________________ - साधु भगवद्-गुणमा ला/४१ मनो जेतं कामं पवनजयिनः पावनपथा, न ये फूत्कुर्वन्ति व्यजन-भजनाच्चापि विरताः। यथा वायोः कायं नयति कुशलं यद्गतिरलं, मुनीनामेतेषां चरितममलं ही विजयते // 12 // सौरभवृत्तिः- ये साधुगणाः / पावनपथा:-पवित्रमार्गाः। पवनजयिनःवायु-विजयिनः / भूत्वा / काम-यथोचितं / मनो-मानसं / जेतुं-विजेतुं / न फूत्कुर्वन्ति-फूत्कारं-वह्निज्वालनाय मुखाद् वायुक्षेपणं न विदधति / तथा / व्यजन-भजनात्-वायोरुपलब्धये, ग्रीष्मवारणार्थ व्यजनस्य भजनात्-सेवनादपि / विरता:निवृत्ताः, वसन्ति / यथा-मन्ये, तादृशप्रकारेण / यद्गतिः-येषां प्रवृत्तिः / वायो:पवनस्य / कार्य-शरीरं / अलं-पर्याप्ततया / कुशलं-सुखं / नयति-प्रापयति / एतेषां मुनीनाममलं चरितं ही विजयत इत्युक्तमेव / / 92 / / / फलं पुष्पं मूलं त्वचमथ च काष्ठं किसलयं, सचित्तं बीजं ये न पुनरुपयुञ्जन्ति किमपि / तदेवं त्रायन्ते परिहरितकायं परिचितं, मुनीनामेतेषां चरितममलं ही विजयते // 93 / / सौरभवृत्तिः - ये-मुनिवराः / सचित्तं / फलं / पुष्प-कुसुमं / मूलं-कन्दरूपं / त्वचं-त्वग्भागं / काष्ठं / किसलयं-पत्रं / बीजं / पुनः-वा / किमपि किञ्चिदपि / ननहि / उपयुञ्जन्ति-उपयोगं कुर्वन्ति / तदेवं-तदनेन प्रकारेण स्वार्थमुपयोग-राहित्येन / परिचितं-ज्ञातं / परिहरितकायं-वनस्पति कायं / सर्वप्रकारेण / त्रायन्तेरक्षन्ति / एतेषां मुनीनाममलं चरितं ही विजयत इत्युक्तच रमेव / / 93 / / जलका-हीनाङ्गी-शलभमुखजीवायनविधी, यतन्ते ये नित्यं करणफरणानामपि हितम्। त्रसं कायं त्रासादवहिततयाऽवन्ति विधिवन्मुनीनामेतेषां चरितममलं ही विजयते // 94 // प र '9" .. सौरभवृत्तिः- जलूका-जलौकाः / हीनाङ्गी-पिपीलिका-ज्योतिरिङ्गणप्रभृतिजीवानाम् / अवनविधौ-रक्षणकर्मणि / करण-करणानाम्-पञ्चेन्द्रियाणाम् / अपि / हितम्-सुखं / विधातुं / नित्यं-सदेव / ये-मुन्त्रिप्रवराः। यतन्ते-प्रयत्नं कुवन्ति / ये च / वसं कायं-सकायं, तादृशजीवजातं / , कष्टात् / अवहित P.P.AC. GunratnasuriM.S. Jun Gun Aaradhak Trust