SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ __३०/उपाध्याय-गुणमाला शतं संख्या यावद विविध-समवायो विजयते , पदानां स्थानाङ्गाद् द्विगुणिततया यत्र गणितम् / तदङ्गं तुर्यं यद्वद्वदनकमले भृङ्गतितरामुपाध्यायान् वन्दे विनयवशितांस्तानभिमतान् // 6 // सौरभवृत्तिः- शतं संख्या:-शतमिताः / संख्या:-गणनाः / यावत् / विविधसमवायो-नकेषां पदार्थानाम् / समवायो-समुदायो / विजयते-जयं प्राप्नोति / तथा / यत्र-यस्मिन् / पदानां संख्या-पद संख्या / स्थानाङ्गात्-तन्नामक-सूत्रापेक्षया / द्विगुणिततया-द्विगुणिता / चतुश्चत्वारिंशत्सहस्रोत्तरंकलक्षमिता पदानां संख्या विद्यत इति / तच्चतुर्थमङ्ग तुर्य-चतुर्थम् / 'समवायाङ्ग'। येपा-वाचकवराणां / वदन-कमले-मुखारविन्दे / भृङ्गतितराम्-अतिशयेन भृङ्गमिवाचरति / तानभिमतान् विनयेन वशङ्गतानुपाध्यायान् वन्दे, इति सुलभोऽर्थः // 61 // अनन्तैरथैर्यत सुनय-गम-भः परिगतं , शतानां चत्वारिंशदतिविमला यत्र घटना / प्रथन्तेऽङ्गं तद् ये मुनिवर-समूहे भगवतीमुपाध्यायान् वन्दे विनयवशितांस्तानभिमतान् // 62 / / सौरभवत्तिः- यत्-अङ्ग / अनन्तः-अगणितैः / अर्थः पदार्थः / सुनय-गमभङ्गः-नयः, गम भङ्गश्च, परिगतं-युक्तमस्ति / यत्र-यस्मिन् अङ्ग विशेषे / शतानां चत्वारिंशद्-चत्वारिंशत् संख्यक-शतकानां / अतिविमला-परम निर्मला / घटनारचना / विद्यते, तद् भगवतीनाम्ना प्रथितमङ्ग। ये-वाचकवराः / मुनिवरसमुहे श्रेष्ठमुनीनां / समूहे-समवाये / प्रथन्ते-विस्तारयन्ति / तान् विनयवरितान् अभिमतान् उपाध्यायान् वन्दे / इत्युक्त एवार्थः / / 62 / / श्रुतस्कन्धौ यत्र प्रविलसत ' आद्ये नवदश , कथा अन्त्ये धा अपि दशमितास्तास्ततगुणाः। अहो! ज्ञाताङ्गं ये विनयिनि विवृण्वन्ति विबुधा , उपाध्यायान् वन्दे विनयवशितांस्तानभिमतान् // 63 // सौरभवृत्तिः- यत्र-यस्मिन् / द्वौ। श्रुतस्कन्धौ / प्रविलसतः-विराजेते / तत्र आद्य-प्रथमे / नवदश-एकोनविंशतिमिताः / कथाः सन्ति / द्वितीये चान्त्येश्रुतस्कन्धे / दशमिता:-दशसयाकाः / कथा राजन्ते / ता:-कथाः / ततगुणाःविस्तृतगुणमण्डिताः / धाः धर्मपोषिकाश्च / विद्यन्ते / तत्-'ज्ञाताधर्म-कथाङ्ग, P.P.AC. GunratnasuriM.S. Jun Gun Aaradhak Trust
SR No.036425
Book TitleChar Granth Sangraha - Panch Parmeshthi Gunmala - Chaturvinshati Jinstutaya - Varnakram Sukti Panchashika - Gautam Swami Charitram
Original Sutra AuthorN/A
AuthorVijaydharmdhurandharsuri
PublisherSyadvadamrut Prakashan Mandir
Publication Year1994
Total Pages145
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size98 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy