________________ पञ्च-परमेष्ठि-गुणमालायाम् ||33 चम्पा-समवरणं-चम्पानगयाँ सम्पन्नं समवसरणं / जगतां-जगज्जनानाम् / एकहितदम्-सर्वात्मना हितप्रदम् / यद्-वक्ष्यमाणं / आद्योपाङ्ग-प्रथममुपाङ्गं / जयति सर्वोत्कण वर्तते / तद्-उपाङ्गं / प्रज्ञाविधिवद्-मनीषाविध्यनुसारं / ये-उपाध्यायप्रवरा: / मुग्निजनान्-साधुगणान् / अतुलं-समग्रं / आख्यान्ति-कथयन्ति / तान्उपाध्यायान् विनयवशितान् अभिमतान् वन्द इति / / 69 // : प्रदेशि-प्रश्नानां प्रतिवचनकं केशि-कथितं, द्वितीयस्मिन् यस्मिन् त्रिदशवरसूर्याभनटनम् / उपाङ्गं तद् येषां वदन - सदने नत्यतितरामुपाध्यायान् वन्दे विनयवशितांस्तानभिमतान् // 70 / / . सौरभवृत्तिः- यस्मिन्-यत्र / प्रदेशि-प्रश्नानां-प्रदेशिनामकेन भूपतिना विहितानां प्रश्नानां / केशि-कथितं-के शिगणधरभगवदभिरुत्तराणि-यस्मिन्-'रायपसेणिय'-नामके / द्वितीयस्मिन्-द्वितीयोपाङ्गे / त्रिदश-वर-सूर्याभ-नटनं-त्रिदशो देवः स एव वरः श्रेष्ठस्तेन सू भदेवाभिधेन विहितं नटनं तत्तथा / वर्णितमस्तीति / तादृशमुपाङ्ग / येषां-उपाध्याय-प्रवराणां। वदन-सदने-मुखमेव सदनं तस्मिन् / नृत्य तितराम्-अतिशयेन विराजते / तदुपाङ्गं येषां मुखे विलसति तान् विनयवशितानभिमतानुपाध्यायान् वन्दे / इति / / 70 / / यतो जीवाजीवाभिगममुपयन्त्यान्तरधना, यतो ज्ञप्तिनन्दीश्वर-विजय-देवादि-विषया / तृतीयोपानं तद् यदुदितमुदेति स्थिरधियामुपाध्यायान् वन्दे विनयवशिताँस्तान भिमतान् // 71 // सौरभवृत्तिः- यतः-यस्मात् / आन्तरधनाः-अभ्यन्तरलक्ष्मीवन्तः / महा- पुरुषा इति यावत् / जीवाजीवाभिगम-इमे जीवा इमे अजीवा इति विषयकम् / अभिगम-ज्ञानं / उपयन्ति- प्राप्नुवन्ति / यतः-यस्माच्च / नन्दीश्वर-विजयदेवादिविषया-नन्दीश्वराभिधद्वीपस्य तथा विजयदेवप्रभृतीनां / ज्ञप्तिः-ज्ञानं / लभन्त / इति यावत् / तत्-तृतीयमुपाङ्ग 'जीवाभिगम'नामकं / यदुदितं-येषां मुखात् ज्ञातं सत् / स्थिरधियाम्-सुस्थिरमतिमतां / उदेति-जाति / यदध्ययनेन पूर्वोक्तं ज्ञानमुद्भवति / तान् विनयवशितानभिमतानुपाध्यायान् वन्दे / इति // 71 // यदर्थरत्यर्थै विशदमथ षट्त्रिंशदतुलैः, पदैः पूर्ण तूर्णं व्रजति वृजिनं यच्छ्रवणतः / P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust