SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ ४२/पञ्च-परमेष्ठि-गुणमालायाम् तया-सावधान-भावेन / विधिवद्-यथा स्यात् तथा / अवन्ति-रक्षन्ति / एतेषी मुनीनाममलं चरितं ही विजयते / तदिति पूर्ववंदेव / / 94 / / स्वयं दक्ष-द्वयक्षाः क्वचिदपि न चैकान्तनयना, अनेकान्तक्षेण व्यवहृतिपथे यान्ति निपुणम् / सदेकाक्षाणां ये व्यथनविधितोऽत्यन्त-विरता, मुनीनामेतेषां चरितममलं ही विजयते // 95 // सौरभवत्तिः- ये-साधुगणाः। स्वयं-आत्मना / दक्ष-द्वयक्षाः-कुशल-द्विनयनाः / क्वचिदपि कुत्रापि, कस्मिन्नपि विषये। एकान्तनयना-एकान्तदृष्टिवन्तः / च / न-नव / सन्तः / अनेकान्तेक्षण-अनेकान्तनेत्रेण दृष्टया वा / व्यवहृतिपथे-व्यव. हारमार्गे। निपुणं-योग्यरूपेण / यान्ति-प्रचलन्ति / अथ च / सदा-नित्यं / एकेक्षाणां-एकेन्द्रियाणां / व्यंथनविधित:-पीडाविधाने / अत्यन्तविरता:-अत्यन्तं सर्वरूपेण / विरताः-निवृत्ताश्च / वसन्ति / एतेषां मुनीनाममलं चरितं ही विजयत इत्युक्तचरमेव // 95 // जलालोका शुक्तिः कृमिरपि धुणः कम्बुरथ वै.. हिरण्या दुर्नामा द्विकरणतया सन्ति विदिताः। अमीषां रक्षार्थ त्रिविधकरणैर्ये व्यवसिता, मनीनामेतेषां चरितममलं ही विजयते // 96 / / सौरभवृत्तिः- ये-मुनिगणाः / जलालोका-जलौकाः / शुक्तिः-जले वर्तमानः शुक्तिरूपो जीवः। कृमिः-कीटः। धुणः काष्ठभक्षकः कोटविशेषः / अपि-अथ / कम्वुः / शङ्खजीवः कपर्दिका। व-निश्चयेन / हिरण्यादुर्नामा कपर्दकः दीर्घकोशा च। एते सर्वे। द्विकरणतया-द्वीन्द्रियतया / विदिताः-प्रसिद्धाः। सन्ति-विद्यन्ते / अमीषाउक्तानामेतेषाम् / रक्षार्थ-रक्षणाय / त्रिविधकरण:-मनो-वाक-कायेन्द्रियः। व्यवसिताः-समुद्यताः / एतेषां मुनीनाममलं चरितं ही विजयत इत्यागूरितोऽर्थः / / 96 // महाभील रिक्षा किटिभ उपदीकाऽग्निरजको, घृतेली यूकाऽमी भुवि परिचितास्त्रीन्द्रियतया। . सुषप्तावप्येषां न च विदधते येऽभिहननं, .. मुनीनामेतेषां चरितममलं ही विजयते // 7 // सौरभवृत्तिः- ये-मुनिप्रवराः / महाभीरु गोपालिका। रिक्षा-लिक्षा / P.P.AC. GunratnasuriM.S. Jun Gun Aaradhak Trust
SR No.036425
Book TitleChar Granth Sangraha - Panch Parmeshthi Gunmala - Chaturvinshati Jinstutaya - Varnakram Sukti Panchashika - Gautam Swami Charitram
Original Sutra AuthorN/A
AuthorVijaydharmdhurandharsuri
PublisherSyadvadamrut Prakashan Mandir
Publication Year1994
Total Pages145
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size98 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy