SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ श्रीचतुर्विंशति-जिनस्तुतयः/३ श:-इन्द्रः / दिव्यविभूषणैः-दिवि स्वर्गे भवानि दिव्यानि-अलौकिकानीत्यर्थः, दिव्यानि, च तानि विभूषणान्यलङ्करणानि मण्डनानीति यावत, दिव्य विभूषणानि तैस्तथा, करणः / स्वाङ्ग वत्-स्वस्य निजस्य आत्मन इत्यर्थः अङ्गानि-शरीरावयवाः स्वाङ्गानि तैस्तुल्यम् स्वाङ्ग वत्-स्वशरीरावयवतुल्यमित्यर्थः / यथा तेनादराच्छोभातिशयार्थं स्वाङ्ग, विभूषित तथाद्रातिरेकादिति भावः / जगति-जगत्याम् भुवने इंति यावत् 'स्याललोको विष्टपं विश्वं भुवनं जगती जगत्" 61 / इत्यभिधानचिन्तामणिः / जिनस्याखिलोत्कृष्ट-प्रभावशालिस्वात्तः पृथिव्यामागत्यैव वोभूष्यते इति भावः / वोभूष्यते-पुनःपुनरतिशयेन वा भूष्यतेऽलक्रियते इति भूष धातोर्यङि लुपि द्वित्वे "द्वितीयतुर्ययोः"- 4 / 1 / 42 / / इति वत्वे, कर्मणि वर्तमानायामात्मनेपदे ते क्ये बोभूष्यते-आवाभ्रियते / यत्तदोनित्यसम्बन्धात् स इत्याक्षिप्य, समेन्द्रमहितः समः सर्वेः इन्द्र:-शक राजभिश्च महित: पूजितः / प्रशीर्णवृजिनः-प्रशीर्णानि विघ्वस्तानि वृजिनानि दुरितानि पापानीति यावद् येन स तथा / सकलकलुषहत्यर्थः / 'अस्त्री पकं पुमान् पाप्मा पापं किल्विषकल्मषम्। कलुषं वृजिनैनोघमंहो / दुरितदुष्कृतम् इत्यमरकोशः ।श्रीहस्त्यङ्कजिनः - श्रीलक्ष्मीस्तया सहितः श्रीसहितः स चासौ हस्ती गजः श्रीहस्ती, मयूरव्यंसकादित्वादुत्तरपदस्य पूर्वसमासीयस्य लोपः, श्रीहस्ती अङ्कश्चिह्न लाञ्छनमिति यावद् यस्य स श्रीहस्त्यङ्कः स चासो जिनोऽर्हन् श्रीहस्त्यङ्कजिन:-श्रीहस्तिकेतुजिनः / “कलङ्काको लाञ्छनञ्च चिह नं लक्ष्म च लक्षणम्" इति कोशः / अजित:-न जितः पराजितः पराभूत इति यावत् केनापीत्यजितस्तन्नामतीर्थङ्कर इत्यर्थः / सर्वतः-सर्वतोभावेन / नः अस्माकम् / सर्वान्-समस्ता आभ्यन्तराज वाह्याश्च / रिपून-शत्रून् / जेजीयात्-पुनः पुनरतिशयेन जीयादिति जिधातोर्यङि, लुब्द्वित्वगुणेषु सत्सु जेजि 'इत्यवस्थायां परस्मैपदे सप्तम्यां यात् प्रत्यये “दीर्घश्च्चि" 13 / 108 // इति दीर्घत्वे जेजीयात्परावोभूयात् / तथेति शेषः / सिद्ध्य-मुक्त्य, अणिमाद्यर्थञ्च / “अणिमा महिमा चैव लघिमा गरिमा तथा / प्राप्ति: प्राकाम्यमीशित्वं वशित्वञ्चाष्टसिद्धयः” // प्रपोपोष्ट-पुनःपुनरतिशयेन प्रपुष्यतु इति प्रपूर्वात्पुष् धातोर्यङि लुब्द्वित्वगुणेषु सत्सु प्रपोपुष् इत्यवस्थायां "विधिनिमन्त्रणाधीष्टसम्प्रश्नप्रार्थने" 5 / 4 / 28 // इत्यनेन प्रार्थनायां पञ्चम्यां तुबि विभक्ती "लघोरुपान्त्यस्य" 4 / 3 / 4 // इति गुणे "तवर्गस्यश्चवर्गष्टवर्गाभ्यां योगे चटवौं” 1 / 3 / 60 // इति P.P.AC. GunratnasuriM.S. Jun Gun Aaradhak Trust
SR No.036425
Book TitleChar Granth Sangraha - Panch Parmeshthi Gunmala - Chaturvinshati Jinstutaya - Varnakram Sukti Panchashika - Gautam Swami Charitram
Original Sutra AuthorN/A
AuthorVijaydharmdhurandharsuri
PublisherSyadvadamrut Prakashan Mandir
Publication Year1994
Total Pages145
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size98 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy