SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ पञ्च-परमेष्ठि-गुणमालायाम् /29 सौरभवृत्तिः- यत्र-बुद्धिविषयीभूते आचारागे / आगमवरे-आगमश्रेष्ठे / श्रुतस्कन्धी-श्रुतस्कन्धद्वयम् / यत्र पञ्चविंशत्यध्ययनानि, अष्टादशसहस्र-पदानि च सन्ति / अध्ययन-गणना-अध्ययनसंख्या अध्ययनानीति यात् / वाचकगुणा:-वाचकस्योपाध्यायस्य गुणास्तथा। नवद्विः-दशशतपदानि-अष्टादश-सहस्रपदानि / आगमवरे-श्रुतश्रेष्ठे, आचाराने / गजन्ते-शोभन्ते / तद्-आचाराङ्गं / ये-उपाध्यायाः / वाचनविधौ-वाचनाया विधौ-विधाने / समभिदधते-कथयन्ति / तान्-विनयेन, वशिनान्-वशङ्गतान् / अभिमतान्-स्वेष्टान् / उपाध्यायान्-वाचकान् / वन्दे-प्रणमामि / 58 // श्रुतस्कन्धाभ्यां यद् विलसति विशिष्टाध्ययनकस्त्रयोविंशत्याऽपि द्विगुणपदसंख्यः प्रथमतः / द्वितीयाङ्गं तद् वै मधुरवचसा गीतमचिरादुपाध्यायान् वन्दे विनयवशितांस्तानभिमतान् // 59 // सौरभवत्तिः- यद्-द्वितीयाङ्ग। श्रुतस्कन्धाभ्यां-आगमस्थ स्कन्धाभ्यां ! प्रयोविंशत्या विशिष्टाध्ययनकैः / त्रयोविंशतिसंख्य कविशिष्ट रध्ययनस्तथा। प्रथमतःपूर्वापेक्षया / द्विगुणितसंख्यः-पत्रिशत्सहस्रसंख्यकः / पदैरपि-यथा स्यात् तथा। विलसति-शोभते / तद् द्वितीयाङ्ग-सूत्रकृताङ्ग / यःवाचकप्रवराः / मधुरवचसासुमधुरर्वचोभिः / गीतम्-श्रावितम्, अस्तीति / अचिरात्-तत्कालं / तान्-प्रोक्तगुणगणलसितान् / उपाध्यायान्-वाचक-प्रवरान् / विनय-वशितान्-दिनयेन वशीभूतान् / अभिमतान्-ममेष्टरूपान् / वन्दे-प्रणमामीति // 59 // गहीत्वाऽऽद्यां संख्यां दशपरिमितायां बहुविधाः, पदार्याः स्थाप्यन्तेऽध्ययनदशतो यत्र समये / नयन्त्येतत् सूत्रं सविधि विशदं ये 'मुनिवरानुपाध्यायान् वन्दे विनयवशितांस्तानभिमतान् / / 60 // सौरभवत्तिः- अध्ययनदशतः-दशभ्योऽध्ययनेभ्यः / आद्यां प्रारम्भिको / संख्यां-गणनां / गृहीत्वा-नीत्वा / दशपरिमितायां-दशसंख्यां यावत्, एकतो दशपर्यन्तं / बहुविधा:-अनेके / पदार्थाः-विषयाः। स्थाप्यन्ते-विहिताः सन्तीति / एतत्स्थानाङ्ग सूत्रं / सविधि-विधिपूर्वकं / विशदं स्पष्टरीत्या / ये-वाचकाः। मुनिवरान् ग्राहयन्ति-ददति / तान्: प्रोक्तगुणलसितान् विनयवशितान् उपाध्यायान् अभिमतान् वन्दे / इति पूर्वनिगदितमेव / / 60 / / .... ... P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust
SR No.036425
Book TitleChar Granth Sangraha - Panch Parmeshthi Gunmala - Chaturvinshati Jinstutaya - Varnakram Sukti Panchashika - Gautam Swami Charitram
Original Sutra AuthorN/A
AuthorVijaydharmdhurandharsuri
PublisherSyadvadamrut Prakashan Mandir
Publication Year1994
Total Pages145
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size98 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy