________________ पञ्च-परमेष्ठि-गुणमालायाम्/३५ नभः कृष्णां यस्मिन् प्रतिपदमुपादाय घटना ,. कृता घट्यादीनां गणनविशदा प्राभूतभति / विधु-प्रज्ञप्तिस्तद् यदुदितमुपाङ्गं समुदिया दुपाध्यायान् वन्दे विनयवशिताँस्तानभिमतान् / / 75 // सौरभवृत्तिः - यस्मिन् पञ्चाशत् प्राभृतयुक्ते सत्तम उपागे / नभ:कृष्णां-श्रावण-कृष्णपक्षमयीं / प्रतिपद-प्रति तिथि / उपादाय-आदाय / घट्यादीनांघटी-प्रभृतीनां / गणन-दिशदा-गणन्या विस्तृता / कृता-विहिता / तद्-विधु-प्रज्ञप्तिः चन्द्रप्रज्ञप्तिः। उपाङ्गं / यत्-यः, उदितम्-उक्तम् / समुदियात्-उदयं प्राप्नुयात् / तान् अभिमतान् विनय वशितान् उपाध्यायान् वन्दे / / 75 // कलि कृत्वा कालादिक-दश कुंमारा निरयकं, गतास्तद् वृत्तान्तं स्फुटमचकथद् यत्र भगवान् / मुखाद येषां तद् वै श्रवणमधिगत्यामृतमिता, उपाध्यायान् वन्दे विनयवशितांस्तानभिमतान् / / 76 / / सौरभवत्तिः- यत्र-यस्मिन् / उपाङ्गे / भगवान्-परमात्मा / कालादिकदश कुमारा:-'काल' प्रभृतयो दश संख्यकाः कुमाराः / कलि-व लहं / कृत्वा-विधाय / निरयकं नरकं / गताः-याताः / तद्-वृत्तान्तं-तेषां वृत्तजातं / स्फुट-यथातथम् / अचकथत्-कथितवान् / येषां-उपाध्याय प्रवराणां / मुखात्-आननात् / श्रवणम्आकर्णनं / अधिगत्य-प्राप्यः / अमृतम्-अमरत्वं। इता:-श्रितवन्तः / तान् अभिमतान् विनयवशितान् उपाध्यायान् वन्दे / / 76 // श्रिता यस्मिन् पद्मादिक-दशकुमाराः सुकृतिनः; धयित्वा: चारित्रं सूरपदमिता आयतिहिताः। अदोऽष्टाग्रोपानं मुनिषु नियतं ये व्यपदिश-- न्त्युपाध्यायान् वन्दे विनयवशिताँस्तानभिमतान्॥७७।। सौरभवत्तिः- यस्मिन्-नवम उपाङ्गे / पद्मादिक-दशसंख्यककुमारा:- पद्म-प्रभृतयो दशसंख्यकाः कुमारा: / सुकृतिनः-पुण्यशालिनः / आयतिहिताः-सौभाग्याय समुचिताः। चारित्रं-चारित्र्यं / श्रयित्वा-नीत्वा / सुरपद-स्वर्गलोकम् / इता:-प्राप्ताः / इति कथा यत्र-ता-वणिता / अदः-तत् / अष्टाग्रोपाग-नवमः मुपाङ्गं / ये-उपाध्यायप्रवराः।. मुनिषु-साधुजनेषु, स्वविनेयेषु / नियतं-सर्वदा / व्युपदिशन्ति-विशिष्टरूपेण / उपदिशन्ति / तान् अभिमतान् विनयवशितान् उपाध्यायान् वन्दे / / 77 // PatanAmmon P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust