________________ साधुभगवद्-गुणमाला/४३ किटिभः-मत्कुणः / उपदीका-वम्री / अग्निरजकः-इन्द्रगोपः / धृतेली-पिङ्गकपिशा। यूका-पट् पदी / अमी-एते / त्रीन्द्रियजीवा: त्रीन्द्रियतया-करणत्रयतया। परिचिताःविदिताः सन्तीति शेषः / भुवि-भूमण्डले। एषां-उक्तानामेतेषां जीवानां / सुषुप्तावपि-स्वापावस्थायामपि / ये मुनयोः / अभिहननं-स्वेच्छया विघातं / च / न विदधते-नैव कुर्वन्ति / एतेषां मुनीनाममलं चरितं ही विजयते / स्पष्टमेव // 97 / / अली लालास्रावः शलभ-सरघे सा शतपदी, निमेषाद् दंशी द्रुणक-वरटे वर्षकरिका / अमन ये रक्षन्ति स्वमिव चतुरक्षान् स्वचतुरा; मुनीनामेतेषाममलचरितं ही विजयते // 98 // सौरभवृत्तिः -- ये-मुनिगणाः / अली-भ्रमरः / लालानावः-लूता। शलभःपतङ्गः / सरधा-मधुमक्षिका / शतपदी-कर्णखर्जूरिका / निमेषद्युत्-ज्योतिरिङ्गणः / दंशी-अल्पिका वनमक्षिका / द्रुणकः-वृश्चिकः / वरटा-गन्धोली। वर्षकरिका-झिल्लिका। अमून्-एतान् / चतुरक्षान्-चतुरिन्द्रियजीवान् / स्वचतुराः-स्व-निपुणाः / स्वमिवस्वात्मानमिव / रक्षन्ति-रक्षां कुर्वन्ति / एतेषां मुनीनाममलं चरितं ही विजयत'. इत्युक्तमेव // 98 // न चित्तेन घ्नन्ति क्षणमपि तिरश्चो निरयजान् , . . मनुष्यान् गीर्वाणान् जगति चतुरः पञ्चकरणान् / वचः कायाभ्यां किं पुनरकलुषा ये न परुषा , मुनीनामेतेषां चरितममलं ही विजयते // 19 // सौरभवृत्तिः- ये-मुनिवराः / तिरश्चः-पक्षिणः / निरयजान्-नारकीयान् / मनुष्यान्-मानवान् / गीर्वाणान्-देवान् / चतुरः-उक्तानेतान् चतुःसंख्यकान् / पञ्चकरणान्-पञ्चेन्द्रियान् / चित्तेन-हृदयेन / अकलुषा:-कालुष्यरहिताः। न परुषा:न च कठोराः। क्षणमपि मनसाऽपि / वचः कायाभ्यां-बाचा शरीरेण च / जगतिसंसारे न / घ्नन्ति-न हिंसन्ति / किं पुनः-अन्येषां हननविषयाणां विषये किमु वक्तव्यं ? एतेषां-ईदृशानां सर्वथा हिंसा-विरतानां मुनीनाममलं चरितं ही विजयत इत्युक्तोऽर्थः / / 99 // जिते लोभे सर्व विजितमजितं मोहफटक; गते मोहे मुक्तिः करतलगता स्यादिति विदुः / न लोभं निर्ग्रन्था हृदि निदषते लेशमपि ये, मुनीनामेतेषां चरितममलं ही विजयते // 10 // P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust