________________ श्रीचतुर्विशति-जिनस्तुतयः/७ " वर्तमानायामन्तिप्रत्यये नलोपे च मोमुषति चोचोरति, इति शेषः / प्राक्-पुरा। प्रभौ-जिनेश्वरे। विज्ञापयितुम-निवेदयितुम् / कौञ्चः तन्नामा पक्षिविशेषः / यस्य-जिनस्य / पदयोः चरणयोः-शरणे इत्यर्थः / अङ्कदम्भात्-अङ्कस्य केतुचिह्नस्य दम्भो व्याजोऽङ्कदम्भस्तस्मात्तथा, जगाम--ययौ, गतवानिति यावत् / किलेति निश्चये / तथेति शेषः / यस्येत्यनुषज्यते / इह-अत्र, अतिशया:--सहोत्था / देवकृता वाग्गताश्च गुणविशेषाः / माम-मा। चित्प्राप्तिसम्पत्तिभि:-चितां -ज्ञानानां प्राप्तिरेव सम्पत्तिस्ताभिः / आपोपुषति-पुनःपुनरतिशयेन आपुष्णन्तीति आङ्पूर्वकात्पुष् धातोर्यङि लु द्वित्वगुणेषु सत्सु आपोपुष् इत्यवस्थायां वर्तमानायामन्तिप्रत्यये नलोपे आपोपुषति-आवरीभ्रति / सः-तादृशः / मेघभूः-मेघभूपतिसूनुः / श्रीमान्-श्रील: / सुमतिः-तदाख्यो जिनेश्वरः / शैवम्-शिवम्मोक्षस्तस्येदं शैवम् मोक्षसम्बन्धीत्यर्थः / पदम्-स्थानम् / अभिदादयीतु-पुनःपुन-रतिशयेन वा दयतामिति दानार्थदा-धातोरभिपूर्वाद्यङि लुद्वित्वात्वेषु सत्सु अभिदादय् इत्यवस्थामाम्-प्रार्थनायां तुवि प्रत्यये ईत्वे, अभिदादयीतु-अभिसददीतु / अत्र क्रौञ्चस्य तथा विज्ञापनासम्बन्धेऽप्युक्त रतिशयोक्तिः, सा चाङ्कदम्भादित्यपह्लत्या सङ्कीर्यते // 5 // योग्यस्तेऽभिसरीस्मरीति यभिधां पद्मप्रभो स्वे मनःपद्मान्तेऽभिसरीसरीति पदवीं शैवीं समयसीम् / सौसीमेय ! मरीमरीति महता कृत्येन ते भेकवत्, ...... प्राणी सैष दरीधरीतु कमलां सौरों विभोवैभवात् // 6 // - अन्वयः - पद्मप्रभो ! योग्यः, स्वे मनःपमान्ते, ते, अभिधाम् / अभिरीस्मरीति, समश्रेयसीम्, शैवीम् पदवीम्, अभिसरीसंरीति, सौसीमेय ! महता न्येन, भेकवत, मरीमरीति, सैषः प्राणी, ते, विभोः वैभवात्, सौरीम् कमलाम् धरीतु !! _ वृत्तिः - पद्मप्रभः ! हे पद्मप्रभाख्यजिनेश्वर ! य इत्याक्षिप्यते, योग्य: यः / स्वे-स्वकीये / मनःपद्मान्ते-मनश्चित्तमन्तःकरणमिति यावत् पद्म बलमि व मनःपछ तस्यान्ते तदभ्यन्तरे, मनसीत्यर्थः / ते-तव / अभिधाम् नाम भिसरीसरीति-पुनः पुनरतिशयेन बा स्मरतीति अभिपूर्वात् स्मृधातोर्यङि. प, द्वित्वे, 'व्यञ्जनस्यानादेयुक'-४११॥४४॥ इति मलुकि 'ऋतोऽत्'-४।१।३८॥ .... P.P.AC. GunratnasuriM.S. Jun Gun Aaradhak Trust