________________ ४/श्रीचतुर्विंशति-जिनस्तुतयः टवर्गत्वे प्रप्रोपोष्ट वरिभरीतु / आम्यन्तरवाह्य शत्रुविघटनद्वारा मुक्तिपोषका जायतामित्यर्थः / अत्र रिपुजयस्य सिद्धिपोषणहेतुत्वात्काव्यलिङ्गमलङ्कारः, स्वाङ्गवदित्युपमा च / 'हेतोर्वाक्यपदार्थत्वे काव्यलिङ्गं, निगद्यते” “साम्ये वाच्यमवैधर्म्य वाक्यैक्य उपमाद्वयो" रित्युभयत्र साहित्यदर्पणः // 2 // स्तोतुं यः सुपनीपनीति नवनैः श्रीसम्भवं श्रीभवं, माहात्म्यात्स पनीपदीति जिन ! ते पारं भवाम्भोनिधैः / ... रोदस्योरपनेनयीति दुरितध्वान्तानि मार्तण्डवन्, : मोक्षस्योपरि जेजयीतु स धियं वो वाजिलक्ष्मा जिनः // 3 // . अन्वयः - श्रीभवम्, श्रीसम्भवम, स्तोतुम, नवन:, यः, सुपनीपनीति जिन ! ते, माहात्म्यात्, सः, भवाम्भोनिधेः, पारम्, पनीपदीति, मार्तण्वन, रोदस्योः, दुरितध्वान्तानि, अपनेनयीति, सः, वाजिलक्ष्मा, जिनः, मोक्षस्य, उपरि, वः धियम्, जेजयीतु // ..... वृत्तिः - श्रीभवम्-भवत्युत्पद्यतेऽत्र ति भव उत्पत्तिस्थानम् श्रिया लक्ष्म्या भवः श्रीभवस्तन्तथा, श्रीदातारमित्यर्थः / श्रीसम्भवम्-श्रीसम्भवनामानन् जिनेश्वरम् / स्तोतुम्-भक्त्या शौर्यवीय्यौं दार्यगाम्भीर्य-केवलित्वादिगुणान् वर्णयितुम् / रचितैरितिशेषः। नूयते स्तूयते एभिरिति नबनानि स्तुतयस्तैस्तथा, महात्मभिः स्वयं वा कृतैः गुणादिवर्णनात्मकपद्य: सुपनीपनीति-सु-सम्यक् पुनः पुनरतिशयेन वा पनायतीति सुपूर्वकात् पन्धातोर्यङि लुद्वित्वयोः सतोः पपन् इत्यवस्थायाम् न्यागमे पनीपत् इतिजाते वर्तमानायां तिवि “यतुरुस्तोर्बहुलम्"८।३।६४।। इत्यनेन ईति पनींपनीति तोष्टवीति, यद्यप्यत्र न्यागमो न भवति, अविद्यमानात्, अदुपान्त्येभ्योऽनुनासिकान्तेभ्यो मान्तस्यैव विधानात्, एवञ्च पम्पनीतीत्येव साधु, तथापि शिष्टप्रयोगत्वात्कथञ्चित् समाधेयः / जिन ! है जिनेश्वर ! ते-भवतः / माहात्म्यात्-महिम्नः / सः पम्पनिता / भवाम्भोनिधेःअम्भांसि जलानि निधीयन्ते संस्थाप्यन्तेऽत्रेति अम्भोनिधिः समुद्रः, भवः संसार एवाम्भोनिधिः भवाम्भोनिधिस्तस्य तथा, संसारसागरस्येत्यर्थः / पारम्-पर तीरम् / पनीपदीति--पुनः पुनरतिशयेन वा पद्यते इति पद्धातोर्यङि लुब्द्वित्वयोः सतोः पपदित्यवस्थायाम् "वञ्चस्रस" / 4 / 1150 / / इति न्यागमे पनीपदिति जात P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust