________________ साधु-भगवद्-गुणमाला/४७ शुभध्याने मित्रा अमृतपद - पुण्योधुर-धुरं-. धरा धर्माध्वाना न जिगमिषवो दुर्गतपथम् / न मार्गाच्चाल्यन्ते प्रसरदुपसगै: किमपि ये , मुनीनामेतेषां चरितममलं ही विजयते // 109 / / सौरभवत्ति:- शुभध्याने शुक्लध्याने / ये-मुनयः। मित्रा:-मित्ररूपाः / अमृतपुण्योधुरधुरन्धरा:-मोक्षपदस्य पवित्रस्य / उधुरंधुरन्धरा:-समुन्नत-धुराधारकाः / धर्माध्वाना:-धर्मस्य मार्गे गन्तारः। दुर्गतपथम्-दुर्गतमार्ग / न-नव / जिगमिषवः-गन्तुमिच्छुकाः / ये-मुनिवराः / प्रसरदुपसर्गः-प्रसरभिरुपसगै'विघ्नः मार्गात्-पथः। किमपि-मनागपि / न चाल्यन्ते-विचलिताः न क्रियन्ते / एतेषां. मुनोनाममलं चरितं ही विजयते / / 109 // // समाप्ता सध्याल्या पञ्चपरमेष्ठि-गुणमाला / / P.P.AC. GunratnasuriM.S. Jun Gun Aaradhak Trust