किरीटेचं कलुषं लाविलांहसोः ॥ १३३२ कल्माषो राक्षसे कृष्णे शबलेऽप्यथ, किल्बिषम् । पापे रोगेऽपराधे च कुल्माषं स्यात्तु काञ्जिके १३३३ कुल्माषोऽर्धस्विन्नधान्ये, गवाक्षो जालके कपौ । गवाक्षी विन्द्रवारुण्यां गण्डूषो मुखपूरणे ।। १३३४ गजास्ये च कराङ्गुल्यां प्रसृत्यां प्रमितेऽपि च । गोरक्षौ गोपनारङ्गौ जिगीषा तु जयस्पृहा ।। १३३५ व्यवसाये प्रकर्षश्च तरीषः शोभनाकृतौ । भेलेऽब्धौ व्यवसाये च ताविषोऽब्धिसुवर्णयोः ।। १३३६ स्वर्गे च नहुषो राजविशेषे नांगभिद्यपि । निकषः शाणफलके निकषा यातुमातरि ॥ १३३७ निमेषनिमिषौ नेत्रमीलने कालभिद्यपि । प्रत्यूषः स्याद्वसौ प्रातः: प्रदोषः कालदोषयोः ।। १३३८ परुषं कैर्बुरेरुक्षे स्यान्निष्ठुरवचस्यपि । पियूषममृते नव्यसूतधेनोः पयस्यपिः || पुरुषस्वत्मनि नरे पुन्नागे चाथ पौरुषम् । ऊर्ध्वविस्तृतदोःपाणिपुरुषोन्मानतेजसोः ॥ १३४० पुंसः कर्मणि भावे च महिषी नृपयोषिति । सैरिभ्यामौषधीभेदे, मारिषस्वार्यशाकयोः ।। १३४१ मारिषा दक्षजननी मृगाक्षी मृगलोचना । त्रियामेन्द्रवारुणी च रक्ताक्षो रक्तलोचने ।। १३४२ चकोरे महिषे क्रूरे पारावतेऽथ रोहिषः । मृगकत्तृणमत्स्येषु विश्लेषस्तु वियोजने ॥ विधुरे चौथ, शुश्रूषोपासनाश्रवणेच्छयोः । शैलूषः स्यान्नटे बिल्वे संहर्षः पवने मुदि || स्पर्द्धायां च समीक्षा तु ग्रन्थभेदे समीक्षणे । अलसः स्याद्दुमे भेदे पादरोगे क्रियाजडे ।। १३४५ अलसा तु हंसपाद्यां नगौकोवदगोकसः । विहङ्गसिंहशरभा आश्वासः स्यात्तु निर्वृतौ ॥ १३४६ आख्यायिकापरिच्छेदेऽपीष्वासो धन्वधन्विनो । उच्छ्रासः प्राणने श्वासे गंधबन्धान्तरेऽपि च १३४७ उत्तंसः शेखरे कर्णपूरे चापि वर्तवत् । उदचिरुत्भेऽग्नौ च कनीयाननुजेऽल्पके ॥ १३४८
१३३९
१३४३
१३४४
१. 'द्रङ्गो नगरम् ' इति टीका. 'शिबिरोद्वाहयो:' ग घ. २. 'किंशुकः शढी' ख. ३. 'हरिद्वर्णो राक्षसश्च पलाशं छदने स्मृतम् । पक्षीशो गरुडे विष्णौ' ख. ४. 'नालिका' ग घ ५. इतः परम् 'भूकेशी वल्वजेषु स्याल्लोमशो लोमसंयुते । मुनिभेदे च मेषे च ' ख ६. 'कासीसं धातुभेद:' इति टीका. 'काशीशे' ख ग घ ७, 'अरिष्ट' ग-घ. ८. इतःपरम् 'नष्टवाञ्छे हुताशस्तु पावके हुतभोजिनि' इति ख- पुस्तकेऽधिकः पाठः ९. ' संचये 'ग-घ. १०. ' स्यादुत्प्रेक्षा व्यवधानके । काव्यालंकरणे चापि' ख. ११. 'यवके चणकेऽपि च' ख. १२. 'राग' ख. १३. 'कठिने' ख. १४. 'स्वात्मनि ' ग घ १५. 'सौरिभ्या' ग व १६. 'विशेषस्तु व्यक्तावयवेऽपि च । आधिक्ये चाथ' ख. १७. 'विहंस' ख. १८. 'पीष्ठासो' ग घ १९. 'पद्यान्त' ग घ २०. 'वहौ' ख.
For Private and Personal Use Only
Page #128
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ त्रिस्वरकाण्डः ।
५१
सस्तु मौ की कसमस्थानि । तामसः सर्पखलयोस्तामसी स्यान्निशोमयोः ॥ १३४९ त्रिस्रोता जाह्नवीसिन्धुभिदोरथ दिवौकसौ । चातकस्त्रिदशश्चापि दीर्घायुर्जीवके द्विके ।। १३५० मार्कण्डे शाल्मलित नभसस्तु नदीपतौ । गगने ऋतुभेदे च पनसः कपिरुग्भिदोः || १३५१ कण्टके कण्टकिफले प्रचेता वरुणे मुनौ । हैष्टे पायसः श्रीवासे, पायसं परमान्नके ॥ १३५२ बीभत्सो विकृते क्रूरे रसे पार्थे घृणात्मनि । बुक्कसी कालिकानीत्योबुक्कसः श्वपचेऽधमे ||१३५३ मानसं स्वान्तसरसो रभसो वेगहर्षयोः । राक्षसी कौणपी दंष्ट्रा रोद इव तु रोदसी ॥ १३५४ दिवि भुव्युभयचापि लालसो लोलयाच्ञयोः । तृष्णातिरेक औत्सुक्ये वरीयान्श्रेष्ठयोगयोः १३५५ अतियून्यतिविस्तीर्णे वायसस्वगुरौ द्विके । श्रीवासे वायसी काकोदुम्बरी कावमाच्यपि ॥ १३५६ वाहसोऽजगरे वारिनिर्याणे सुनिषण्णयोः । विलासो हावे लीलायां विहायो व्योमपक्षिणोः १३५७ श्रीवासः स्याद्वृकधूपे कमले मधुसूदने । श्रेयसी गजपिप्पल्यामभयारास्त्रयोरपि ॥ समासः समर्थनायां स्यात्संक्षेपैकपद्ययोः ।। सप्ताचिः क्रूरनेम साधीयानतिशोभने ॥ १३५९ अब साहसं तु दमे दुष्करकर्मणि । अविमृश्यकृतौ धाष्टर्ये, सारसं सरसीरुहे ॥ १३६० सारसः पुष्कराख्येन्द्राः सुमनाः प्राज्ञदैवयोः । जात्यां पुष्पे सुमेधास्तु ज्योतिष्मत्यां विदुष्यपि १३६१ सुरसः स्वादौ पर्णासेऽप्यत्यूहश्चित्रमेखले । अत्यूहा तु नीलिकायामाग्रहो ऽनुग्रहे ग्रहे ॥ १३६२ आसङ्गाक्रमणयोश्चाप्यारोहो दैर्ध्य उच्छ्रये । आरोहणे गजारोहे स्त्रीकट्यां मानभिद्यपि ।। १३६३ कहो भण्डने खड्गको समरदियोः । कटाहः स्यात्कूर्मपृष्ठे कर्परे महिषीशिशौ ॥ तैलादिपापात्रे च दात्यूहः कालकण्ठके । चातकेऽपि नवाहस्त्वाद्यतिथौ नववासरे, ॥ १३६५
१३५८
१३६४
93
१३६७
१३६८
निर्यूहो द्वारि निर्यासे शेखरे नागदन्तके । निरूहो निश्चिते तर्फे वस्तिभेदेऽथ निग्रहः ॥ १३६६ बन्धके भर्त्सने सीन्नि, प्रग्रहः किरणे भुजे । तुलासूत्रेऽश्वादिरश्मी सुवर्णहलिपादपे ।। बन्धने वन्द्यां प्रवाहो व्यवहाराम्बुवेगयोः । प्रवहो वायुभेदे स्याद्वायुमात्रे बहिर्गतौ ॥ ॥ प्रग्राहः स्यात्तुलासूत्रे वृषादीनां च बन्धने । पटहो वाद्य आरम्भः वैराहो नणिके किरौ ॥ १३६९ गिरौ विष्ण, वाराही गृष्टिभेषजे । मातर्यपि, विदेहस्तु निर्देहे मैथिलेऽपि च ॥ १३७० विग्रहो धि विस्तारे प्रविभागशरीरयोः । संग्रहो बृहदुद्धारे ग्राहसंक्षेपयोरपि । || सुवस्तु सम्यग्व सुबहा लकीदुमे । रास्नाशेफालिका गोधाद्येलापणिकासु च ॥ इत्याचार्य हेमचन्द्रविरचितेऽनेकार्थसंग्रहे त्रिस्वरकाण्डस्तृतीयः ।
१७
For Private and Personal Use Only
१३७१ १३७२
१. 'कीकसकास्थिनि' घ-पुस्तक एवं पाठ उपलभ्यते. २. 'तामस्ते स्यात् ' ग. ३. 'मार्कण्डेये' ग घ ४. 'हृष्टे पायसः पायसं श्रीवासपरमान्नयोः ' ग-व-पुस्तक एतादृश: पाठ उपलब्ध: ५. 'विस्तारे' ख. ६. 'कावमाची औषधीभेदे' इति टीका. 'काकमाची' ख ग घ ७. 'दुष्कृत' गै घ. ८. 'द्वेषे' ग घ ९. 'पक्षिशीतांश्वोः ' ग घ . १०. 'स्यात्सुमधुरे सुरसा त्वौषधीभिदि । अत्यूहस्तु मयूरे स्यादत्यूहा निलिकौषधौ ॥ आग्रहोऽनुग्रहासक्तिग्रहेष्वाक्रमणेऽपि च। आरोहो दैर्ध्य उच्छ्राये स्त्रीकट्यां मानभिद्यपि || आरोहणे गजारोहेऽप्युत्साहः सूत्र उद्यमे । ' ख- पुस्तकस्थोऽयं पाठः. ११. 'युद्धवराटयोः ' ख. १२. 'राढो देशविशेष:' इत्यनेकार्थकैरवाकरकौमुदी. १३. 'निर्व्यूहो द्वारि' ग-घ. १४. 'कृततमालवृक्ष:' इति टीका. 'सुवर्णे हरिपादपे' ख. १५. 'वृणोतीति वराहः इति टीका. 'वाराहः' ग-घ. १६. 'नाणकं रूपकादि' इति टीका. 'नागके' ग घ १७. इतः परम् 'वैदेही पिप्पलीसीतारोचनासु वणिस्त्रियाम्' क ख १८. 'शल्लकीद्रुमे' ग घ १९. 'पटोली' ख.
Page #129
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५२
अभिधानसंग्रहः-८ अनेकार्थसंग्रहः ।
चतुःस्वरकाण्डः । अङ्गारक उल्मकांशे महीपुत्रे कुरण्टके । अङ्गारिका विक्षुकाण्डे किंशुकस्य च कोरके ॥१३७३ अलिपकः पिके भृङ्गेऽलमकः पद्मकेसरे । मधुके कोकिले भेकेऽश्मन्तकं मालुकाछदे ॥ १३७४ चुल्यां, चाक्षेपको व्याधिनिन्दके वातरुज्यपि । आकल्पकस्तमोमोहग्रन्थावुत्कलिकामदोः ॥१३७५ आखनिकस्त्वाखुरिव किरावुन्दरचौरयोः । उत्कलिका तु हेलायां तरङ्गोत्कण्ठयोरपिः॥ १३७६ एडमूकोऽनेडमूक ईवावाक्श्रुतिके शठे.। कटिल्लकस्तु वर्षाभ्वां पर्णासे कारवेल्लके ॥ १३७७ कर्कोटकोऽहौ बिल्वे च, कनीनिकाक्षितारके । स्यात्कनिष्ठाङ्गुलिरपि काकरूको दिगम्बरे॥१३७८ उलूके स्त्रीजिते दम्भे भीरुके निर्धनेऽपि च । कुरुवकः शोणाम्लानेऽरुणा पीतां च झिण्टिका ||१३७९ कृकवाकुस्ताम्रचूडे मयूरककलासयोः । कोशातकः कचे कोशातकी ज्योत्स्नीपटोलिका ॥१३८० घोषकेऽथ, कौलेयकः सारमेयकुलीनयोः । कौकुटीको दाम्भिके स्याददुरेरितलोचने ।। १३८१ गुणनिका तु शून्याङ्के नर्तने पाठनिश्चये । गोमेदकं पीतरत्ने काकोले पत्रकेऽपि च ॥ १३८२ गोकण्टको गोक्षुरके गोखुरैः स्थपुटीकृते । गोकुणिकः केकरे स्यात्सङ्कस्थगव्युपेक्षके ॥ १३८३ घरिका भृष्टधान्ये किङ्कण्यां सरिदन्तरे । वादित्रस्य च दण्डेऽपि चण्डालिकौषधीभिदि॥१३८४ किन्दरायामुमायां च जर्जरीकं जरत्तरे । बहुच्छिद्रेऽथ जैवातृकः स्याद्रजनीकरे ॥ १३८५ कृशायुष्मद्वेषजेषु, तेतरीकं वहिवके । पारगे. त्रिवर्णकस्तु गोक्षुरेऽथ त्रिवर्णकम् ।। १३८६ त्र्यूषणं त्रिफला. तिक्तशाकस्तु पथसुन्दरे । वरुणे खदिरे दन्दशूकस्तु फणिरक्षसोः॥ १३८७ दलाढकोऽरण्यतिले गैरिके नागकेसरे । कुन्दे महत्तरे फेने करिकर्णशिरीषयोः ॥ १३८८ वात्यायां खातके प्रश्नयां' नियामको नियन्तरि । पोतवाहे कर्णधारे निश्चारकः समीरणे ॥१३८९ पुरीषस्य क्षये स्वैरे प्रचलाको भुजङ्गमे । शराघाते शिखण्डे च प्रकीर्णकं तुरङ्गमे ॥ १३९० चामरे विस्तरे ग्रन्थभेदे पिप्पलकं पुनः । चचुके सीवनसूत्रे पिण्डीतकः फणिजके ॥ १३९१ तगरे मदनद्रौ च पुण्डरीकं सिताम्बुजे । सितच्छत्रे भेषजे च पुण्डरीकोऽग्निदिग्गजे ॥१३९२ सहकारे गणधरे राजिलाहौ गजज्वरे । कोशकारान्तरे व्याघ्र पुष्कलकस्तु कीलके ॥ १३९३ कृपणे गन्धमृगे च स्यात्पूर्णानकमानके । पात्रे च पूर्णपात्रे च फर्फरीकं तु मार्दवे ।। १३९४ फर्फरीकश्चपेटायां. बलाहकोऽम्बुदे गिरौ । दैये नागे बर्बरीकः केशविन्यासकर्मणि ।। १३९५ शाकभेदे महाकाले बकेरुका बलाकिका । वातावर्जितशाखा च भ्रमरको मधुव्रते ॥ १३९६ गिरिके चूर्णके केशे भयानकस्तु भीषणे । व्याने राहौ रसे भट्टारको राज्ञि मुनौ सुरे ॥ १३९७
१. 'कुरुण्टके ग- घ. २. 'न लिम्पतीति अलिपकः' इति टीका. 'अलिपिकः' ख. ३. 'अलमत्यर्थमकति अलमकः' इति टीका. 'अलिमकः' ख; 'अलिम्पकः' ग-घ. ४. 'मालुका छदो वृक्षः' इति टीका. 'मल्लिकाछदि' ग-घ. ५. 'तु निर्वाणी श्रुतिके' ग-घ. ६. 'कटतीति कटिल्लस्ततः कः' इति टीका. 'कचिल्लकः' ख; कठिल्लकः' ग-घ. ७. 'कठे' ग-घ.८. 'गोमेदकः' ग-घ. ९. 'किन्दरा चण्डालवादित्रम्' इति टीका. 'कन्दरायाम्' ख-ग-घ. १०. 'जरातुरे' ख. ११. 'तरति तर्तरीकः 'कृपशू' इति बहुवचनादीके साधुः' इति टीका. 'कर्तरीकम्' इति ख. १२. 'पत्रसुन्दरे' ख. १३. 'दलाठकः' ख. १४. इतः परम् 'दासेरकस्तु धीवरे । दासीपुत्रे च करभे' इत्यप्युपलभ्यते पाठः ख-पुस्तके. १५. 'फणिज्झके' ग-घ. १६. 'गन्धहरिणे' ख. १७. 'बलाधिका' ग-घ.
For Private and Personal Use Only
Page #130
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४ चतुःस्वरकाण्डः। भार्याटिको मृगभेदे भार्यया च विनिर्जिते । मरुवकः पुष्पभेदे मदनद्रौ फणिज्झके ॥ १३९८ मयूरकस्त्वपामार्गे मयूरकं तु तुत्यके । माणवकः कुपुंसि स्याद्वालहारभिदोरपि ॥ १३९९ मृष्टेरुकः स्यान्मृष्टाशे दानशौण्डेऽतिथिद्विषिः। रतद्धिकं तु दिवसे सुखस्नानेष्टमङ्गले ॥ १४०० राधरङ्कस्तु नासारे सीकरे जलदोपले । लालाटिकः स्यादोश्लेषभेदे कार्याक्षमेऽपि च ॥ १४०१ प्रभो वदर्शिनि च लेखीलकस्तु तत्रयः । स्वहस्तं परहस्तेन लिखितेषु विलेखयेत् ॥ १४०२ लेखहारे वर्तरूकः काकनीले जलावटे । वराटकः पद्मबीजकोशे रज्जौ कपर्दके ॥ १४०३ वरण्डकस्तु मातङ्गवेद्यां यौवनकण्टके । संवर्तुले च भित्तौ च विनायको गणाधिपे ॥ १४०४ बुद्धे ताये गुरौ विघ्ने वितुन्नकं तु धान्यके । झाटामलौषधौ चाफि विदूषकोऽन्यनिन्दके ॥१४०५ क्रीडनीयकपात्रे च विशेषकस्तु पुण्डके । विशेषाध्यायके चापि वृन्दारको मनोरमे ॥ १४०६ सुरे श्रेष्ठो बृहतिका स्यादुरुवस्त्रभेदयोः । वैतालिकः खेट्टताले मङ्गलपाठकेऽपि च ॥ १४०७ वैनाशिकः स्यात्क्षणिके परायत्तोर्णनाभयोः । वैदेहको वाणिजके वेश्यापुत्रे च शूद्रतः ॥ १४०८ शतानिको मुनौ वृद्ध शालावृको वलीमुखे । सारमेये शृगाले च शिलाटकस्तिलाट्टयोः ॥१४०९ शृङ्गाटकं पथां श्लेषे पानीयकण्टकेऽपि च । संघाटिका तु कुट्टिन्यां घ्राणे युग्मेऽम्बुकण्टके १४१० संतानिका क्षीरशरे मर्कटस्य च जालके । सुप्रतीकः स्यादीशानदिग्गजे शोभनाङ्गके ॥ १४११ सैकतिकं पुनर्मातृयात्रामङ्गलसूत्रयोः । सैकतिकः क्षपणके संन्यस्ते भ्रान्तिजीविनिः ॥ १४१२ सोमवल्कः काले स्याद्वलक्षखदिरद्रुमे । सौगन्धिको गन्धवणिक्सौगन्धिकं तु कत्तॄणे ॥ १४१३ गन्धोत्पले पद्मरागे कल्हारेऽग्निमुखो द्विजे । भल्लाके चित्रके देवेऽप्यग्निशिखं तु कुङ्कुमे॥ १४१४ अग्निशिखा लाङ्गलिक्यामिन्दुलेखेन्दुखण्डके । गडूचीसोमलतयोः पञ्चनखस्तु कच्छपे ॥ १४१५ गजे बद्धशिखो वाले बद्धशिखोच्चटौषधौ । महाशङ्खो निधिभेदे संख्याभेदे नरास्थनि ॥१.४१६ व्याघ्रनखस्तु कन्दे स्याद्गन्धद्रव्यान्तरेऽपि च । शशिलेखा वृत्तभेदे वाकुची चन्द्रलेखयोः ॥१४१७ शिलीमुखोऽलौ बाणे, चापवर्गस्त्यागमोक्षयोः। क्रियावसाने साफल्येऽप्यभिषङ्गः पराभवे ॥१४१८ आक्रोशे शपथो चेहामृगः स्याद्रूपकान्तरे । वृके जन्तौ. चोपरागो राहुग्रस्तार्कचन्द्रयोः ॥ १४१९ विगाने दुर्नये राहावुपसर्ग उपद्रवे । प्रादौ च रोगभेदे च कटभङ्गो नृपात्यये ॥ १४२० हस्तच्छेदे च सस्यानां छत्रभङ्गो नृपक्षये । स्वातव्ये विधवत्त्वे च दीर्घाध्वगः क्रमेलके ॥१४२१ लेखहारे मल्लनागो वात्स्यायनसुरेभयोः । समायोगस्तु संयोगे समवाये प्रयोजने ॥ १४२२ संप्रयोगो निधुवने संबन्धे कार्मणेऽपि च । जलसूचिः शिशुमारे त्रोटिमत्स्ये जलौकसि ॥ १४२३
१. भामटति भार्याटिकः' इति टीका. 'भार्याढिकः' इति ग-घ. २. 'नागभेदे' ख; 'मुनिभेदे' ग-घ. ३. अस्य स्थाने 'मण्डोदकं तु चित्तस्य राग आतर्पणेऽपि च' इत्यधिकः पाठ उपलभ्यते ख-पुस्तके. ४. 'शीकरे ख-ग-घ. ५. 'आश्लेषे भवे' ग-घ. ६. 'लेखयति लेखं लपति वा लेखीलकः' इति टीका. 'लेखनिकः' ग-घ. ७, 'काकनीलो वृक्षभेदः' इति टीका. 'काकनीडे' ख-ग-घ. ८. 'उरुः सक्थि' इति टीका. 'दारु वस्त्र' ग-घ. ९. 'खेडेन क्रीडया तालः' इति टीका. 'खड्गताले' ख; 'खड्जताले ग-घ. १०. विदिह्यते पनि स्वार्थोऽणि के च वैदेहकः' इति टीका. 'वैदेहिक:' ख. ११. 'शिलाट्टयोः' ग-घ. १२. इतःपरम् 'शृङ्गाटिका शिवायां स्यात्रासादपि पलायने' इति ख. १३. 'संतनोति संतानिका' इति टीका. 'शन्तानिका' ग-घ. १४. 'क्षीरशर आमिक्षा' इति टीका. 'हीरराजे' ग-ध. १५. 'कालो वृक्षः' इति टीका. 'कटफले' ख-ग-घ. १६. 'अग्निशाखा ख.
For Private and Personal Use Only
Page #131
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिधानसंग्रहः-८ अनेकार्थसंग्रहः । कङ्कशृङ्गाटयोश्चापि मलिम्लुचस्तु तस्करे । वाते काश्मीरज कुष्टे कुङ्कमे पौष्करेऽपि च ॥ १४२४ काश्मीरजातिविषयां क्षीराब्धि मौक्तिके।वशिरे क्षीराधिजस्तु चन्द्र क्षीराब्धिजा श्रियाम् ।। ग्रहराजः शशिन्य जघन्यजोऽनुजन्मनि । शूद्रे च द्विजराजस्तु शेषे तार्थे निशाकरे ॥१४२६ धर्मराजस्तु सुगते श्राद्धदेवे युधिष्ठिरे।। भरद्वाजः पक्षिभेदे बृहस्पतिसुतेऽपि च ॥ १४२७ भारद्वाजो मुनौ भारद्वाजी वनपिचुद्रुमे ।] भृङ्गराजो मधुकरे मार्कवे विहगान्तरे' ॥ १४२८ राजराजो नृपेशेन्द्वोः कुबेरेऽथ सकृत्प्रजः। काके सिंहेऽथोच्चिङ्गटः कोपने मीनभिद्यपि ॥१४२९ करहाटः पद्मकन्दे देशद्रुमविशेषयोः । कार्यपुटोऽनर्थकारे क्षपणोन्मत्तयोरपि ॥ १४३० कामकूटो वेश्याविभ्रमेष्टावधा कुटन्नटः । शोणके कैवर्तीमुस्ते कुण्डकीटस्तु जारतः ॥ १४३१ विप्रीपुत्रे दासीपतौ चार्वाकोक्तिविशारदे । खञ्जरीटस्तु खञ्जनेऽसिधाराव्रतचारिणोः ॥ १४३२ गाढमुष्टिस्तु कृपणे कृपाणप्रभृतावपि । चक्रवाटस्तु पर्यन्ते क्रियारोहे शिखातरौ ॥ १४३३ तुलाकोटिर्मानभेदेऽर्बुदे स्यान्नूपुरेऽपि च । नारकीटः स्वदत्ताशाविहन्तर्यश्मकीटके ॥ १४३४ प्रतिशिष्टः पुनः प्रत्याख्याते च प्रेषितेऽपि च प्रतिकृष्टं तु गुह्ये स्याद्विरावृत्त्या च कर्षिते ॥१४३५ परपुष्टः कलकण्ठे परपुष्टा पणाङ्गना। वर्कराटस्तु तरुणादित्यरोचिःकटाक्षयोः ॥ १४३६ स्त्रीणां पयोधरोत्सङ्गकान्तदत्तनखेऽपि च ।शिपिविष्टस्तु खल्वाटे दुश्चर्मणि पिनाकिनिः॥ १४३७ श्रुतिकटः प्राञ्चलोहे प्रायश्चित्तभुजङ्गयोः । कलकण्ठः पिके पारावते हंसे कलध्वनौ ॥ १४३८ कालकण्ठनीलकण्ठौ पीतसारे महेश्वरे । दात्यूहे ग्रामचटके खञ्जरीटे शिखावले ॥ १४३९ कालपृष्ठं तु कोदण्डमात्रके कर्णधन्वनि । कालपृष्ठो मृगभेदे कङ्के दन्तशठः पुनः ॥ १४४० जम्बीरे नागरङ्गे च कर्मरङ्गकपित्थयोः । पूतिकाष्ठं तु सरले देवदारुद्रुमेऽपि च ॥ १४४१ सूत्रकण्ठः खञ्जरीटे द्विजन्मनि कपोतके । होरिकण्ठः हारयुक्तकण्ठे परभृतेऽपि च॥ १४४२ अपोगण्डोऽतिभीरौ स्याच्छिशुके विकलाङ्गके । चक्रवाडं गणे,चक्रवाडोऽद्रौ चक्रवालवत् ॥१४४३ जलरुण्डः पयोरेणौ जलावर्ते भुजङ्गमे । देवताडो घोषकेऽनौ राहो वातखुडा पुनः ॥ १४४४ वात्यायां पिच्छिलस्फोटे वामायां वातशोणिते। अध्यारूढः समारूढेऽभ्यधिकेऽङ्गारिणी पुनः १४४५ भास्करे त्यक्तदिक्षुल्योराथर्वणः पुरोधसि । अथर्वज्ञब्राह्मणे. चाप्यारोहणं प्ररोहणे ॥ १४४६ समारोहे सोपाने च स्यादुद्धरणमुन्नये । भुक्तोज्झितोन्मूलनयोरुत्क्षेपणमुदचनम् ॥ १४४७
१. इत्यत्र 'शेषे तार्थे निशाकरे । अमृतादिसमूहे च भवेत्' ग-पुस्तकेऽधिकः पाठः. २. 'शशाङ्के गरुडेऽपि च' ख. ३. 'मुनौ जीवसुतेऽपि च' ग-घ. ४. 'भरद्वाजस्यापत्यं भारद्वाजः' इति टीका. 'भरद्वाजः' ख. कोष्ठान्तर्गतपाठो ग-घ-पुस्तकयो स्ति. ५. 'द्विके' ख. ६. 'पुष्प' ख. ७. 'धवे दास्याः' ख. ८. 'फलके' ख. ९. इतःपरम् 'गन्धकुटी मदिरायां बुद्धाद्यायतनेऽपि च' ख. १०. इतःपरम् 'चतुःषष्टिश्चतुःषष्टिकलासु बढचेऽपि च ख. ११. 'प्रतिशिष्यते प्रतिशिष्टः' इति टीका. 'प्रतिसृष्टः' ग-घ, १२. 'श्रुति शास्त्रं कटति श्रुतिकटः' इति टीका. 'श्रुतिकण्ठः' ग-घ. १३. 'हारी हारवान् मनोहरो वा कण्ठो गलः स्वरो वा यस्य हारिकण्ठः' इति टीका. 'हारकण्ठः' ख. १४. 'जलं रुणद्धि जलरुण्डः' इति टीका. 'जलरण्डः' ग-घ. १५. 'अत्र अप्यधिकेऽप्यभिधेयवत् । अङ्गारिणीह संत्यां स्याद्भास्करत्यक्तदिश्यपि । आथर्वणोऽथर्वविदि ब्राह्मणे च पुरोधसि । आरोहणं समारोहे सोपाने च प्ररोहणे । आतर्पणं तु सौहित्ये विन्द्यादालिङ्गनेऽपि च । उत्क्षेपणं तु व्यजने धान्यमर्दनवस्तुनि । उदञ्चने चोद्धरणं स्यादुन्मूलन उन्नये । वातान्ने च कामगुणो विषयाभोगयो रतौ। कार्षापणः कार्षिके स्यात्पणषोडशकेऽपि च । जीर्णपर्णस्तु निम्बे स्यात्खजूरी भूरुहेऽपि च ॥' ख-पुस्तके एवं पाठः.
For Private and Personal Use Only
Page #132
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४ चतुःस्वरकाण्डः। व्यजनं धान्यमलनवस्तु कामगुणो रतौ । विषयाभोगयोश्चापि कार्षापणस्तु कार्षिके ॥ १४४८ पणं षोडशके, चीर्णपर्णः खजूरनिम्बयोः । चूडामणिः काकचिञ्चाफले मूर्द्धमणावपि॥ १४४९ जुहुराणोऽध्वर्युवबयोस्तण्डुरीणस्तु वर्वरे । तण्डुलाम्बुनि कीटे च तैलपर्णी तु सिल्हके ॥१४५० श्रीवासे चन्दने दाक्षायण्युमायां च भेषु च । रोहिण्यां च। देवमणिर्विष्णुवक्षोमणौ हरे ॥१४५१ अश्वस्य कण्ठावर्ते चा नारायणस्तु केशवे । नारायणी शतावर्युमा श्रीनिःसरणं मृतौ ॥ १४५२ उपाये गेहादिमुखे निर्वाणे निर्गमेऽपि च । निरूपणं विचारावलोकनयोनिदर्शने ॥ १४५३ निस्तरणं तु निस्तारे तरणोपाययोरपि । निगरणं भोजने, स्यान्निगरणः पुनर्गले॥ १४५४ प्रकरणं स्यात्प्रेस्तावे रूपकेऽथ प्रवारणम् । काम्यदाने निषेधे च पररीणं तु पर्वणेि ॥ १४५५ पर्णवृन्तरसे पर्णसिरायां घृतकम्बले।। पेरायणं स्यादभीष्टे तत्पराश्रययोरपि ॥ १४५६ परवाणिर्धर्माध्यक्षे वर्षे पारायणं पुनः । कास्न्य पारगतौ सङ्गे पीलुपण्यौषधीभिदि ॥ १४५७ मूर्वायां बिम्बिकायां च पुष्करिणी जलाशये । हस्तिन्यां कमलिन्यां च मीनाम्रीणस्तु खञ्जने ॥ १४५८ दँदराने रक्तरेणुः पलाशकलिकोद्गमे । सिन्दूरे रागचूर्णस्तु खदिरे मकरध्वजे ॥ १४५९ रोरिहाणो वरे रुद्रे लम्बकर्णः पुनश्छगे | अकोठे वारवाणस्तु कूर्पासे कवचेऽपि च ॥ १४६० विदारणं भेदने स्यात्संपराये विडम्बने । वैतरणी प्रेतनद्यां जनन्यामपि रक्षसाम्॥ १४६१ शरवाणिः शरमुखे पदातौ शरजीविनि | शिखरिणी वृत्तभेदे रोमालीपेयभेदयोः ॥ १४६२ स्त्रीरत्ने मल्लिकायां च समीरणः फणिज्झके । पान्थे वायौ संसरणं वसंबाधचमूगतौ ॥ १४६३ संसारे च समारम्भे नगरस्योपनिर्गमे । हस्तिकर्णः स्यादेरण्डे पलाशगणभेदयोः ॥ १४६४ अबदातस्तु विमले मनोज्ञे सितपीतयोः। अपावृतोपरायत्तेऽपिहितेऽवसितं गतौ ॥ १४६५ ऋद्धे ज्ञातेऽवसाने चाप्यवगीतं विहिते । मुहुईष्टेऽपवादे चात्याहितं तु महाभये ॥ १४६६ जीवनिरपेक्षकर्मण्यभिजातः कुलोद्भवे।न्याय्ये प्राज्ञेऽभिनीतस्तु न्याय्येऽमर्षिणि संस्कृते॥१४६७ अभियुक्तः परिरुद्धे तत्परेऽन्तर्गतं पुनः । मद्यप्राप्तविस्मृतयोरङ्गारितं तु भस्मिते ॥ १४६८ पलाशकलिकोद्रेदे। चातिमुक्तस्तु निष्कले। वासन्तिकायां तिनिशेऽप्यवध्वस्तोऽवचूर्णिते॥१४६९ त्यक्तनिन्दितयोश्चाधिक्षिप्तौ निहितभत्सितौ। अपचितिर्व्यये हानौ पूजायां निष्कृतावपि ॥ १४७० अनुमितिः स्यादनुज्ञापौर्णमासीविशेषयोः । अनुशस्तिः पुनर्लोकापवादे प्रार्थनेऽपि च॥ १४७१ उदास्थितश्चरे द्वाःस्थेऽध्यक्षेोचोपाहितः पुनः । आरोपितेऽनलोत्पातेऽप्युपाकृत उपद्रवे ॥१४७२ मन्त्रेण प्रोक्षितपशावुल्लिखितं तनूकृते । उत्कीर्णे चोपरक्तस्तु स्वर्भानौ व्यसनातुरे ॥ १४७३ राहुप्रस्तार्कशशिनोरुपचितः समाहिते । रुद्धे दग्धेऽथोजृम्भितमुत्फुल्ले चेष्टितेऽपि च ॥ १४७४ उद्राहितमुपन्यस्ते बद्धग्राहितयोरपि।। उपसत्तिः सङ्गमात्रे प्रतिपादनसेवयोः॥ १४७५ ऋष्यप्रोक्ता शुकशिम्ब्यां शतावर्या बलाभिदि। ऐरावतोऽहौ नागरङ्गे लकुचे त्रिदशद्विपे॥ १४७६ ऐरावतं तु शक्रस्य ऋजुदीर्घशरासने।। ऐरावती विद्युद्विद्युद्भिदोः शतहूदा यथा ॥ १४७७
१. 'तैलं पर्णेऽस्यास्तैलपर्णी' इति टीका. तिलपर्णी' ग-घ. २. 'द्विश्रामे' ग-घ. ३. 'परीपणः' ख. ४. इतः परम् 'दण्डे कूर्मे पाटशाटे पर्वरीणं तु पर्वणि' इति ख. ५. 'परीरणम्' ग-ध. ६. 'मीनानामयति मीनाम्रीणः' इति टीका. 'मीनाप्रीणः' ख; 'मीनास्त्रीणः' ग-ध. ७. 'दर्दराम्रो वृक्षभेदः' इति टीका. 'दर्दु. रासे' ख; 'दर्शरात्रे' ग-घ. ८. 'अपरावृत्ते' ग-घ. ९. 'वद्धे' ख. १०. 'संस्मृते' ख. ११. 'ऋद्धे' ग-ध. १२. 'अद्रौ' ख. १३. 'सरित्' ख.
१६
For Private and Personal Use Only
Page #133
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिधानसंग्रहः-८ अनेकार्थसंग्रहः । कलधौत रूप्यहेनोः कलधौतः कलध्वनौ । कुहरितं तु रटिते पिकालापे रतस्वने ॥ १४७८ कुमुदती कैरविण्यां दयितायां कुशस्य च । कृष्णवृन्ता माषपण्या पाटलाख्यद्रुमेऽपि च॥ १४७९ गन्धवती मुरापुर्योः पृथ्वीयोजनगन्धयोः । गृहपतिगृही सत्री, चन्द्रकान्तं तु कैरवे । ॥ १४८० चन्द्रकान्तो रत्नभेदे चर्मण्वती नदीभिदि । कदल्या चित्रगुप्तस्तु कृतान्ते तस्य लेखके॥ १४८१ दिवाभीतः काकरिपौ कुम्भिले कुमुदाकरे। दिवाकीर्ति पिते स्यादुलूकेऽन्तावसायिनि।। १४८२ धूमकेतू वह्नयुत्पातौ नन्द्यावर्तो गृहान्तरे । तगरेऽथा नदीकान्तो निर्गुण्डीनिचुलाब्धिषु ॥ १४८३ नदीकान्ता लताजम्ब्वोः काकजङ्घौषधेऽपि च । नागदन्तो हस्तिदन्ते गेहान्निःसृतदारुणि॥ १४८४ नागदन्ती श्रीहस्तिन्यां कुम्भाख्यभेषजेऽपि च । निषितं वर्जिते स्याद्धतत्वचि लघूकृते ॥ १४८५ निराकृतिरस्वाध्याये निराकारनिषेधयोः।। प्रतिहतस्तु विद्विष्टे प्रतिस्खलितरुद्धयोः॥ १४८६ प्रणिहितं तु संप्राप्तनिहितयोः समाहिते। प्रतिक्षिप्तं प्रतिहते निषिद्धे प्रेषितेऽपि च ॥ १४८७ प्रधूपिता क्लेशितायां रविगन्तव्यदिश्यपि । प्रव्रजिता तु मूण्डीयों तापस्यां मांसिकौषधौ ॥१४८८ प्रजापतिर्ब्रह्मराज्ञोर्जामातरि दिवाकरे । वह्नौ बष्टरि दक्षादौ प्रतिकृतिस्तु पूजने ॥ १४८९ प्रतिमायां प्रतीकारे प्रतिपत्तिस्तु गौरवे । प्राप्तौ प्रवृत्तौ प्रागल्भ्ये बोधे परिगतं गते ॥ १४९० प्राप्तचेष्टितयोझते पल्लवितं सपल्लवे । लाक्षारक्ते तते पञ्चगुप्तश्चार्वाकदर्शने ॥
१४९१ कमठे परिवर्तस्तु कूर्मराजे पलायने । युगान्ते विनिमये च परिघातस्तु घातने ॥ १४९२ अने चाथ, पशुपतिः पिनाकिनि हुताशने । पाशुपतः शिवमल्लयां पशुपत्यधिदैवते ॥ १४९३ पारिजातस्तु मन्दारे पारिभद्रे सुरद्रुमे । पारापतः कलरवे गिरौ मर्कटतिन्दुके ॥ १४९४ पारापती तुलबलीफलगोपालगीतयोः । पुष्पदन्तस्तु दिग्नागे जिनभेदे गणान्तरे ॥ १४९५ पुष्पदन्तौ च चन्द्रार्कावेकोक्त्याथ, पुरस्कृतम् । पूजिते स्वीकृते सिक्तेऽभिशस्तेऽग्रकृतेऽपि च ॥१४९६ भोगवती तु सर्पाणां नगरे च सरित्यपि । रङ्गमाता जतुचुन्द्योलक्ष्मीपतिर्जनार्दने ॥ १४९७ पूगे लवङ्गवृक्षे च व्यतीपात उपद्रवे । योगभेदेऽपयाने चावनस्पतिर्दुमात्रके ॥ १४९८ विना पुष्पं फलेऽद्रौ च विनिपातस्तु दैवतः । व्यसने चावपाने च वैजयन्तो गुहे ध्वजे ॥ १४९९ इन्द्रालये,वैजयन्ती त्वग्निग्रन्थपताकयोः । जयन्त्यां च समाघातस्वाहवे घातनेऽपि च ॥ १५०० समाहितः समाधिस्थे संश्रुतेऽथा समुद्धतः । अविनीते समुत्कीर्णे, समुद्रान्ता दुरालभा ॥१५०१ कार्पासिका च सृका च सदागतिः सदीश्वरे । निर्वाणे पवमाने च सरस्वती सरद्भिदि ॥ १५०२ वाच्यापगायां स्त्रीरत्ने गोवाग्देवतयोरपि।। सूर्यभक्तो बन्धुजीवे भास्करस्य च पूजके ॥ १५०३ हैमवत्यद्रिजा स्वर्णक्षीरी शुक्लवचाभया। अनीकस्थो रक्षिवर्जे युत्खले वीरमर्दने ॥ १५०४ चिह्ने गजशिक्षके चेतिकथा व्यर्थभाषणे । अश्रद्धेये नष्टधर्मेऽप्युदरथिर्वियन्मणौ ॥ १५०५ ___ १. 'मुरा औषधिः' इति टीका. 'सुरा' ख-ग-व. २. 'स्वाधिष्ठे' ग-ध. ३. 'भेषजे' ग-ध. ४. 'लाभे चेष्टितयोः' ख-ग-घ. ५. 'अस्त्रान्तरे' ख. ६. 'पारमापतति पारापतः' इति टीका. 'पारावतः' ग-घ. ७. 'पारावती' ग. ८. 'चुन्दी कुटिनी' इति टीका. 'चेट्योः' ख. 'त्रुट्योः ग-घ. ९. अतः परम् 'शुभ्र. दन्ती पुष्पदन्तगजस्त्रियाम् । सुदन्त्यां च' ख. १०. इतः परम् 'सेनापतिगुहेऽध्यक्ष हिमारातिः खगेऽनिले' इत्यधिकः पाठः ख-पुस्तके. ११. 'युधः खलं रणभूमिः' इति टीका. 'पुंश्चले वीरमर्दले' ख; 'अप्यश्वत्थे वीरमर्दले' ग-ध.
For Private and Personal Use Only
Page #134
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४ चतुः स्वरकाण्डः ।
१५०६
१५०८
१५०९
१५१०
१५११
१५१५
१५१६
१५१७
अब्धौ चित्ररथो विद्याधरे गन्धर्वसूर्ययोः ॥ चतुष्पथश्चतुर्मार्गसंगमे ब्राह्मणेऽपि च ॥ दशमीस्थः स्थविरे स्यात्क्षीणरोगे मृताशने । वानप्रस्थो मधूकद्रौ किंशुकाश्रमभेदयोः ।। १५०७ अष्टापदश्चन्द्रमल्लयां लूतायां शरभे गिरौ । कनके शारिफलकेऽभिमर्दो मन्थयुद्धयोः ॥ स्यादभिस्पन्द आश्रावनेत्ररोगातिवृद्धिषु । अववादस्तु निर्देशे निन्दाविश्रम्भयोरपि ।। उपनिषत्तु वेदान्ते रहस्यधर्मयोरपि । एकपदं तदाले स्यादेकपदी तु वर्त्मनि ॥ कटुकन्दः शृङ्गवेरे शोभा अनरसोनयोः । कुरुविन्दः पद्मरागे मुकुरब्रीहिभेदयोः ॥ कुल्माषे । हिङ्गुले मुस्ते कोकनदं तु रक्तके । अम्भोजन्मकुमुदयोश्चतुष्पदो गवादिषु ॥ स्त्रीणां करणभेदे च रक्तपादो मतङ्गजे । स्पन्दने च जनपदः स्यात्पुनर्जनदेशयोः ॥ परिवादस्तु निन्दायां वीणावादनवस्तुनि । प्रियंवदः प्रियवादिनभश्वरविशेषयोः ॥ पीठमर्दोऽर्तिवियाति नाट्योक्त्या नायकप्रिये । पुटभेदस्तु नगरातोद्ययोस्तटिनीमुखे ॥ महानादो वर्षाकान्दे महाध्वाने शयानके । गजे च मुचुकुन्दस्तु दुभेदे मुनिदैत्ययोः ॥ मेघनादो मेधशब्दे वरुणे रावणात्मजे । विशारदो बुधे धृष्टे विष्णुपदं नभोब्जयोः ॥ विष्णुपदस्तु क्षीरोदे विष्णुपदी सुरापगा । संक्रान्तिर्द्वारिका चापि समर्यादं तु संनिधौ ॥ १५१८ मर्यादया च सहितेऽप्यनुबन्धोऽप्रयोगिणि । मुख्यानुयायिनि शिशौ प्रकृतस्यानुवर्तने ॥ १५१९ दोषोत्पादेऽनुबन्धी तु हिकायां तृष्यति क्वचित्ः । अवरोधस्तु शुद्धान्ते तिरोधाने नृपौकसि || १५२० अवष्टब्धमविदूरे समाक्रान्तेऽवलम्बिते ।। अनिरुद्धश्वरे पुष्पचापसूनावनर्गले ॥ १५२१ आशाबन्धः समाश्वासे मर्कटस्य च वैौसके । इष्टगन्धः सुगन्धिः स्यादिष्टगन्धं तु वालुके ।। १६२२ इक्षुगंधा काशक्रोष्ट्री कोकिलाक्षेषु गोक्षुरे । उग्रगन्धा वचाक्षेत्रयवान्योरिछकिकौषधौ ॥। १५२३ उपलब्धिर्मतौ प्राप्तौ कालस्कन्धस्तु तिन्दुके । तमाले जीवकद्रौ च तीक्ष्णगन्धा वचौषधौ ॥। १५२४ शोभाञ्जने राजिकायां परिव्याधो दुमोत्पले । वेतसे महौषधं तु विषशुण्ठ्यो रसोनके ॥ १५२५ ब्रह्मबन्धुर्निन्द्यविप्रे बान्धवे ब्राह्मणस्य च । समुन्नद्धस्तूर्ध्ववद्धे पण्डितंमन्यदृप्तयोः । १५२६ अपाचीनं विपर्यस्तेऽपागर्थेऽभिजनः कुले । कुलध्वजे जन्मभूम्यामभिमानस्त्वहंकृतौ ॥ १५२७ हिंसायां प्रणये ज्ञानेऽवलग्नो मध्यलग्नयोः । अवदानमितिवृत्ते खण्डने शुद्धकर्मणि ॥ १५२८ अधिष्ठानं प्रभावेऽध्यासने नगरचक्रयोः । अनूचानः साङ्गवेदकोविदे विनयान्विते ॥ १५२९ अन्वासनं स्नेहवस्तौ सेवायामनुशोचने । अग्रजन्माग्रजे विप्रेऽन्तेवासी पुनरन्त्यजे ॥ १५३० शिष्यप्रान्त गयोश्चाप्यायोधनं समरे वधे । आराधनं पाकप्रात्योः साधने तोषणेऽपि च ।। १५३१ आच्छादनं तु वसने संविधानेऽपवारणे । आकलनं परिसंख्यालाङ्क्षयोर्बन्धनेऽपि च ।। १५३२ आतञ्चनं स्याज्जवने प्रीणनप्रतिवापयोः, । आवेशनं भूतावेशे प्रवेशे शिल्पिवेश्मनि ॥ १५३३ आस्कन्दनं तिरस्कारे संशोषणसमीकयोः । आत्माधीनः सुते प्राणाधारे श्याले विदूषके । १५३४
For Private and Personal Use Only
५७
१५१२
१५१३
१५१४
१. ‘अतिवृद्धे' ख. २. 'भ्रप्रभेदयोः ' ख. ३. 'कूमौ' ग घ ४. 'चतुष्पदं' ख. ५. 'रक्ताः पादा अस्य' इति टीका. 'चक्रपादः' ख. ६. 'प्रतिघृष्टे' ख ग घ ७ 'अम्बुदध्वाने' ख. ८ ' शतह्रदा तु विद्युति ॥ वज्रेऽपि च समर्यादं मर्यादासहितेऽन्तिके । अनुबन्धोऽप्रयोगे स्याच्छिशौ मुख्यानुयायिनि ॥ प्रकृतस्यानुवर्ते च दोषस्योत्पादनेऽपि च । अनुवर्ज्या तृषा हिकावरोधस्तु नृपौकसि ॥ शुद्धान्ते च तिरोधाने गर्तादौ रोधनेऽपि च ।' ख- पुस्तकस्थोऽयं पाठः ९. ' तृषिते' ग घ १०. 'अवलम्बिनि ' ग घ ११. 'मर्कटवासको लूतापुटम्' इति टीका. ' वाससि' ग घ . १२. 'शुण्ठ्यां विषारसोनयो: ' ग घ. १३. 'परिवेशे' ग घ.
Page #135
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिधानसंग्रहः-८ अनेकार्थसंग्रहः । आत्मयोनिः स्मरे वेधस्युद्वर्तनं विलेपने । अपावृत्तावुत्पतने स्यादुपासनमासने ॥ १५३५ शुश्रूषायां शराभ्यासेऽप्युपधानं तु गण्डके । व्रते विशेष प्रणये स्यादुत्पतनमुत्प्नुतौ॥ १५३६ उत्पत्तावुदयनस्तु वत्सराजे घटोद्भवे । उत्सादनं समुल्लेखाद्वर्तनोद्वाहनेष्वथा ॥ १५३७ उद्वाहनं द्विसीये स्यादुद्वाहनी वराटके। कपीतना गर्दभाण्डशिरीषाम्रातपिप्पलाः॥ १५३८ कलध्वनिः परभते पारापतकलापिनोः।। कात्यायनो वररुचौ कात्यायनी तु पार्वती ॥ १५३९ काषायवस्खविधवार्धवृद्धमहिलापि च । कामचारी कलविङ्के स्वेच्छाचारिणि कामुके॥ १५४० कारन्धमी धातुादनिरते कांस्यकारिणि । किष्कुपर्वा पोटगले स्यादिक्षुत्वचिसारयोः॥ १५४१ कुचन्दनं वृक्षभेदे पत्राङ्गे रक्तचन्दने । कुम्भयोनिर्दोणेऽगस्तौ कृष्णवर्मा विधुतुदे ॥ १५४२ दुराचारे हुताशे च गवादनीन्द्रवारुणी । घासस्थानं गवादीनां गदयित्नु: शरासने॥ १५४३ जल्पाके पुष्पचापेच घनाघनो निरन्तरे । वासवे घातुके मत्तगजवषुकवारिदे ॥ १५४४ घोषयित्नुः पिके विप्रे चिरंजीवी तु वायसे । अजे च चित्रभानुस्तु हुताशनदिनेशयोः॥१५४५ जलाटनः कङ्कखगे जलाटनी जलौकसि । तपोधना तु मुण्डीयाँ तपोधनस्तपस्विनिः ॥ १५४६ तपस्विनी पुनर्मीसी कटुरोहिणिकापि च । तिक्तपर्वा हिलमोचीगडूचीमधुयष्टिषु ॥ १५४७ देवसेनेन्द्रकन्यायां सैन्ये दिविषदामपि । नागाञ्चना नागयष्टौ द्विरदस्य च मुद्गरे ॥ १५४८ निर्यातनं वैरशुद्धौ दाने न्याससमर्पणे । निधुवनं रते कम्पे निर्वासनं तु मारणे ॥ १५४९ पुरादेश्च बहिष्कारे निरसनं नितूंदने । निष्ठीवने निरासे चा निशमनं निशामनम् ॥ १५५० निरीक्षणश्रवणयोनिर्भर्त्सनमलतके । खलीकारे, प्रजननं प्रेगमे योनिजन्मनोः॥ १५५१ प्रणिधानमभियोगे समाधानप्रैवेशयोः । प्रयोजनं कार्यहेत्वोः स्यात्प्रवचनमागमे । १५५२ प्रकृष्टवचने प्रस्फोटनं 'सूर्फे प्रकाशने । ताडने प्रतिपन्नस्तु विज्ञातेऽङ्गीकृतेऽपि च ॥ १५५३ प्रतियत्नः संस्कारे स्यादुपग्रहणलिप्सयोः । प्रहसनं तु प्रहासाक्षेपयो रूपकान्तरे ॥ १५५४ प्रतिमानं प्रतिबिम्बे गजदन्तद्वयान्तरे । प्रसाधनी कङ्कतिकासिद्धयोः प्रसाधनं पुनः ॥ १५५५ वेषे पंचलाकी सर्प मयूरेऽथा पयस्विनी । विभावाँ गोधेन्वां च पुण्यजनस्तु सज्जने ।। १५५६ गुह्यके यातुधाने चः पृथग्जनोऽधमे जडे | पृष्टशृङ्गी भीमसेने षण्डसैरभयोरपिः॥ १५५७ महाधनं महामूल्ये सिल्हके चारुवाससि । महासेनो महासैन्ये स्कन्देऽप्यथः महामुनिः॥१५५८ अगस्तिकुस्तुबुरुणोर्मालुधानी लताभिदि।। मालुधानो मातुलाही मातुलानि पुनः शणे ॥ १५५९ कलापे मातुलपत्न्यां, रसायनो विहङ्गमे । पक्षीन्द्रेः रसायनं तु जराव्याधिजिदौषधे ॥ १५६० राजादनः पियालद्रौ क्षीरिकायां त्रिपत्रके। वर्धमानो वीरजिने स्वस्तिकैरङ्गविष्णुषु ।। १५६१ प्रश्रभेदे शरावे च विरोचनोऽग्निसूर्ययोः । प्रह्लादनन्दने चन्द्रे विहेठनं विडम्बने ।। १५६२ हिंसायां मर्दने, विस्मापनाख्या कुहके स्मरे । गन्धर्वनगरे चापि विष्वक्सेनो जैनार्दने ॥ १५६३
१. 'गण्डुके' ग. २. 'विशे च' ग-घ. ३. 'लेख्यो' ख. ४. 'घु च' ख-ग-घ.५. 'द्वाभ्यां संगतं द्विसीत्यं द्विःकृष्टमित्यर्थः' इत्यनेकार्थकैरवाकरकौमुदी. ६. 'पारावत' ग-घ. ७. 'वादे' ग-घ. ८. 'मत्तगजे' ख-ग-घ. ९.'नागानामञ्चनमनया नागाञ्चना' इति टीका. 'नागाङ्गना नागपल्यां' ग-घ. १०. निषूदने' ख. ११. 'निदर्शने' ग-घ. १२. 'प्रगमने यो' ख; 'प्रगते यो' ग-घ. १३. 'योनिजन्मयोः'ग-घ. १४. 'प्रयोगयोः' ग-घ. १५. 'सौ' ख; 'शूर्प' ग-घ. १६. 'विक्रान्ते' ग-घ. १७.'प्रचलाकः कलापोऽस्त्यस्येति प्रचलाका' इति टीकाकारः. १८. सैरिभ' ख-ग-घ. १९. 'भिदौ' ग-घ, २०. त्रिपत्रकः किंशुकः' इति टीका. 'त्रिपक्षके ग-घ, २१. 'वीरजने' ख. २२. 'कुहकामिन्द्रजालम्' इत्यनेकार्थकैरवाकरकौमुदी. २३. जनार्दनः' ग-घ.
For Private and Personal Use Only
Page #136
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४ चतुःस्वरकाण्डः । विष्वक्सेना तु फलिनी विश्राणनं विहायिते । संप्रेषणे परित्यागे विहननं तु पिञ्जने ॥ १५६४ वधेऽथ विश्वकर्मा मुनिभिदेवशिल्पिनोः । विघ्नकारी विघातस्य कारके घोरदर्शने ॥ १५६५ विलेपनी स्याद्यवाग्वां चारवेषत्रियामपि । वृक्षादनो मधुच्छत्रे चलपत्रकुठारयोः॥ १५६६ वृक्षादनी तु बन्दायां विदार्यां गन्धकौषधे । वृषपर्वा तु शृङ्गारहरदैत्यकशेरुषु॥ १५६७ विरोधनो रैविसुते सुगते बलिदानवे । श्वेतधामा घनसारे कलानाथाब्धिफेनयोः॥ १५६८ श्लेष्मघना तु केतक्यां मयामथ समापनम् । परिच्छेदे समाधाने समाप्तिवधयोरपि ॥ १५६९ संमूर्छनमभिव्याप्तौ मोहे सनातनोऽच्युते । पितॄणामतिथौ रुद्रवेधसोः शाश्वते स्थिरे ॥ १५७० सदादानो गन्धगजे हेरम्बेऽभ्रमतङ्गजे।। संयमनं व्रते बन्धे संयमनी यमस्य पूः ॥ १५७१ समादानं समीचीनग्रहणे नित्यकर्मणि । समापन्नं वधे क्लिष्टे समाप्तप्राप्तयोरपि ॥ १५७२ संवदनं तु संवादे समालोचे वशीकृतौ । समुत्थानं निदानेऽभियोगे संवाहनं पुनः ॥ १५७३ वाहनेऽङ्गमर्दने च संप्रयोगी तु कामुके । कलाकेलौ सुप्रयोगे सरोजिनी सरोरुहे ॥ १५७४ सरोरुहिण्यां कासारे स्तनयित्नुः पयोमुचि । मृत्यौ स्तनिते रोगे च सारसनमुरश्छदे ॥ १५७५ काभ्यां च सामयोनिस्तु समोत्थे द्रुहिणे गजे। सामिधेनी समीदचोः सुयामनो जनार्दने॥१५७६ वत्सराजे प्रसादेऽद्रिभेदे चाथ सुदर्शनः । विष्णोश्चक्रे सुदर्शन्यमरावत्यां सुदर्शना॥ १५७७ अज्ञायामौषधीभेदे मेरुजम्ब्वां सेरीभिदि । सौदामिनी तडिद्भेदतडितोरप्सरोभिदि ॥ १५७८ हर्षयित्नुः सुते स्वर्णेऽवलेपो गर्वलेपयोः । दूषणेऽप्यपलापस्तु प्रेमापह्नवयोरपि ॥ १५७९ उपतापो गदे तापे, जलकूप्यन्धुगर्भके । सरस्यां जीवपुष्पं तु दमनके फणिज्जके ॥ १५८० नागपुष्पस्तु पुन्नागे चम्पके नागकेसरे । परिवापो जलस्थाने पर्युप्तिपरिवारयोः ॥ १५८१ पिण्डपुष्पं जपायां स्यादशोके सरसीरहे । बहुरूपः स्मरे विष्णौ सरटे धूणके शिवे ॥ .१५८२ मेघपुष्पं तु नौदेये पिण्डाभ्रे सलिलेऽपि च । विप्रलापो विरुद्धोक्तावनर्थकवचस्यपि ॥ १५८३ वृकधूपो वृक्षधूपे सिल्हकेऽथ वृषाकपिः । वासुदेवे शिवेऽग्नौ च.हेमपुष्पं तु चम्पके ।। १५८४ अशोकद्रौ जपापुष्पे राजजम्बूस्तु जम्बुभित् । पिण्डखर्जूरवृक्षश्वाप्यवष्टम्भस्तु काश्चने ॥ १५८५ संरम्भारम्भयोः स्तम्भे शातकुम्भोऽश्वमारके। शातकुम्भं तु कनकेऽभ्यागमः समरेऽन्तिके॥१५८६ घाते रोधेऽभ्युपगमेऽनुपमस्तु मनोरमे । अनुपमा सुप्रतकिस्त्रियामुपगमः पुनः॥ १५८७ अङ्गीकारेऽन्तिकगताव॑पक्रमस्तु विक्रमे । उपधायां तदाद्याचिख्यासाचिकित्सयोरपि ॥ १५८८ आरम्भेऽथ जलगुल्मो जलावर्तेऽम्बुचवरे । कमठे। दण्डयामस्तु दिवसे कुम्भजे यमेन। १५८९ प्रवङ्गमः कपो भेके, पराक्रमस्तु विक्रमे । सामर्थ्य चाभियोगे च महापद्मः पुनर्निधौ ॥ १५९०
१. 'वेक्ष' ग-घ. २. 'विदारीगन्धयोरपि' ख. ३. 'रविविष्णुसुते च' ग-घ. ४. 'समासीन' ग-घ. ५. 'स. मुत्थीयतेऽस्मिन्निति समुत्थानम्' इति टीका. 'समुत्थाने' ग-घ. ६. 'मृतौ स्तमिते' ग-घ. ७. 'द्रुहिणो ग' ग-घ. ८. 'सुखेन दृश्यते सुदर्शनः 'शासूसुधीत्यनः' पुंसि 'वाचष्पति'स्तु 'चक्रं सुदर्शनोऽस्त्रियामित्याह'-यथातस्य नेष्यति वपुः कबन्धुसां बन्धुरेष जगतां सुदर्शनः' इत्यनेकार्थकैरवाकरकौमुदी. 'सुदर्शनम्' ख-ग-घ. ९. 'सुरा' ग-घ. १०. इत ऊर्ध्वम् 'परिकम्पो भये कम्पे प्राप्तरूपोऽज्ञरम्ययोः' इत्यधिकः पाठः ख-पुस्तके. ११. 'नादे स्यात् पि' ग-घ. १२. 'विरोधोक्ता' ग-घ. १३. 'संरम्भारङ्गयोः' ग-घ. १४. 'भवेदयम्' ग-घ. १५. 'उपमारहितेऽनुपमेभ्यामुप' ग-घ. १६. 'उपगमस्तु' ख. १७. 'प्रवेण गच्छति प्रवङ्गमः' इति टीका. 'प्लवङ्गमः' ख-ग-घ.
For Private and Personal Use Only
Page #137
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
६०
9
१५९६
१५९८
अभिधान संग्रह:: - ८ अनेकार्थसंग्रहः । नागसंख्याभिदोर्यातयामो भुक्तसमुज्झिते । जीर्णे च सार्वभौमस्तु दिग्गजे चक्रवर्तिनि ॥ १५९१ अनुशयः पश्चात्तापे दीर्घद्वेषानुबन्धयोः ।। अन्वाहार्यममावास्याश्राद्धमिष्टेच दक्षिणा || १५९२ अवश्यायो हिमे दर्पेऽप्यपसव्यं तु दक्षिणे । प्रतिकूलेऽन्तशय्या भूशय्या पितृवनं मृतिः ।। १५९३ उपकार्या राजगेहमुपकारोचितापि च । चन्द्रोदयौ शश्युदयोहोचौ, चन्द्रोदयौषधी ॥ जलाशयमुशीरे स्याज्जलाशयो जलाश्रये । तण्डुलीयः शाकभेदे विडङ्गतरुतौप्ययोः ॥ तृणशूल्यं मल्लिकायां केतकीशाखिनः फले । धनञ्जयो नागभेदे ककुभे देहमारुते || पार्थेनौ, निरामयस्तु स्यादिडिक्के गतामये। प्रतिभयं भये भीष्मे । प्रतिश्रयः सभौकसोः ॥ १५९७ परिधायः परिकरे जलस्थाननितम्बयोः । । पाञ्चजन्यः पोटगले शङ्खे दामोदरस्य च ॥ पौरुषेयं पुरुषेण कृतेऽस्य च हिते वधे । समूहे च विकारे च फलोदयो लाभयोः ॥ विलेशयो मूषिके हौ भागधेयः पुनः करे । दायादे भागधेयं तु भाग्ये महालयः पुनः ॥ १६०० तीर्थे विहारपरमात्मनोर्महोदयं पुरे । महोदयः स्वाम्यमुक्त्योर्महामूल्यं महार्धके ॥ पद्मरागमणौ मार्जालीयः शूद्रबिडालयोः । शरीरशोधनः रौहिणेयो वत्से बुधे बले । समुच्छ्रयो वैरोन्नत्योः समुदायो गणे रणे । समुदयस्तूद्गमेपि संपरायस्तु संयुगे ॥ आपद्युत्तरकाले च स्यात्समाह्वय आहवे । पशुभिः पक्षिभिद्यूते स्थूलोच्चयो वरण्डके । १६०४ गजानां मध्यमगते गण्डाश्माकात्सूर्ययोरपि । हिरण्मयो लोकधातौ सौवर्णेऽभिमरो वधे ।। १६०५ स्वबलसाध्वसे युद्धेऽवसरो वत्सरे क्षणे । अरुष्करं करे भल्लातकफलेऽपि च ॥ १६०६ अश्वतरो नागभेदे वेसरेऽनुत्तरः पुनः । निरुत्तरे व श्रेष्ठे चावस्करो गुह्ययोः ॥ १६०७ अभिहारः 'संनहने 'चौरिकोद्यमयोरपि । अवहारस्तु युद्धादिविश्रान्तौ ग्राहचौरयोः ॥ निमंत्रणोपनेतव्येऽलंकारः कङ्कणादिषु । उपमादावकूपारः कूर्मराजसमुद्रयोः ॥
१५९९
१६०१
१६०२
१६०३
१६४८
अवतारस्तु नद्यादितीर्थेऽवतरणेऽपि च । अग्निहोत्रोऽनले हव्येऽसिपत्रो नरकान्तरे ।। कोशकारेऽर्धचन्द्रस्तु गलहस्तेन्दुखण्डयोः । चन्द्रके बाणभेदे | चार्धचन्द्रा त्रिवृताभिदि ॥ आत्मवीरो बलवति थालपत्रे विदूषके । आडम्बरस्तु संरम्भे बृंहिते तूर्यनिस्वने । ॥ इन्दीवरं नीलोत्पलमिन्दीवरा शतावरी । उपकारस्तूपकृतौ विकीर्णकुसुमादिषु ॥ उपचारस्तु लैम्बायां व्यवहारोपचैर्ययोः ॥ उदुम्बरः कुष्टभेदे देहिल्यां पण्डके तरौ ॥ उदुम्बरं ताम्र उपहरं रहसि संनिधौ । उद्दन्तुरः कराले स्यादुत्तुङ्गोत्कटदन्तयोः ॥ औदुम्बरो यमे रोगभेदे कर्मकरोऽन्तके । भृतिजीविनि भृत्ये च कर्मकरी तु बिम्बिका ॥ १६१६
१६१३
१६१४
१६१५
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
१५९४
१५९५
१६०९
१६१०
१६११
१६१२
१. 'अनशय्या' ख. २. 'नृति : ' ग घ ३. 'ताप्यो विटमाक्षिकः' इत्यनेकार्थकैरवाकर कौमुदी. ४. 'तृणैः शूल्यते तृणशूल्यम्' इति टीका. 'तृणमूल्यं' ख; 'तृणशून्यं' ग घ. ५. 'इडिक्क : शिशुवाहक :' इति टीका. ‘एडके' ख; ‘इडिक्के' ग-घ. ६. 'अप्यवहिते' ख. ७. 'समुच्छ्रयणं समुच्छ्रयः' इति टीका. 'समुच्छ्रेय: ' ग-घ. ८. 'समुदयनं समुदयः' इति टीका. 'समुदाय: ' ग घ ९ ' अपिशब्दाद्गणे रणेऽपि' इत्यनेकार्थकैरवाकरकौमुदी, १०. इत उत्तरम् 'अजगरः स्मृतः सर्पभेदेऽपि कवचे बुधैः' इति ख पुस्तकेऽधिकः पाठः . ११. 'अरुः करोति अरुष्करम्, समासे समस्तस्येति षत्वम्' इति टीका 'अरुस्करं' ग घ १२. 'व्रणकारे' ख. १३. 'अतिश्रेष्ठे च' ख. १४. 'गोप्य' गन्ध. १५. 'संहनने' ख. १६. 'चौर्यमद्यपयोरपि' ग घ १७, 'विश्रामे ' ग घ. १८. 'निमन्त्रणोपनेतव्यं शर्करादि स्वादूकृतं भक्ष्यम्' इति टीका. 'निमन्त्रणेऽपनेतव्ये' ग घ १९. 'श्यालपुत्रे' ख; 'श्याले पुत्रे' ग घ २०, 'सेवायाम्' ग घ २१. 'चार्ययोः ' ग-घ. २२. 'देहल्यां ' ख ग घ . २३. 'कर्मकारी' ग-घ.
Page #138
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४ चतुःस्वरकाण्डः। मूर्वाश्च कर्णिकारस्तु कृतमाले द्रुमोत्पले। करवीरो हयमारे कृपणे दैत्यभिद्यपि ॥ १६१७ करवीरी पुत्रवत्यां सद्गव्यामदितावपि । कलिकारस्तु धूम्याटे पीतमुण्डकरञ्जयोः ॥ १६१८ कर्णपूरः स्याच्छिरीषे नीलोत्पलवसन्तयोः। कटंभरा प्रसारिण्यां गोलायां गजयोषिति ॥ १६१९ कलम्बिकायां रोहिण्यां वर्षाभूमूर्वयोरपि।। कालञ्जरो भैरवायोर्योगिचक्रस्य मेलके ।। १६२० कादम्बरं दधिसारे शीधुमद्यप्रभेदयोः ।। कादम्बरी कोकिलायां वाणीशारिकयोरपि ॥ १६२१ कुम्भकारः कुलाले स्यात्कुम्भकारी कुलत्थिका। कृष्णसारः शिंशपायां मृगभेदे स्नुहीतरौ॥१६२२ गिरिसारः पुनर्लोहे लिङ्गे मलयपर्वते । घनसारस्तु कर्पूरे दक्षिणावर्तपारदे ॥ १६२३ चर्मकारः पादूकृति। चर्मकार्यौषधीभिदि।। चक्रधरो विष्णुसर्पचक्रिषु प्रामजालिनि ॥ १६२४ चराचरं जङ्गमे स्यादिङ्गविष्टपयोरपि । चित्राटीरो घण्टाकर्णबलिच्छागास्रबिन्दुभिः ॥ १६२५ अङ्कितभाले चन्द्रे च तालपत्रं तु कुण्डले । स्यात्तालपत्री रण्डायां तुगभद्रो मदोत्कटें ॥ १६२६ तुङ्गभद्रा नदीभेदे, तुलाधारस्तुलागुणे । वाणिजे तुण्डकेरी तु कर्पासी बिम्बिकापि च ॥ १६२७ तोयधारो जलधरे सुनिषण्णाख्यभेषजे।। दशपुरं पत्तने स्यान्मुस्तायां नीवृदन्तरे ॥ १६२८ दण्डधारो यमे राज्ञि, दण्डयात्रा तु दिग्गजे । संयाने वरयात्रायां दिगम्बरस्तु शंकरे ॥ १६२९ अन्धकारे क्षपणके स्याद्वस्तरहितेऽपि च । दुरोदरः पुन ते द्यूतकारे पणेऽपि च ॥ १६३० देहयात्रा यमपुरीगमने भोजनेऽपि च । द्वैमातुरो जरासंधे हेरम्बेऽथ धराधरः॥ १६३१ कृष्णेऽद्रौ, धाराधरस्तु पयोदकरवालयोः । धाराङ्करः शीकरे स्यान्नासीरे जलदोपले ॥ १६३२ धार्तराष्ट्रः कौरवेऽहौ कृष्णास्योग्रिसितच्छदे । धुन्धुमारो गृहधूमे नृपभेदेन्द्रगोपयोः ॥ १६३३ पदालिकेऽप्यथा धुरंधरो धुर्ये धवद्रुमे । धृतराष्ट्रः खगे सर्प सुराज्ञि क्षत्रियान्तरे॥ १६३४ धृतराष्ट्री हंसपद्यांनभश्चरः खगेऽम्बुदे । विद्याधरे समीरे च निशाचरस्तु राक्षसे ॥ १६३५ सर्प घूके श्रृंगाले च निशाचरी तु पांसुला निषद्वरः स्मरे पङ्के निषद्वरी पुनर्निशि ॥ १६३६ नीलाम्बरो बलभद्रे राक्षसे क्रूरलोचने। प्रतीहारो द्वारि द्वाःस्थे। प्रतीकारः समे भटे॥ १६३७ प्रतिसरश्चभूपृष्ठे नियोज्यकरसूत्रयोः । मत्रभेदे व्रणशुद्धावारक्षे मण्डने स्रजि ॥ १६३८ कङ्कणेऽथ परिकरः पर्यङ्कपरिवारयोः । प्रगाढे गात्रिकाबन्धे विवेकारम्भयोर्गणे ॥ परिवारः परिजनेऽसिकोशेऽथा परम्परः। मृगभेदे प्रपौत्रादौ परम्परान्वये वधे ॥ १६४० परिपाट्या परिसरः प्रान्तभूदेवयोम॒तौ ।। पक्षचरो यूथभ्रष्टपृथक्चारिगजे विधौ ॥ १६४१ पयोधरः कुचे मेघे कोशकारे कशेरुणि । नौलिकेरे पात्रटीरस्त्वपव्यापारमत्रिणिः ॥ १६४२
१. 'करो वृक्षः' इति टीका. 'करण्डयोः' ग-घ.२. 'सीधु'ख; 'सिन्धु' ग-घ. ३. 'वीणाशा' ख; 'वाणीसा' ग-घ. ४. 'अहो' ग-घ. ५. 'इङ्गमद्भुतम्' इति टीका. 'इष्टवि' ग-घ. ६. 'घण्टाको यक्षस्तस्य बलिनिमित्तं यो हतश्छागस्तस्यास्रं रक्तं तस्य बिन्दवस्तैरङ्कितं भालं यस्य तस्मिन्नित्यर्थः' इति टीका. .७. 'तुण्ड्यते तुण्डकेरी' इति टीका. 'तुण्डकारी ख. ८. 'कसी वमनी' इति टीका. 'कार्पासी' ग-ध. ९. 'तोयं धरति तोयधारः इति टीका. 'तोयाधारः' ख. १०. 'धारां धरति धाराधरः' इति टीका. 'धाराधारः' ख. ११. 'सुनासीरे शीकरे जलदोपले' ख. १२. 'अभ्यसित' ग-घ. १३. 'पदालिकमौषधीभेदः' इति टीका. 'पलादि' ख; 'पादालि' ग-घ. १४. 'धुरां धारयति धुरंधरः, धारेधचेति खः' इति टीका. 'धुरंधुरः' ख. १५. 'सृगाले' ग-घ. १६. 'आरक्षे गजललाटमर्मणि' इति टीका. 'व्रणशुद्धे चारक्षे' ग-घ. १७. 'पक्षे चरति पक्षचरः' इति टीका. 'पक्षधरः' ग-व. १८. 'कसेरु' ख. १९. 'नारिकेरे' ग-घ.
For Private and Personal Use Only
Page #139
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६२
अभिधान संग्रहः: - ८ अनेकार्थसंग्रहः ।
१६४९
१६५२
१६५३
लोहकांस्ये रजत्पात्रे सिङ्घाणक हुताशयोः । पारावारः पयोराशौ पारावारं तटद्वये ॥ पारिभद्रौ तु मन्दारनिम्बौ पीताम्बरो ऽच्युते । नेटेऽपि पूर्णपात्रं तु जलादिपूर्णभाजने ॥ वैर्द्धापके बलभद्भस्त्वनन्ते बलशालिनिः । बलभद्रा कुमार्यौ स्यात्रायमाणौषधावपि ।। बार्बीर पुण्याम्रास्थ्यङ्करे गणिकासुते । । बिन्दुतन्त्रं पुनः शारिफलके चतुरङ्गके ॥ महावीरोऽन्तिमजिने परपुष्टे जराटके । तायें कर्के पवौ शूरे सिंहे मखहुताशने ॥ महामात्रः प्रधाने स्यादारोहकसमृद्धयोः । मणिच्छिद्रा तु मेदायामृषभाख्यौषधावपि ।। रथकारस्तक्षणि स्यान्माहिष्यात्करणीसुते । रागसूत्रं पट्टसूत्रे तुलासूत्रेऽपि च कचित् ॥ लम्बोदरः स्यादुध्द्माने प्रमथानां च नायके । लक्ष्मीपुत्रो हये कामे व्यवहारः स्थितौ पणे ।। १६५० द्रुभेदेऽथ, व्यतिकरो व्यसनव्यतिषङ्गयोः । वक्रनक्रौ खलशुकौ, विश्वंभरोऽच्युतेन्द्रयोः ॥ १६५१ विश्वंभरा तु मेदिन्यां विभाकरोऽग्निसूर्ययोः । विश्वकद्रुस्तु मृगयाकुक्कुरे पिशुने ध्वनौ ॥ वीरभद्रो वीरणेऽश्वमेधावे वीरसत्तमे । वीरतरो वीरश्रेष्ठे शेरे वीरतरं पुनः ॥ वीर वीतिहोत्रस्तु दिवाकरहुताशयोः । शतपत्रो दार्वाघाटे राजकीरमयूरयोः ॥ शतपत्रं तु राजीव संप्रहारो गतौ रणे । सहचरः पुनर्सिंट्यां वयस्ये प्रतिबन्धके ॥ समाहारस्तु संक्षेपे एकत्र करणेऽपि च । समुद्रारुप्रहभेदे सेतुबन्धे तिमिङ्गिले ॥ सालसारस्तरौ हिङ्गौ सुकुमारस्तु कोमले । पुण्ड्रेऽक्षौ सूत्रधारस्तु शिल्पिभेदे नटेन्द्रयोः ॥ १६५७ अतिबलः स्यात्प्रबलेऽतिबला तु बलाभिदि । अक्षमाला वक्षसूत्रे वसिष्ठस्य च योषिति ।। १६५८ अङ्कपाली परीरम्भे स्यात्कोट्यामुपमातरि । उलूखलो गुग्गुलोदूखले, कलकलः पुनः ।। १६५९ कोलाहले सर्जरसे, कैन्दरालो जटि दुमे । गर्दभाण्डेऽप्यथः कमण्डलू पर्कटिकुण्डिके ॥ १६६० कुतूहलं शस्तेऽद्भुते खतमालो बलाहके । धूमेऽधः गण्डशैलोऽद्रिच्युतस्थूलाश्मभालयोः ॥ १६६१ गन्धफली तु प्रियङ्गौ चैम्पकस्य च कोरके," । जलाञ्चलं तु शैवाले स्वतश्च जलनिर्गमे ।। १६६२. दलाल पुनर्दमन मरुबकेऽपि च । ध्वनिलाला तु वल्लक्यां वेणुकाहलयोरपि ॥ १६६३ परिमलो विमर्दोत्थे हृद्यगन्धे विमर्दने । पोटगलो नलकारो झषे बहुफलः पुनः ॥ १६६४
१६५४
१६५५
१६५६
बहुफला फल्गौ भस्मतूलं पुनर्हिमे । ग्रामकूटे पांसुवर्षे भद्रकाल्यौषधीभिदि ॥ १६६५ गन्धोल्यां हरपत्न्यां च महाकालो महेश्वरे । किंपाके गणभेदे च मदकलो दिद्विपे ।। १६६६ मदेनाव्यक्तवचने. महानीलो मणेर्भिदि । नागभेदे भृङ्गराजे महाबलो बलीयसि ॥ १६६७ वायौ महाबलं सीसे महाबला बलाभिदि । मणिमाला हौरे स्त्रीणां दशनक्षतभिद्यपि || १६६८
For Private and Personal Use Only
१६४३
१६४४
१६४५
१६४६
१६४७
१६४८
१. ‘पिङ्गले च हु’ ख. २. 'नटे च पीतसारस्तु गोमेदकमणौ स्मृतः । मलयजे पू' ख-पुस्तक एवं पाठः, 'तटे 'च' ग-घ. ३. 'वर्द्धनं वर्द्धस्तस्यातिरापको वर्द्धापकः' इति टीका. ४. 'वर्वटीरः ' ख. ५. 'च भारोह' ख. ६. "वैश्याशुद्रायां जाता करणी' इति टीका. ७. 'उद्गता ध्मानो वायुरस्य उद्घमानः' इति टीका. 'आद्यूने' ख ग घ ८. 'वक्रं नक्रं नासिकास्य वक्रनक्रः' इति टीका. 'वक्रनखौ' ख. ९. 'शवे' ग-व. १०. 'झिण्टी' औषधि:. ११. ‘समारोहः’ ख. १२. 'सेतुभेदे' ख. १३. 'गुग्गुलौ कण्डने' खः 'गुग्गुलोदुम्बरे' ग घ १४. 'कन्दरां लाति कन्दरालः' इति टीका. 'कण्डरालः ' ग घ. १५. 'कण्डिके' ग घ. १६. 'चषकस्य' ग घ. १७. इतः परम् 'चक्रवालोऽद्रिभेदे स्याञ्चक्रवालं तु मण्डले' इति ख- पुस्तकेऽधिकः पाठः १८. 'खाताश्च' ख. १९. 'दमन के तथा मरु' ख. २०. 'ध्वनिं लालयति ध्वनिलाला' इति टीका. 'ध्वनिनाला' ग घ २१. 'बहुफली' ग घ. २२. 'पांशु' ग घ. २३. 'मदिद्विपे मदवति द्विपे' इति टीका. 'मदद्विपे' ख ग घ २४. 'स्त्रियां हारे द' खः 'हारे स्त्रीणां द' ग घ
Page #140
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४ चतुःस्वरकाण्डः। मुक्ताफलं घनसारे मौक्तिके लवलीफले । मृत्युफलो महाकाले मृत्युफली कदल्यथ ॥ १६६९ यवफलो मांसिकायां कुटजबचि सारयोः । वायुफलं तु जलदोपले शक्रशरासने ॥ १६७० वातकेलिः कलालापे षिङ्गानां दन्तलेखने।। विचकिलो दमनके मयामथा बृहन्नलः॥ १६७१ महापोटगले पार्थे सदाफल उदुम्बरे । नालिकेरे स्कन्धफले। हस्तिमल्लः सुरद्विपे ॥ १६७२ विघ्नेशे हलाहलस्तु हेयलालोरगे विषे । ज्येष्टयां चा हरिताली तु दूर्वागमनरेखयोः ॥ १६७३ कृपाणलतिकायां चानुभावो भावसूचने । प्रभावे निश्चये चापहवः स्नेहापलापयो॥ १६७४ अभिषवः ऋतौ मद्यसंधाननानयोरपि । आदीनवः पुनर्दोषे परिक्लिष्टदुरन्तयोः॥ १६७५ उपप्लवी राहूत्पातौ कुशीलवस्तु चारणे । प्राचेतसे याचके च जलबिल्वस्तु कर्कटे ॥ १६७६ जलचत्वरे पञ्चाङ्गे जीवञ्जीवः खगान्तरे । द्रुमभेदे चकोरे चाधामागेवस्तु घोषके ॥ १६७७ अपामार्गेऽप्यथ परिप्लवावाकुलवञ्चलौ । पराभवस्तिरस्कारे नाशे पारशवोऽयसि ॥ १६७८ शूद्रायां विप्रतनये तनये च परस्त्रियाः। पुटग्रीवस्तु गर्गयो ताम्रस्य कलशेऽपि च ॥ १६७९ बलदेवस्तु कालिन्दीकर्षणे मातरिश्वनिः । बलदेवा त्रायमाणा रोहिताश्वो हुताशने ॥ १६८० हरिश्चन्द्रनृपसुते सहदेवस्तु पाण्डवे । सहदेवा बलाचण्डोत्पलयोः शारिवौषधे ॥ १६८१ सहदेवी तु साक्ष्यामपदेशस्तु कारणे । व्याजे लक्ष्येऽप्यपभ्रंशो भाषाभेदापशब्दयोः ॥ १६८२ पतने चाश्रयाशस्तु वहावाश्रयनाशके । उपदंशोऽवदंशे स्यान्मेहनामययोरपि ॥ १६८३ उपस्पर्शस्त्वाचमनस्नानयोः स्पर्शमात्रके । खण्डपशुः शिवे राहौ भार्गवे चूर्णलेपिनि ॥ १६८४ खण्डामलकभैषज्ये जीवितेशः प्रिये यमे । जीवितस्वामिजीवात्वोर्नागपाशस्तु योषिताम् ॥ १६८५ करणे वरुणास्त्रे च.प्रेतिष्कशः पुरोगमे । वार्ताहरे सहाये च, पुरोडाशो हविर्भिदि ॥ १६८६ हुतशेषे सोमरसे चमस्यां पिष्टकस्य च । अम्बरीषो नृपे सूर्ये युधि भाष्ट्रकिशोरयोः॥ १६८७ आम्राते खण्डपरशावनुकर्षोऽनुकर्षणे । रथस्याधो दारुणि, चौनिमिषं सुरमत्स्ययोः॥ १६८८ अनुतर्षोऽभिलाषे स्यातॄषाचषकयोरपि । अलम्बुषश्छर्दनेऽलम्बुषा स्वःपणयोषिति ॥ १६८९ गण्डीर्या किंपुरुषस्तु किन्नरे लोकभिद्यपि । देववृक्षो मन्दारादौ गुग्गुलौ विषमच्छदे ॥ १६९० नन्दिघोषो वन्दिघोषे स्यन्दने च किरीटिनः । परिवेषः परिवृत्तौ परिधौ परिवेषणे ॥ १६९१ परिघोषः स्यादवाच्ये निनादे जलदध्वनौ । पलङ्कषो यातुधाने पलङ्कषा तु किंशुके ॥ १६९२ गोक्षुरे गुग्गुलौ रास्ना लाक्षामुण्डीदिकासु च । भूतवृक्षस्तु शाखोटे श्योनाककलिवृक्षयोः॥१६९३ महाघोषो महाशब्दे स्यान्महाघोषमापणे। महाघोषा शृङ्गयौषध्यांराजवृक्षः पियालके॥१६९४ सुवर्णालुतरौ, वातरूषः शक्रशराशने । वार्तलोत्कोचयोश्चापि विशालाक्षो महेश्वरे ॥ १६९५
१. 'विच्यते विचकलः' इति टीका. 'विचिकिलः' ग-घ. २. 'हयबाले हले वि' ग-घ. ३. 'वृष्टयां च' ग-घ. ४. 'हरितालं तु तालके । अनुभावः प्रभावे स्यान्निश्चये भावसूचने । अपह्नवः पुनः स्नेहेऽपलापे चोरकर्मणि' ख-पुस्तकस्थः पाठः. ५. 'याचकोऽर्थी' इति टीका. 'यावके च' ख; 'याजकेऽपि' ग-घ. ६. 'परिप्ल. वतीति परिप्लवः' इति टीका 'परिप्लवा' ग-घ. ७. 'दण्डोत्प' ख-ग-घ. ८. 'विदंशे स्यान्मेण्दरोगेऽपि कीतितः' ख. ९. 'प्रतिकशतीति प्रतिष्कशः' इति टीका. 'प्रतिष्ठाशः' ग-घ. १०. 'पञ्चदशी तु पूर्णिमा । दर्शश्च पादपाशी तु खटिकायामुदाहृता। शृङ्खलाकटके चापि पुरो' इति ख-पुस्तकेऽधिकः पाठः, ११. 'न निमिषति अनिमिषः' इति टीका. 'अनिमेषः' ग-घ. १२. 'तृष्णा च' ख. १३. 'पण्ययो' ग-घ. १४. 'स्यन्दने' ग-घ.
१७
For Private and Personal Use Only
Page #141
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिधानसंग्रहः-८ अनेकार्थसंग्रहः । तायें विशालनेत्रे च वीरवृक्षोऽर्जुनद्रुमे । भल्लाते। सकटाक्षस्तु कटाक्षिणि धवद्रुमे ॥ १६९६ अधिवासः स्यान्निवासे संस्कारे धूपनादिभिः।। अवध्वंसस्तु निन्दायां परित्यागेऽवचूर्णने ॥ १६९७ कलहंसो राजहंसे कादम्बे नृपसत्तमे।। कुम्भीनसस्त्वहौ कुम्भीनसी लेवणमातरि ॥ १६९८ घनरसोऽप्सु कपूरे सान्द्रे सिद्धरसे द्रवे । मोरटे पीलुपर्यों च.चन्द्रहासोऽसिमात्रके ॥ १६९९ दशग्रीवकृपाणे चातामरसं तु पङ्कजे । ताम्रकाश्चनयोदिव्यचक्षुस्त्वन्धे सुलोचने ॥ १७०० सुगन्धभेदे चा निःश्रेयसं कल्याणमोक्षयोः। नीलञ्जसा नदीभेदेऽप्सरोभेदे तडित्यपि ॥ १७०१ पुनर्वसुः स्यान्नक्षत्रे कात्यायनमुनावपि । पौर्णमासो यागभेदेोपौर्णमासी तु पूर्णिमा॥ १७०२ मलीमसं पुनः पुष्पकासीसे मलिनायसोः।। महारसः पुनरिक्षौ खजूरद्रौ कसेरुणि॥ १७०३ मधुरसा तु मूर्वायां द्राक्षादुग्धिकयोरपि ।। राजहंसस्तु कादम्बे कलहंसे नृपोत्तमे ॥ १७०४ रासेरसो रससिद्धिवलौ शृङ्गारहासयोः । षष्टीजागरके रोसे गोष्ठयां विश्वावसुः पुनः ॥ १७०५ निशि गन्धर्वभेदे च विभावसुस्तु भास्करे । हुताशने हारभेदे चन्द्रेः स्वःश्रेयसं सुखे ॥ १७०६ परानन्दे च भद्रे च सर्वरसस्तु धूणके । वाद्यभाण्डेवग्रहस्तु ज्ञानभेदे गजालिके ॥ १७०७ प्रतिबन्धे वृष्टिरोधेऽप्यभिग्रहस्तु गौरवे । अभियोगेऽभिग्रहणेऽवरोहस्तु लतोद्गमे ॥ १७०८ तरोरङ्गेऽवतरणेऽप्यश्वारोहोऽश्ववारके । अश्वारोहाश्वगन्धायामुपग्रहोऽनुकूलने ॥ १७०९ वन्धुपयोगयोश्चोपनाहो वीणानिबन्धने । व्रणालेपनपिण्डे च गन्धवहो मृगेऽनिले ॥ १७१० गन्धवहा तु नासायां तमोपहो जिने रवी । चन्द्रेऽग्नौ तनूरुहस्तु पुत्रे गरुति लोनि च ॥ १७११ प्रतिग्रहः सैन्यपृष्ठे ग्रहभेदे पतगहे । क्रियाकारे दानद्रव्ये तद्हे स्वीकृतावपि ॥ १७१२ परिग्रहः परिजने पल्यां स्वीकारमूलयोः। शोपेऽथ परिवाहोऽम्बूच्छासो राजाईवस्तुनि॥१७१३ परिवहः परिवारे पार्थिवोचितवस्तुनिः । पितामहः पद्मयोनौ जनके जनकस्य च ॥ १७१४ वरारोहो गजारोहे वरारोहा कटावपि । सर्वसहः सहिष्णौ स्यात्सर्वसहा पुनः क्षितौ ॥] १७१५
इत्याचार्यहेमचन्द्रविरचितेऽनेकार्थसंग्रहे चतुःस्वरकाण्डश्चतुर्थः ॥ ४ ॥
पञ्चवरकाण्डः। स्यादाच्छुरितकं हासनखघातविशेषयोः । कक्षावेक्षकः शुद्धान्तपालकोद्यानपालयोः ॥ १७१६ द्वाःस्थे खिड्ने कवौ रङ्गाजीवेऽथ कटखादकः । खादके काचकलशे ,गालबलिपुष्टयोः ॥१७१७ कृमिकण्टकं चित्रायामुदुम्बरबिडङ्गयोः । स्याद्गोजागरिक भक्ष्यकारके मङ्गलेऽपि च ।। १७१८
१. 'सह कटाक्षैर्वर्तते सकटाक्षः' इति टीका. 'सङ्कटाक्षस्तु' ग-घ. २. 'लवणो राक्षसस्तस्य माता तस्मिन्' इत्यनेकार्थकैरवाकरकौमुदी. ३. 'नीलं जस्यति नीलसा ' इति टीका. 'नीलाञ्जसा' ग-घ. ४. 'मलोऽस्यास्ति मलीमसम्' इति टीका. 'मलीमसः' ख-ग-ध. ५. 'रसगो' ग-घ. ६. 'सर्वरासस्तु' ग-घ. ७. 'वाद्यभाण्डे च देशे च षड्रसान्वितवस्तुनि । अव' खः 'वाद्यभेदेऽवन' ग घ. ८. 'अवग्रहो ज्ञानभेदे अस्वातन्त्र्ये ग' इति ख-पुस्तकस्य पाठः. ९. 'अनुकूलवान्' ग-घ. १०. 'गन्धं वहति गन्धवहः, लिहादित्वादव्' इति टीका. 'गन्धः वाह' ग-घ. ११. 'मूल्ये च संग्रहे' ग-घ. १२. इति धनुश्चिहान्तर्गतपाठो ग-घ-पुस्तकयोस्त्रुटितः. १३. इत. प्राक् 'मदासहा स्यादम्लानकुसुमे माषपर्ण्यपि' इति ख-पुस्तकेऽधिकः पाठः. १४. इति धनुश्चिह्नान्तर्गतपाठः ख-पुस्तके त्रुटितः. १५. 'पिङ्गे' ख. १६. 'शृङ्गारे वलिपुच्छयोः' ग-घ. १७. 'उपकारिका पिष्टभेदोपकारेशवेश्मसु' इत्यधिकः पाठः ख-पुस्तके.
For Private and Personal Use Only
Page #142
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५ पञ्चस्वरकाण्डः। चिलिमिलिका खद्योते कण्ठीभेदे तडित्यपिा । जलङ्करङ्कः स्यान्मेधे नालिकेरतरोः फले॥ १७१९ शङ्ख नैवफलिका तु नवे नवरज: स्त्रियाम् । नागवारिको गैणिस्थराजे राजेभहस्तिपे ॥ १७२० चित्रमेखले गरुडेऽप्यथ स्याद्वयवहारिका । लोकयात्रेङ्गुदीवर्द्धनीष्वथ ब्रीहिराजिकः ॥ १७२१ चीनान्ने कामलिकायामप्यथो, शतपर्विका । स्याद्वैचादूर्वयोः शीतचम्पको दीपतर्पणौ ॥ १७२२ हेमपुष्पकश्चम्पके हेमपुष्पिका यूथिका.। मलिनमुखस्तु गोलाङ्कले प्रेतेऽनले खले॥ १७२३ शीतमयूखः कपूरे चन्द्रेऽथ, सर्वतोमुखः । विधावात्मनि रुंद्रे च सर्वतोमुखमम्बु खम् ।। १७२४ कथाप्रसङ्गो वातूले विषस्य च चिकित्सके । नाडीतरङ्गः काकोले हिण्डके रतहिण्डके ॥१७२५ रतनारीचो मन्मथे शुनि स्त्रीणां च सीत्कृतौ।। ऋषभध्वजः प्रथमजिनेन्द्रे शशिशेखरे।॥ १७२६ मुनिभेषजं त्वैगस्तिपथ्यायां लङ्घनेऽपि च । दशनोच्छिष्टो निःश्वासे चुम्बने दन्तवाससिः॥१७२७ अवग्रहणं रीढायां रोधनेऽथावतारणम् । वस्त्राञ्चलार्चने भूतावेशेऽथा प्रविदारणम् ॥ १७२८ दारणे युधि च,परिभाषणं तु प्रजल्पने । नियमे निन्दोपालम्भोक्तौ चाथो मत्तवारणः ॥ १७२९ प्रासादवीधीवरण्डे मत्तहस्तिन्यपाश्रये । मण्डूकपर्णो रले कक्षोणकयोः कपीतने॥ १७३० मण्डूकपर्णी मञ्जिष्टाब्रायो!जिबिकौषधे । स्याद्रोमहर्षणाख्या तु रोमोद्गमे विभीतके॥ १७३१ वातरायणः ऋकचे सायके शरसंक्रमे । निष्प्रयोजननरे चाप्यवलोकितमीक्षिते ॥ १७३२ अवलोकितस्तु बुद्धेऽपराजितोऽच्युते हरे । अजितेऽपराजिता तु दुर्गाश्वेताजयन्त्यपि।॥ १७३३ उपधूपित आसन्नमरणे धूपितेऽपि च । स्याद्गणाधिपतिर्विघ्ननायके पार्वतीपतौ॥ १७३४ पृथिवीपतिस्तु भूपे कृतान्ते ऋषभौषधौ । मूर्धाभिषिक्तः प्रधाने क्षत्रियक्षितिपालयोः ॥ १७३५ यादसांपतिः पाश्यब्ध्योर्वसन्तदूत आम्रके । पिके पञ्चमरागे वसन्तदूत्यतिमुक्तके ॥ १७३६ पोटलायामथ सहस्रपादो यज्ञपूरुषे । कारण्डसूर्ययोर्योजनगन्धा व्यासमातरि ॥ १७३७ कस्तूरीशीतयोश्चातिसर्जनं वधदानयोः । अपवर्जनं निर्वाणे परित्यागे विहायिते ॥ १७३८ अभिनिष्ठानस्तु वर्णे विसर्गेऽथानुवासनम् । स्नेहने धूपने। चान्तावसायी श्वपचे मुनौ०॥ १७३९ स्यादुपस्पर्शनं स्नाने स्पर्शाचमनयोरपि । उपसंपन्नं पर्याप्ते संस्कृतप्राप्तयोम॒तौ ॥ १७४०
१. 'नारिकेर' ग-घ. २. 'जललतायां च जलनायको मत्स्यके । काकाच्यां राजशफरे नवफलिका नूतने ॥ नवजातरजो नार्यामप्यथो नागवादिकः । गणिस्थराजे गरुडे राजकुञ्जरहस्तिपे ॥' इति ख-पुस्तकेऽधिकः पाठः. ३. 'गणिस्थराजो वृक्षः' इति टीका. 'गणस्थरा' ग-घ. ४. 'के प्रोक्तः स्यादथो व्य' ख. ५. 'व्रीहिवद्राजयोऽस्य व्रीहिराजिकः' इति टीका. 'व्रीहिराजकः' ग-घ. ६. 'ऋचादू' ग-घ, ७. 'दिनत' ग-घ. ८. 'अनिले' ग-ध. ९. 'भद्रे च' ग-घ. १०. 'वार्तायाम्' ग घ. ११. 'कङ्कोले' ख. १२. 'हिंसके' ख. १३. 'अगस्तिपथ्या हरीतकीभेदः' इति टीका. १४. 'भूतावशेषे ग-घ. १५. 'रत्नके शोणके च' क-ख. १६. 'रोमाञ्चे च' ख. १७. 'उन्मत्ते निष्प्रयोजनपूरुषे । काण्डे च करपत्रे च कूटे च शरसंक्रमे ॥ समुद्धरणं वान्तान्ते जलस्योद्धरणे प्रहेः । अवलोकितस्तु बुद्धे त्ववलोकितमीक्षिते ॥ स्यादपराजितो विष्णौ श्रीकण्ठे निष्पराजये । अपराजिता तु दुर्गा श्वेता चापि जयन्तिका ॥' इति ख-पुस्तकस्थः पाठः. १८. 'भूपाले प्रधाने क्षत्रियेऽपि च' इति ख-पुस्तकस्थः पाठः. १९. 'रम्भोधौ प्रतीचीदिक्पतावपि' इति ख-पुस्तक एवम्. २०. 'चूते स्यापिकपञ्चमरागयोः' इति ख-पुस्तके. २१. 'वसन्तदूती पाटलायामतिमुक्तकभूरुहि । सहस्रपादः कारण्डे भास्करे यज्ञपूरुषे ॥ योजनगन्धा कस्तूर्या सीतायां व्यासमातरि ।' अत्रैवं पाठः ख-पुस्तके. २२. 'सुवर्णे' ख. २३. इतः परम् 'अपसर्जनं तु दाने परित्यागेऽतिसर्जनम् । विश्राणने च हिंसायामादेशे सेवकस्य च ।।' इत्यधिकः पाठः ख-पुस्तके. २४. 'धृते' ख.
For Private and Personal Use Only
Page #143
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिधानसंग्रहः-८ अनेकार्थसंग्रहः । कलानुनादी चटके चञ्चरीके कपिञ्जले।। गन्धमादनः कप्यद्रिभिदोरैलिनि गन्धके॥ १७४१ गन्धमादनी सुरायामथ जायानुजीविनः । वैकाश्विननटदुःस्थाः स्याद्भूमकेतनोऽनले ॥ १७४२ ग्रहभेदे च प्रतिपादनं बोधनदानयोः ।। पद्मलाञ्छनो धनदे लोकेशे रविवेधसोः॥ १७४३ पद्मलाञ्छना तारायां सरस्वत्यां श्रियामपि।। पीतचन्दनं स्याद्धरिद्रायां कश्मीरजन्मनि ॥ १७४४ महारजनं कुसुम्भे स्वर्णेऽथ मधुसूदनः । भ्रमरे केशवे मृत्युवञ्चनः श्रीफले हरे॥ १७४५ द्रोणकाकेऽप्यथ वरचन्दनं देवदारुणि । कालेये वरवणिन्यङ्गनालाक्षाप्रियङ्गुषु ॥ १७४६ रोचनायां हरिद्रायामथा स्याच्छकुलादनी । केटामांसीपिचुलिकाजलपिप्पलिकासु च ॥ १७४७ शालङ्कायनो नन्दृष्योः स्याच्छ्वेतवाहनः शशी । पार्थेऽथासहस्रवेधी चुक्रे सहस्रवेधि तु ॥१७४८ हिङ्गो, चामरपुष्पस्तु केतके चूतकाशयोः । गोरक्षजम्बूर्गोधूमधान्ये गोरक्षतण्डुले।॥ १७४९ धूलीकदम्बस्तिनिशे नीपे वरुणपादपे । शृगालजम्बूर्गोटुम्बे फले च बदरीतरोः ॥ १७५० अभ्युपगमः समीपागमने स्वीकृतावपि । नक्षत्रनेमिः शीतांशुरेवत्यौत्तानपादिषु ॥. १७५१ कालानुसार्य शैलेये कालेये शिशिपातरौ।। अथ स्याङ्ग्धतालीयं दुग्धाग्रदुग्धफेनयो।॥ १७५२ वृषाकपायी जीवन्त्यां शतावर्युमयोः श्रियाम् । उत्पलपत्रमुत्पलदले स्त्रीणां नखक्षते ॥ १७५३ कपिलधारा त्रिदशापगायां तीर्थभिद्यपि।। तमालपत्रं तिलके तापिच्छे पत्रकेऽपि च ॥ १७५४ तालीसपत्रं तु तामलक्यां तालीसके कचित् । पादचत्वरः करके परदोषैकभाषिणि ॥ १७५५ सैकते छगलेऽश्वत्थद्रुमेऽथ, पांसुचामरः । वीपके प्रशंसायां दूर्वाचिततटी भुवि ॥ १७५६ पुरोटौ धूलिगुच्छे पीतकावेरं तु कुङ्कमे । पित्तले वस्वोकसारा विन्द्रस्य धनदस्य च ॥ १७५७ 'नलिनीपुर्योविप्रतिसारस्त्वनुशये रुषि । कौकृत्ये सर्वतोभद्रस्त्वोकोभित्काव्यचित्रयोः ॥ १७५८ निम्बेऽथ सर्वतोभद्रा गम्भार्यां नटयोषिति । समभिहारस्वाभीक्ष्णे भृशार्थेऽथासुतीबलः ॥१७५९ शौण्डिके यज्वन्युद्दण्डपालो मत्स्याहिभेदयोः । स्यादेककुण्डलो बलभद्रे किंपुरुषेश्वरे ॥ १७६० कृपीटपालस्तु केनिपाते जलनिधावपि । स्यात्पाण्डुकम्बलः श्वेतकम्बलग्रावभेदयोः॥ १७६१
१. 'कलं मनोशमनुवदति कलानुनादी' इति टीका. 'कालानुनादी' ख. २. 'अलौ च' ग-घ. ३. 'नटाश्विनवकदुःस्थाः' ख. ४. 'इत्येतच्छातकुम्भकुसुम्भयोः । मधुसूदनसंज्ञा तु भ्रमरे वनमालिनि । स्यान्मृत्युवञ्चनः शंभौ श्रीफलद्रोणकाकयोः । वरचन्दनमाख्यातं कालेये देवदारुणि । स्याद्वरवर्णिनी लाक्षाहरिद्रारोचनासु च । स्त्रीरत्ने च प्रियङ्गौ च स्यादथो शकुलादनी।' एवं पाठः ख-पुस्तके. ५. 'कटीमांसीपिञ्चलिका' ख; 'कटुमांसी किञ्चलिका' ग-घ. ६. 'शालकायनशब्दः स्यादृचिभेदेऽपि नन्दिनि । शिवकीर्तनशब्दस्तु भृङ्गिरीटे मुरद्विषि । श्वेतवाहन इत्याख्या शशाङ्के च धनंजये । स्यात्षष्ठिहायनो धान्यविशेषे च मतङ्गजे । सहस्रवेधी चुक्रे स्यात्सहस्रवधि रामठे । हरिचन्दनमाम्नातगोशीर्षे देवपादपे। हरिवाहन इत्युक्तो भास्करामरनाथयोः । भवेञ्चामरपुष्पस्तु के' इत्यधिकः ख-पुस्तके पाठः. ७. 'धूलीकदम्बोऽस्तिनिशे' ग-घ, ८. 'गोडुम्ब औषधम्' इति टीका. 'गोडिम्बे' ग-घ. ९. 'कालानुसार्यः' ग-घ. १०. 'दुग्धाने दुग्ध' ख. ११. इतः प्राक् 'भवेत्प्रवचनीयाख्या प्रवाच्ये च प्रवक्तरि' इत्यधिकः पाठः ख-पुस्तके. १२. 'तापिच्छस्तमालः' इति टीका. 'तापिञ्छ' ग-घ. १३. 'पांशु' ग-घ. १४. 'वस्वौकसारा' ग-घ. १५. 'पुरीनलिन्योर्वि' ख. १६. 'गम्भारी श्रीपर्णीवृक्षः' इति टीका. 'गम्भीर्याम्' ख. १७. 'भृशार्थे पौनःपुन्येऽपि कथ्यते । आसुतीबलशब्दस्तु यज्ञकर्तरि शौण्डिके । भवे. दुद्दण्डपालस्तु मत्स्यसर्पप्रभेदयोः । एककुण्डल इत्येष बलभद्रे धनाधिपे । कृपीटपालशब्दस्तु केनिपाते पयोनिधौ । कूटपाकलो गजपित्तज्वरे पाकमारुते ॥' इत्यधिकः पाठः ख-पुस्तके.
For Private and Personal Use Only
Page #144
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अव्ययाधिकारः। सुरतताली शिरःस्रग्दूत्योरथाशितंभवः । अन्नादौ तृप्तौ चा नभश्चमसश्चन्द्रमाययोः॥ १७६२ चित्रापूपेाहिङ्गुनिर्यासो हिङ्गुरसनिम्बयोः।। हिरण्यरेता ज्वलने सहस्रकिरणेऽपि च ॥ १७६३
___ इत्याचार्यहेमचन्द्रविरचितेऽनेकार्थसंग्रहे पञ्चस्वरकाण्डः पञ्चमः ॥५॥
षट्खरकाण्डः। ग्राममद्गुरिका युद्धशृङ्गयोर्मातुलपुत्रकः । धत्तूरकस्य च फले मातुलस्य च नन्दने॥ १७६४ लूतामर्कटकः पुत्रीनवमालिकयोः कपौ। वर्णबिडोलकः काव्यच्छायाहृत्संधिचोरयोः ॥ १७६५ सिन्दूरतिलको हस्ती सिन्दूरतिलकाङ्गना । दोहदलक्षणं गर्भे स्यात्संधौ यौवनस्य च ॥१७६६ यौवनलक्षणं वक्षोरुहे च लवणिम्नि च । अर्द्धपारापतश्चित्रकण्ठे स्यात्तित्तिरावपिः॥ १७६७ प्रत्युद्गमनीयमुपस्थेये धौतांशुकद्वये । विष्वक्सेनप्रिया त्रायमाणौषध्यां श्रियामपि ॥ १७६८
इत्याचार्यहेमचन्द्रविरचितेऽनेकार्थसंग्रहे षट्स्वरकाण्डः षष्ठः ॥ ६ ॥
अव्ययाधिकारः। अथाव्ययानि वक्ष्यन्ते प्राग्वदेव स्वरक्रमात् । अस्वल्पार्थेऽप्यभावेऽपि स्यादा स्मरणवाक्ययो;॥१७६९ आङीषदर्थेऽभिव्याप्तौ क्रियायोगेऽवधावपि । आ स्यादवधुतिस्मृत्योराः संतापप्रकोपयोः ॥ १७७० इ स्यात्खेदे प्रकोपोक्तावी क्रोधे दुःखभावने । प्रत्यक्षे संनिधौ चाप्यु रोषोक्त्यामत्रणार्थयोः ॥१७७१ उत्प्राधान्ये प्रकाशे च प्राबल्यास्वास्थ्यशक्तिषु । विभागे बन्धने मोक्षभावे लाभोर्ध्वकर्मणोः॥ १७७२ उं प्रश्शेऽङ्गीकृतौ रोषेऽप्यूं प्रश्ने रोषवाचि च। ऋ कुत्सावाक्ययोरेऐ हेहैशब्दाविव स्मृतौ ॥ १७७३ आमन्त्रणाह्वानयोरों प्रणवेऽङ्गीकृतावपि । ओऔशब्दौ तु होहौ च हतौ संबोधनेऽपि च ॥ १७७४ कु पापीयसि कुत्सायामीषदर्थे निवारणे।। के सुखे वारिशिरसोः किं प्रश्ने कुत्सितेऽपि च ॥१७७५ चान्योन्यार्थसमाहारान्वाचयेषु समुच्चये । हेतौ पक्षान्तरे तुल्ययोगिताविनियोगयोः॥ १७७६
१. 'मन्त्रचूर्णलमिच्छन्ति वशीकरणवेदिनि । डाकिनीदोषमन्त्रशे कुशाम्बुप्रोक्षणेऽपि च । भवेत्सुरतताली तु दूतिकायां शिरःखजि । आशितंभवमन्नादावाशितंभवस्तर्पणे । स्यादाषाढभवो भीमे नवीनजलदेऽपि च । स्यान्नभश्चमसश्चन्द्रचितायूपेन्द्रजालयोः । हिङ्गुनिर्यास इत्येष निम्बे हिङ्गुरसेऽपि च।' इति ख-पुस्तकेऽधिकः पाठः. २. 'शृङ्गयां ग्रामयुद्धेऽपि कीर्त्यते । स्यान्मदनशलाका तु सार्या कामोदयौषधौ । मातुलपुत्रको धत्तूरफले मातुलात्मजे' इति ख-पुस्तकेऽधिकः पाठः. ३. 'स्नानचिकित्सकश्चातुर्मास्यव्रतकरे नरे । स्नानचिकित्सकं प्रोक्तं नारीपुष्पतपस्ययोः ॥' इत्यधिकः ख-पुस्तके. ४. 'यौवनलक्षणा' ख. ५. इतःपरम् 'समुद्रनवनीतं स्यात्पीयूषे च सुधाकरे' ख. ६. 'अर्धेन पारापतोऽर्द्धपारापतः, द्वावपि पक्षिभेदौ' इत्यनेकार्थकैरवाकरकौमुदी. ७. 'विष्वक्सेनप्रिया लक्ष्म्यां त्रायमाणौषधावपि' ख; 'विश्वक्सेन' ग-घ. ८. 'अ स्यादभावे स्वल्पार्थे विष्णावेष त्वनव्ययम्' ख. ९. अभिव्यक्तौ क्रियाभेदे भग-घ.१०. 'आ स्याद्वाक्ये च स्मरणे स्यादा वेधस्यनव्ययम्' ख. ११. 'कामदेवे त्वनव्ययम्। इ दुःखभावने क्रोधे ईर्लक्ष्म्यां स्यादनव्ययम् । उ संक्रुद्धौ रुषोक्तौ च शिववाची त्वनव्ययम् । उत्प्राधान्ये प्रकाशे च' ख-पुस्तकस्थपाठोऽयम्. १२. 'मोक्षे' ख. १३. 'ऊ रक्षणे रक्षके च सूच्यां स्यूतावनव्ययम् । ऋ कुत्सायां च वाक्ये च देवमातर्यनव्ययम् । ऋ वाक्यकुत्सयोर्दैत्यजनन्यामप्यनव्ययम् । ल कुत्सायां विस्मये च लशब्दोऽपि तदर्थकः । देवमातरि वाराह्यां क्रमात्तावप्यनव्ययौ । एऐशब्दौ तु हेहैवस्मृत्यामन्त्रणहूतिषु । क्रमाच्चतुर्भुजे शंभावेऐ प्रोक्तावनव्ययौ । ओमित्यनुमितौ प्रोक्तं प्रणवे चाप्युपक्रमे । ओऔशब्दौ तु होहौवत्संबुद्ध्याह्वानयोर्मतौ । विधातरि क्रमाद्विष्णावोऔशब्दावनव्ययौ ।' इत्येवं ख-पुस्तकस्थः पाठः. १४. 'मुखे' ख.
For Private and Personal Use Only
Page #145
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६८
अभिधान संग्रह :: - ८ अनेकार्थसंग्रहः ।
१७७७
१७७८
१७८४
पादर्पूरणेऽवधृतौ तु विशेषेऽवधारणे । समुच्चये पादपूर्ती, धिग्निर्भर्त्सननिन्दयो । नि स्यात्क्षेपे भृशार्थे च नित्यार्थे दानकर्मणि । संनिधानोपरमयोः संशयाश्रयराशिषु ॥ मोक्षेऽन्तभावेऽघोभावे बन्धने कौशलेऽपि च । नु प्रश्नेऽनुशयेऽतीतार्थे विकल्पवितर्कयोः ॥ १७७९ aatदर्थे सादृश्ये तद्विरुद्धतदन्ययोः । व्यतिक्रमे स्वरूपार्थे निषेधाभावयोरपि ॥ १७८० निर्निश्चये क्रान्ताद्यर्थे निःशेषप्रतिषेधयोः । प्राक्पूर्वस्मिन्प्रभाते दिग्देशकालेष्वनन्तरे ॥ १७८१ अतीतेऽग्रेऽप्यथ प्रस्याद्गताद्यर्थप्रकर्षयोः । वा समुच्चय एवार्थे उपमानविकल्पयोः ॥ १७८२ वि श्रेष्ठेऽतीते नानार्थे वै तौ पादपूरणे । शं कल्याणे सुखेऽर्थं स्वित्परिप्रश्नवितर्कयोः || १७८३ सं संगार्थे प्रकृष्टार्थे शोभनार्थर्समार्थयोः । स्मातीते पादपूर्ती ह संबुद्धौ पादपूरणे ॥ हा दुःखविषादेषु हि ताववधारणे । विशेषे पादपूर्ती च ही विस्मयविषादयोः ॥ १७८५ दुःखहेतौ च हं रोषभाषणेऽनुनयेऽपि च । हुं वितर्के परिप्रश्ने, स्यान्मनागल्पमन्दयोः ॥ १७८६ अङ्ग संबोधने हर्षे पुनरर्थे च किं च तु । साकल्यारम्भयोस्तिर्यक्स्यान्त्तिरश्चीनवक्रयोः ॥ हिरुग्मध्ये विनार्थेऽति प्रकर्षे लङ्घने भृशे । स्तुतावसंप्रतिक्षेपेऽप्यस्तु पीडानिषेधयोः ॥ असूयायामनुज्ञायामाराद्दूरसमीपयोः ॥ इति स्वरूपे सांनिध्ये विवक्षानियमे मते | eat प्रकार प्रत्यक्ष प्रकाशेष्ववधारणे । एवमर्थे समाप्तौ स्यादुत प्रश्नवितर्कयोः ॥ समुचये विकल्पे च तावद्यावदिवावधौ । कार्त्स्न्येऽवधारणे माने प्रतीत्थंभूतभागयोः ॥ I प्रतिदाने प्रतिनिधौ वीप्सालक्षणयोरपि । पश्चात्प्रतीच्यां चरमे बतामन्त्रणखेदयोः ||
१७८७
१७८८
१७८९
१७९०
१७९१
१७९२
१७९५
यानुकम्पासु यद्वत्प्रश्नवितर्कयोः । शश्वत्सह पुनर्नित्ये सकृत्सहैकवारयोः ॥ १७९३ स्वस्त्याशीः क्षेमपुण्यादौ साक्षात्प्रत्यक्ष तुल्ययोः । हन्त दानेऽनुकम्पायां वाक्यारम्भविषादयोः १७९४ निश्चये च प्रमोदेचाप्यथो अथ समुच्चये । मङ्गले संशयारम्भाधिकारानन्तरेषु च ॥ अन्वादेशे प्रतिज्ञायां प्रश्नसाकल्ययोरपि । तथा स्यान्निश्चये पृष्ठप्रतिवाक्ये समुच्चयेः ॥ यथा निदर्शने ' द्वौ तदेशे निर्देशसाम्ययोः । हेतूपपत्तौ च वृथा त्वविधौ स्यादनर्थके ।। अनु लक्षणवीप्सेत्थंभूतभागेषु संनिधौ । सादृश्यायामहीनेषु पञ्चादर्थसहार्थयोः ॥ नन्वाक्षेपे परिप्रश्ने प्रत्युक्ताववधारणे । वाक्यारम्भेऽप्यनुनयामन्त्रणानुज्ञयोरपिः || नानाविनोभानेकार्थे तु स्थाने तु कारणे । युक्ते साम्येऽप्यप स्तेयेऽपकृष्टे वर्जने मुदि || १८०० विपर्यये वियोगे च निर्देशे विकृतावपि । अपि संभावनाशङ्कागर्हणासु समुच्चये ॥ प्रश्न युक्तपदार्थेषु कामचारक्रियासु च । उपासन्नेऽधिके होने सादृश्यप्रतियत्नयोः || तद्योगव्याप्तिपूजासु शक्तावारम्भदानयोः । दाक्षिण्याचार्यकरणदोषाख्यानात्ययेषु च ॥
१७९९
१८०१
१८०२
१८०३
For Private and Personal Use Only
१७९६
१७९७
१७९८
१. 'पूर्णेऽवधूतौ च तु' गन्ध २. 'संशये यथा, निरेकमेकोऽपि निराकरोति' इति' टीका. 'संश्रयाश्रयराशिषु' ख-ग-घ-पुस्तकस्थः पाठः ३. 'अनुनये' ख; 'अनुशाये तीर्थे स्यात् ' ग घ ४. 'विशेष' ग घ ५. 'अवान्तरे' ख ग घ ६. 'अपि श्वित्स्वित्स्यात्प्र' ग घ ७ 'प्रसंगार्थे' ख. ८. 'समुच्चयोः ' ग घ ९ इतःपरम् 'सु पूजायां भृशाथानुमतिकृच्छ्रसमृद्धिषु' इति ख- पुस्तकेऽधिकः पाठोऽयम्. १०. 'सुख' गन्ध. ११. 'अनुशये' ग घ. १२. 'हूं लज्जायां निवारणे । मनागल्पे च मन्दे चाङ्ग संबोधनहर्षयोः । पुनरर्थे चाथ किं च संकल्पारम्भयो१३. ' प्रकर्षेष्व' ख. १४. ' वितर्के च
तम् । तिर्यक्तिरोर्थे वक्रे च विहगादौ त्वनव्ययम्' । इत्येवं ख- पुस्तके.
1
यावत्तावदिवावधौ' ग-व- पुस्तकयोरेवं पाठः १५. 'प्रमादे' ग घ. १६. 'हेतू' ख. १७. 'मरणोद्यमनार्थयोः ' ख.
Page #146
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अव्ययाधिकारः। अभि वीप्सालक्षणयोरित्थंभूताभिमुख्ययोः।। स्यादमा संनिधानार्थे सहार्थेऽलं निवारणे ॥ १८०४ अलंकरणसामर्थ्यपर्याप्तिष्ववधारणे । एवं प्रकारेऽङ्गीकारेऽवधारणसमन्वयोः॥ १८०५ कथं प्रश्ने प्रकारार्थे संभ्रमे संभवेऽपि च । काममसूयानुगमे प्रकामेऽनुमतावपि ॥ १८०६ किमु संभावनायां विमर्शे जोषं सुखे स्तुतौ । मौनलङ्घनयोश्चापि नाम प्राकाश्यकुत्सयोः॥१८०७ संभाव्याभ्युपगमयोरलीके विस्मये क्रुधिः । नूनं तर्के निश्चिते चा प्राध्वं नर्मानुकूलयोः ॥ १८०८ भृशं प्रकर्षेऽत्यर्थे च, सामि त्वर्धे जुगुप्सिते । अयि प्रश्नेऽनुनये स्यादये क्रोधविषादयोः ॥१८०९ संभ्रमे स्मरणे चान्तरन्ते स्वीकारमध्ययोः । उर[रुरीवदूरी विस्तारेऽङ्गीकृतावपि॥ १८१० पराभिमुख्ये प्राधान्ये विमोक्षप्रातिलोम्ययोः । गतिधर्षणहिंसासु भृशार्थे विक्रमेऽपि च।॥ १८११ परि व्याधावुपरमे वर्जने लक्षणादिषु । आलिङ्गने च शोके च पूजायां दोषकीर्तने ॥ १८१२ भूषणे सर्वतोभावे व्याप्तौ निवसनेऽपि च । पुरा भविष्यदासन्ने चिरातीतप्रबन्धयोः॥ १८१३ पुनरप्रथमे भेदे, किल संभाव्यवार्तयोः । हेत्वरुच्योरलीके च खलु वीप्सानिषेधयोः ॥ १८१४ जिज्ञासायामनुनये वाक्यालंकरणेऽपि च।। अवालम्बनर्विज्ञानवियोगव्याप्तिशुद्धिषु॥ १८१५ ऐवौपम्ये परिभवे ईषदर्थेऽवधारणे । उषा रात्रौ तदन्ते च दोषा निशि निशामुखे॥ १८१६ मक्षु शीघे भृशे तत्त्वेऽतो हेतोरपदेशवत् । निर्देशे पञ्चम्यर्थे चेतो यतश्च विभागवत् ॥ १८१७ पञ्चम्यर्थे नियमे च तत आदौ कथान्तरे । पञ्चम्यर्थे परिप्रश्ने तिरोऽन्त तिरश्चि च ॥ १८१८ नीचैः स्वैराल्पनीचेषु प्रादुर्नामप्रकाश्ययोः। पुरोऽग्रे प्रथमे च स्यान्मिथोऽन्योन्यरहस्यपि ॥ १८१९ अहा धिगर्थे शोके च करुणार्थविषादयोः।। अह क्षेपे नियोगे, चाप्यहो प्रश्नविचारयोः ॥ १८२० सह संबन्धसादृश्ययोगपद्यसमृद्धिषु । साकल्ये विद्यमाने च, हीही विस्मयहास्ययोः॥ १८२१ नैनु च प्रश्ने दुष्टोक्तौ सम्यग्वादे स्तुतावपि।। अपष्टु चारौ निर्दोषे किमुत प्रश्नवादयोः ॥ १८२२ विकल्पेऽतिशये चापि पुरस्तात्प्रथमेऽग्रतः । पूर्वस्यां च पुरार्थे चाभीक्ष्णं शीघ्रप्रकर्षयोः ॥ १८२३ पौनःपुन्ये संतते.चावश्यं निश्चयनित्ययोः । इदानीं सांप्रतं वाक्यालंकारे तद्दिनं पुनः ॥ १८२४ दिनमध्ये प्रतिदिने सांप्रतं तूचितेऽधुना । समयानिकषा चान्तनिकटे चान्तरा पुनः ॥ १८२५ विनार्थे संनिधौ मध्येऽभितोऽभिमुखकाययोः । समीपोभयतः शीघ्रष्वग्रतःप्रथमाग्रयोः॥१८२६ अन्ततोऽवयवोत्प्रेक्षा पञ्चम्यर्थेषु शासने। पुरतोऽप्राद्ययोः पूर्वेधुर्धर्माहप्रभातयोः ॥ १८२७ अहहेत्यद्भुते खेदेऽन्तरेणान्तर्विनार्थयोः । अहो बतानुकम्पायां खेदामन्त्रणयोरपि ॥ १८२८
___ इत्याचार्यहेमचन्द्रविरचितेऽनेकार्थसंग्रहेऽव्ययाधिकारः । इति श्रीहेमचन्द्राचार्यविरचितोऽनेकार्थसंग्रहः समाप्तः ।
१. 'निरर्थकौ' ग-घ. २. 'च वारणे' ख. ३. 'रोपमयोरङ्गीकारेऽवधारणे' ख. ४. 'उ!ररी चोररी च ग-घ. ५. 'शुण्ठ्यासु' ग-घ. ६. इतःपरम् 'प्राद्गः प्राकाश्ये वृत्तौ स्यात्संभाव्येऽपि प्रयुज्यते' ख. ७. 'प्रतीपयोः' ग-घ. ८. 'विक्रान्त' ग-घ. ९. 'इवौ' ख. १०. इतःपरम् 'शनैः शनैश्चरे स्वैरे संहः साहसतेजसोः' ख. ११. 'नपूज्जिहातेः किपि, अहा' इति टीका. 'अहो' ख-ग-घ. १२. 'नपूर्वाज्जहाते.ः, 'अह' इति टीका. 'आह' ख-ग-ध. १३. 'अनु च' ख. १४. 'नानार्थे' ग घ. १५. 'समयो' ग-घ. १६. 'अवसितोत्प्रे' ख.
For Private and Personal Use Only
Page #147
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
Page #148
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ श्रीः ॥
अभिधानसंग्रहः।
-
cccccccoom
(९) श्रीहेमचन्द्राचार्यविरचितो
निघण्टुशेषः।
विहितैकार्थनानार्थदेश्यशब्दसमुच्चयः । निघण्टुशेषं वक्ष्येऽहं नबाहत्पादपङ्कजम् ॥
"""॥
................
............................................. ............
:
.................
:
""""
"""
:
:
.
.
.
.
.
.
.
.
.
.
.
.
:
.
.
.
.....................................
.................
""""
॥
.....................................
""
""
|
"
""""
:
:
............................................ ..............................................
........................................
....... ||
........................................
:
.......................................
:
"""
""
..............................""""
............................................. | ..................................................॥ १६ .....................................
.............................. ॥ १७ .............."पुष्पः शुकवृक्षः शुकप्रियः । कपीतनः कर्णपूरो भण्डिलः श्यामवल्कलः ॥ १८ पाटल्यां पाटला. स्थाली मोघा तोयाधिवासिनी । वसन्तकामयोर्दूती, ""कुन्ती कालवृन्तिका।।। १९ अन्यस्यां तत्र तु श्वेता. पाटला काष्ठपाटला । शीतला श्वेतकुम्भीका कुवेराक्षी फलेरुहा,॥ २० अगुरावगुरुर्लोहं वंशिकं विश्वरूपकम् । कृमिजं प्रवरं राजाह योगजमनार्यकम् ।। मल्लिगन्धेऽत्र मङ्गल्या. कृष्णे तु काकतुण्डकः।। श्रीखण्डे स्यान्मलयजं चन्दनं श्वेतचन्दनम् ॥ २२ गोशीर्षकं गन्धसारं भद्रश्रीस्तैलपर्णिकम् । फलकी सुरभिः सारं महार्ह रोहणोद्भवम् ॥ २३
For Private and Personal Use Only
Page #149
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
___ अभिधानसंग्रहः-९ निघण्टुशेषः । अथ बर्बरके श्वेतं निर्गन्धं बर्बरोद्भवम् । स्याद्रक्तचन्दने क्षुद्रचन्दनं भास्करप्रियम् ॥ ताम्रसारं रक्तसारं लोहितं हरिचन्दनम्।। कुचन्दने तु पत्राङ्गं पत्तङ्गं पट्टरञ्जनम् ॥ सुरङ्गकं रक्तकाष्ठं पत्तूरं तिलपणिकाए। अथ द्रुमोत्पलव्याधः परिव्याधः सुगन्धकः॥ निर्गन्धेऽस्मिन्कर्णिकारो निषीधः पीतपुष्पकः।। 'नागे तु महानागः केसरो रक्तकेसरः ॥ २७ देववल्लभकुम्भीको तुङ्गः पुरुषनामकः । अथागस्त्ये वङ्गसेनः शुकनासो मुनिद्रुमः ॥ करवीरे कणवीरः श्वेतपुष्पोऽश्वमारकः । प्रतिहासः शतप्राशोऽश्वरोधः कुमुदोद्भवः॥ २९ रक्तपुष्पेऽत्र लगुडश्चण्डातश्चण्डगुल्मको । कालस्कन्धस्तमाले स्यात्तापिच्छो रअतो वसुः ॥ ३० तमालपत्रे वस्त्राख्यं रोमशं तामसं दलम् । सूक्ष्मैलायां चन्द्रबाला द्राविडी निष्कुटित्रुटिः ॥ ३१ कपोतवर्णिका तुच्छा कोरङ्गी बहुला तुला।। स्थूलैलायां बृहदेला भद्रेला खक्सुगन्धिका ॥ ३२ त्रिदिवोद्भवा च पृथ्वीका कणिका त्रिपुटा पुटा । कर्पूरे घनसारः स्याद्धिमाहो हिमवालुकः ॥ ३३ सिताभ्रः शीतलरजः स्फटिकश्चन्द्रनामकः।। कङ्कोलके कटुफलं कोमकं मागधोत्थितम् ॥ ३४ कोलं कोषफलं कोरं मारीचं द्वीपमित्यपि, । लवङ्गे शिषरं दिव्यं भृङ्गारं वारिजं लवम् ॥ ३५ श्रीपुष्पं याह्वयं देवपुष्पं चन्दनपुष्पकम् । नलिकायां कपोताजिनिर्मध्या शुषिरा नटी ॥ ३६ धमन्यञ्जनकेशी च शून्या विद्रुमवल्लयपि । अतिमुक्ते मण्डकः स्यात्पुण्ड्रको भ्रमरोत्सवः ॥ ३७ पराश्रयः सुवासन्ती कामुको माधवी लता। पिप्पले बोधिरश्वत्थः श्रीवृक्षश्चलपत्रकः ॥ ३८ मङ्गल्यः केशवावासः श्यामलो द्विरदाशनः । गर्दभाण्डे कन्दराल छायावृक्षः कमण्डलुः ॥ ३९ प्लक्षो वटप्लवः शुङ्गी सुपार्श्वश्चारुदर्शनः । कपीतने कपीनः स्यात्पीतनप्लवकावपि ॥ ४० कर्पटो पर्कटी प्लक्षः सतीदो लक्षणे नटी । वटे वैश्रवणावासो न्यग्रोधो बहुपाद्भुवः॥ ४१ स्कन्धजन्मारक्तफलः क्षीरी शुङ्गी वनस्पतिः । उदुम्बरे जन्तुफलो यज्ञाङ्गो हेमदुग्धकः ॥ ४२ सदाफलो वसुवृक्षः श्वेतवल्को मशक्यपि, काकोदुम्बरिकायां तु फाल्गुनी फल्गुवाटिका ॥ ४३ फलाराजी फलभारी फलयूर्जधनेफला । राजादने तु राजन्या क्षीरिका प्रियदर्शनः ॥ ४४ कपिप्रियो दृढस्कन्धो मधुराजफलो नृपः। पियाले तु राजवृक्षो बहुवल्को धनुष्पटः ॥ ४५ सन्नकदुः खरस्कन्धश्चारस्तापसवल्लभः ।। आम्रातके वर्षपाकी कपिचूतः कपिप्रियः ॥ कपीतनः पीतनकस्तनक्षीरोऽम्रपाटकः ....................................... अर्के विकीरण"......................... । क्षीरार्कपर्णो राजा: बलर्को गणरूपकः ॥ ४८ एकाष्ठीलः सदापुष्पो मन्दारश्च प्रतापसः । त्रुट्यां वज्रो महावृक्षोऽसिपत्रः नुक्सुधा गुडा ॥ ४९ समन्तदुग्धा सेहुण्डः शण्डेरी चक्रकण्टकः। करमर्दै करमदः कराम्रकसुषेणकौ ॥ ५० स्थलपर्केट आविग्नः कृष्णपाकफलोऽपि च।। जम्बीरे जम्भलो जम्भो जम्भीलो दन्तहर्षणः ॥ ५१ वक्रशोधी दन्तशटो गम्भीरो रोचनोऽपि च । करुणे तु छागलाख्यो मल्लिकाकुसुमः प्रियः ।। ५२ बीजपूरे बीजपूर्णः पूरकः फलपूरकः । सुपूरको मातुलुङ्गः केसराम्लोऽम्लकेसरः ॥ ५३ वराम्लो बीजको लुङ्गो रुचको मध्यकेसरः । कृमिघ्नो गन्धकुसुमः केसरी साधुपादपः ॥ ५४ मातुलुङ्गी वर्धमाना मधुरा मधुकर्कटी । मधुवल्ली पूतिपुष्पा देवदूती महाबला ॥ अम्लिकायां चुक्रिकाम्का शुक्तिकाम्ली विकाम्लिका।चुक्रा चिश्चा तिन्तिडीका तिन्तिडीगुरुपुष्पिका,
For Private and Personal Use Only
Page #150
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वृक्षकाण्डः ।
५७
५८
६०
६१
६२
६३
६४
६५
६६
६७
६८
६९
वृक्षाम्ले स्यादम्लवृक्षस्तिन्तिडीको महीरुहः । शाकाम्लमम्लशाकं चाम्लपूरो रक्तपूरकः ॥ अम्लवेतसे भीमो भेदनो रक्तपूरकः । रुधिरस्रावकश्चक्रं मांसारिर्चानिकप्रियः || शाखाम्लो वेतसोऽम्लोऽम्लस्तिन्तिडीको रसाम्लक । स शङ्खद्रावको हीनो लौहद्रावक उत्तमः ॥५९ तावेव तु शतवेधसहस्रवेधिनौ क्रमात् । कपित्थे वानरावासों गन्धपत्रः कपिप्रियः || पुष्पफलो दधिफलो दधित्यग्राहिमन्मथाः । अक्षिस्यंदो दन्तशठो राजाश्चिरपाक्यपि ॥ अश्मन्तके श्लक्ष्णपत्रः पाषाणावूक इन्द्रकः । अम्लपनस्ताम्रपत्रः कुशली यमलच्छदः ॥ नारङ्गे स्यान्नागरङ्गस्त्वक्सुगन्धो मुखप्रियः । ऐर बतो योगसारो योगी तक्राधिवासनः ॥ खदिरे स्याद्रक्तसारः कण्टकी दन्तधावनः । गायत्री चलपुत्रश्च बहुशल्यः क्षितिक्षमः ॥ सिते तु तत्र कदरः कार्मकः कुब्जकण्टकः । सोमवल्को नेमिवृक्षः श्वेतसारः पथिद्रुमः ॥ विट्खदिरे विरिमिदो गोधास्कन्धो रिमेदकः | अहिमारो रिमः पूत्यरिमेदो मुखशोधनः ॥ शाल्मलौ तूलिनी मोचा पिच्छिला विरजाविता । कुक्कुटी पूरणी रक्तकुसुमा घुणवल्लभा || कण्टकाढ्या नलफली पिच्छा तु तस्य वेष्टकः । कुत्सिते शाल्मलौ प्रोक्तो रोचनः कूटशाल्मलिः शिंशिपायां महाश्यामा पिच्छिला पाण्डुरच्छदा । कृष्णसाराङ्गारवर्णागुरुरल्पा तु शिंशिपा ॥ कुशिंशिपा भस्मगर्भा कपिला भस्मपिङ्गला । बदर्यं कुत्रलिः कोलिः कर्कन्धुः फेनिलच्छदा ॥ ७० राष्ट्रवृद्धिकरी कोली सौवीरी वज्रशिल्पिका । वुटा घोण्टा कुहा घोट्टा व्याघ्रगृध्रनखीत्यपि ॥ ७१५ शम्यां सक्तफला लक्ष्मीः शिवा तुङ्गानिपादपः । अजप्रिया भस्मकाष्ठा शंकरः शिवकीलिका ॥ ७२ शिवलोमायतफला लोमपामविनाशिनी । मङ्गल्या शुचिपत्रा च फले तस्यास्तु साङ्गरः ॥ ७३ इङ्गुद्यां तापसतरुर्मार्जारः कण्टकीटकः । बिन्दुकस्तिक्तमज्जा च पूतिपुष्पफलोऽपि च ॥ arrot पुरो दुर्गे महिषाक्षः पलङ्कषः । जटायुः कालनिर्यासो वासवोलूकनामकः ॥ नक्तंचरः शिवधूपः कुम्भोलूखलकः शिवः । पारिभद्रे निम्बतरुर्मन्दारः पारिजातकः ॥ करीरे स्यात्तीक्ष्णसारः शाकपुष्पो मृदुफलः । मरुजन्मा तथा पत्रो ग्रन्थिलककरावपि ॥ विकङ्कते स्रुववृक्षो मन्थिलः स्वादुकण्टकः । केकणिः काकपादश्च व्याघ्रपादोपकण्टकः ॥ बिल्वे महाफलः त्र्याह्वः शलाटुः पूतिमारुतः । महाकपित्थं शाण्डिल्यः शैलूषो नीलमल्लिका ॥ ७९ श्रीवासः श्रीफलो हृद्यगन्धो मालूरकर्कटौ । हरीतक्यां जया पथ्या हैमवत्यभयामृता ॥ ॥ ५ कायस्था पूतना चेतक्यव्यथा श्रेयसी शिवा । बिभीतके भूतवासो वासन्तोऽक्षो वटकः ॥ ८१ I संवर्तकः कर्षफलः कलिवासः कलिदुमः । कर्षो दोत्यो मधुबीजो धर्मद्वेषी बिभेदकः ॥ ८२ आमलक्यां शिवाधात्री वयस्था षट्ररसामृता । पर्वकाळ्या तिष्यफला माकन्दी श्रीफला च सा ८३ अरणावग्निमन्थः स्यात्तर्कारी वैजयन्तिका । जया जयन्ती नादेयी श्रीपर्णी गणिकारिका ॥ ८४ तेजोमन्थो हविर्मन्थो........वह्निशोधनः । अरलौ दुन्दको दीर्घ " श्योनाकः शोषणो जम्बुः शुकनासः कटंभरः । मयूरजङ्घकटुङ्गः सल्लकः प्रियजीवकः ॥ मण्डूकपर्णः पत्रोर्णो गोपवृक्षो मुनिद्रुमः । शिश्रौ शोभाञ्जनस्तीक्ष्णगन्धो मूलकपल्लवः ॥ विद्रध्यरातिः काक्षीवो मुखभञ्जः सुभञ्जनः । दृशोक्षीवः सुरङ्गी च मोचको मधुगृञ्जनः ॥ श्वेतेऽत्र श्वेतमरिचो रक्ते तु मधुशिग्रुकः । तिनिशे रथकृन्नेमिर्वञ्जुलो रथसाधकः ॥
७४
७५
७६
७७ ७८
८०
वृन्तचाथ कुटंनटः ॥ ८५
८६ ८७
८८
८९
For Private and Personal Use Only
Page #151
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिधानसंग्रहः-९ निघण्टुशेषः । दीर्घवृक्षश्च कवरो रथनामातिमुक्तकः । अश्मगर्भः सर्वसारः क्रमसंधारणोऽपि च ॥ ९० पलाशे किंशुकः पर्णः......"त्रिपत्रकः । त्रिवृताख्यो रक्तपुष्पो बीजस्नेहः समिद्वरः ॥ ९१ क्षारश्रेष्टो वातपोथो याज्ञिको ब्रह्मपादपः । धवे भारोद्वहो गौरः सकटाक्षो धुरंधरः ॥ कुलावो नन्दिनश्चापि सितः कृष्णश्च स द्विधा । श्रीपयी काश्मरी कृष्णा वृन्तिका मधुपर्णिका ९३ गम्भारी सर्वतोभद्रा कट्फला भद्रपर्णिका । विहीरा कुमुदाहारी महाकुम्भी च कश्मरी ॥ ९४ नित्यभद्रा महाभद्रा काश्मर्यो मधुपर्ण्यपि । सप्तच्छदे शुक्तिपर्णो गन्धपुष्पः सवर्णकः ॥ ९५ स्थूलपर्णो दीपवृक्षः शारदो विषमच्छदः । मदगन्धिविशालत्वकुग्गजद्विट्शाल्मलीदलः ॥ शिरोरुर्गेहविटपः सुमनो ग्रहनाशनः । आरग्वधे कृतमालः कर्णिकारः सुवर्णकः ॥ पीतपुष्पो दीर्घफलः शम्पाकश्चतुरङ्गुलः । व्याधिहा रेवतः स्थूलः प्रग्रहो राजपादपः॥ ९८ आरोग्यशिम्बिका कर्णी स्वर्णशेफालिकेत्यपि । बीजके प्रियकः शौरिगौरो बन्धूकपुष्पकः॥ ९९ कृष्णसों महासर्जः कल्याणः पीवरोऽसनः । महाशालः पीतशालो जीवकः प्रियशालकः ॥ १०० सुगन्धिर्नीलनिर्यासस्तिष्यपुष्पोऽलकप्रियः । स तु द्विधा शिखिग्रीवः श्रेष्ठो गोमूत्रगन्धकः ॥ १०१ अश्वकर्णे दीर्घपत्रः कषायः सस्यसंवरः । सर्जकः......."शूरः कार्यशालो लतातरुः॥ १०२ अर्जुने ककुभः सेव्यः सुवर्णो धूर्तपादपः । देवशाकः शक्रतरुर्नदीसोंऽर्जुनाभिधः ।। शाके कोलफलो द्वा""दारुर्योगी हलीमकः । गन्धसारः स्थिरसारः स्थिरको ध्रुवसाधनः ॥ १०४ अभ्रं."महापत्रो बलसारो बलप्रभः । धर्मणे तु धनुर्वृक्षो गोत्रवृक्षो रुजासहः ॥ १०५ महाबलो महावृक्षो राजाहो धन्वनः फलम् । खादुफलो मृत्युफलः सारवृक्षः सुतेजनः ॥ १०६ सिल्लके तु सिद्धवृक्षः कोलिपत्रे तु जोरणः । महापत्रे वगादी स्याद्विषशङ्कः पलाशकः॥ १०७ पारिभद्रे द्रुकिलिमं किलिमं देववल्लभः । दारु वस्नेहविदं च देवद्रुः स्वर्गजो द्रुमः॥ १०८ पीतपूतिमहादेवभद्रेन्द्रा काष्ठदारुणी । मधूके' शाकः स्यान्माधवो मधुको मधुः ॥ १०९ मधुष्ठीलो मधुष्ठालो मधुकाष्टो मधुस्रवः । रोधकोषमधुगुडपुष्पो गोलफलोऽपि च ॥ ११० जलजेऽस्मिन्मधूलः स्याद्गिरिजो दीर्घपत्रकः । तीरवृक्षो गौरशालो ह्रस्वपुष्पफलोऽपि च ॥ १११ तिन्दुके स्फूर्जकस्तुष्टः कालस्कन्धो विरूपकः । निःस्यन्दनः कालशाको द्रावणो नीलसारकः॥११२ द्वितीयतिन्दुके कालस्तिन्दुर्मर्कटतिन्दुकः । काकेन्दुकः काकपीलुः कुपीलुकुलकावपि ॥ ११३ रोधे लोध्रः सिते तत्र शाबरस्तनुवल्कलः । उत्सादनो महारोध्रो नम्भः शबरपादपः ॥ ११४ रक्ते तु पट्टिका तिल्वः पट्टीलाक्षाप्रसादनः । तिरीटो मार्जनश्चिल्ली कानीनः क्रमुकः शिशुः ॥ ११५ स्थूलवल्को वृहत्पत्रः कृष्णरोधे तु गालवः । भूर्जे भुजो बहुपटो मृदुवल्को मृदुच्छदः ॥ ११६ रेखापत्रश्छत्रपत्रो बहुबर्मिणावपि । श्लेष्मान्तके भूतवृक्षः पिच्छिलो द्विजकुत्सितः ॥ ११७ वसन्तकुसुमः शेलुः कफेलुर्लेखशाटकः । विषघाती बहुवारः शीत उद्दालकस्तथा ॥ ११८ बकुले कण्टकीग्रन्थिफलाम्बुपनसामहुः । लकुचः क्षुद्रपनसस्तनु स्यात्कुब्जकं फलम् ॥ ११९ आने रसालो माकन्दः कामाङ्गः पिकवान्धवः । वनपुष्पो शवश्चतः परपुष्टमदोद्भवः ॥ १२० मधुदूतो मधुफलः सुफलो मदिरासखः । वसन्तपादपोऽसौ तु सहकारोऽतिसौरभः ॥ १२१ क्षुद्राने स्यात्कृमितरुाक्षावृक्षो जतुद्रुमः । सुकोशको घनस्कन्धः केशाम्बुश्च सुरक्तसः ॥ १२२ टको नीलकपित्थोऽन्यो राजपुत्रो नृपात्मजः । जम्ब्वां महाफला राजजम्बूर्नीलाम्बुकच्छदा ॥१२३
For Private and Personal Use Only
Page #152
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१ वृक्षकाण्डः। सुगन्धिपत्रा सान्या तु काकजम्बू: कुजम्बुका । उशीरपत्रा नादेयी वैदेशी काकवल्लभा॥ १२४ मदने छर्दनो राठः शल्यको विषनाशनः । करहाटो मरुबकः पिण्डी पिण्डीतकः फलः ॥ १२५ सूर्यपुत्रकर्कटको विषगन्धो विषोदरः । मश्यान्तकफलो राजपुत्रकः कफवर्धनः ॥ १२६ कुब्जके कामुकं श्यामसारः फुल्लो मिसिद्रुमः । निचुले तु नदीकान्तोऽम्बुजो हिज्जल इजलः ॥१२७ गन्धपुष्पो गुच्छफलोऽनुवाकः कच्छकोल्यपि । वेतसे विदुलः शीतो नदीकूलप्रियो रथः ॥ १२८ अभ्रपुष्पः पत्रमाली वाणीरो वञ्जुलोऽपि च । स्यादम्बुवेतसे भीरु देयी बालभीरुकः॥ १२९ विदुलो मञ्जरीनम्रः परिव्याधो निकुञ्जकः । वरुणे गन्धवृक्षः स्यात्तिक्तशाकः कुमारकः॥ १३० श्वेतपुष्पः श्वेतफलस्तमालो मारुतापहः । साधुवृक्षः श्वेतवृक्षः सेतुरश्मरिकारिपुः॥ १३१ अङ्कोटे स्यात्पातसारो दीर्घकीलो निकोचकः । अकोलकस्ताम्रफलो रेचको गन्धपुष्पकः ॥ १३२ भल्लातके वीरतरुररुष्कोऽरुष्करो व्रणः । भौतिको भूतनुभूरिस्नेहः शोफकरो धनुः ॥ १३३ अग्निमुखी बहुपत्रो भल्ली सूर्याग्निसंज्ञकः । अरिष्ठे स्यात्कृष्णवर्णो रक्तबीजोऽर्थसाधनः॥ १३४ शुभनामा पीतफेनः फेनिलो गर्भपातनः । निम्बे तु सर्वतोभद्रः पारिभद्रः सुतिक्तकः॥ १३५ पिचुमन्दो यवनेष्टः शुकेष्टः शुकमालकः । अरिष्टो हिङ्गुनिर्यासो वेता नियमनोऽपि च ॥ १३६ महानिम्बे निम्बकश्च कार्मुको विषमुष्टिकः । रम्यकः क्षीबको वृक्षोऽक्षिपीलुः केशमुष्टिकः॥१३७ पीलौ स्रंसी सहस्राङ्गः शीतः करभवल्लभः । गुल्मारिर्गुडफलश्चाथास्मिंस्तु गिरिसंभवे ॥ १३८ अक्षोटः कर्परालश्च फलस्नेहो गुहाशयः। पारावाते तु साराम्लो रक्तमालः परावतः ॥ १३९ आरेवतः सारफलो महापारावतो महान् । कपोताण्डतुल्यफलो रुद्राक्षे तु महामुनिः ॥ १४० स तु चतुर्मुखो ब्रह्मा द्विमुखस्तु वरार्गलः । षण्मुखस्तु कार्तिकेयः पञ्चमुखस्तु शंकरः॥ माधवस्वेकवदनो विजयाशस्त्रधारणः । पुत्रंजीवे बक्षफलः कुमारजीवनामकः ॥ १४२ करजे स्यान्नक्तमालः पूतीकश्चिरबिल्वकः । करजः श्लीपदारिश्च प्रकीर्यः कलिनाशनः॥ १४३ भेदास्त्वस्य त्रयस्तत्र षड्यन्था हस्तिवारुणी । मर्कट्यां तु कृतमाल उदकीयः प्रकीर्यकः ॥ १४४ अङ्गारवल्यां शार्ङ्गस्था कासनी करतालिका । रोहीतके रोहितको रोही दाडिमपुष्पकः॥ १४५ रोहडकः सदापुष्पो रोचना प्लीहरक्तहा । कटफले तु सोमवल्कः कैटर्यो गोपभद्रिका ॥ १४६ कुम्भी कुमुदिका भद्रा श्रीपर्णी भद्रवत्यपि । दाडिमे कुट्टिमः कीरवल्लभः फलपाण्डवः॥ १४७ करको दन्तबीजश्वाथोड्पुष्पे जपा जवा । धातक्यां तु धातुपुष्पी बहुपुष्प्यग्निपुष्पिका ॥ १४८ ताम्रपर्णी सुभिक्षा च कुञ्जरा मद्यपावनी । सल्लक्यां वल्लकी हादा सुवहा सुस्रवा रसा ॥ १४९ अश्वमूर्तिः कुन्दरुकी गजभक्ष्या महेरणा । गन्धवीरा गन्धकारी सुरभिर्वनकर्णिका ॥ १५० एरण्डे तरुणश्चित्रो दीर्घदण्डो व्यडम्बकः । पञ्चाङ्गुलो वर्द्धमान आमण्डो रुवको रुवूः॥ १५१ व्याघ्रपुच्छो व्याघ्रतलश्चक्षुरुत्तानपत्रकः । गन्धर्वहस्तकश्चञ्चुरादण्डो हस्तिपर्णकः ॥ १५२ उरुवूको हस्तिकर्णः शुक्लो रक्तश्च स द्विधा । किम्पाके तु महाकालः काकः काकमर्दकः ॥ १५३ कम्पिल्लके तु काम्पिल्लो रक्ताङ्गो रक्तचूर्णकः । चन्द्राह्वयो रोचनकः कर्कशाह्वः पटोदयः ॥ १५४ केतकच्छदनीयोऽम्बुप्रसादनफलः कतः । कार्पास्यां तु समुद्रान्ता बदरा तुण्डिकेर्यपि ॥ १५५ सा तु वन्या भरद्वाजी भद्रा चन्दनबीजिका । वन्दायां स्यात्तरुरुहा शौरवर्यदरोहिणी ॥ १५६ वृक्षादनी वृक्षभक्ष्या जयन्ती कामपादपः । स तु क्षीरवृक्षभवो नन्दीवृक्षो जयद्रुमः ॥ १५७
For Private and Personal Use Only
Page #153
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिधानसंग्रहः-९ निघण्टुशेषः । आटरूषे वृषो वासा वाशिका वाजिदन्तकः। भिषजमाता सिंहमुखः सिंहिका सिंहपणिका १५८ तुम्बरौ सानुजः सौरः सौरभो वनजोऽन्धकः । तीक्ष्णवल्कस्तीक्ष्णफलतीक्ष्णपत्रो महामुनिः॥ १५९ कदल्यां तु हस्तिविषा रम्भा मोचांशुमत्फला । काष्ठीला वारणवुशा स्यात्कालीरस इत्यपि ॥ १६० तगरे कालानुसार्य चक्राख्यो मधुरो नृपः । तूले ." ब्रह्मचारु ब्रह्मण्यं ब्रह्मकाष्ठकम् ॥ १६१ ब्रह्मनिष्ठं च दापं च क्रमुकं ब्रह्मचारि च । मुष्कके मोक्षको घण्टा क्रन्दालो मोक्षमुञ्चकौ ॥ १६२ पाटलिगोलिहः क्षारश्रेष्ठः कृष्णः सितश्च सः । वंशे यवफलो वेणुः शतपर्वा तृणध्वजः॥ १६३ मस्करस्त्वचिसारस्त्वक्सारकर्मारतेजनाः । गाङ्गेरुक्यां विश्वदेवदेवाहस्वाङ्गवेधुका ॥ १६४ खण्डारिष्टा नागबला स्वरबन्धनिकेत्यपि । दार्वी दारहरिद्रायां पीता कटङ्कटेरिका ॥ १६५ पीतद्रुमः पीतदारु पीतनं पीतचन्दनम् । पर्जनी कर्कटकिनी कालेयकः पचम्पचा॥ १६६ ग्रन्थिपणे श्लिष्टपर्ण विकीर्ण शीर्णरोमकम् । कुकुरं च तथा गुच्छं शुकपुष्पं शुकच्छदम् ॥ १६७ स्थौणेयकं वहिचूडा सुगन्धग्रन्थिकावपि । स्पृकायां ब्राह्मणी पङ्कमुष्टिकापि श्वनावधूः॥ १६८ समुद्रान्ता मरुन्माला निर्माल्या देवपुत्रिका । लङ्कातिका कोटिवर्षा देवी पङ्कजमुष्टिका ॥ १६९ गोमी स्वर्णलतेन्द्राणी मरन्माला लता लघुः। विडङ्गे केरला मोघा तन्दुलः कृष्णतन्दुलः॥ १७० वेल्लकः कृमिहा जन्तुघातको मृगगामिनी । इन्द्राक्षे ऋषभो वीरः श्रीमान्वृषभनामकः॥ १७१ धूधुरो गोपतिः शृङ्गी बन्धुरः पृथिवीपतिः । ऋद्वौ सिद्धिर्युगं योग्यं रथाङ्गं मङ्गलं तथा । १७२ ऋषिसृष्टसुखं लक्ष्मीर्वृद्धेरप्याह्वया अमी । पद्मके मालकः पीतो रक्तश्चरुसरुश्यवः ॥ सुसभः शीतवीर्यश्च पाटलः पीतवर्णकः । कङ्कुष्टे स्यात्काककुष्टः पुलकः काकपालकः॥ १७४ रेचनः शोधनो हासो विडङ्गो रङ्गदायकः । परूषके स्यादल्पास्थिः परुषो नीलपर्णकः॥ १७५ परोऽपरः परश्चैष परिमण्डल इत्यपि । खजूरे त्वग्रुजः पिण्डी निःश्रेणिः स्वादुमस्तकः॥ १७६ खजूरिकायां स्याभूमिखर्जूरी काककर्कटी । ताले तलो लेख्यपत्रस्तृणराजो ध्वजद्रुमः ॥ १७७ नालिकेरे रसफलो लाङ्गली कूर्चकेसरः । दाक्षिणात्यो दृढफलो नारिकेरो लतातरुः ॥ १७८ 'पूगे गुवाकः क्रमुकः पूगी च नीलवल्कलः । एतस्य फलमुद्वेगं चिकणे तत्र चिकणम् ॥ १७९ केतके तु रजःपुष्पो जम्बूलः क्रमुकच्छदः । हिन्ताले तु तृणराजो राजवृक्षो लताङ्कुरः।। १८० ताल्यां तु मृत्युपुष्पा स्यादेकपत्रफलापि च । खजूरतालखर्जूरीतालीहिन्तालकेतकाः॥ १८१ क्रमुको नालिकेरश्च स्युरेते तृणपादपाः ।।
इत्याचार्यश्रीहेमचन्द्रविरचिते निघण्टुशेषे प्रथमो वृक्षकाण्डः ।
१८२
सिन्दुवारे तु निर्गुण्डी सिन्दुको नीलसन्धिकः । शीतसहा च सुरसा चेन्द्राणी सिन्दुवारकः१८३ सा नीला वनशेफाली सुपुष्पा नीलमअरी । श्वेता तु श्वेतसुरसा गोलोमा भूतकश्यपि ॥ १८४ शेफालिकायां सुवहा निर्गुण्डी नालिकासुता । सुरसा रक्तवृन्ता च श्वित्रन्नी पुष्पवर्षिणी ॥ १८५ सा तु शुक्ला भूतकेशी सत्यनानी बहुक्षमा । प्रियङ्गो प्रियकः कङ्गुः प्रियवल्ली प्रियालता ॥ १८६ विष्वक्सेना गन्धफली कारम्भा फलिनी फली । गुन्द्रा गोवन्दनी श्यामा योषाहा पर्णभेदिनी१८७ मधुरायां यष्टीमधुस्तल्लक्षणा मधुस्रवा । क्लीतकं च जलजासौ मधुपर्णी मधूलिका ॥ अश्वगन्धायां तुरङ्गी कम्बुकाश्वावरोहकः । अश्वकन्दो बहुगन्धा पुत्रदा कोलकर्ण्यपि ॥ १८९
१८८
For Private and Personal Use Only
Page #154
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२ गुल्मकाण्डः । मेषशृङ्गयामजशृङ्गी वर्तिका सर्पदंष्टिका । सैव स्यादक्षिणावर्ता वृश्चिकाला विषाणिका ॥ १९० उष्ट्रधूमकपुच्छा च काली च विषघातिनी । शृङ्गी तु कर्कटशृङ्गयां नताङ्गी शिशिरेफला ॥ १९१ कर्कटाहा महाघोषा वक्रा मरिशिम्बिका । निदिग्धिकायां कण्टाली दुःस्पर्शा कण्टकारिका॥१९२ व्याघ्री क्षुद्रा दुष्प्रधर्षा धावनी हेमपुष्पिका । बृहत्यां क्षुद्रभण्टाकी वार्ताकी राष्ट्रिका कुली ॥ १९३ विशदः सिंह्यनाक्रान्ता महोटिका महत्यपि । विदार्या तु स्वादुकन्दा पुष्पकन्दा मृगालिका ॥ १९४ वृक्षादनी चर्मकषा भूकुष्माण्ड्यश्ववल्लभा । बिडालिका वृक्षपर्णी महाश्वेता परा तु सा ॥ १९५ क्षीरशुक्ला क्षीरकन्दा क्षीरवल्ली पयस्विनी । ऋष्यगन्धेक्षुगन्धेक्षुवल्ली क्षीरविदारिका॥ १९६ पृभिप] पृथक्पर्णी लाङ्गली क्रोष्टुपुच्छिका । शृगालवर्णा कलशी घृतिला धावनी गुहा ॥ १९७ सिंहपुच्छी चित्रपङ्किपर्णी तिलपर्ण्यपि । गोक्षुरे स्थलशृङ्गालवनशृङ्गाटगोक्षुराः ॥ १९८ कण्टीषडङ्गी गोकण्टस्त्रिकण्टस्तु विकस्त्रिकः । इक्षुगन्धा व्यालदंष्ट्रः स्वदंष्ट्रः स्वादुकण्टकः।। १९९ पलङ्कषा कण्टफलः षडङ्गस्तूक्षुरः क्षुरः । दन्त्यां शीघ्रा विशल्या च चित्रोदुम्बरपर्णिका ॥ २०० मकूलको रामदूती निकुम्भो घुणवल्लभा । नागदन्त्यां हस्तिदन्ती वारुणी चापि चिभिटी ॥ २०१ मृगादनी मृगैर्वारुर्मंगाक्षी भुजगस्फटा । श्वेतपुष्पा मधुपुष्पा पर्वपुष्पा विषौषधिः ॥ २०२ अपामार्गे त्वधःशल्यः किणिही खरमञ्जरी । धामार्गवः शैखरिको वशिरः कपिपिप्पली ॥ २०३ कपिवल्ली मर्कटिका शिखर्याघाटदुर्घहो । प्रत्यक्पुष्पी पत्रपुष्पी केशवल्ली मयूरकः ॥ २०४ पुनर्नवायां वृश्वीरो दीर्घपत्रा शिलाटिका । विशाखः क्षुद्रवर्षाभूः कटिल्लः प्रावृषायणी ॥ २०५ शोफनी चापरा त्वेषा कूरमण्डलपत्रकः । श्वेतमूला महावर्षा भूवर्षकेतुरित्यपि ॥ २०६ ज्योतिष्मत्यां स्वर्णलता कङ्गुनी लवणाग्निभा। पारावतपदी पण्या ज्योतिष्का कटभीत्यपि ॥ २०७ माषपर्ध्या सूर्यपर्णी पाण्डुश्चापि महासहा । अश्वपुच्छा सिंहवृन्ता कम्बोजी कृष्णवृन्तिका॥ २०८ मुद्गपर्यो काकमुद्गा वन्या मार्जारंगन्धिका । शिवा क्षुद्रसहा ह्रासी रङ्गणी सूर्यपर्णिका ॥ २०९ भूम्यामलक्याममला बहुपुत्रा वितुन्नकः । तामलक्युज्झटा ज्ञायतालिका नुन्नमालिनी ॥ २१० हरिद्रायां वर्णवती काञ्चनी वरवर्णिनी । निशाख्या रञ्जनी गौरी पीतिका मेहघातिनी ॥ २११ वेश्या विटप्रिया पीता तथा हविलासिनी । प्रपुन्नाटे तु दद्रुघ्नश्चक्राकश्चक्रमर्दकः ॥ २१२ मेषाक्षो मेषकुसुमः पद्माटैडगजावपि । मुण्ड्यां मुण्डतिका भिक्षुः श्रावणी जीवबोधिनी ॥ २१३ श्रवणा श्रवणशीर्षा प्रव्रजिता तपस्विनी । महाश्रावणिकायां बव्यथा कदम्बपुष्पिका ॥ २१४ प्रन्थिका लोभनीया च छिन्नग्रन्थनिकापि च । वाकुच्यां स्यात्कालमेषी दुर्गन्धा कुष्टनाशिनी ॥ २१५ पूतिपर्णी सोमराजी सुवल्ली सोमवल्लिका । अवल्गुजः कृष्णफला दुर्लेखा पूतिफल्यपि ॥ २१६ रास्नायां श्रेयसी रस्या रसनातिरसा रसा । एलापर्णी गन्धमूला सुवहा मारुतापहा ॥ २१७ नाकुल्यां सर्पगन्धा तु सुगन्धा वारिपत्रका । गन्धनाकुलिकायां तु सर्पाक्षी विषमर्दिनी ॥ २१८ महासुगन्धा सुवहा छत्राकी नकुलप्रिया । कुठेरके खर्जकः स्यात्क्षुद्रपत्रः कुठिञ्जरः॥ २१९ वैकुण्ठस्तीक्ष्णगन्धश्च द्वितीयो वटपत्रकः । पर्णासो बिल्वगन्धश्च स तु कृष्णः सरालकः ॥ २२० काकतालः कृष्णमल्ली मालुकः कृष्णमालुकः । तुलस्यां सुरसा प्रेतराक्षसी बहुमञ्जरी॥ २२१ यस्या गौरी शक्रपत्नी भूतघ्नी देवदुन्दुभिः । फणिज्जके प्रस्थपुष्पः खरपत्रोऽत्रपत्रकः ॥ २२२ मरूपको मरुबको जम्भीरो मारुतः फणी । त्रायन्ती त्रायमाणायां कृतत्राणानिसानुजा ॥ २२३
For Private and Personal Use Only
Page #155
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
८
अभिधानसंग्रह : - ९ निघण्टुशेषः ।
२२४
२२९
२३१
२३२
२३३
२३४
२३५
वार्षिकं बदरावृष्टि वाराही बलभद्रिका | बलदेवा... सुत्राणा विष्वक्सेनप्रियापि च ॥ यवासके धन्वयासो यासो धन्वयवासकः । दूरमूलो दीर्घमूलो बालपत्री मरुद्भवः ॥ २२५ कुनाशकोऽधिष्टकण्टस्ताम्रमूली प्रचोदनः । दुस्पर्शः कच्छुरानन्ता समुद्रान्ता दुरालभा ॥ २२६ किराततिक्ते किरातो रामसेनः किरातकः । अनार्यतिक्तको हैमो भूनिम्बः काण्डतिक्तकः ॥ २२७ कुष्टे तु पाकलं रामं वानीरं वाप्यमुत्पलम् । वानीरजं वापिभाव्यं कौरवं व्याधिनामकम् ॥ २२८ बालके जलकेशाख्यं बर्हिष्टं दीर्घरोमकम् । ह्रीवेरो दीच्यवज्जाणिपिङ्गमाचमनं रुचम् ॥ शढ्यां पलाशः षड्मन्था गन्धाली हिमजा वधूः । कर्बुरः सुत्रता ग्रन्थमूली पृथुफलाशिका ॥ २३० एलावालुके कैलेयं वालुकं हरिवालुकम् । सुगन्ध्यालूकमेल्वालु दुर्वणप्रसरं दृढम् ॥ कुङ्कुमे रक्तपर्यायं संकोचपिशुनं शुकम् । हीरं कुसुम्भं घुसृणं पीतं वाल्हीकपीतने ॥ काश्मीरजं वह्निशिखं वरं लोहितचन्दनम् । जात्यां तु रजनीपुष्पा मालती तैलभाविनी ॥ प्रियंवदा हृद्यगन्धा मनोज्ञा सुमनालता । तस्यास्तु कलिकायां स्यात्पत्री सौमनसायिनी ॥ जातीफले जातिकोशं शालूकं मालतीफलम् । मज्जसारं जात्यमृतं शौण्डं सौमनसंपुटम् ॥ यूथिकायां बालपुष्पा मागधी शङ्खयूथिका । गुणोह्वला पुण्यगन्धा चारुमोदा शिखण्डिनी || २३६ अष्टा गणिका सा तु पीता स्याद्धेमपुष्पिका । कुन्दे माध्यः सदापुष्पो मकरन्दो मनोहरः ॥ २३७ अट्टहासो भृङ्गमित्रं शाल्योदनो यमश्वसः । स्यान्नवमालिकायां तु मोमाली नवमालिनी ॥ २३८ सत्सला सुकुरारातिः सुरतिः शिशुगन्धिका । कान्ता विभावरी ग्रीष्मा प्रैष्मिका शिखरिण्यपि || २३९ मल्लिकायां शीतभीरुर्मदयन्ती प्रमोदनी । अष्टापदी तृणशूल्यं गवाक्षा भूपदीत्यपि ॥ २४० वार्षिक्यां षट्पदानन्दी श्रीमती सुभगा प्रिया । सुवर्षा त्रिपुटा व्यस्रसुरूपा मुक्तबन्धनात् || २४१ कुमार्यौ तु वणिचारुकेसरा भृङ्गसंमता । तरणी रामतरणिर्गन्धाढ्या कन्यका सहा || अमिलाने स्यादम्लानौ .... "महासहा । रक्तपुष्पः कुरुबकः पीतपुष्पः कुरण्टकः ॥ सैरेयके सहचरो झिण्टी महावरश्च सः । स तु रक्तः कुरबकः स्यात्पीतस्तु कुरण्टकः ॥ नील आर्तगलो दिसी बाण ओदनपाक्यपि । किंकिराते किंकिराटः पीतभद्रः प्रलोभ्यपि ॥ चित्रके वल्लरीव्यालः पाठीनो दारुणः कुटः । ज्योतिष्को जरणोऽम्याख्यो वलिनर्थी पिपाठिन: २४६ वासन्त्यां स्यात्प्रहसन्ती सुवसन्ता वसन्तजा । सेव्यालिबान्धवा शीतसंवासा सीतप्लावसा ॥ २४७ नील्यां श्रीफलका काला दोलामेलाविशोधनी । तूणी तुच्छा भारवाही रञ्जनी मधुपर्णिका ॥ २४८ द्रोणी क्लीकिका ग्राम्या नीलकेशी महारसा । दमने स्याद्राह्मजटा मुनिर्दान्तर्षिपुत्रकौ ॥ गन्धोत्कटः पुण्डरीकः पाण्डुरागस्तपव्यपि । धतूरे धूर्तधत्तूरौ कितवो देवता शठः ॥ घण्टा पुष्पस्तलफलो मातुलः कनकाह्वयः । उन्मत्तो मदनश्चास्य फलं मातुलपत्रकम् ॥ शङ्खपुष्पी क्षीरपुष्प शिवब्रह्मकिरीटिनी । मधुपुष्पी मधुगन्धा शङ्खाह्वा शङ्खमालिनी ॥ धूसरच्छदना श्वेतपुष्पी वनविलासिनी । कर्चूरे द्रविडः काल्यो वेधान्यो गन्धमूलकः ॥ मोचामस्त्वजमोदायां मयूरो लोच मस्तकः । खराश्वा कारवी वस्तगन्धा हस्तिमयूरकः ॥ वल्ली ब्रह्मदर्भा लोचमर्कट इत्यपि । यवान्यां स्यादुग्रगन्धा यमनी यवसाह्वयः ॥ सहदेव्यां तथा दण्डोत्पला गोचन्दना वसा । गन्धवर्णा सितैः पुष्पैर्विश्वदेवानुसारुणैः ।। पर्पेटके वरतिक्तो रजः कवचनामकः । गोजिकायां शृङ्गवेरो दार्विका भूमिकालिका ॥
२४२
२४३
२४४
२४५
२४९
२५० २५१
२५२
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
•
२५३
२५४
२५५
२५६
२५७
Page #156
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ लताकाण्डः।
२६२
बलायां शीतपाकी स्याद्भबोदन्योदनाह्वया । वाट्यालकस्तथा वाद्यपुष्पिका पीतपुष्पिका ॥ २५८ देवसहा सहदेवातिबला बाह्यपुष्पिका । ऋष्या प्रोक्ता ऋष्यगन्धा कङ्कता वर्षपुष्पिका ॥ २५९ वाट्यायिनी भूरिबला तिष्या वीर्या बृहद्बला । महागन्धा गन्धबली मङ्गल्यार्थप्रसाधनी ॥ २६० मुसल्यां तु तालमूली दुर्नामारिम"विषा | वृष्यकन्दा तालपर्णी समूला बलदा शिवा ॥ २६१ हिङ्गो जतुकवाल्हीकागूढगन्धानि रामठम् । सहस्रवेधि सूतघ्नं जरणं सूपधूपनम् ॥ हिङ्गुपच्यां पृथुः पृथ्वी दीर्घिका चारिपत्रिका | जातूका रामठी वंशपत्रा पिण्डा शिवाटिका॥२६३ कारवी करवी तन्वी वाष्पिका बिल्वकेत्यपि । काकजङ्घायां तु दासी लोमहीना प्रवाबलः ॥ २६४ नदीकान्तो नद्यास्या च पारावतपदीत्यपि । काकनासायां सुरङ्गा वायसी वायसाङ्गिका ॥ २६५ वारुणी तस्करस्नायुः काकतुण्डफला च सा । पाषाणभेदे नगभिच्छिलाभिच्चित्रपर्णकः॥ २६६ हमुषायां विस्रगन्धा वपुषा मत्स्यगन्धिनी । सान्याश्वत्थफला ध्वाङ्कनामिका कच्छुनाशिनी ॥२६७ घण्टारवायां स्यान्मल्यपुष्पिका श""घण्टिका । अल्पघण्टा बृहत्पुष्पी शणपुष्पी महाशणः ।। २६८ शणे तु किंकिणी जाली जन्तुनन्तुर्महाशणः । शीघ्रप्ररोही बलवान्सुपुष्पः क्षेत्रमण्डनः ॥ २६९ कुसुम्भेऽग्निशिखं महारञ्जनं कमलोत्तरम् । शालपा दीर्घमूला त्रिपर्णी पीतिनी ध्रुवा ॥ २७० विदारि गन्धातिगुहा स्थिरा भौमांशुमत्यपि । भार्या वर्वरकः पद्मा वन्दकोऽङ्गारवल्लिका ॥ २७१ गर्दभशाकब्राह्मण्यौ हजी ब्राह्मणयष्टिका । आवर्तक्यां चर्मरङ्ग विभाण्डी पिच्छिका लता॥ २७२ रक्तपुष्पा दुकिनी स्यान्महाजालिनिका च सा । नाकुल्यां स्मारक्षीपीडा वेत्रमूला विसर्पिणी॥२७३ शङ्खनी वृद्धपादा च यवतिक्तायसीश्वराः । तेजस्विन्यां पारिजाता पीताश्वघ्ना महौजसी ॥ २७४ तेजोवती तेजिनी च तेजोहावल्कलेत्यपि । पथिकायां तु तुलसी तालपत्री लवङ्गकम् ॥ २७५ कन्दपत्रत्वचं पत्रा मलपत्रकमुत्तरा । मांस्यां यशी कृष्णजटा नलदा जटिला जटा ।। २७६ तपस्विन्यामिषी हिंस्रा क्रव्यादी पिशिता वसा । गन्धमास्यां पुनः केशी भूतकेशी पिशाचिका ॥२७७ सुलोमशा भूतजटा भूतनाकेशिकेत्यपि । सुरायां सुरभिदैत्या गन्धाढ्यां गन्धमादनी ॥ २७८ भूरिगन्धा गन्धवती कुटी गन्धकटी वसा । प्रपौण्डरीके शौण्डय सानुजं पौण्डरीयकम् ॥ २७९ प्रपौण्डरीकं चक्षुष्यं सत्पुष्पं सानुमानकम् । जतुकायां तु जतुका जतुकृच्चक्रवर्तिनी ॥ २८० जन्तुका जतुकारी च सहर्षा जननीजनी । मांसरोहायां विकसा वृत्ता चर्मका रुहा ॥ २८१ रक्तपाद्यां नमस्कारी समझाञ्जलिकारिका । गण्डकाली शमीपत्रा रास्ना खदिरिका च सा ॥ २८२ तद्विशेषत्रिपादी स्यात्सुपादी हंसपादिका । विषग्रन्थिहंसपदी घृतमण्डलिकापि च ॥ २८३ अथ स्याजलपिप्पल्यां शारदी शकुलादनी । मत्स्यादनी मत्स्यगन्धा लागली तोयपिप्पली ॥ २८४ शिवमयां पाशुपतः सुव्रतो वसुको वुकः । कुलपुष्पः किण्वमूलः पाण्डुरोगप्रियः कुलः ॥ २८५ अतिविषायां तु विश्वा भङ्गुरा श्वेतकन्दिका । उपविषा श्यामकन्दा शृङ्गी प्रतिविषारुणा ॥ २८६ मेदायां स्यान्मणिच्छिद्रा मधुरा शल्यपर्ण्यपि । महाभेदायां तु वसुच्छिद्रा देवमणिर्वसुः ॥ २८७
इत्याचार्यश्रीहेमचन्द्रविरनिते निघण्टुशेषे द्वितीयो गुल्मकाण्डः। गुञ्जायां कृष्णला काकचिश्चिका काकणिन्दिका । काकादनी काकनखी रक्तिका काकनन्तिका॥२८८ काकपीलुश्चक्रशल्या दुर्मेषा ताम्रिकोच्चटा । चूडामणिर्दुमौघा च शतपाकी शिखण्डिनी ॥ २८९ पाठायां श्रेयसी पापचेलिका वृद्धकर्णिका । वृकं तिक्ता वरतिक्ता प्राचीना स्थायिनी वृकी ।।२९०
१९
For Private and Personal Use Only
Page #157
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अभिधानसंग्रह : - ९ निघण्टुशेषः ।
-
Acharya Shri Kailassagarsuri Gyanmandir
१०
२९१
२९२
२९३
२९४
एकाष्ठीला रसाम्बष्ठाम्बष्ठकी वृकदन्तिका । शतावर्थी बहुसुता पीवरीन्दीवरी वरी ॥ शतमूला शतपदी शतवीर्या मधुस्रवा । नारायणी द्वीपिशत्रुद्वीपिकाभीरुपत्रिका ॥ महापुरुषदत्तोर्ध्वकण्टका वरकण्टका । सहस्रवीर्या सुन्यभीरुः सवरणीत्यपि ॥ कटुकायां मत्स्य पित्ता रोहिणी कटुरोहिणी । अशोकरोहिणी कृष्णभेदा तिलकरोहिणी ॥ कटम्भरा काण्डरुहा रास्ना तिक्तकरोहिणी । तिक्तारिष्टा कटुर्मत्स्या चक्राङ्गी शकुलादनी ॥ २९५ कपिकच्छा मह्यगुप्ता कण्डुरा दुरभिग्रहा । अजहा मर्कटी व्यण्डा कच्छुरा कपिकच्छुरा ॥ २९६ ऋष्यप्रोक्ता शूकशिम्बी लाङ्गली प्रावृषायणी | आर्यभी वह्निपर्याया कपिरोमा दुरालभा ॥ २९७ मञ्जिष्ठायां रक्तयष्टिः समङ्गा विकसारुणा । भण्डीरी मञ्जुका भण्डी जिङ्गी योजनवल्यपि ॥ २९८ कालमेषी कालगोष्टी मण्डूकपर्णिकापि च । मरिचे मलिनं कृष्णं वेल्लजं धर्मपत्तनम् ॥ २९९ पवनेष्टं शिरोवृन्तं मूषणं कोलकं च तत् । पिप्पल्यां च पला कृष्णा वैदेही मागधी कणा || ३०० शौण्डी श्यामोषणा कोलोपकुल्या कृष्णतन्दुला । तन्मूलं ग्रन्थिकं सर्वग्रन्थिकं चटकाशिरः || ३०१ समूलकं कोलमूलं कटुग्रन्थिकमूषणम् । चविकायां तथा चव्यं चवनं कालवयपि ॥ ३०२ तत्फले वसिरो हस्तिपिप्पली श्रेयसीत्यपि । गिरिपर्ण्यमरस्फोता विष्णुक्रान्ता पराजिता ।। 1 ३०३ सा तु श्वेता''''नामा कटभी श्वेतपुष्पिका । श्वेतस्यन्दा वखुरश्च कृष्णा त्वव्यक्तगन्धिका ।। ३०४ नीलस्यन्दा नीलपुष्पी महाश्वेताङ्गवन्दना । स्यादिन्द्रवारुणी त्वैन्द्री विषादनी गवादनी ॥ इन्द्रैर्वारुः क्षुद्रफला गोगुबावगवाक्ष्यपि । द्वितीयेन्द्रवारुण्यां तु चित्रफला महाफला || आत्मरक्षा विशाला चत्रपुसी तुम्बसीत्यपि । वचायामुग्रगन्धोप्रा जटिला शतपर्विका ॥ इक्षुकर्णिका गोलोमी लोमशा सूतनाशिनी । अन्या श्वेतवचा मेध्या षड्मन्था हैमवत्यपि ॥ ३०८ शारिवायां गोपकन्या गोपवल्ली प्रतानिका । गोप्यास्फोता लता श्वेता शरटा काष्टशारिवा ॥ ३०९ नागजिह्वाथ सा कृष्णभद्रा चन्दनशारिवा | भद्रवल्ली कृष्णवल्ली चन्दनोत्पलशारिवा ||
३०५
३०६
३०७
३१०
३११
॥
३१२
३१४
३१५
३१६
मूर्वायां मोरटा देवी मधुश्रेणी मधूलिका । देवश्रेणी मधुरसा गोकर्णी तेजनी नवा ॥ धनुःश्रेणी वापगुणी पीलुर्ना तिक्तवल्कली । पीलुपर्णा स्निग्धपर्णी लाङ्गल्यां हलिनी नन्दा विशल्या गर्भपातिनी । अनन्ताग्निशिखा शक्रपुष्पिका कलिहारिका || ३१३ गुडूच्याममृता सोमवल्ली वत्सादनी धरा । छिन्नोद्भवा छिन्नरुहा विषघ्नी देवनिर्मिता ॥ विशल्या कुण्डली छिन्ना तन्त्रिका चक्रलक्षणा । देव्यनन्ता मधुपर्णी जीवन्त्यमृतवत्यपि ॥ देवताडे देवदाली वृत्तकोशा गरागरी । जीमूतकस्तालकश्च वेण्या सुविषघातिनी ॥ कोशातक्यां कृतच्छत्रा जाली घोषा सुतिक्तका । मृदङ्गफलिक्षटा घण्टाली रक्तवेधना ॥ ३१७ धामार्ग पीतपुष्प महाजला महाफला । कर्कोटकी कोशफला राजकोशातकीति च ॥ ३१८ हस्तिकोशातकी या विशाला कर्कशच्छदा । क्षीरिण्यां स्यात्कदुपर्णी धर्षणी पीतदुग्धिका ॥ ३१९ फेनक्षीरा मक्षीरा पीतक्षीरा करीषणी । हेमाह्वया हेमशिखी हेमवती हिमावती ॥ ३२० शङ्खिन्यां स्याद्वनहरी तस्करी चोरपुष्पिका । किशिनी ग्रन्थिका चण्डा श्वेतबुना निशाचरी ।। ३२१ आखुप पुत्रश्रेणी न्यग्रोधा शम्बरी वृषा । चित्रोपचित्रा रण्डाख्युः प्रत्यक्श्रेणी द्रवत्यपि ॥ ३२२ पद्मिन्यां तु महावल्ली बिसिनी बिसनाभयः । पलासिनी नालकिनी नलिनी पुटकिन्यपि ॥ ३२३ कमले नलिनं पद्ममरविन्दं कुशेशयम् । परं शतसहस्वाभ्यां पत्रं राजीवपुष्करे ॥ ३२४
For Private and Personal Use Only
Page #158
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४ शाककाण्डः ।
बिसप्रसूनं नालीकं तामरसं महोत्पलम् । तज्जलात्सरसः पकानपरै रुहजन्मजैः || पुण्डरीकं सिताम्भोजमथ रक्तसरोरुहम् । रक्तोत्पलं कोकनदं कैरवेण्यां कुमुद्वती ॥ I उत्पले स्यात्कुवलयं कुवेलं कवलं वलम् । श्वेते तु कुमुदं चैव कैरवं गर्दभाह्वयम् ॥ नीले तु स्यादिन्दीवरं हल्लकं रक्तसंधिकम् । सौगन्धिके तु कल्हारबीजकोशे वराटकः || पद्मनाले तु मृणालं... तन्तुलं बिसम् । किञ्जल्के केसरं नव्यदले संवर्तिका भवेत् ॥ पश्द्मकन्दे करहाटशिफे शालूकमौत्पले । पद्मवीजे तु पद्माक्षं पद्मकर्कटिकेत्यपि ॥ वारिपर्ण्यं तु पानीयपृष्ठगा कुम्भिका हटः । जलशुके जलनीली तथा शैवालशैवले ॥ `इत्याचार्यश्रीहेमचन्द्रविरचिते निघण्टुशेषे तृतीयो लताकाण्डः ।
For Private and Personal Use Only
११
३२५
३२६
३२७
३२८
३२९
३३०
३३१
शतपुष्पायां तु घोषा शताह्वा माधवी मिषिः । अतिछत्रा छत्रपुष्पा वाक्पुष्पा कारवी सहा ||३३२ जीरके तु कणाजाजी जरण: कणजीरकः । कृष्णेऽस्मिन्कारवी पृथ्वी सुगन्धा तुषवी पृथुः ॥ ३३३ उपकुवी कुश्चिका च कालोपकुञ्चिकापि च । रसोने लशुनो म्लेच्छकन्दोरिष्टो महौषधम् ॥ ३३४
३३५
2
महाकन्दो पदोऽप्येष गृञ्जनो दीर्घपत्रकः । पलाण्डौ यवनेष्टः स्यात्सुकन्दो वक्रभूषणः || फरणः स तु हरितो लतार्को दुद्रुमोऽपि च । सप्तलायां बहुफेना सातला बिन्दुलामली ॥ सारी मरालिका दीप्ता फेना च मकिसा यवा । प्रसारण्यां चारुपर्णी भद्रपर्णी प्रतानिका ॥ भद्रबला भद्रलता भद्रकाली महाबला । सारणी सुप्रसारा च राजबला च सापि च ॥ ब्राह्मी वयःस्था मत्स्याक्षी ब्राह्मणी सोमवल्लरी | सरस्वती सत्यवती सुख ब्रह्मचारिणी ॥ सूरणे कण्डुरः कन्दोऽर्शोघाती चित्रदण्डकः । वृद्धदारुके वाघेगी जीर्णवालुकजुङ्गकौ ॥ अजाण्टी ऋक्षगन्धा स्यादन्तकोटकपुष्यपि । सुवर्चलायां मण्डूकी बदरादित्यवल्लभा ॥ मण्डूकपर्ण्यर्कभक्तादित्यवल्ली सुखोद्भिदा । भृङ्गराजे भृङ्गरजो भृङ्गारः केशरञ्जनः ॥ अमारको भेकरजो भृङ्गो मार्कव इत्यपि । । कासमर्दे त्वरिमर्दः कालं कतक कर्कशः ॥ वास्तुके तु शाकश्रेष्ठः प्रवालः क्षारपत्रक: । शाकवीरो वीरशाकस्ताम्रपुष्पः प्रसादकः ॥ पालङ्कथायां तु पालङ्कया छुरिका मधुसूदनी । जीवन्त्यां स्याज्जीवनीयजीवनी जीववर्द्धिनी ॥ माङ्गल्यनामधेया च शाकश्रेष्ठा यशस्करीः । स्यादम्ललोणिकायां तु चाङ्गेरी चुक्रिका रसा ॥ अम्बष्ठाम्लोलिका दन्तशठाटोलाम्लटोलकः । नरेन्द्रमाता क्षुद्राम्ली चतुष्पर्णी च लोणिका ।। ३४७ तन्दुलीये मेघनादस्तन्दुली तन्दुलेरकः । गण्डीरको रक्तकाण्डो विषहार्यल्पमारिषः, ॥. समण्ठो तु तोयवृत्तिर्गण्डीरस्तोयमञ्जरी । समष्टीला शोषहरी जलापामार्ग तुल्यकः ॥ अन्यः सुस्थलगण्डीरः कर्बरष्टकदेशजः । काकमाच्यां काकमाची काकसाह्वा वृषायणी ॥ ३५० श्रीहस्तियां तु भूरुण्डी कुरुण्डी काश्मरीरिपुः सुनिषण्णे सुचिपत्रः स्वस्तिकः शिरिवारकः || ३५१ श्रीवारकः शितिवरो वितुन्नः कुकुटः शितिः । मूलके तु महाकन्दो रुविष्यो हस्तिदन्तकः || ३५२ 'वुस्तिका नीलकण्ठश्च सेकिमो हरिपर्णकः । चाणाक्यमूलके शालमर्कटो मरुसंभवः ॥ ३५३ विष्णुगुप्त''''तोमिश्रः स्थालयो मर्कटोऽपि च । हिलमोच्यां शङ्खधरा जलब्राह्मी च मोचिका ॥ ३५४ कलम्ब्यां तु शतपर्वा केलम्बूर्यायसी च सा । कारवेल्लयां तु सुषवी कटिल्ला मृदुपर्णका ॥ पटोले तु पाण्डुफलः कुलकः कर्कशच्छदः । राजीफलः कफहरो राजिमानमृताफलः || कङ्गोटे तु किलासन्नस्तिक्तपर्व: सुगन्धकः । कूष्माण्डके तु कर्कारुः कलिङ्गयां बहुपुत्रिका ।। ३५७
३४६
३४८
३४९
३५५
३५६
३३६
३३७
३३८
३३९०
३४०
३४१
३४२
३४३
३४४
३४५
Page #159
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिधानसंग्रहः-९ निघण्टुशेषः । तुम्ब्यां पिण्डफलेक्ष्वाकुस्तिक्तबीजा महाफला । अलाबूः क्षत्रियवरा कटुका लाबुनी च सा ॥३५८ चिर्भिट्यां प्रपुसी वालुक्येर्वारुळडिपत्रिका । ऊर्वारुः कर्करुः कर्कटीस्तत्रा""फलावरः ॥ ३५९ छर्दनीव विषाडुश्च तस्याः पक्कफलस्फुटी। कूर्चके शृङ्गकः सों दीर्घायुः कूर्चशीर्षकः ॥ ३६० मङ्गल्यनामधेये प्रजीवकः प्रियजीवकः । ह्रस्वाङ्गको मधुरकः प्राणकश्चिरजीव्यपि ॥ ३६१ पुष्करमूले स्यान्मूलं वीरपुष्करनामकम् । पौष्करं पुष्करजटा कश्मीरं पद्मवर्णकम् ॥ ३६२ मस्तुगन्धायां तु गन्धा खरपुष्पा शकम्भरा । कर्वरी बर्बरी चुङ्गो पूतिमयूर इत्यपि ॥ ३६३ बिम्ब्यां रक्तफला गोल्हा प्रवालफलघोषिका । ओष्ठोपमफला तुण्डी तुण्डिका पीलुपर्ण्यपि ॥ ३६४
इत्याचार्यश्रीहेमचन्द्रविरचिते निघण्टुशेषे चतुर्थः शाककाण्डः । रोहिषं कामकं पौरं भूतिकं भूतिकतृणम् । स्तोगन्धिकं धिकं देवजग्धं शकलिपुद्गले ॥ ३६५ भूस्तृणं रोहितं छत्रातिच्छत्रककटुम्बके । भूतिकं भूतिकतृणं माला तृणसुगन्धके॥ ३६६ दर्भे दभ्रः खरो बहिर्वा रास्तवीकुधः कुशः । सारीवानी रजो गुन्द्रा पवित्रा कुतसावपि ॥ ३६७ काशे स्यादिक्षुगन्धेक्षुकाण्डश्चामरपुष्पकः । वायसेक्षुः पोटगल: कासेक्षुः कोकिनां क्षकः ॥ ३६८ उलपवल्वजो बालकेशी दृढलतापि च । इक्षू रसालो गण्डीरी गण्डकी क्षुद्रपत्रकः ॥ ३६९ तस्यैकादश भेदाः स्युः पुण्डूकान्तारकादयः । नले नडः शून्यमध्यो गमनो नर्तको नटः॥ ३७० अरण्यनलको रन्ध्री पोटगलो विभीषणः । नलिनु मनलिका नाकुली लेखकाञ्चिता)॥ ३७१ शरे तु मुओ बाणाख्यः स्थूलदर्भः पितामहः । गुञ्जस्तजनको भद्रमुञ्जो याजनकक्षुरः ॥ ३७२ मुञ्जस्तु यजिको मध्ये दृढत्वग्ब्रह्ममेखलः।। अथ बालतृणे शष्पं शुकं शालिकमङ्गुलम् ॥ ३७३ तृणं स्यादर्जुनं घासे यवसं चारि इत्यपि। दुर्वायां तु शतपर्वा भार्गवी विजया जया ॥ ३७४ मङ्गल्या स्यादलानन्ता मरी प्रतानिका रुहा । सहस्रवीर्या श्यामाङ्गी हरिता हरिताल्यपि ॥ ३७५ श्वेतदूर्वा तु गोलोमी शतवीर्या शता लता । गण्डदूर्वायां गण्डाली वारुणी शकुलाक्षकः ॥ ३७६ मुस्तायां भद्रको भद्रमुस्ताराजकशेरुकः । गुन्द्री वरोहो गाङ्गेयः कुरुविन्दोऽम्बुदाह्वयः ॥ ३७७ कटं नटे तु कैवर्तीमुस्तकं जीवनाह्वयम् । आकाण्डीरकं जीबुघ्नं गोन गोपुरप्लवम् ॥ ३७८ शतपुष्पं दारपुरं वानेयं परिपेलवम् । जलमुक्ता मुस्तकाभं शैवालदलसंभवम् ॥ वीरणे तु वीरतरं वीरभद्रं सुमूलकम् । मूलेऽस्योशीरमभयं समगन्धि रणप्रियम् ॥ ३८० लामज्जके तु नलदममृणालं लवं लघु । इष्टकापथकं शीघ्रं दीर्घमूलं जलाशयम् ॥ ३८१
इत्याचार्यश्रीहेमचन्द्रविरचिते निघण्टुशेषे पश्चमस्तणकाण्डः । अथ धान्ये सस्यं सीयं ब्रीहिः स्तम्बकरि अपि।आशौ स्यात्पाटलो ब्रीहिर्गर्भपाकिणि षष्टिकः ॥३८२ शालौ तु कलमाद्याः स्युः कलमे तु कलायकः । लोहिते रक्तशालिः स्यान्महाशालौ सुगन्धिकः,३८३ यवे हयप्रियस्तार्थ्यशूकस्तोक्यस्तुसो हरित् । मङ्गल्यके स्यान्मसूरः कलाये तु सतीनकः॥ ३८४ हरेणुः खण्डिकश्चाथा चणके हरिमन्थकः।। माषे तु मदनो नन्दी सरी बीजवरो बली ॥ ३८५ मुद्रे तु प्रघनो लोभ्यो वलाटो हरितो हरिः । पीतेऽस्मिन्वसुखण्डीरः प्रवेलजयशारदाः ॥ ३८६ कृष्णे प्रवरवासन्तहरिमन्थजशिम्बिकाः । वनमुद्रे तु वरका निगूढककुलीमकाः ॥ ३८७ खण्डिको राजमुद्रे तु मकुष्टकमयुष्टकौ।। गोधूमे सुमनो वल्ले निष्पावः शितिबिम्बिकः॥ ३८८
For Private and Personal Use Only
Page #160
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ धान्यकाण्डः ।
१३
1
३९२
३९३
कुलत्थे तु कालवृन्तस्ताम्रवृन्ते कुलत्थिका । आढक्यां तुवरी वर्णा/ स्यात्कुल्माषे तु यात्रकः || ३८९ नीवारस्तु वनत्रीहिः श्यामाके श्यामकः समौ । कङ्गौ तु कङ्गुनी कङ्गुः प्रियङ्गौ पतितन्दुला || ३९० सा कृष्णा मधुका रक्ता शोधिता मुराटी शिता । पीतमाधव्यधोङ्काले कोद्रवः कोरदूषकः । । ३९१८ चीनकेतु काककर्यवनाले तु योनलः । जूर्णाहृयो देवधान्यं जोर्गाला बीजपुष्पिका || राणे भङ्गा मातुलानी स्यादुमात्रक्षुमातसी ।। गवेधुकायां गवेधुर्वन्यतिले तु जर्निलः॥ षण्डतिले तिलपिजस्तिलपेजोऽथ सर्षपे । कदम्बकस्तु तुभोऽथ सिद्धार्थः श्वेतसर्षपः । । । माषादि तु शमीधान्यं शूकधान्यं यवादयः । स्यात्सस्यशु के किंसारुः कणिशं सस्य शीर्षकम् ।। ३९५ स्तम्बे तु गुच्छो धान्यादेर्नालः काण्डोsफले त्विह । पलालो धान्यत्वचि तु तुषे बुसे कडङ्गरः || ३९६ इत्याचार्य श्री हेमचन्द्रविरचिते निघण्टुशेषे षष्ठो धान्यकाण्डः । इति श्री हेमचन्द्राचार्यविरचितो निघण्टुशेषः समाप्तः ।
३९४
For Private and Personal Use Only
Page #161
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
Page #162
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
11 eft: 11
अभिधानसंग्रहः ।
( १० ) श्रीहेमचन्द्राचार्यविरचितं लिङ्गानुशासनम् ।
Ģ‚¶——————
Acharya Shri Kailassagarsuri Gyanmandir
'पुंलिङ्गं कैटणथपभमयरषसन्वन्तमिमनलौ किश्तिब् । Fast Faiौ दः किर्भावे खोडकर्तरि च कः स्यात् ॥ हैस्तस्तनौष्ठनखदन्तकपोलगुल्फ के शाध्वगुच्छदिवसर्तुपतङ्ग्रहाणाम् । निर्यासनाकरैसकण्ठकुठारकोष्ठ है मारि वर्षविषबोलरथाशनीनाम् ॥ श्वेतँप्लवात्मगुरुजासिकफाभ्रपङ्कमन्थत्विषां जलधिशेवधिदेहभाजाम् | मानदुमाद्रिविषयाशुगशोणमासधान्याध्वराग्निमरुतां सभिदां तु नाम ||
S
बर्होऽच्छदेऽहिर्वप्रे व्रीह्यग्न्योर्हायनबर्हिषौ । मस्तुः सक्तौ स्फटिकेच्छो नीलमित्रौ मणीनयोः ॥ ४ कोणेऽस्रश्चषके कोशस्तलस्तालचपेटयोः । अनातोये घनो भूनि दारप्राणासुवस्वजाः ॥
५
चन्द्रनामयः परो यानार्थतो युगः । यश्च स्यादसमाहारे द्वन्द्वोऽश्ववडवाविति || वाकोत्तरा नक्तकरल्लकाङ्का न्युङ्खोत्तरा संङ्गतरङ्गरङ्गाः | g परागपूगौ सृगमस्तुलुङ्गकुडङ्गकालिङ्गर्तमेङ्गमेङ्गाः ॥
For Private and Personal Use Only
१
१. वक्ष्यमाणं विशेषविधानमन्तरा पुंलिङ्गं स्यादित्यन्वयः २. अकारान्तेषु कोपधा आनकवराटकादयः, टोपधा विटकरहाटादयः, णोपधा गुणक्षणादयः, थोपधा निशीथोपस्थादयः, पोपधाः क्षुपकल्पादयः, भोपधा दर्भनिकुम्भादयः, मोपधा गोधूमडिण्डिमादयः, योपधा लयतण्डुलीयादयः, रोपधाः कडंगरकुटरादयः, षोपधा गवाक्षघोषादयः, सोपधाः कूर्पासहंसादयः, सकारान्ताः पुरुदंशोदमूनः प्रभृतयः, नकारान्ता ग्रावसुपर्वादयः, उकारान्तास्तर्कुधात्वादयः, अन्तान्ताः सीमन्तपर्यन्त दिष्टान्तसिद्धान्तादय:, इमन्प्रययान्ताः प्रथिमम्रदिमद्रढिमादयः, अलू (पू)प्रत्ययान्ताः प्रभवनियमादयः, कि ( इक् ) प्रत्ययान्ताः पनिप्रभृतयः, तिप्प्रत्ययान्ताः पचतिभवत्यादयः, नप्रत्ययान्ताः यत्नस्वप्नप्रभृतयः, नङ्प्रत्ययान्ता विश्नप्रश्नप्रभृतयः, घप्रत्ययान्ताः प्रच्छदोरच्छदप्रभृतयः घञ्प्रत्ययान्ताः पादरोगप्रभृतयः, दा(घु)संज्ञकाद्विहितकिप्रत्ययान्ता आदिव्याधिप्रभृतयः, भावार्थकखप्रत्ययान्ता आशितंभवप्रभृतयः, कर्तृभिन्नार्थककप्रत्ययान्ता आखूत्थविघ्नप्रभृतयः ३. सभेदानां हस्तादीनां निर्यास्यादीनां श्वेतादीनां जलध्यादीनां मानादीनां च नाम पुंलिङ्गं स्यादित्यन्वयः ४ निर्यासनाम गुग्गुलुः श्रीवेष्ट इत्यादि. ५. रसनाम रसाः शृङ्गारादयस्तन्नाम, ६. किराततिक्तौ हैमश्च काण्डतिक्तः किरातकः ७ श्वेतः कपर्दस्तन्नाम ८ चन्द्रकान्तः सूर्यकान्तः अयस्कान्त इत्यादि. ९ इतः परं स्वरान्तव्यञ्जनान्तक्रमेण शब्दानुदाहरिष्यन्ते. तत्र ककारोपान्त्यादिक्रमेणाकारान्ता उदाह्रियन्ते, अनुवाकशंयुवाकसूक्तवाकादयः १० खान्तः ११. गान्ताः १२. तमङ्ग इन्द्रकोशः १३. मङ्गः धर्मः, नौशिरश्च.
Page #163
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३९
Acharya Shri Kailassagarsuri Gyanmandir
अभिधानसंग्रह : - १० लिङ्गानुशासनम् ।
वेगसमुद्रापाङ्गवर्गी पार्था मैच पुच्छपिच्छ गुच्छाः । बाजौजकिलिञ्जपुञ्जमुञ्जा अॅक्टपट्ट ठप्रकोष्ठ कोष्ठाः ॥ अङ्गुष्ठiण्डौ लगुडप्रगण्डकरण्डकूष्माण्डगुडाः शिखण्डः | वरण्डरुण्डौ च पिचण्डनाडीव्रणौ गुणभ्रूण मेलक्तकुन्तौ ॥ पोतः पिष्टातः पृषतश्चोत्पात त्राता वर्थ कपर्दो । बुदमदा मकरन्दो जनपदगन्ध
न्धस्कन्धमगाधः ॥
Cate
अर्ध सुदर्शन देवन महाभिजनजनाः परिघातनफेनौ | पूर्वी सूपकलापी रेफैः शोफस्तम्बनितम्बाः || शम्बाम्ब पश्चिजन्यतिष्यौ पुण्यः सिचयनिकाय्य त्रिवृत्राः । मनामित्रौ कटप्रपुण्ड्राराः कैल्लोलोल्लौ च खल्लतल्लौ ।।. कण्डोलपोटगल पुगलकालबाला वेला गलो जगलहिङ्गुलगोलफालाः । स्याद्देवलो बहुलतण्डुलपत्रपालवातूलतालजडुला भृमलो निचोलः ॥ कामलकुद्दालीवयत्रस्वाः शिवरौरवयावाः शिवदावौ । माधवपणवादी वहात्रध्रुर्वकौटीशांशाः स्पशवंशौ ॥
कुशोड्डीशपुरोडाशवृपकुल्मा सनि कुहाः । अहनिर्यूहकलहाः पक्षरीशिवराश्यृषि || दुंदुभिर्वमतिवृष्णिपाण्यविज्ञातिरालिकलयोञ्जलिर्घृणिः । अग्निवह्निकृमयह्निदीदिविग्रन्थिकुक्षिवृतयोर्द निर्ध्वनिः ॥
गिरिर्शिशुजायुक्रर्ध्वो हहाहूहूश्च नमहूर्गर्मु । पादश्मानावात्मा पाप्मस्थेमोष्मयक्ष्माणः ॥
इति पुंलिङ्गाधिकारः ।
८
For Private and Personal Use Only
2
१०
११
१२
१३
१४
१५
१६
१७
१८
१९
स्त्रीलिङ्गं योनिर्मेद्र श्रीसेनावल्लित डिन्निशाम् । वीचितन्द्रावटुग्रीवाजिह्वाशस्त्रीदयादिशाम् ॥ शिंशपाद्यानदीवीणाज्योत्स्नावीरीतिथीधियाम् । अङ्गुलीकलसीकङ्गुपित्रीसुरानसाम् ॥ रास्नाशिलाव चालालाशिम्बा कृष्णोष्णिकाश्रियाम् । स्पृकापण्यातसीधाय्यासरघारोचनाभुवाम् || २० हरिद्रामसिदूर्वालूत्रलाकाकृष्णलागिराम् । ईंतु प्राण्यङ्गवाचि स्यादीद्वेदेकखरं कृतः ॥ पात्रादिवर्जितादन्तोत्तरपदः समाहारे । द्विगुरन्नाबन्तान्तो वान्यस्तु सर्वो नपुंसकः ॥ लिन्मिन्यनिण्यणिरूयुक्ताः क्वचित्तिगल्पह्रस्वं । विंशत्याद्याशताद्दृन्द्वे सा चैक्ये द्वन्द्वमेययोः ॥ २३
२१
२२
४०
2
१. घान्तः २. चान्तः ३ छान्ताः ४ जान्ताः ५. टान्तौ ६ ठान्ताः ७. डान्ताः ८. णान्ताः ९. तान्ताः १०. थान्तः. ११. दान्ता:. १२. धान्ताः १३. नान्ताः . १४. अहादेशान्ताः पूर्वाह्नप्रभृतयः. १५. पान्ताः . १६. फान्तौ . १७. बान्ता: १८. यान्ताः १९. कृतसमासान्तरात्रशब्दान्ताः पूर्व रात्रप्रभृतयः २०. रान्ताः. २१. लान्ताः . २२. वान्ताः २३. शान्ताः. २४. षान्तः. २५. सान्तः २६. दान्ता: २७. अह इति सप्ताहप्रभृतयः. २८. अथेदन्ताः २९. अथोकारान्ताः ३० समुदितं दीर्घोकारान्तम् ३१. अथ व्यञ्जनान्ताः ३२. सभेदानां योनिमदादीनां वीच्यादीनां शिंशपाद्यादीनामङ्गुल्यादीनां रास्त्रादीनां स्पृक्कादीनां हरिद्रादीनां च नाम स्त्रीलिङ्गं स्यात्. ३३. शिशपादिराकृतिगणः ३४. हिङ्गुपत्री कम्बोजी. ३५ नसो नासिकायाः ३६. प्राण्यङ्गवाचीकारान्तं यथा - गोधिपालिप्रभृतयः ३७ ही श्री भ्रूप्रभृतयः ३८. लक्ष्मीतरी कूतूप्रभृतयः ३९. लिद | दिप्रत्ययान्ता यथाजनता - गोत्रा - भूमि-वेनि-अटनि-वाणि वेणि- काकणि-भूति-चिकीर्षाप्रभृतयः ४०, तन्तिप्रभृतयः ४१. अल्पे हृस्वे चार्थे कन्प्रत्ययान्ता यथा -- क्रयिकापुटिकाप्रभृतयः.
Page #164
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१० लिङ्गानुशासनम् |
स्रुग्गीतिलताभिदि ध्रुवा विडनर वारि घटीभबन्धयोः । शल्यध्वनिवाद्यभित्सु तु क्ष्वेडा दुन्दुभिरक्षबिन्दुषु ॥
२४
गृह्या शाखापुरेऽश्मन्तेऽन्तिका कीला रताहतौ । रज्जौ रश्मिर्यवादिर्दोपादौ गञ्जा सुरागृहे || २५ अहंपूर्विकादिर्वर्षामधा अष्कृत्तिका बहौ । वा तु जलौकोप्सरसः सिकतासुमनः समाः ॥ गायत्र्यादय इष्टका बृहतिका संवर्तिका सज्जिका -
२६
दूषीके अपि पादुका झिरुकया पर्यस्तिका मानिका | नीका कलिकालुका कलिकया राका पताकान्धिका
२८
शूका पूपलिका त्रिका चविकयोल्का पज्जिका पिण्डिका ॥ ध्रुवका क्षिपका कनीनिका शम्बूका शिबिका गवेधुका | कणिका का विपादिका मिहिका यूका मक्षिकाष्टका ॥ कूचिका कूचिका टीका कोशिका कोणिकोर्मिका । जलौका प्राचिका धूका कालिका दीर्घिकोष्ट्रिका ॥ शलाका वालुकेषीका विङ्गिकेषिके देखा | परिखा विशिखा शाखा शिखा भैङ्गा सुरङ्गया ॥ ३० जैङ्घा चञ्चा कच्छा पिच्छा पिज्जा गुञ्जा खजा प्रजा । झंझा घंटा जटा घोण्टा पोटा भिस्सटया छटा ।। ३१ विष्ट मञ्जिष्ठा काष्टा पाठा गुण्डा गुडा जडा | वेडा वितण्डया दौढा राढा रीढा च लीढया ॥ ३२
१६
३९
Acharya Shri Kailassagarsuri Gyanmandir
३७
वर्वणा स्थूणा दक्षिणा लिखिता लता । तृणता त्रिवृता त्रेता गीता सीता सिता चिता ॥ ३३ मुक्ता वार्ता लूतानन्ता प्रसृता मार्जितामृता । कैन्था मर्यादा गदैक्षुगन्धा गोधा स्वधा सुधा ॥ ३४ सेना सूना धाना पेम्पा झम्पा रम्पा प्रपा शिंका । केम्बा भैम्भा सभा हम्भा सीमा पामारुमे उमा ॥ चिया पद्या पर्या योग्या छाया माया पेया कक्ष्या । दूष्या नस्या शम्या संध्या रथ्या कुल्या ज्या मङ्गल्या ॥ उपकार्या जैलाद्रैरा प्रतिसीरा परम्परा । कण्डरा सृग्धरा होरा वागुरा शर्करा सिरा || गुन्द्रा मुद्रा क्षुद्रा भद्रा भस्त्रा छत्रा यात्रा मात्रा । दंष्ट्रा फेला वेला मेला गोला दोला शाला माला ३८ मेखला सिध्मला लीला रसाला सर्वला बला | कुहाला शङ्कुला हेला शिला सुवर्चला कला || ३९ उपला शरिवा मूर्वा लट्टा खट्टा शिवा देशा । कशा कुशेशा मैञ्जूषा शेषा मूषेषया सा ॥ ४० वस्नसा विस्नसा भिस्सा नासा वाँहा गुहां स्वाहा । कक्षा मिक्षा रिक्षा रक्षा मँङ्गावल्यायतित्रोटि : ४१ पेशिर्वासिर्वसतिविपणी नाभिनाल्यालि पालिर्भल्लिः पल्लिकुटिशकटी वर्वरिः शाटिभाटी । खाटिर्वर्तिर्व्रततिवमिशुण्ठीतिरीतिर्वित र्दिदेविन विच्छविलिविराठि श्रेदिजात्याज़िराजि ॥ ४२ रुचिः सूचिसाची खनिः खानिखारी खलिः कीलितूली क्लमिर्वापिधूली । कृषिः स्थालिहिण्डी त्रुटिर्वेदिनान्दी किकि: कुक्कुटि : काकलिः शुक्तिपती ॥
२७
For Private and Personal Use Only
४३
१. 'यवयवनारण्य हिमाद्दोष लिप्युरु महत्वे' इति सूत्रोक्ता यवादयः शब्दाः, दोषादयश्चार्थाः २. गायत्रीपतिप्रभृतयः ३. अथ कान्ताः ४ खान्ताः ५. गान्ताः ६. घान्तः. ७. चान्तः. ८. छान्तौ . ९. जान्ताः .
१०. झान्तः ११. टान्ताः १२. ठान्ताः. १३. डान्ता: १४. ढान्ता: १५. णान्ताः. १६. तान्ता:. १७. थान्तः. १८. दान्तौ. १९. वान्ता: २०. नान्ताः. २१. पान्ताः २२. फान्त: २३. बान्तः, २४. भान्ताः २५. मान्ता: २६. यान्ता: २७. रान्ताः २८. लान्ताः २९. वान्ताः ३०. शान्ताः ३१. षान्ताः ३२. सान्ताः ३३. हान्ताः ३४. क्षान्ता: ३५. रिक्षा यूकाण्डम् लत्वे लिक्षा. ३६. राक्षा जतु; लत्वे लाक्षा. ३७. अथ ह्रस्वेकारान्ताः; द्वयोः समाहारः ३८. त्रयाणां समाहारः ३९. इतिशब्दः ४० जातिशब्दान्तः समाहारः.
२०
Page #165
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिधानसंग्रहः-१० लिङ्गानुशासनम् । किखिस्ताडिकम्बी द्युतिः शारिरातिस्तटिः कोटिविष्टी वटिटिवीथी । दरिल्लरिर्मञ्जरिः पुञ्जिभेरी शरारिस्तुरिः पिण्डिमाढी भुषुण्डिः ॥
राटिराटिरटविः परिपाटिः फालिगालिजनिकाकिनि कानिः ।
चारिहानिवलभि प्रधिकम्पी चुल्लिचुण्डितरयोंऽति..."शाणी ॥ सनिः सानिमेनी मरिर्मारिरथ्योषधी विद्रधिझल्लरिः पारिरभ्रिः। शिरोधिः कविः कीर्तिर्गत्रीकबर्यः कुमार्याढकी स्वेदनी ह्रादिनीली ॥ हरिण्यश्मरी कर्तनीस्थग्यपट्यः करीयेकपद्यक्षवत्यः प्रतोली।
कृपाणीकदल्यौ पलालीहसन्यौ वृसी गृध्रसी घर्घरी कर्परी च ॥ काण्डी खल्ली मदी घटी गोणी पण्डाल्येषणी द्रुणी । तिलपर्णी केवली खटी नीरसवत्यौ च पातली॥
वाली गन्धोली काकली गोष्टयजाजीन्द्राणी मत्स्यण्डी दामनी शिञ्जिनी च । शृङ्गी कस्तूरी देहली मौर्व्यतिभ्यासन्दी क्षैरेयी दैर्दुपर्श ........ ॥ कर्णान्दुकच्छू तनुरज्जुचञ्च स्नायुर्जुहूः सीमधुरौ स्फिगेर्वाक । द्वाद्योंदिवौ तुक्त्वगृचः शरद्वाछर्दिहरत्पामहषदृशो नौः ।।
इति स्त्रीलिङ्गाधिकारः ।
नलस्तुतत्तसंयुक्तररुयान्तं नपुंसकम् । वेधआदीन्विनासन्तं द्विस्वरं मन्नकर्तरि ॥
धनरत्ननभोन्नहृषीकतमोघुमृणाङ्गणशुक्तशुभाम्बुरुहाम् । अघगूधजलांशुकदारुमनोविलपिच्छधनुर्दलतालुहृदाम् ।। हलदुःखसुखागुरुहिङ्गुरुचत्वचभेषजतुत्थकुसुम्भदृशाम् ।
मरिचास्थिशिलाभवसृक्कयकृन्नलदान्तिकवल्कलसिद्मयुधाम् ॥ सौवीरस्थानकद्वारक्लोमधौतेयकासृजाम् । लवणव्यञ्जनफलप्रसूनवेतां सभिद् ॥ पुरं साङ्गयोछत्रशीर्षयोः पुण्डरीकके । मधु द्रवे ध्रुवं शश्वत्तर्कयोः स्वपुरं घटे ॥ अयूपे दैवेऽकार्यादौ युगं दिष्टं तथा कटु । असे द्वन्द्वं स्थले धन्वारिष्टमद्रुमपक्षिणोः ॥ ५६ धर्म दानादिके तुल्यभागेऽर्धे ब्राह्मणं श्रुतौ । न्याय्ये सारं पद्ममिभबिन्दौ काममनुमतौ ॥ ५७ खलं भुवि तथा लक्ष वेध्येऽहः सुदिनैकतः । भूमोऽसंख्यात एकार्थे पैथः संख्याव्ययोत्तरः ॥ ५८
१. चतुर्णा समाहारः. २. अथ दीर्धकारान्ताः . ३. ईली खड्ग एकधारः. ४. हसन्त्यपि. ५. अतिभी. ६. अथ द्वस्वोकारान्ताः, ७. अथ दीर्घोदन्ताः. ८. अथ योनौवर्जिता हलन्ताः. ९, अर्वागित्यव्ययमपि. १०. वार् इत्यस्य नपुंसकत्वमपि. ११. नान्ताः काञ्चनमित्यादयः, लान्ताश्चक्रवालमित्यादयः, स्त्वन्ता वस्तुंमस्त्वित्यादयः, तान्ताः शीतद्वैतप्रभृतयः, त्तान्ता भित्तपित्तप्रभृतयः, संयुक्तरान्ता अग्रप्रभृतयः, संयुक्तरुशब्दान्ता अनुप्रभृतयः, संयुक्तयान्ता लक्ष्यद्रव्यप्रभृतयः. १२. कर्तृभिन्नार्थकमन्प्रत्ययान्ता भस्मसद्मप्रभृतयः. १३. धनादीनामघादीनां हलादीनां मरिचादीनां सौवीरादीनां लवणादीनां भेदसहितानां नाम नपुंसकम् . १४. शिलाभवं शैलेयम्. १५. अमिसंयोगेन द्रवीभवतां सुवर्णादीनाम् . १६. छत्रे पुण्डरीकम् , शीर्षे कम्. १७. अयूपे युगम् , दैवे दिष्टम् , अकार्यमत्सरदूषणेषु कटु. १८. समासभिन्नेऽर्थे, १९. सुदिनाहम् , एकाहम् . २०. पाण्डुभूमम् , कृष्णभूमम्, इत्यादि. २१. द्विपथम्, विपथम्, इत्यादि.
For Private and Personal Use Only
Page #166
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२
१० लिङ्गानुशासनम् । द्वन्द्वैकत्वाव्ययीभावौ, क्रियाव्ययविशेषणे । कृत्याः क्तानाः खल्सिद्भावे,आ त्वात्त्वादिः समूहजः॥५९ गायत्र्याद्यस्वार्थेऽध्यक्तमथानकर्मधारयः । तत्पुरुषो वा बहूनां चेच्छाया शालां विना सभा ॥६० राजवर्जितराजार्थराक्षसादेः परापि च । आदावुपक्रमोपज्ञे कन्थोशीनरनानि च ॥ ६१ सेनाशालासुराच्छायानिशं वोर्णा शशात्परा । भाद्गणो गृहतः स्थूना संख्यादन्ता शतादिका ॥६२
मौक्तिकं माक्षिकं सौप्तिकं क्लीतकं नाणकं नाटकं खेटकं तोटकम् । आह्निकं रूपकं जापकं जालकं वैणुकं गैरिकं कारकं वासुकम् ॥ रुचकं धान्याकनिःशलाकालीकालिकशल्कोपसूर्यकाल्कम् । कवककिवुकतोकतिन्तिडीकैडूकच्छत्राकत्रिकोल्मुकानि ॥ माककदम्बके बुकचिबुककुतुकमनूकचित्रके ।
कुब्जकं मधुपर्क शीर्षके शालूकं कुलकं प्रकीर्णकम् ।। हल्लीसकपुष्पके खलिङ्गस्फिगमङ्गप्रगचोर्चबीजपिञ्जम् । रिष्टं फाण्टं ललाटमिष्टव्युष्टकरोटकृपीटचीनपिष्टम् ॥ शृङ्गाटमोरटपिटान्यथ पृष्ठगोष्ठे भाण्डाण्डतुण्डशरणग्रहणेरिणानि । पिङ्गाणतीक्ष्णलवणद्रविणं पुराणं त्राणं शणं हिरणकारणकार्मणानि ॥
पर्याणर्णघ्राणपारायणानि श्रीपर्णोष्णे धोरणझूणर्भूतम् ।। प्रादेशान्ताश्मन्तशीतं निशान्तं वृन्तं तूस्तं वार्तवाहित्थमुक्थम् ॥ अच्छोदगोन्दकुसिदानि कुसीदतुन्दवृन्दास्पदं दनिम्नंसशिल्पतल्पम् ।
कूर्पत्रिपिष्टपपरीपवदन्तरीपरूपं च पुष्पनिकै रुम्बकुटुम्बशुल्बम् ॥ |सभतलभ ष्माध्यात्मधामेर्मसूक्ष्म किलिमतलिमतोक्म युग्मतिग्मं त्रिसंध्यम् ।।
किसलयशयनीये सायखेयेन्द्रियाणि द्रुवयभयकलत्रद्वापरक्षेत्रसत्रम् ।। शृङ्गवेरमजिराभ्रपुष्कर तीरमुत्तरमगारनागरे। स्फारमक्षरकुकुन्दुरादरप्रान्तराणि शिबिरं कलेवरम् ७१
सिन्दूरमण्डूरकटीरचामरक्रूराणि दूसररवैरचत्वरम् ।... उशीरपतिालमुलूखातवे सत्त्वं च सान्त्वं दिवकिण्वपौतवम् ॥
७२ विश्वं देशं पलिशमर्पिशकिल्विषानुतर्षार्पिषं मिषमृचीषमृजीषशीर्षे ।
पीयूषसोध्वसमहानससाहसानि कासीसमत्सतरसं यवसं बिसं च ॥ १. भावे कृत्यप्रत्ययान्ता एधनीयप्रभृतयः, भावे क्तान्ता हसितप्रभृतयः, भावेऽनान्ता हसनप्रभृतयः, भावे खल्प्रत्ययान्ता दुर्भवदुराव्यभवप्रभृतयः, भावे मित्प्रत्ययान्ताः सांरावीणसांकौटिनप्रभृतयः. २. 'ब्रह्मणस्त्वः' इत्यभिव्याप्य भावार्थकप्रत्ययान्ता शुक्लत्व-शौक्लय-सरव्य-स्तेय-कापेय-द्वैप-चापल-द्वैहायन-आचार्यक-प्रभृतयः. ३. गायत्रत्रैष्टुभप्रभृतयः. ४. अव्यक्तलिङ्गकम्. ५. अथ 'अनकर्मधारयस्तत्पुरुषः' इत्यधिक्रियते. ६. शतम्, सहस्रम्, इत्यादि. ७. अथ कान्ताः. ८. खान्ताः. ९. गान्ताः. १०. चान्तः. ११. जान्तौ. १२. टान्ताः. १३. ठान्तौ. १४. डान्ताः, १५. णान्ताः. १६. तान्ताः. १७. थान्तौ, १८, दान्ताः. १९. दं कलत्रम् ; प्रमदादयोऽपि. २०. नान्तः. २१. पान्ताः. २२. बान्ताः. २३. भान्तौ. २४. मान्ताः. २५. यान्ताः. २६. रान्ताः. २७. अररं कपाटम्. २८. लान्तौ. २९. वान्ताः. ३०. शान्ताः. ३१. षान्ताः. ३२. सान्ताः.
-
For Private and Personal Use Only
Page #167
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिधानसंग्रहः-१० लिङ्गानुशासनम् । मन्दाक्षवीक्षमथ सक्थि शैयातु यातु स्वाद्वाशु तुम्बुरु कशेरु शलालु चालु । संयत्ककुन्महदहानि पृषत्पुरीतत्पर्वाणि रोम च भसञ्च जगल्ललाम ॥
७४ . इति नपुंसकलिङ्गाधिकारः । पुंस्त्रीलिङ्गचतुर्दशेऽङ्के शङ्कुर्निरये च दुर्गतिः । दोर्मूले कक्ष आकरे गो भूरुहि बाणपिप्पलौ ॥७५
नाभिः प्राण्यङ्गके, प्रधिर्नेमौ, कचन बलिहे कुटः ।
श्रोण्यौषध्योः कटो, भ्रमो मोहे, पिण्डो वृन्दगोलयोः ॥ भकनीनिकयोस्तारो भेऽश्लेषहस्तश्रवणाः । कणः स्फुलिङ्गे लेशे च वराटो रज्जुशस्त्रयोः ॥ कुम्भः कलशौ तरणिः समुद्रार्कीशुयष्टिषु । भागधेयो राजदेये मेरुजम्ब्वां सुदर्शनः ॥ करेणुर्गजहस्तिन्योरल्याख्यापत्यतद्धितः । लाजवस्त्रदशौ भूम्नीहाद्याः प्रत्ययभेदतः ॥
शुण्डिकचर्मप्रसेवको सल्लकमल्लकवृश्चिका अपि ।
शल्यकधुटिको पिपीलिकश्चुलुकहुडुकतुरुष्कतिन्दुकाः॥ शुङ्गोऽथ लैंञ्च जसाटसटाः सृपाटः कीटः किटस्फटघटा वरटः किलाटः। चोटश्चपेटफटशुण्डगुडाः सशोणीः स्युर्वारिपर्णफणगतरथाजमोदाः ॥
विधकूपर्कलम्बजित्योः सहचरमुद्गरनालिकेरहाराः ।
बहुकरकृसरौ कुठारशारौ वल्लरशफरमसूरकीलरालाः ॥ पटोलः कम्बलो भल्लो दंशो गैण्डूषवेतसौ । लालसो रभसो वर्तिवितस्तिकुटयछुटिः ॥ ८३
ऊर्मिशम्यौ रत्न्यरत्नी अवीचिलव्यण्याणिश्रेणयः श्रोण्यरण्यौ । पाणिशल्यौ शाल्मलिर्यष्टिमुष्टी योनीमुन्यौ स्वातिगव्यूतिवस्त्यः ।
मेथिर्मेधिमशी मषीषुधी ऋष्टिपाटलिजाटली ।
पृश्निस्तिथ्यशनी मणिः सृणिौलिः केलिहलीमरीचयः॥ हन्वाखूकर्कन्धुसिन्धुमृत्युमन्ववारूरुः । कन्दुः काकुः किष्कुर्बाहुगवेधू रौं गौर्भाः ॥ ८६
इति पुंस्त्रीलिङ्गाः। पुनपुंसकलिङ्गोऽब्जः शङ्ख पद्मोऽब्जसंख्ययोः । कंसो पुंसि कुशो बर्हिर्बालो ह्रीवेरकेशयोः ॥ ८७ द्वापरः संशये छेदे पिप्पलो विष्टरोतरौ । अब्दो वर्षे दरखासे कुकूलस्तुषपावके ॥ ८८
परीवादपर्ययोजन्यतल्पौ तपोधर्मवत्सानि माघोष्णहृत्सु ।
वटस्तुल्यतागोलभक्ष्येषु वर्णः सितादिस्वराद्यो रणे संपरायः ॥ १. अथेकारान्ताः. २. अथोकारान्ताः. ३. अथ व्यञ्जनान्ताः. ४. 'एकदशशत-' इत्यादिगणनायां चतुर्दशेऽङ्के. ५. अलेभ्रमरस्य नामानि. ६. अथ कान्ताः. ७. गान्तः. ८. चान्तः. ९. जान्ताः. १०. टान्ता:. ११. डान्ताः, १२. णान्ताः. १३. तान्तः. १४. थान्ताः. १५. दान्तः. १६. धान्तः. १७. पान्तः. १८. बान्तः. १९. यान्तः. २०. रान्ताः. २१. लान्ताः. २२. शान्तः. २३. षान्तः, २४. सान्ताः. २५. अथ हवेकारान्ता यथालाभं ड्यन्ता अपि. २६. अथोकारान्ताः. २७. ऐकारान्तः, २८. ओकारान्तः. २९, व्यञ्जनान्तः. ३०. यथासंख्येन. ३१. यथासंख्येन.
२८ २४
For Private and Personal Use Only
Page #168
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१० लिङ्गानुशासनम् ।
सैन्धवो लवणे, भूतः प्रेते, तमो विधुंतुदे । स्वदायौ केस्वरे, कृच्छ्रं व्रते, शुक्रोऽग्निमासयोः ॥ कर्पूरस्वर्णयोश्चन्द्र उडावृक्ष छदे दलः । धर्मः स्वभावे रुचको भूषाभिन्मातुलुङ्गयोः ॥ पाताले वाडवो वर्द्धः सीसे आमलकः फले । पिटैजङ्गलसत्त्वानि पिटकामांसजन्तुषु ॥ मैधुपिण्डौ सुरातन्वोर्नाम शेवालमध्ययोः । एकाद्रात्रः समाहारे तथा सूतककूलकौ ॥ वैनीतकभ्रमरको मरको वलीकवल्मीकवल्कपुलकाः फरकव्यलीकौ । किंजल्ककल्कमणिकस्तबकावतङ्कवर्चस्क चूचुकत डाकतटाकतङ्काः ॥
बालकः फलकमालकालका मूलकस्तिलकपङ्कपातकाः । कोरकः करककन्दुकान्दुकाः नीकनिष्कचषका विशेषकः ॥ शाटककण्टकटङ्गविटङ्का मञ्चकमेचकनाकपिनाकाः ।
पुस्तकमस्तकमुस्तकशाका वर्णकमोदकमूषिकमुष्काः ||
चण्डातकश्चरकरोचककञ्जकानि मस्तिष्कयावककरण्डकतण्डकानि । आतङ्कशूकसरकाः कटकः सशुल्कः पिण्याकझर्झरकहंसक शङ्खपुङ्खाः ॥ नखमुखमँधिकाङ्गः संयुगः पद्मरागो भगयुगमथ टङ्गोद्योगशृङ्गा निदाघः । क्रैंकचकवचकूर्चार्धर्चपुच्छोच्छकच्छाः व्रजमुटजनिकुञ्ज कुञ्जमूर्जाम्बुजाच || ध्वजमलयजकूटाः कालकूटारकूटौ कवटकपटखेटाः कर्पटः पिष्टलोष्टौ । नटनिकटकिरीटाः कर्वटः कुक्कुटाट्टी कुटयकुटविटानि त्र्यङ्कटः कोट्टकुष्ठाः ॥ मठो वरुण्डखण्डषण्डा निगडाक्रीडनडप्रकाण्डकाण्डाः । कोदण्डतरण्डमण्डमुण्डा दण्डाण्डौ हेहेवरबाणवाणाः ॥ कार्षापणश्रवणपत्र णकंकणानि द्रोणापराह्नचरणानि तृणं सुवर्णम् | स्वर्णव्रणौ वृषणभूषण दूषणानि भाणस्तथा किणरणप्रवणानि चूर्णः ॥ तोरण पूर्त निकेतनिवाताः पारतमन्तयुतप्रयुतानि । क्ष्वेडितमक्षतदैवत वृत्तैरावतलोहितहस्तशतानि || व्रतोपवीतौ पलितो वसन्तध्वान्तायुतद्यूतघृतानि पुस्तः । शुद्धान्तस्तौ रजतो मुहूर्तद्वियूथयूथानि वरूथगूथौ | प्रस्थं तीर्थं प्रोर्थमैलिन्दः ककुदः कुकुदाष्टापद कुन्दाः | गुददोहद कुमुदच्छदकन्दार्बुद सौर्धेमधोत्सेधकबन्धौ ॥
श्राद्धायुधान्धौषधगन्धमादनप्रस्फोटना लग्नपिधानचन्दनाः । वितानराजादन शिश्रयौवनापीनोदपानासन के तनाशनाः ॥ नलिनपुलिनमौना वर्धमानः समानौदनदिनशतमाना हायनस्थानमानाः | धननिधन विमानास्ताडनस्तेनवस्ता भवनभुवनयानोद्यानवातायनानि ||
For Private and Personal Use Only
७
९०
९१
९२
९३
९४
९५
९६
९७
९८
९९
१००
१०१
१०२
१०३
१०४
१०५
१०६
१. धने, २. नक्षत्रे ऋक्षम् ३ यथासंख्येन. ४. यथासंख्येन. ५. अथ कान्ताः ६. खान्ताः. ७. गान्ताः, ८. घान्तः ९. चान्ताः १०. छान्ताः ११ जान्ताः. १२. टान्ताः १३ ठान्तौ १४. डान्ताः १५. दान्त:. १६. णान्ता:, १७ तान्ता: १८. थान्ता: १९. दान्ता: २० धान्ता: २१. नान्ता:.
Page #169
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिधानसंग्रहः - १० लिङ्गानुशासनम् ।
अभिधानद्वीपिनt निपानः शयनं लशुनरसोनगृञ्जनानि । खलिनखलीनानुमानदीपाः कुणपकुतपावापचापशूर्पाः ॥ स्तूपोप विटपमण्डपशष्पवाष्पद्वीपानि विष्टपनिपौ शेफर्डम्बबिम्बाः | जैम्भः कुसुम्भककुभौ कलभो निभोऽर्मसंक्रामसंक्रमललामहिमानि हेमः || उद्यमकामोद्यामाश्रमकुट्टिमकुसुमसंगमा गुल्मः । क्षेमक्षौमौ कम्बलिवाह्यो मैरेयतूर्यौ च ॥ पूयाजन्यप्रमयसमया राजसूयो हिरण्यारण्ये संख्यं मलयवलयौ वाजपेयः कषायः । शल्यं कुल्याव्ययकवियवद्गोमयं फारिहार्यः पारावारातिखरशिखरक्षेत्रवस्त्रोपवत्राः ॥ ११० अलिंजरः कूवरकूरवेरनीहारहिञ्जीरसहस्रमेढ्राः । संसारसीरौ तुवरश्च सूत्रशृङ्गारपण्ड्रान्तरकर्णपूराः ॥
नेत्रं वक्रपवित्रपत्रसमरोशीरान्धकारा वरः केदारप्रवरौ कुलीरशिशिरांवाडम्बरो गह्वरः । क्षीरं कोटरचक्रचुक्रतिमिराङ्गारास्तुषारः शरः भ्राष्ट्रोपरराष्ट्रतक्रजठरार्द्राः कुञ्जरः पञ्जरः ॥ ११२ कर्पूरनूपुरकुटीरविहारवारकान्तारतोमरदुरोदरवासराणि ।
कासारकेसरकरीरशरीरजीरमञ्जीर शेख रयुगंधर वज्रवप्राः ॥ आलवालपलभालपलाला : पल्वलः खलचषालविशालाः । शूलमूलमुकुलास्तलतैलौ तूलकुङमलतमालकपालाः ॥ कवलप्रवालबलशम्बलोत्पलोपलशील शैलशकलाङ्गुलाञ्चलाः ।
१०७
For Private and Personal Use Only
१०८
१०९
१११
११३
११४
कमलं मलं मुशलसालकुण्डलाः कललं नलं निगलनीलमङ्गलाः ॥
११५
काकोलाहलौ हलं कोलाहलकङ्कालवल्कलाः । सौवर्चलधूमले फलं हालाहलजम्बालखण्डलाः ।। ११६ लाङ्गलगरलाविन्द्रनीलगण्डीवगाण्डिवाः | उल्वः पारशवः पार्श्वापूर्वत्रिदिवताण्डवम् || ११७ निष्ठेवप्रग्रीवशरावरावौ भावक्लीवशवानि । दैवः पूर्वः पल्लवनल्वौ पाशं कुलिशं कर्कश कोशौ ॥ ११८ आकाशकाशकणिशाङ्कुशशेष॑वे पोष्णीषाम्बरीष विषरोहिषमात्रमेषाः । प्रत्यूषयूषमथ कोषकरीषकर्षवर्षामिषा रेस सेक्थसचिकसाश्च ॥ कर्पास आसो दिवसावतंसवीतंसमांसाः पनसोपवासौ । निर्यासमासौ चमसांसकांसस्नेहनि बर्हो गृहगेहलोहाः || पुण्याहदेहो पटहस्तनूरुहो लक्षोऽररिस्थाणुकमण्डलूनि । चाटुश्चटुर्जन्तुकशिष्वणुस्तथा जीवातुकुस्तुम्बुरुजानुसानु || कम्बुः शङ्कर्दा गुरुवास्तुपलाण्डु हिङ्गुः शिग्रुर्दोस्तितनुः सीध्वथ भूमा । वेम प्रेम ब्रह्म गरुलोम विहायः कर्माष्ठीवत्पक्ष्मधनुर्नाम महिश्री ॥ इति पुंनपुंसकलिङ्गाः ।
११९
१२०
१२१
१२२
१. पान्ता: २. फान्तः ३. बान्तौ ४ भान्ताः ५ मान्ताः ६. यान्ताः ७. रान्ताः ८. लान्ताः . ९. तालव्यादिरपि. १०. वान्ताः. ११. शान्ताः. १२. षान्ता:. १३. सान्ताः. १४. हान्ताः. १५. क्षान्त:. १६. अररिरिकारान्तः १७. अथोकारान्ताः १८. दोषशब्दस्य व्यञ्जनान्तस्यापि मध्ये पाठश्छन्दोनुरोधात्. १९. अथ व्यञ्जनान्ताः .
Page #170
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१० लिङ्गानुशासनम् । स्त्रीलीबयोर्नखं शुक्तौ विश्वं मधुकमौषधे । माने लक्षं मधौ कल्पं क्रोडाङ्के तिन्दुकं फले ॥ १२२ तरलं यवाग्वां पुष्पे पाटलं पटलं चये । वसन्ततिलकं वृत्ते कपालं भिक्षुभाजने ॥ १२३ अर्धपूर्वपदो नावष्टथक-नटौ कचित् । चौराद्यमनोज्ञाद्यकथानककशेरुके । १२४
वंशिकवक्रोष्टिककन्यकुलपीठानि नक्तमवहित्थम् । रेशनं रसनाच्छोटॅनशुम्बं तुम्बं महोदयं कांस्यम् ॥
१२५ मृगव्यचव्ये च वणिज्यवीर्यनासीरमात्रापरमन्दिराणि ।
तमिस्रशस्त्रे नगरं मसूरवक्क्षीरकादम्बरकाहलानि ॥ स्थालीकदल्यौ स्थलजालपित्तलागोलायुगल्यो 'बैंडिशं च 'छेदि च । अलाबुजम्बूडूरुषःसरःसदोरोदोर्चिषी दाम गुणे त्वयट्तयट् ।
१२७ इति स्त्रीनपुंसकलिङ्गाः । स्वतखिलिङ्गः सरकोऽनुतर्षे शललः शले । करकोऽब्दोपले कोशः शिम्बाखड्गपिधानयोः ॥ १२८ जीवः प्राणेषु, केदारे वलजः, पवने खलः । बहुलं वृत्तनक्षत्रपुराद्याभरणाभिधा ॥ भल्लातक आमलको हरीतकविभीतकौ । तारकाडकपिटकस्फुलिङ्गा विडङ्गतैटौ ॥ पटः पुटो वटो वाटः कपाटशकटौ कटः । पेटो मैठः कुण्डनीडवाणास्तूणऋतौ ॥ १३१
मुस्तः कुंथेङ्गुददृम्भदाडिमाः पिठरैप्रतिसरपात्रकंदराः । नखरो वलूरो दरः पुरश्छन्नः कुवलमृणालमण्डलाः ॥
१३२ नालप्रणालपटलार्गलशृङ्खलकन्दलाः । पूलावहेलौ कैलशर्केटाहौ ष्टि रेण्विषु ॥
इति खतस्त्रिलिङ्गाः ।
परलिङ्गो द्वन्द्वोऽशी, डों वाच्यवर्दैपैत्यमिति नियताः। अँख्यारोपाभावे गुणवृत्तेराश्रयाद्वचनलिङ्गाः॥
१३४ १. अर्धनावी अर्धनावम्. २. 'वैदग्ध्यं वैदग्धी, राजधानी राजधानम्, आस्थानी आस्थानम्' इत्यादयः. ३. मनोज्ञाद्यन्तर्गणवर्जितेभ्यश्चौरादिभ्यो योऽकञ्प्रत्ययस्तदन्तम् । चौरिका चौरकमित्यादि । मानोज्ञकमित्येव, ४. अथ कान्ताः. ५. जान्तः. ६. ठान्तः. ७. तान्तः. ८. थान्ता:. ९. नान्ताः. १०. बान्तौ. ११. यान्ताः. १२. रान्ताः. १३. लान्ताः. १४. शान्तः. १५. अथेकारान्तः. १६.अथोकारान्तः. १७. अथ व्यञ्जनान्ताः. १८. द्वयी द्वयम्, चतुष्टयी चतुष्टयम् . १९. बहुलं लक्ष्यानुसारेण. २०.अथ कान्ताः. २१. गान्तौ. २२. टान्ताः. २३. ठान्तः. २४. डान्तौ. २५. णान्तौ. २६. तान्तौ. २७. थान्तः. २८. दान्तः. २९. भान्तः. ३०. मान्तः. ३१. रान्ताः. ३२. लान्ताः. ३३. शान्त:. ३४. हान्तः. ३५. इकारान्तः. ३६. उकारान्तौ. ३७. अंशी तत्पुरुषो यथा-राजपुत्री, अर्धपिप्पली, द्वितीयभिक्षा, इत्येवमादयः. ३८. डेर्थश्चतुर्थ्यर्थकोऽर्थशब्दोऽन्ते यस्य स वाच्य लिङ्गो यथा-द्विजार्थः सूपः, द्विजार्थी यवागूः, द्विजार्थं पयः । डे(३)ग्रहणात् धान्येनार्थो धान्यार्थ इत्येव । अर्थग्रहणात् कुण्डलहिरण्यमित्येव. ३९. अपत्यादयो नियतलिङ्गा यथा-अपत्यं दुहिता पुत्रश्च । रक्षः पुमान् स्त्री च । वेदाः प्रमाणम् , स्मृतयः प्रमाणम् । विद्या गुणः शौर्य गुणः. ४०. गुणो विशेषणं प्रवृत्तिनिमित्तं तदाश्रया वृत्तिर्यस्य तस्य विशेष्यवशाद्वचनं लिङ्गं च भवतः । प्रवृत्तिनिमित्तस्य गुणद्रव्यक्रियाभेदात्रैविध्यम् । गुणवाची शुक्लः शुक्ला शुक्ल, विद्वान् विदुषी विद्वत् ।
For Private and Personal Use Only
Page #171
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिधानसंग्रहः-१० लिङ्गानुशासनम् । प्रकृतेलिङ्गवचने बाधन्ते स्वार्थिकाः क्वचित् । प्रकृतिहरीतक्यादिर्न लिङ्गमतिवर्तते ॥ १३५ वचनं तु खलतिकादिर्बर्थात्येऽति पूर्वपदभूता। स्त्रीपुनपुंसकानां सह वचने स्यात्परं लिङ्गम् ॥ १३६ नान्ता संख्या डतिर्युष्मदस्मञ्च स्युरलिङ्गकाः । पदं वाक्यमव्ययं चेत्यसंख्यं च तद्बहुलम् ॥ १३७
निःशेषनामलिङ्गानुशासनान्यभिसमीक्ष्य संक्षेपात् । आचार्यहेमचन्द्रः समभदनुशासनानि लिङ्गानाम् ॥
१३८
इत्याचार्यश्रीहेमचन्द्रविरचितं लिङ्गानुशासनं समाप्तम् ॥
द्रव्योपाधिः-दण्डी दण्डिनी दण्डि । क्रियोपाधिः-पाचकः पाचिका पाचकम्। इत्यादि । अस्त्रीति किम् । धवनाम्नो योगात्तद्भार्यायामध्यारोपेऽप्याश्रयलिङ्गतैव प्रष्ठस्य भार्या स एवायमित्यभेदोपचारेऽपि प्रष्ठी । एवं वरुणानी इन्द्रानी इत्यादयः.
१. यथा-द्रखा कुटी कुटीरः. २. हरीतक्याः फलानि हरीतक्यः. ३. खलतिकस्यादूरभवानि वनानि खलतिकं वनानि. ४. बह्वर्था पूर्वपदभूता प्रकृतिर्वचनं नात्येति । यथा-पञ्चालाः कुरवः. ५. स्त्रीपुंसयोः पुंलिङ्गं यथा-स च शाटी च तौ । स्त्रीनपुंसकयोर्नपुंसकम् । पुनपुंसकयोर्नपुंसकम् । स्त्रीपुनपुंसकानां नपुंसकम् ।।
For Private and Personal Use Only
Page #172
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ श्रीः॥
अभिधानसंग्रहः।
(११) श्रीमजिनदेवमुनीश्वरविरचितः अभिधानचिन्तामणिशिलोञ्छः ।
a como
XG cao
अहं बीजं नमस्कृत्य गुरूणामुपदेशतः । श्रीहेमनाममालायाः शिलोञ्छः क्रियते मया ॥ सर्वीय इत्यपि जिने संभवः शंभवेऽपि च । श्रीसुव्रते मुनिरपि नेमौ नेमीत्यपीक्ष्यते ।। षष्ठे गणेशे मण्डितपुत्रोऽपि कथितो बुधैः । मरुदेव्यपि विज्ञेया युगादिजिनमातरि ॥
चक्रेश्वर्यामप्रतिचक्राप्यजितापिः कविभिरजितबला।
श्यामा त्वच्युतदेव्यपि सुतारिकोक्ता सुतारापि ॥ भद्रकृद्भद्रकरोऽपि श्रमणः श्रवणोऽपि च । भद्रं भन्द्रमपि प्राहुः प्रशस्तमपि कोविदाः ॥ ५ प्रव्रज्यापि परिव्रज्या शिष्योऽन्तेषदपि स्मृतः । इति प्रथमकाण्डस्य शिलोञ्छोऽयं समर्थितः ॥ ६ व्योमयानमपि प्रोक्तं विमानं बुधपुंगवैः । स्यात्समुद्रनवनीतं पेयूषमपि चामृतम् ॥ कथ्यन्ते व्यन्तरा वानमन्तरा अपि सूरिभिः । द्योतस्तथा पृष्णिमुष्णी प्रोक्ता रश्यभिधायकाः॥ ८ समुद्रनवनीतं च विदुश्चन्द्रमसं बुधाः । चन्द्रिका चन्द्रिमापि, स्यादिल्बला इन्वका अपि ॥ ९ अनुराधाप्यनूराधा गुरुः सप्तर्षिजोऽपि च । सौरिः सौरोऽपि राहुस्तु ग्रहकल्लोल इत्यपि ॥ १० अभ्रपिशाचोऽपि तथा नाडिका नालिकापि च । रात्रौ यामवतीतुङ्गयौ निःसंपातो निशीथवत् ॥११ तमः स्यादन्धतमसं वर्षाः स्युर्वरिषा अपि । खेऽन्तरीक्षं सांसृष्टकमपि तत्कालजे फले॥ १२ मेघमाला कालिकापि वार्दलं चापि दुर्दिने। सूत्रामापीन्द्रे शतारः शतधारोऽपि चाशनौ ॥ १३ आश्विनेयौ स्वर्गवैद्यौः हर्यक्षोऽपि धनाधिपः। अजगवमजगावमपि शंकरधन्वनि ॥ १४ गौर्या दाक्षायणीश्वर्यो नारायणे जलेशयः । कौमोदकी कौपोदकी आर्द्रशब्दौ श्रियां मतौ॥ १५ कन्तुः कंदर्प सिद्धार्थः सुगते परिकीर्तितः । अङ्गे व्याख्याविवाहा(दा)भ्यां प्रज्ञप्तिरपि पञ्चमे।।। १६ दृष्टिपातो द्वादशाङ्गयां कल्याणेऽवन्ध्यमप्यथ । निन्दा गर्दा जुगुप्साप्याक्षारणा रतिगालिषु ॥ १७ समाख्यापि समाज्ञावद्रुशतीवदुशत्यपि । काल्यापि कल्या संधायां समाधिरपि कथ्यते ॥ १८ ब्रीडः सूकामन्दाक्षं च ह्रियामूहापि चोहवत् । तन्द्रिस्तन्द्री च निद्रायामहंप्रथमिकापि च ॥ १९ अहं पूर्विकायां केलीकिलोऽपि स्याद्विदूषके । मार्षवन्मारिषोऽपीति शिलोञ्छो देवकाण्डगः ॥ २०
१. 'भद्रोऽपि' इत्यभिधानचिन्तामणिः. २. धुरिणरित्यन्ये' इत्यभिधानचिन्तामणिः. ३. 'बाहुलकाद्दीर्घत्वे -अ न्धातमसमित्यपि इत्यभिधानचिन्तामणिः. ४. 'अहमग्रिका च' इत्यभिधानचिन्तामणिः.
For Private and Personal Use Only
Page #173
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिधान संग्रह: - ११ अभिधानचिन्तामणिशिलोञ्छ: ।
स्तनंधये स्तनपश्च क्षीरपश्चाभिधीयते । तारुण्यं स्याद्यौवनिका दशमीस्थो जरत्तरः ॥ कवितापि कविः स्यात्कृतकर्मणि कृतकृत्यकृतिकृतार्थाश्च । कुटिलाशयोऽपि कुचरोऽन्धजडशठेष्वप्यनेडमूकस्तु
वेदन्यो पृथगित्यन्ये दानशैलप्रियंवदौ । मूर्खे यथोद्गतोऽपीभ्ये श्रीमानपि बुधैः स्मृतः ॥ विवधिकधिकावपि वैवधिके प्रतिचरोऽपि भृत्ये स्यात् । संमार्जको बहुकरे बहुषान्यार्जक इतीष्यते च परैः ॥
ह
For Private and Personal Use Only
२१
२२
२३
२४
२५
२६
२७
२८
२९
३०
३१
३३
३४
I
३६
विहङ्गिकायां च विहङ्गमाप्यथैौर्ध्वदेहिके । और्ध्वदैहिकमप्याहुरनृजौ शण्ठ इत्यपि ॥ मायाविमायिक धूर्ते कपटे तूपधा मता । चौरश्चोरोऽपि विज्ञेयः स्तेयं स्तैन्यमपीष्यते ॥ दाने प्रादेशनमपि क्षमा स्यात्क्षान्तिरित्यपि । क्रोधनः कोपनस्तृष्णक् पिपासितोऽपि कथ्यते ॥ भक्षकः स्यादाशिरोऽपि मर्जितापि च मार्जिता । पेयूषमपि पीयूषं कूचिकापि च कूर्चिका ॥ ace द्रस्यमपि प्रोक्तं विजिपिलं च पिच्छिले । व्योषे त्रिकटुकं जग्धौ जमनं जवनं तथा ।। 1 marutsपि भवेत्तृप्तौ शौष्कलः पिशिताशिनि । मनोराज्यमनोगव्यावपि स्यातां मनोरथे ॥ कामु को स्यादक्षारितोऽपि दूषिते । संशयालुः सांशयिको जागरितापि जागरी ॥ पूजितेऽपचायितोऽपि तुन्दिभोदरिकावपि । तुन्दिलो न्युब्जोऽपि कुब्जे खलतोऽप्यैन्द्रलुप्तके ॥ ३२ पामरोऽपि कच्छुरोऽतीसारक्यप्यतिसारकी । कण्डूतिरपि खर्जूतिर्विस्फोटो पिटके स्मृतः || hte Husarai गुदकीलोऽपि वार्शसि । मेहः प्रमेहवदायुर्वेदकोऽपि चिकित्सके | आयुष्मानपि दीर्घायुः कथ्यतेऽथ परीक्षकः । स्यादाक्षपाटलिकोऽपि पारिषद्योऽपि सभ्यवत् ॥ ३५ स्युनैमित्तिक नैमित्तमौहूर्ता गण के लिपौ । लिखितापि मत्री मेला कुलिके कुलकोऽपि च ॥ अष्टापदे बुधैः शारिफलकोऽपि निगद्यते । मनोजवस्तात तुल्ये प्रभविष्णुरपि क्षमे ॥ जाङ्घिके जङ्घाकरोsपि चानुगोऽप्यनुगामिनि । पर्येषणोपासनापि शुश्रूषायामधीयते ॥ आतिथ्योऽप्यतिथौ कुल्येऽभिजो गोत्रे तु संततिः । । महेला योषिता च स्त्री तरुणी युवतीत्यपि ।। ३९ स्ववासिनी चरिण्टी च चिरण्टी च चरण्ट्यपि । वधूट्यां पत्न्यां करात्ती गेहिनी सहधर्मिणी || ४० सधर्मचारिणी चापि खुषायां तु वधूट्यपि । प्रेमवत्यपि कान्तायां पणिग्राहो विवोदरि ॥ परितोषयन्ता च यौतके दाय इत्यपि । दिधीषूदिधिपूर्जीवत्पत्नी जीवत्पतिः समे ॥ तुल्ये अवीरानिवरे श्रवणाश्रवणे तथा । रण्डापि विधवापुष्पवती स्यात्पुष्पितापि च ॥ पुष्पे कुसुममप्युक्तं पशुधर्मोऽपि मोहने । सहोदरे सगर्भोऽपि स्यादग्रजवदग्रिमः ।। शण्ठः शठः पण्डुरपि क्लीबो माता जनित्र्यपि । चिहुरा अपि केशाः स्युः कर्णः शब्दग्रहोऽपि च ।। ४५ नेत्रं विलोचनमपि सृकणीसूक्कणी अपि । दाटिका द्रादिकापि स्यात्कपोणिस्तु कफोणिवत् ॥ ४६ कूर्परे कुर: सिंहतले संहतलोऽपि च । चलुकोऽपि चलौ /मुष्के स्यादाण्ड: पेलकोऽपि च ॥ पादवि चरणे कीकसं हड्डमित्यपि । कपालं शक्लमपि पृष्टास्थनि कशारुका ॥ मज्जायामस्थितेजोऽपि नाडीषु नाडिनाटिके | शिङ्खाणकोऽपि शिङ्खाणः स्तृणीका स्तृणिकापि च ॥४९
३७
३८
४१
४२
४३
४४
४७ ४८
१. ' दानशीलप्रियवाचौ वदान्यौ पृथक्' इत्यभिधानचिन्तामणिः . २. 'कुण्ठयत्यङ्गम्' इत्यभिधानचिन्तामणिस्थव्युत्पत्त्या द्वितीयान्तं लभ्यते. ३. 'आयुर्वेदिकः' इत्यभिधानचिन्तामणिः ४. 'सृणीका, सुणिका' इत्यभिधानचिन्तामणिः.
Page #174
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१. 'आवाप्लाव' इत्यभिधानचिन्तामणिः. चिन्तामणी.
तृतीयं काण्डम् |
५१
५२
५३
५५
५६
५७
५८
५९
६०
६१
६२
६३
६४
शान्तः षान्तश्च विड्गूथेऽशुचि वेशोऽपि वेषवत् । उत्सादनोच्छादने च लेवलावौ तथा समौ ॥ ५० वंशकं कृमिजग्धं चागरौ स्यादथ वाल्हिकम् । संकोचं पिशुनं वर्ण्यमसृक्संज्ञं च कुङ्कुमे ॥ जाके कालानुसार्य यावनोऽपि च सिके । मकुटोऽपि च कोटीरे चित्रकं च विशेषके । वतंसोऽप्यवतंसे स्यात्पत्रभङ्गयां तु वल्लरी । मञ्जरी च पत्रात्पारितथ्या पर्यवतथ्यया ॥ कणान्दूरपि कर्णान्दुः परिहार्योऽपि कङ्कणः । किङ्किणी किङ्कणी तुल्ये आच्छादाच्छादने समे || ५४ कुर्पासेऽप्यङ्गिका कक्षापटे कक्षापुटोऽपि च । कुथे वर्णपरिस्तोम इत्युषण्डं जगुः परे ॥ तत्रास्तरणामिति च पल्यङ्गोऽप्यव सक्थिका । यमन्यपि प्रतिसीरा संस्तरः प्रस्तरोऽपि च ॥ पतद्वाहप्रतिग्राहावपि स्यातां पतग्रहे । मकुरोsध्यात्मदर्शोऽथ कशिपुः कसिपुः समे ॥ यावकालतको यावे तुल्ये व्यजनवीजने । गीरीयको गिरिकोऽपि बालक्रीडनके मतौ ॥ rushisपि गन्दुको राट् मूर्धावसिक्त इत्यपि । भरतः सर्वदमनोऽप्यथ दाशरथावुभौ ॥ रामचन्द्ररामभद्रौ हनूमानपि मारुती । वालौ सुग्रीवाग्रजोऽपि पार्थे बीभत्सुरित्यपि ॥ सातवाहनवत्सालवाहनोऽपि प्रकीर्तितः । परिच्छदे परिजनः परिवकर्णमित्यपि ॥ मन्त्री बुद्धिसहायोऽपि वेत्री वेत्रधरोऽपि च । हेमाध्यक्षे हेरिकोऽपि टङ्कपतिस्तु नैष्किके ॥ शुद्धान्ताध्यक्ष आन्तर्वेश्मिकान्तःपुरिकावपि । सहाय साप्तपदीनौ सख्यावसुहृदप्यरौ ॥ नये नीतिरपि स्कन्धावारेऽपि शिविरो मतः । जयन्त्यपि वैजयन्त्यां पटाकापि प्रकीर्त्यते ॥ ध्वजः पताकादण्डोऽपि झम्फानं याप्ययानवत् । सादी सव्येष्ठोऽपि सूते कवचितोऽपि वर्मिते ।। ६५ कवचे दंशनं त्वकं तनुत्राणमपि स्मृतम् । अधियाङ्गं धियाङ्गं चाधिकाङ्गवदुदाहृतम् ॥ शिरस्कं खोलमप्याहुः स्यान्निषङ्गयपि तूणिनि । चापे धनुधनुशरासनान्यपि विदुर्बुधाः ॥ फरकफरको खेटे क्षुरिका छुरिका छुरी । ईत्म्यां तरवालिकापि परिघः पलिघः समौ ॥ ऊर्जस्व्यूर्जस्वान्मगधो 'मंषो बोधकरोऽर्थिकः । सौखशायनिकः सौख्यशख्यिकौ सौखसुप्तिके ।। ६९ रणे संस्फेटसंफेटौ बले द्रविणमूक्तथा । अवस्कन्दोऽपि धाट्यां स्यान्नशनं च पलायने ॥ चारकोऽपि भवेतौ तापसे तु तपस्यपि । विप्रे ब्रह्मापि चानीधा अनीध्रोऽप्यथ / वृषी वृसी ॥ ७१ शसने शमनं चाथ दधिप्राज्यं पृषातके | अग्निहोत्र्यम्याहितोऽप्यथोऽप्यवासे समाविमौ ॥ उपवस्त्रमौपवस्त्रमुपवीते प्रवक्ष्यते । ब्रह्मसूत्रं पवित्रं च वाल्मीकौ द्वाविमावपि ।। मैत्रावरुण्यादिकवी पर्शुरामोऽपि भार्गवे । योगीशो याज्ञवल्क्योऽपि दाक्षीपुत्रोऽपि पाणिनौ ॥ ७४ स्फोटायनः स्फोटायनः कात्यो वररुचौ तथा । कारेणवः पालकाप्ये चाणक्यश्चणकात्मजे || ७५ वैशेष कणादोऽपि जैनोऽनेकान्तवाद्यपि । चार्वाके लोकायतिकः कृषिः प्रसृतमित्यपि न्यासार्पणे परिदानं वणिक्प्रापणिकः स्मृतः । अयुते नियुतं पोते स्मृतं प्रवहणं बुधैः ॥ कर्णो पारित्रे दुर्गस्य गवेश्वरोऽपि गोमति । कर्षके क्षेत्रजीवोऽपि कोटीशी लोष्टभेदनः ॥ माकमपि मद्येऽनुतर्षोऽपि चषके स्मृतः । कुविन्दे तत्रवायोऽपि वेमा व्योमापि कीर्त्यते ॥ ७९ रजको धावकोऽप्युक्तः पादत्राणं च पादुका । तैलिकस्तैलंतुदोऽपि रथकारोऽपि वर्धकिः || चित्रकारो लेखकश्च लेपकृल्लेपकोऽपि च । कुतूहले विनोदोऽपि सौनिकः खट्टिकोऽपि च ।
६६
६७
६८
७०
७२ ७३
1
८०
८१
२. 'मङ्खः' इत्यभिधानचिन्तामणौ. ३. 'प्रमृतः' इत्यभिधान
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
७६
のの
७८
Page #175
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिधानसंग्रहः-११ अभिधानचिन्तामणिशिलोञ्छः । कूटयत्रे पाशयन्त्रं समौ चाण्डालपुक्कसौ । इति तृतीयकाण्डस्य शिलोञ्छोऽयं समर्थितः ॥ ८२ रत्नवती भुवि दिवस्पृथिव्यावपि रोदसी। माणिबन्धं माणिमन्तं सैन्धवे वसुके वसु ॥ टङ्कनष्टङ्कण उपावर्तनं चापि नीवृति ।। जङ्गलः स्याजाङ्गलोऽपि. मालवन्मालको मतः ॥ पत्तने पट्टनमपि कुण्डिने कुण्डिनापुरम् । स्यात्कुण्डिनपुरमपि विपणौ पण्यवीथिका ॥ सुरङ्गायां संधिरपि। गृहे धाममपि स्मृतम् । उपकार्योपकर्यापि प्रसादे च प्रसादनः ।। शान्तीगृहं शान्तिगृहे। प्राङ्गणं त्वङ्गणं मतम् । कपाटवत्कवाटोऽपि पक्षद्वारे खडक्किका ॥ ८७ कुसूलवत्कुशूलोऽपि।संपुटे पुट इत्यपि । पेटायां स्यात्पेटकोऽपि पेडापि कृतिनां मते ॥ ८८ पवन्यपि समूहिन्यामयोनि मुशलं विदुः ।। कण्डोलके पिटकोऽपि चुल्यामन्तीति कथ्यते ॥ ८९ खजः खजाकोऽपि मथि विष्कम्भो कटकोऽस्य तु।। अगोऽपि पर्वते क्रौञ्चः क्रोश्चवन्मन्यते बुधैः९० कखट्यपि खटिन्यां स्यात्ताम्रमौदुम्बरं विदुः । शातकुम्भमपि स्वर्ण पारदश्चपलोऽपि च॥ ९१ रसजातं रसायं च तुत्थे दारिसोद्भवे । गौक्षिके वैष्णवोऽपि स्यागोपित्तं हरितालके॥ ९२ मनःशिलायां नेपाली शिला च सुधियां मता। शृङ्गारमपि सिन्दूरे कुरुविन्दे तु हिङ्गुलः ॥ ९३ बोलो गोपरसोऽप्युक्तो रत्नं माणिक्यमित्यपि । पद्मरागे शोणिरत्नं वैराट्टो राजपट्टवत् ॥ ९४ नीलमणौ महानीलंकमन्धमपि वारिणि । धूमिकाधूममहिषी धूमर्यो महिकाः समाः॥ ९५ अकूवारोऽपि जलधौ मकरालय इत्यपि । निम्नगायां हादिनी स्याज्जहुकन्यापि जाह्नवी ॥ ९६ कलिन्दपुत्री कालिन्दी रेवा मेकलकन्यका । चान्द्रभागा चन्द्रभागा गोमती गोतमीत्यपि ॥ ९७ चक्राण्यपि पुटभेदाः पङ्के चिखल्ल इत्यपि । उद्घातनोद्घाटने च घटीयन्त्रे प्रकीर्तिते ॥ सरस्तडागस्तटाकोऽप्यथ तल्लश्च पल्वले । आशयाशशुष्मबर्हिर्बहिरुत्थदमूनसः ॥ ९९ अग्नौ क्षणप्रभा विद्युद्गन्धवाहसदागती। वायौ चरणपेऽपि द्रुस्त्वक्त्वचा स्तबके पुनः॥ १०० गुलुञ्छलुछयौ माकन्दरसालावपि, चूतवत् । किंकिराते कुरुण्टककुरुण्डकावपि स्मृतौ ॥ १०१ कर्कन्धूरपि कर्कन्धौ हस्वादिश्चाटरूषकः । वाशा च स्नुहिः स्नुहापि पियालोऽपि प्रियालवत् ।। १०२ नार्यङ्गोऽपि च नारङ्गोऽक्षे विभेदक इत्यपि । भवेत्तमालस्तापिच्छो निर्गुण्डी सुन्दुवारवत् ॥ १०३ अपा जवा मातुलुङ्गो मातुलिङ्गोऽपि कीर्तितः। धत्तूर इव धत्तूरो वंशस्त्वक्सार इत्यपिः॥ १०४ हीवेरं केशसलिलपर्यायैः स्मर्यते बुधैः । पङ्कजिन्यां कमलिनी कुमुदिनी कुमुद्वती॥ विसप्रसूनं कमले कुमुत्कुमुदवन्मतम् । शेपालं च जलनीली सातीनोऽपि सतीनवत् ॥ १०६ कुल्मासवत्कुल्माषोऽपि गवेधुका गवीधुका । कणिशं कनिशं रिद्धे धान्ये लावासितं मतम् ॥ १०७ हालाहलं हालहलं मुस्तायां मुस्तकोऽपि च । कृमिः क्रिमिरपि गण्डूपदः किंचुलुकोऽपि च ॥१०८ शम्बुका अपि शम्बूका वृश्चिको द्रुत इत्यपि । भसलो मधुकरोऽली पिक्को विकः करिः करी॥ १०९ व्यालो व्याडोऽप्यौपवाह्योऽप्युपवह्योऽपि रावरा। शृङ्खले निगलोऽण्डुश्च कक्षा कक्ष्यापि वाल्हिके ११०' 'वाल्हीकोऽपि वल्गवागे खलिनं च खलीनवत् । मार्यो पुष्टे गोपतौ तु शंल इत्वर इत्यपि ॥ १११ स्थौरी स्थूर्यपि ककुदे ककुत्ककुदमित्यपि । नैचिकं नैचिकी च स्यान्मलिनी बालगर्भिणी ॥ ११२ पवित्रं गोमये छागे. शुभोऽथ भषकः शुनि । सैरमा देवशुन्यां च यमरथोऽपि सैरिभे ॥ ११३ पारिन्द्र इव पारीन्द्रः शरभेऽष्टापदोऽपि च । सृगालवच्छृगालोऽपि प्लवगः प्रवगोऽपि च ॥ ११४ वानायुरपि वातायुरुन्दरोऽपि च मूषके । ह्रीकुर्वन्बिडालोऽपि गोकर्णोऽपि भुजंगमे ॥ ११५
९८
For Private and Personal Use Only
Page #176
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
षष्ठः काण्डः ।
जलव्यालेsatisfy शेषः स्यादेककुण्डलः । आशीराशी च दंष्ट्रायां निर्मोके निलयन्यपि ॥ ११६ पतत्री पतत्रिरपि पिच्छं पिञ्छमपि स्मृतम् । परपुष्टान्यभृतौ च पिके बर्हिणि बर्हिणः ॥ ११७ वायसे बलिपुष्टोऽपि द्रोणोऽपि द्रोणकाकवत् । सारसा लक्ष्मणी कौवा कुवा चाषे दिविः किकीः ११८ किकिदीविरपि प्रोटिट्टिभेटीटिभोऽपि च । कलविङ्के कुलिङ्गोऽपि दात्यूहे कालकण्टकः ॥ ११९ दात्यूहोऽपि बलाका च बकेरुर्बिसकण्ठिका । मेधाव्यपि शुके तैलपायिकायां निशाटनी ॥ १२० पोते वावतोsपि मत्स्ये मच्छोऽथ तन्तुणे । स्मृतो वरुणपाशोऽपि न शङ्कमुखोऽपि च ॥ १२१ उहारः कूर्म इत्येष तिर्यकाण्डः शिलोञ्छितः ॥ १२२
For Private and Personal Use Only
и
नारकास्तु नैरयिकाः पाताले तु तलं रसा । इति पश्चमकाण्डस्य शिलोच्छोऽयं समार्थतः ॥ १२३
१२८
१२९
१३०
१३१
जीवोsपि चेतने जन्तौ प्राणी जन्मोऽपि जन्मनि । जीवातुर्जीविते ऽथायुः पुंस्युदन्तोऽपि चायुषि ।। १२४ संकल्पे स्याद्विकल्पोऽपि मनो नेन्द्रियमप्यथ । शर्म सौख्यं पीडा बाधा चर्चा चर्चेऽपि कथ्यते ॥ १२५ विप्रतीशारोऽनुशयेऽथार्था अपीन्द्रियार्थवत् । सुसीमस्तु सुषीमोऽपि कक्खटे खक्खटोऽपि च ।। १२६ जरठे जरदोऽस्लेऽम्ब्लो रावो रव इव स्मृतः । निषादो निषधो गर्जो गर्जा मद्रोऽपि मन्द्रवत् १२७ आकरो निकरे युग्मे जकुटोऽथ कनीयसि । कनिष्ठं विग्रहः शब्दप्रपञ्चे निखिले पुनः ॥ स्यान्निःशेषमनूनं च खण्डलं चापि खण्डवत् । मलीमसे कल्मषं च निकृष्टे याव्यरेपसी ।। लडहं रमणीयं च रम्ये नित्ये सदातनम् । शाश्वतिकं च नेदीय इत्यन्तिकतमे स्मृतम् ॥ एकाकिन्यवगणोऽपि प्रागप्यादौ प्रकीर्तितम् । मध्यमे मध्यंदिनं च निरर्गलमनर्गले ॥ बहुरूपपृथग्रूपनानाविधाः पृथग्विधे । झम्पा झम्पो व्यवच्छिन्ने छादितं पिहितेऽपि च ।। प्रकाशिते प्रादुष्कृतमवज्ञायामसूक्षणम् | बुधैरवमनानावगणने अपि कीर्तिते ॥ अन्दोलनमपि प्रेङ्खाथोदस्तमप्युदञ्चितम् । भिदा भिच्चोदितमपीरितेऽथाङ्गीकृते पुनः ॥ कक्षीकृतं स्वीकृतं च च्छिन्ने छातमपि स्मृतम् । प्राप्ते विन्नं विस्मृते च भवेत्प्रस्मृतमित्यपि ॥ १३५ अटाटाच्या पर्यटनमा नुपूर्व्यमनुक्रमे । परीरम्भोऽपि संश्लेषे स्यादुद्वातोऽप्युपक्रमे ॥ १३६ जाता जातमपि स्पर्धा संघर्षोऽप्यथ विक्रिया । विकारो विकृतिश्चापि विलम्भस्तु समर्पणम् ॥ १३७ दिष्ट्या समुपजोषं सर्वदा सदा सनत् सनात् । निर्भरे च स्वती हेतौ येन तेन च कीर्तितौ ॥ १३८ अहो संबोधनेऽपीति षष्ठ काण्डः शिलोञ्छितः ॥
१३२
१३३
१३४
१३९
वैक्रमेऽदे त्रिवस्विन्दुमिते ( 3 ) राधाद्यपक्षतौ । प्रन्थोऽयं दद्दभे श्रीमज्जिनदेवमुनीश्वरः ॥
इति है नाममालायाः शिलोच्छः समर्थितः ।
१४०
Page #177
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
Page #178
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विज्ञापनम् ।
प्राप्तकोषाः। अमरसिंहः-नामलिङ्गानुशासनम्, केशवः-कल्पद्रुः. जिनदेवमुनीश्वरः-अभिधानचिन्तामणिशिलोञ्छः. दुर्गादासः-शब्दार्णवः. धनंजयः-प्रमाणनाममाला. पुरुषोत्तमदेवः-एकाक्षरकोषः, त्रिकाण्डशेषः, द्विरूपकोषः, शब्दभेदप्रकाशः, हारावली. भरतसेनमल्लिकः-द्विरूपकोषः. महीदासः-मातृकानिघण्टुः. महाक्षपणकः-अनेकार्थध्वनिमञ्जरी. महादेवः-अव्ययकोषः. महेश्वरः-विश्वप्रकाशः, शब्दभेदप्रकाशः. मेदिनिकरः-नानार्थशब्दकोशः. यादव:-वैजयन्ती. वररुचिः-लिङ्गविशेषविधिः. विश्वशंभुः-एकाक्षरीनाममाला. वेणीदत्तःपञ्चतत्त्वप्रकाशः. शाश्वतः-नानार्थसमुच्चयः. शिवरामः-लक्ष्मीनिवास:. हरिदत्तः-गणितनाममाला. हलायुधःअभिधानरत्नमाला. हर्षकीर्तिः-शारदीनाममाला. हेमचन्द्रः-अनेकार्थसंग्रहः, अभिधानचिन्तामणिः, अभिधानचिन्तामणिपरिशिष्टम् , निघण्टुशेषः, लिङ्गानुशासनम्.
अप्राप्तकोषाः। अगस्त्यः-शब्दसंग्रहनिघण्टुः, अजयपालः-नानार्थसंग्रहः. अप्पयदीक्षितः-नामसंग्रहमाला. अमरसिंहः-एकाक्षरनाममाला.आदिनाथकविवर्यः-कविजनसेवधिः. कालिदासः-प्रयुक्तपदमञ्जरी. काशिनाथः-शब्दार्णवः. केशवः-लघुनिघण्टुसार:.क्षेमेन्द्रः-लोकप्रकाशः.गदसिंहः-अनेकार्थध्वनिमञ्जरी.गोपिनाथः-शब्दमाला.गोव. धनः-नामावली. गोविन्दशर्मा-शब्दसागरः.चक्रपाणिदत्तः-शब्दचन्द्रिका. जटाधराचार्यः-अभिधानतन्त्रम्जैमिनिः-निघण्टुः तीर्थस्वामी-कोमलकोशसंग्रहः त्रिविक्रमाचार्यः-गीर्वाणभाषाभूषणम्. दण्डनाथः-नानार्थरत्नमाला.दुर्ग:-नाममाला. देवकीनन्दनः-वैष्णवाभिधानम्.धरणिदासः-नानार्थसमुच्चयः.धर्मराजः-कविजीवनम्. नकिरकविः-बालप्रबोधिका. नन्दनभट्टाचार्यः-वर्णाभिधानम् . नरसिंहपण्डितः-राजनिघण्टुः नारायण दासः-राजवल्लभः नृसिंहमुनिः-रत्नकोषः. पद्मनाभः-भूरिप्रयोगः. पुण्डरीकविट्ठलः-शीघ्रबोधिनीनाममाला. पुरुषोत्तमदेवः-वर्णदेशनम्. पृथ्वीधराचार्यः-रत्नकोषः. बाणकविः-शब्दचन्द्रिका. बाल्हिकेयमिश्रःनिघण्टुकैकाध्यायः. बिहणः त्रिरूपकोषः. भार्गवाचार्यः-नामसंग्रहनिघण्टुः. भोजः-नाममाला. मङ्खः-मङ्खकोषः. मथुरेशः-शब्दरखावली. मयूरः-पदचन्द्रिका. महीपः-अनेकार्थतिलकः, शब्दरत्नाकरः. माधवः-- एकाक्षरनिघण्टु, मुरारिः-सुप्रसिद्धपदमञ्जरी. रत्नमालाकरः-आयुर्वेदपर्यायरत्नमाला. राक्षसः-शब्दार्थनिर्णयः. रामः--कविदर्पणनिघण्टुः. रामशर्मा-उणादिकोशः. रामेश्वरः-शब्दमाला. रूपचन्द्रः-रूपमञ्जरीनाममाला. वरदराजः-नाममातृकानिघण्टुः. वररुचिः-ऐन्द्रनिघण्टुः, वल्लभः-कविमञ्जरी. वामनभट्टः-शब्दरनाकरः, विक्रमादित्यः-कविदीपिकानिघण्टुः. विठ्ठलाचार्यः-शब्दचिन्तामणिः. विश्वनाथः-कोषकल्पतरुः. वेङ्कट:-शब्दार्थकल्पतरुः, शाब्दिकविद्वत्कविप्रमोदकः. वेदान्ताचार्यः-दशदीपनिघण्टुः. शंकरः-संयमिनाममाला. शिवदत्तः-शिवकोषः. श्रीहर्षः-द्विरूपकोषः, श्लेषार्थपदसंग्रहः, सदाचार्यः-एकाक्षरनिघण्टुः. सारेश्वरः-लिङ्गप्रकाशः. सार्वभौममिश्रः-भुवनप्रदीपिका. सुन्दरगणिः-शब्दरत्नाकरः. सोमभवः-अनेकार्थतिलकः. सौभरिः-एकार्थनाममाला, द्वथक्षरनाममाला.
१. एते कोषा अस्माभिरभिधानसंग्रहे मुद्रिताः सन्ति.
For Private and Personal Use Only
Page #179
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एतद्भिन्नाः अमरदत्त-कात्य-गङ्गाधर-चन्द्रगोमि-तारपाल-दामोदर-धर्मदास-बोपालित-भागु. रि-भोगीन्द्र-मङ्कल-मार्तण्ड
भोगीन्द-माल-मार्तण्ड-रन्तिदेव-रभसपाल-राजशेखर-रुद्र-वाग्भट-वाचस्पति-वामनविक्रमादित्य-विश्वरूप-व्याडि-शुभाङ्क-सज्जन-साहसाङ्क-हट्टचन्द्र-हर-इत्यादिकृताः कोषाः, अमरमाला-असालतिप्रकाश-आनन्दकोष-एकवर्णसंग्रह-एकाक्षरकोष-उत्पलिनी-ऊष्मविवेक-कल्पतरुकोष-ग्रहाभिधान-जकारभेद-दण्डिकोष-धन्वन्तरिनिघण्टु-नक्षत्राभिधान-नानार्थमञ्जरी-पद्मकोष-वकारभेद-बीजकोष-बृहदमरकोष-महाखण्डनकोष-राजकोषनिघण्टु-लिङ्गप्रकाश-वर्णप्रकाशकोष-वात्स्यायनकोष-शब्दतरङ्गिणी-शब्ददीपिका-शब्दरत्नसमुच्चय-शब्दसारनिघण्टु-संसारावर्त-सकलग्रन्थदीपिका-सकारभेद-संजीवनी-सन्मुखवृत्तिनिघण्टु-सरसशब्दसरणि-सरस्वतीनिघण्टु-साध्यकोष-सारस्वताभिधान-हनुमन्निघण्टु-प्रभृतयः कोषाश्च सन्तीति श्रूयते । ते येषां सज्जनानां संग्रहे सन्ति, ते तेषां प्रेषणेनामानुपकुर्वन्त्वित्यभ्यर्थना
अभिधानसंग्रहकर्तृणाम् ।
For Private and Personal Use Only
Page #180
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only