SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ ४६/पञ्च-परमेष्ठि-गुणमालायाम् वचो नो गुप्तं चेज्जगति कमनथं न जनयेत् ? सुगुप्तं श्रेयांसि प्रवितरति तस्माद् वशिवरैः। वचोगुप्त्या वाचं यमवचनमाधारि ननु ये3. मुनीनामेतेषां चरितममलं ही विजयते // 106 // सौरभवत्तिः - जगति-संसारे / वच:-वचनं / गुप्त-रक्षितं, संयतं / नो चेत्न भवेत् चेत् / कम्-कि रूपं / अनर्थ-अनिष्टं / न जनयेतु-नोत्पादयेत् / तदेव वचः। सुगुप्तं-सुसंयतं सत् / श्रेयांसि-भद्राणि / प्रवितरति-पूर्णतया ददाति / तस्मात्तत्कारणात् / यः वशिवर:-संयतेन्द्रियः / वचोगुप्त्या-वचनानां सत्प्रयोगेण / यमवचनम्-संयतवचनं / वाचंयम इति नाम / ननु-निश्चयेन / आधारि-आसमन्ताद अधारि-धारितम् / अस्तीति / एतेषां मुनीनाममलं चरितं ही विजयते जयवर्तत इति / / 106 // . . . . ... शरीरं स्वाधीनं नियतमशरीराय घटते , तथाऽनन्तानन्तं जनयति शरीराणि जगति / ततो गुप्त्या कामं सततमिह रक्षन्ति किल ये, मुनीनामेतेषां चरितममलं ही विजयते / / 107 // - सौरभवृत्तिः- स्वाधीनं-स्वायत्तं / शरीरं-वपुः / वस्तुतः / अशरीरायमोक्षाय / घटते-भवति / तथा-किञ्च / अस्वाधीनं शरीरं / जगति-लोके / अनन्तानन्तं-अपरिमितानि / शरीराणि-वपूंषि / जनयति-उत्पादयति / ततः-तस्मात् / येमुनिगणाः / किल-निश्चयेन / सततं-निरन्तरं। कार्य-शरीरं / गुप्त्या-कायगुप्त्या / रक्षन्ति-रक्षणं कुर्वन्ति / एतेषां मुनीनाममलं चरितं ही विजयते / / 107 / / बुभुक्षाद्यान् द्वाविंशतिमपि सहन्ते परिषहान् , प्रमृष्टा ते नूनं. परमपदसौख्यं विदधते / ततो धयं धृत्वा परिषहवलं जितमलं, मुनीनातेषां चरितममलं हो विजयते // 108 // सौरभवत्तिः- बुभुक्षाद्यान्-क्षुधाप्रभृतीन् / द्वाविंशति-द्वयुत्तर-विंशतिसंख्याकान् / परिषहान्-तन्नामक व्रतविशेषान् / सहन्ते-क्षमन्ते। ते-परिवहाः / प्रमृष्टाःसुपालिताः। नूनं-निश्चितरूपेण / परमपदसौख्यं-मोक्षसुखं / विदधते-करोति, ददाति / ततः-तस्मात् / यः-मुनिगणः / धयं-शान्ति / घृत्वा-धारयित्वा / अलं-यथास्यात् तथा / पूर्णरूपेण / परिषहबलं-परिषह-सन्यं / जितम्-विजितम् / एतेषा मुनीनां विमलं चरितं ही विजयते // 108 // P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust
SR No.036425
Book TitleChar Granth Sangraha - Panch Parmeshthi Gunmala - Chaturvinshati Jinstutaya - Varnakram Sukti Panchashika - Gautam Swami Charitram
Original Sutra AuthorN/A
AuthorVijaydharmdhurandharsuri
PublisherSyadvadamrut Prakashan Mandir
Publication Year1994
Total Pages145
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size98 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy