Book Title: Abhidhan Rajendra Kosh Part 07
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ हरिएस 1188- अभिधानराजेन्द्रः - भाग 7 हरिएस | दंडेहिं वित्तेहिं कसेहि चेव, समागया तं इंसिं तालयंति // 16 // अध्यापकानाम्-उपध्यायानाम्, एकत्वेऽपि पूज्यत्वाद्वहुवचनं, वचनम्-उक्तरूपं श्रुत्वा-आकर्ण्य उद्घावितागन प्रसृताः तत्र यत्रासौ मुनिस्तिष्ठति बहवः-प्रभूताः कुमाराद्वितीयवयोवर्तिनश्छात्रादय इति गम्यते, ते हि क्रीडनकपरा इत्यहो क्रीडनकमागतमिति रभसतो दण्डैःवंशयष्ट्यादिभित्रैः-जलजवंशात्मकः कशैः-वर्धविकारैः, चः समुच्चये, एवेति पूरणे, समागताः-सम्प्राप्ता मिलिता वा तमृषिमुनिं ताडयन्तिघन्ति, सर्वत्र वर्तमाननिर्देशः प्राग्वत् इति सूत्रार्थः। अस्मिश्चावसरेरण्णो तहिं कोसलियस्स धूया, मद्दत्ति नामेण अणिंदियंगी। तं पासिया संजय हम्ममाणं। कुद्धे कुमारे परिनिव्ववेइ / / 20 / / राज्ञो नृपतेस्तत्र-यज्ञवाटे कोशलायां भवः कौशलिकस्तस्य 'धूय' त्ति दुहिता भद्रेति नाम्ना-अभिधानेन अनिन्दिताङ्गीकल्याणशरीरातंहरिकेशबलं पासिय' त्ति दृष्ट्वा सञ्जय' त्ति संयतं तस्यामप्यवस्थायां हिंसादेः सम्यगुपरतं हन्यतानं दण्डादिभिस्ताङ्यमानं कुद्धान् कोपवतः कुमारान् उक्तरूपान् परिनिर्वापयति-कोपाग्निविध्यापनात् समन्तात् शीतीकरोति-उपशमयतीति यावदिति सूत्रार्थः / सा च तान् परिनिर्वापयन्ती तस्य माहा - त्म्यमतिनिःस्पृहतां चाहदेवामिओगेण निओइएणं, दिन्ना मुरण्णा मणसान झाया। नरिंददेविंदऽभिवंदिएणं, जेणामि वंता इसिणा स एसो॥२१॥ एसो हुसो उमगतवो महप्पा, जिइंदिओ संजओं बंभयारी। जो मे तया निच्छह दिल्जमाणी, पिउणा सयं कोसलिएण रण्णा // 22 // महाजसो एस महाणुभागो, घोरव्वओ घोरपरक्कमो य। मा एयं हीलह अहीलणिलं, मा सव्वे तेएण भे निहहिज्जा / / 23 // देवस्य अमरस्याभियोगो बलात्कारो देवाभियोगस्तेन नियोजितेनव्यापारितेन न त्वप्रियेति कृत्वा 'दिन्नामु'त्ति दत्ताऽस्मि, अहं यस्मै इति गम्यते, दत्ता च केन ? राज्ञा प्रक्रमात्कौशलिकेन, तथापि 'मणस त्ति अपेर्गम्यमानत्वान्मनसाऽपि चित्तेनापिनध्याता-न चिन्तिता नाभिलषितेति यावत्, प्रक्रमादेतेन मुनिना, कीदृशेन ? नरेन्द्राश्च-नृपतयो देवेन्द्राश्चशक्रादयो नरेन्द्रदेवेन्द्रास्तैरभिआभिमुख्येन वन्दितः-स्तुतो नरेन्द्रदेवेन्द्राभिवन्दितस्तेन, अनभिध्याताऽपि नृपोपरोधतः स्वीकृता स्यादत आह येनास्म्यहं वान्ता-त्यक्ता ऋषिणा-मुनिना, स एष युष्माभिर्यः कदर्थयितुमारब्धः, ततोनकदर्थयितुमुचित इति भावः। पुनरिममेवाएं समर्थयितुमाह 'एसो हुसो' त्ति, एष एव सनमनागप्यत्र संशयः, उग्रम्-उत्कटं दारुणं वा कर्मशत्रून् प्रतितपः-अनशनाद्यस्येति उग्रतपाः, अत एव महान्-प्रशस्यो विशिष्टवीर्योल्लासत आत्मा अस्येति महात्मा, जितेन्द्रियः संयतो ब्रह्मचारी च प्राग्वत्, स इति क ? इत्याहयो 'मि' त्ति मां तदा-तस्मिन् विवक्षितसमये नेच्छति–नाभिलषतिदीयमानां निसृज्यमानां, केन ? पित्रा-जनकेन स्वयम्-आत्मना, नतु प्रधानप्रेषणा, तेनापि कीदृशा ? कौशलिकेन राज्ञा, न वितरजनसाधारणेन, तदनेन विभूतावपि निःस्पृहत्वमुक्तं, पुनस्तन्माहात्म्यमाहमहायसा-अपरिमितकीर्तिः एष-प्रत्यक्षो मुनिमहानुभागः अतिशयाचिन्त्यशक्तिः पाठान्तरतो महानुभावो वा, तत्र चानुभावः शापानुग्रहसामर्थ्य ,घोखतो धृतात्यन्तदुर्द्धरमहाव्रतः-घोरपराक्रमश्च–कषायादिजयं प्रति रौद्रसामर्थ्यो, यतोऽयमीदृक् ततः किमित्याह 'मा' इति निषेधेएनयतिंहीलयत-अवधूतं पश्यत अहीलनीयम्-अवज्ञातुमनुचितं, किमित्यत आह-मा सर्वान् समस्तांस्तेजसा तपोमाहात्म्यने 'भे' भवतो निर्धाक्षीद्-भस्मसात्मा/द, अयं हि हीलितो यदि कदाचिद्रुष्येत्तदा सर्व भस्मसादेव कुर्यादिति भाव इति सूत्रत्रयार्थः / अत्रान्तरे मा भूदेतस्या वचनं मृषेति यद्यक्षः ___ कृतवांस्तदाहएयाई तीसे वयाणाई सुचा, पत्तीइ भत्ताइ सुभासियाई। इसिस्स वेयावडियट्ठयाए, जक्खा कुमारे विणिवारयति // 25 // ते घोररूवा ठिअ अंतलिक्खे, असुरा तहिं तं जण तालयंति। ते मिन्नदेहे रुहिरं वमंते, पासित्तु भत्ता इणमाहु मुखो।। 25 // एतानि-अनन्तरोक्तानि तस्याः-अनन्तरोक्तायाः वचनानिभाषितानि श्रुत्वा-निशम्य पल्ल्याः -यज्ञवाटकाधिपतेः सोमदेव• पुरोहितस्य, तस्यैव वा मुनेरिति गम्यते, भद्राया-भद्राभिधानायाः सुभाषितानि सूक्तानि वचनानीति योज्यते, ऋषेः-तस्यैव तपस्विनः 'वेयावडियट्ठयाए' त्ति सूत्रत्वाद्वैयावृत्त्यार्थमेतत् प्रत्यनीकनिवारणलक्षणे प्रयोजने व्यावृत्ता भवाम इत्येवमर्थं यक्षाः, यक्षपरिवारस्य बहुत्वात् बहुवचनं, कुमारान् प्रक्रमात्तानेवोपहन्तृन विनिपातयन्तिविविधं नितरां पातयन्ति-भूमौ विलायन्ति, पठ्यते च-'विणिवारयति' त्ति विशेषेणोपहतिं कुर्वतो निराकुर्वन्ति, तथा 'ते' इति यक्षाः धोररूपा

Page Navigation
1 ... 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254 1255 1256 1257 1258 1259 1260 1261 1262 1263 1264 1265 1266 1267 1268 1269 1270 1271 1272 1273 1274 1275 1276