________________ * २/श्रीचतुर्विंशति-जिनस्तुतयः 'हस्वः 4 / 1 / 39 / / इति ह्रस्वत्वे च 'आगुणा'- 431142 // इत्यात्वे वर्तमानायामन्ते प्रत्यये 'लुगस्यादेव्यपदे' 4 / 1 / 39 / / इत्यकारस्य लुकि मामान्यन्ते-पोपूज्यन्ते / तथेति शेषः / ये-यत्प्रकारा जनाः / वृषभजिन-नेत्रामृतरसै:-वृषभःश्रीआदिनाथश्चासौ जिनोऽर्हन् वृषभजिनस्तस्य नेत्रे नयने वृषभजिननेत्रे तयोरमृतरसाः अमततुल्या अमरप्रख्यकारिणो रसाः वृषभजिननेत्रामृतरसास्तैस्तथा / सौम्यकृपास्निग्धावलोकनैरिति च / कृपास्निग्धत्वात्सौम्यत्वाच्य रसवदवलोकनानि यावा, तेन तथावलोकनानां विषरूप-विषयसपृति-दुःखनाशकत्वादमृतत्वमस्त्येवेति भावः / प्रपेप्रीयन्ते-पुनः पुनरतिशयेन वा प्रप्रीणन्तीति प्रपूर्वात्प्री धातोयङिः द्वित्वादिकार्ये गुणे वर्तमानायामन्ते विभक्तौ, अल्लुकि प्रपेप्रीयन्ते-अवलोलोकिताः प्रीतिमनुभवन्ति, ते-तादृशाः / युवतिभि:-रमणीभिः / विष्णु पितृवत्वेवेष्टि-व्याप्नोति जगदिति विष्णुः कृष्णः, तस्य पिता जनक: विष्णुपिता, तेन तल्यम विष्णुपितृवत्, वसुदेववदित्यर्थः, सौभाग्यगुणाधानादिति भावः / प्रपेप्रीयन्ते-तातृप्यन्ते, अहो-आश्चर्यम् / तदवलोकनस्येद्गाश्चर्यकरं सामर्थ्य मिति भावः / उपमारूपकयोः संसृष्टि: // यज्जन्मकविधौ चतुर्विधसुरैर्मोमुद्यते मेरुवच्छदिव्यविभूषणैर्जगति यो बोभूष्यते स्वाङ्गवत् / . जेजीयादजितः समेन्द्रमहितः सर्वान् रिपून सर्वतः, श्रीहस्त्यङ्कजिनः प्रशीर्णवृजिनः सिद्ध्यै प्रपोपोष्टु नः // 2 // अन्वयः-यज्जन्मैकविधौ, चतुर्विधसुरैः, मेरुवत्, मोमुद्यते, शक्रः, दिव्यविभूषणः, स्वाङ्गवत्, यः जगति, बोभूष्यते, समेन्द्रमहितः, प्रशीर्णवृजिनः, श्रीहस्त्यङ्कजिनः अजितः, सर्वतः, नः, सर्वान्, रिपून, जेजीयात्, सिद्ध्यै प्रपोपोष्टु / वृत्तिः -यज्जन्मकविधौ-यस्य जन्मात्मक: जन्मग्रहणरूप एव एकोऽनिर्वचनीयस्वरूपो बिधि:-' महोत्सवकर्म तस्मिस्तथा, यदीयजन्मग्रहणमहोत्सव इत्यर्थः / चतुर्विधसुरैः-चतुभिः प्रकारैरिति चतुर्विधाः, ते च ते सुरा देवाश्चतुर्विधसुरास्तैस्तथा-देवयक्षादिभिरित्यर्थः, मेरुवत्-मेरौ हेमाद्रौ यथा मोमुद्यते तथा मोमुद्यते-पुनः पुनरतिशयेन वा मुद्यते इति मुद् धातोर्यङि लुद्वित्वगुणेषु सत्सु कर्मणि वर्तमानायां 'तत्साप्यात्'- 3 / 3 / 21 // इत्यात्मनेपदप्रत्यये "क्यः शिबि". 3 / 4 / 60 / / इति क्ये मोमुद्यते-जाहृष्यते / तथेति शेषः / यः यत्प्रकारो जिनः / P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust