SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ श्रीचतुर्विंशति-जिनस्तुतयः/५ anana वर्तमानायां तिवि 'यतुरुस्तु'-४१३६४॥ इति ईति पनीपदीति, प्रजङ्गमीति, यश्चेत्यनुषज्यते / मार्तण्डवत्-सूर्यवत् / रोदस्योः-द्यावापृथिव्योः / दुरितध्वान्तानि-दुरितानि ध्वान्तानि तिमिराणीव, सर्यपक्षे दुरितानीव ध्वान्तानि दुष्कृततमांसि / यथा सूर्यो ध्वान्तसमुदयस्तन्तथा स दुरितवृन्दमित्यर्थः / अपनेनयीति-पुनः पुनरतिशयेन वा अपनयतीति अपपूर्वकाद् नी धातोर्यङि,लुद्वित्वयोः सतोद्वित्वपूर्वभागस्य ह्रस्वत्वे च जाते अपनिनी 'इत्यवस्थायां गुणे अपनेनी' इति जाते वर्तमानायां तिवि, ईदागमे 'नामिनो गुणो' 4 / 3 / 4 / / इति गुणे 'एदैतोऽयायः' 1 / 2 / 23 / / इत्ययादेशे अपनेनयीति दूरीचरीकरीति / सः-एतादृशः / वाजिलक्ष्मा-वाजी अश्वो लक्ष्म विह न लाञ्छनं यस्य स तथा अश्वलाञ्छन इत्यर्थः / श्रीसम्भवः, जिन: जिनेश्वरः / व:-युष्माकम् / धियम्-बुद्धिम् / 'वुद्धिर्मनीषा धिषणा धीः प्रज्ञा शेमुपीमति रित्यमरः / मोक्षस्य-मुक्तः, कैवल्यस्येत्यर्थः / उपरि-विषये / जेजयीतु-पुनःपुनरतिशयेन वा जयत्विति जिधातोर्यङि, लुब्द्वित्वगुणेषु सत्सु 'जेजि' इत्यवस्थायांम् आशिषि तुवि, ईदागमे गुणायादेशयोःसतोः जेजयीतु-उच्चरीकृषीत् / रूपकानुप्राणितोपमालङ्कारः // 'रूपकं रूपितारोपो विषये निरपह नवे' इति सा०द० // 3 // ............ द्वेधारीनभिदादयीति निजकांस्त्वन्नाम शस्त्रस्त्रिधा, * धूपाद्यानभिदादयोति यं गुरून् यो धूपसारादिवत् / पूजाय परिदादयोति पुरतस्ते भोग्यभोगांश्च यः, स ब्रह्मोपरि दादयीतु खलु तान् श्रीसांवरेयः सुखैः // 4 // अन्वयः - यः, त्रिधा, त्वन्नामशस्त्रैः, निजकान्, द्वधा, अरीन्, अभिद. योति, यश्च, धूपसारादिवत्, धूपाद्यान्, अगुरून्, अभिदादयोति, पूजाय, ते, पुरत भोग्यभोगान्, परिदादयीति, सः, श्रीसांवरेयः, खलु, सुखैः, तान्, ब्रह्मोपरि, दादयीतु / / वृत्तिः -य:-यत्प्रकारः / विधा-त्रिभ्यः प्रकारेभ्य इति विधा स्मरणकीर्तनश्रवणरूपत्रिप्रकारैरिति यावत् / त्वन्नामशस्त्रैः-तव भवतो नामाभिधानम् त्वन्नाम तदेव शस्त्रमस्त्रम्, त्वन्नामशस्त्रम् तैस्तथा भवदीयनामायुधैरित्यर्थः / निजकान् निजा आत्मीया एव निजकास्तांस्तथा / स्वार्थे कः प्रत्ययः / द्वधा-आन्तरबाह्यभेदाद् द्विप्रकारान् / अरीन्-शत्रून् अभिदादयीति-पुनःपुनरतिशयेन वा अभिदयते = P.P.AC. GunratnasuriM.S. Jun Gun Aaradhak Trust
SR No.036425
Book TitleChar Granth Sangraha - Panch Parmeshthi Gunmala - Chaturvinshati Jinstutaya - Varnakram Sukti Panchashika - Gautam Swami Charitram
Original Sutra AuthorN/A
AuthorVijaydharmdhurandharsuri
PublisherSyadvadamrut Prakashan Mandir
Publication Year1994
Total Pages145
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size98 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy