________________ ४४/पञ्च-परमेष्ठि-गुणमालायाम् सौरभवृत्तिः- लोभे-लुब्धक भावे / जिते-विजिते सति / अजितं-अजेयं / मोहकटकं-मुग्धत्वसैन्यं / विजितं-जितं / भवतीति / किञ्च मोहे-मुग्धभावे / गतेनिवृत्ते सति / मुक्तिः-मोक्षः। करतलगता-स्वाधीनतां प्राप्ता स्यादिति-भंवेदिति / विदुः-आचार्याः प्रजगुः। अतो / निर्ग्रन्था:-साधवः / हृदि-स्वात्मनि / लेशमपि-स्वल्पमपि / लोभ-लुब्धभावं। ये न विदधते मुनयो न जनयन्ति / एतेषां मुनीनां निर्मलं चारित्र्यं विस्मापक सद् विजयं प्राप्नोति / / 100 / / क्षमा शस्त्रं येषां भवति न च तेषां भयमहो , कुतोऽपि भ्राजन्ते दिवि सदा ते सुयशसा / क्षमामेवं मत्वा दधति सततं ये गतरुषो , मनौनामेतेषां चरितममलं ही विजयते // 101 // सौरभवत्तिः- येषां-सत्पुरुषाणां तपस्विनाम् / क्षमा-क्षान्तिः। शस्त्रंआयुधं / भवति अहो !-अनाश्चर्यम् / तेषां च-तद्विधानां च / कुतोऽपीति / तेतादृशाः महापुरुषाः सदा-सदैव / दिवि-स्वर्गे / सुयशसा-उत्तमया कीा / भ्राजन्तेशोभन्ते / एवं-ईदृग्गुणशालिनी / क्षमा-क्षान्तिं / मत्वा-ज्ञात्वा / ये-मुनिवराः / गतरुषः-वीतकोपाः / सततं-निरन्तरं / क्षमां / दधति-धारयन्ति / एतेषां मुनीनाममलं चरितं ही विजयत इत्युक्तमेव / / 101 / / अनुपेक्षा: धा द्वयधिकदशसङ्ख्याः पुनरपि , व्रतानां स्थैर्याथं करणनयनाः शास्त्रविदिताः / चतस्रो मैत्र्याद्या. जहति न च यच्चित्तसदनं , .. .. मुनीनामेतेषां चरितममलं ही विजयते // 102 // - सौरभवतिः- द्वयधिकदशसङ्ख्याः -द्वादशप्रकारिफाः / धौ-धर्मादनपेताः / अनुप्रेक्षा:-अनित्याशरणप्रभृतयो द्वादशभावनाः / पुनरपि-पुनश्च / व्रतानांपञ्च महाव्रतानां / स्थर्यार्थ-स्थिरत्वाय / शास्त्रविदिता:-आगमेषु प्रसिद्धाः / करणनयना:-पञ्चविंशतिसंख्यका भावनाः / तथा च / मैयाद्या:-मैत्रीप्रभृतयः / चतस्रःचतुःसंख्यका भावनाः / यच्चित्तसदनं-येषां साधूनां हृदयभवनं / न जहति-न त्यजन्ति / सर्वा उपर्युक्ता भावना नव विजहति / एतेषां मुनीनां विमलं चरितं ही विजयत इति / / 102 // अमत्रं वस्त्रं वा सदुपकरण यश्च वसतिः, प्रमृज्यन्ते दृष्टया : मृदुलतरया केसरिकया / P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust