SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ 10 श्रीचतुर्विंशति-जिनस्तुतयः वृत्तिः - असुरसुरगण:-असुरा दानवाश्च सुरा देवाश्च असुरसुराः, .. तेषां गणाः समूहास्तैस्तथा, सर्वेः सुरैरसुरैश्चेत्यर्थः / 'संघाते प्रकरौघवारनिकरव्यूहाः समूहश्च यः कूटं मण्डलचक्रवालपटलस्तोमा गणः" 6.46 / / इत्यमिधानचिन्तामणिः / अत्र यद्यपि द्वन्द्वेऽल्पस्वरत्वाद् अभ्यहितत्वाच्च सुरंशब्दस्यव प्राक् प्रयोगो युक्तः, व्यवहारोऽपि तथैव, तथापि पूर्व निपातप्रकरणस्यानित्यत्वात् समाधेयम् / यैरिति परस्थतच्छद्ववलादाक्षिप्यते, यत्तदोनित्यसम्बन्धात् / ते-तव / परा:-उत्कृष्टाः / गुणकणा:गुणानां शौर्यवीय्यौं दार्यकेवलित्वादीनां कणा लवा: गुणकणा:, अपि / शाशंस्यन्ते.-पुनः पुनरतिशयेन वा शंस्यन्ते स्तूयन्ते इति शंस्धातोर्यङि लुपि द्वित्वे अनादेलु कि, आत्वे, शाशंस् इत्यवस्थायां कर्मणि वर्तमानायामन्ते प्रत्यये क्ये "लुगस्यादेत्यपदे" 2 / 1 / 113 / / इत्यनेनाकारस्य लुकि शाशंस्यन्ते तोष्टूयन्ते / तैः-तांदृशैः सुरासुरगणैः / तव-ते भवत इति यावत् / बलात् प्रभावात् / परा:-वलवन्तः / यद्वा परा इत्युपसर्गः / द्विविधरिपव:द्विविधा आभ्यन्तरा वाह्याश्च द्विप्रकारा रिपवः शत्रवः कामक्रोधादयः / शाशंस्यन्ते-हिंसार्थात शंस धातोर्यङि लूपि कर्मणि शाशंस्यन्ते / प्रक्रिया तूक्तं व जघन्यन्ते / तथा, यः-यादृशो जनः / विरजसा विगतं रजो दुरितं यतस्तेन शुद्ध नेत्यर्थः / विविधतपसा-विविधमनेकञ्च तत्तपस्तपस्या विविधतपस्तेन तथा, अनेकप्रकारकोपवासादिव्रतेनेत्यर्थः / अङ्गम्शरीरम्-चनीस्कन्दीति-पुनः पुनरतिशयेन वा स्कन्दति शोषयतीति स्कन्द् धातोर्यङि लुपि द्वित्वे, अनादिलुगपवादत्वात् "अघोषे शिट:" 4 / 145 / / इति शिटो लुकि "कङश्चन्" 411046 / / इति. चत्वे "कञ्चस्रन्सध्वंस" 411 // 50 // इत्यादिना पूर्वस्य न्यन्तत्वे चनीस्कन्द् इत्यवस्थायां वर्तमानायां तिवि ईदागमे चनीस्कन्दीति-विशोशोषीति / इन्दुध्वज जिनपते !-इन्दु श्वन्द्रो ध्वजश्चिह्न केतुर्लाञ्छनं वा यस्य स चासौ जिनपतिजिनेश्वर इन्दुध्वज जिनपतिस्तदामन्त्रणे / सः-तादृशो जनः / अक्षयपदम्--अक्षयमविनाशि च तत्पदमास्पदमक्षयपदम् शाश्वतं मोक्षपदमित्यर्थः / चनी-- स्कन्दीतु-पुनः पुनरतिशयेन वा स्कन्दतु गच्छत्विति गत्यर्थात् स्कन्द्धातो-- र्यङि लुकि प्रार्थनायां चनीस्कन्दीतु-जङ्गमीतु / तव गुणकणस्यापि स्तुतिः शत्रून् नाशयति तदेव च तपःपूर्वकं मोक्षमपि ददाति किं पुनर्निखिलगुण-- स्तवनमिति भावः / अर्थापत्त्यलङ्कारः / / 8 / / P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust
SR No.036425
Book TitleChar Granth Sangraha - Panch Parmeshthi Gunmala - Chaturvinshati Jinstutaya - Varnakram Sukti Panchashika - Gautam Swami Charitram
Original Sutra AuthorN/A
AuthorVijaydharmdhurandharsuri
PublisherSyadvadamrut Prakashan Mandir
Publication Year1994
Total Pages145
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size98 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy