________________ 34/ उपाध्याय-गुणमाला उपाङ्गं तत्तूयं विलसति यदध्यापितमहो , उपाध्यायान् वन्दे विनयवशिताँस्तानभिमतान् // 72 // सौरभवत्तिः-यत्-तुरीयमुपाङ्ग 'पन्नवणा' ऽभिधया प्रसिद्ध / अत्यर्थ - विशदं अतिशयपूर्णरर्थ-विस्तृतं विद्यतेः। अथ-किञ्च / षट्त्रिंशद्-पडुत्तर-त्रिंशत्संख्यकः / पंदैः-पदविशेषः / पूर्ण-परिपूर्णमस्ति / यच्छ्र-णतः-यस्य श्रवणात् / तूर्णंशीघ्र / वृजिनं-पापम् / व्रजति-गच्छति, नश्यतीति / तत्-पन्नवणा-नामक / तुर्य चतुर्थम् / उपाङ्ग / यद्-अध्यापितं-येषां पाठनात् / विलसति-शोभते / अहो! आश्चर्यम् / तान् अंभिमतान् विनयवशितान् उपाध्यायान् वन्दे / / 72 // विनिर्णीता यत्र धुमणि-मुखजामण्डलततिः, स्वरूपं ताराणां स्तुत-नगशर-प्राभतवरे / तुरीयाङ्गोपाङ्गं तदभिरमते यन्मुखविधा-- वुपाध्यायान् वन्दे विनयवशिताँस्तानभिमतान् / / 73 // सौरभवत्तिः- यत्र-यस्मिनु / उपाङ्गे / धुमणि-मुखजामण्डलततिः-सूर्यादि मण्डलानां विस्तारः / विनिर्णीता-विशिष्य निश्चिता, वणिता विद्यते / तथा, स्तुत नग-शर-प्राभृतवरे-स्तुते-सप्तपञ्चायत्तमे प्राभृत-श्रेष्ठे / ताराणां-तारकाणां / स्व रूप-यथोक्तं रूपं / वणितमस्तीति / तत् / तुरीयाङ्गोपाङ्ग-चतुर्थाङ्गस्य उपाङ् सूर्य प्रज्ञप्ति-नामकं / यन्मुखविधौ-येषां वदनचन्द्रे / अभिरमते-शोभते / तान-तादृश गुणोपेतान् / अभिमतान विनयवशितान् उपाध्यायान् वन्दे // 73 // चतुःषष्ट्या शक्रविहितमतिभक्त्या जिनजनुमहो यस्मिन् जम्ब-प्रथम-पर-प्रज्ञप्ति-समये / अवः षष्ठोपाङ्ग विकसति यदीयास्य-किरणा दुपाध्यायान् वन्दे विनयवशितांस्तानभिमतान् / / 74 / / सौरभवत्ति:- यस्मिन्-षष्ठ उपागे / जम्बू-प्रथम-पर-प्रज्ञप्तिसमये जम्वूप्रज्ञप्ति-नाम्त्युपाङ्गे, चतुःषष्टया-चतुःषष्टि वृत्तः / शक्रः इन्द्रः। अतिभक्त्य अतिशयभक्तिभावेन | जिनजनुर्मह -जिनेश्वराणां / जनुषः-जन्मनः। महः-उत्सव: श्रीजिनेश्वर-जन्म-महोत्सवः / विहितम्-कृतम् वर्णितमस्ति / अदः-तत् / षष्ठ पाङ्ग-जम्बूद्वीपप्रज्ञप्ति-नामकमङ्ग / यदीयास्य-किरणात्-येषां वदनरूप-सूर्यर किरणात् / विकसति-विकासं प्राप्नोति / तान् अभिमतान् विनयवशितान् उप ध्यायान् वन्दे / / 74 / / P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust