________________ २८/उपाध्याय-गुणमाला वचोगुप्ति नित्यं सविधि परिरक्षन्ति सुधियः , स्तुवे तानाचार्यान् प्रवरवशिनश्चारुचरितान् // 56 // सौरभवृत्तिः- अक्षरचणा:-कुशलाक्षराः / ये-बुद्धिविषया आचार्यवराः / यथायोगम्-योगानुसारम् / संज्ञाम्-आहारादिसंज्ञाम् / परिहाय-सन्त्यज्य / इहलोके / विमलवचनम्-सर्वप्राणिहितं विशुद्ध वचः / अथवा / मौनम्-वाचंयमत्वम् / समालम्बन्ते-समाश्रयन्ति / (अथ च ये) सुधियः-मनीषिणः / नित्यम्-सततम् / सविधि-यथाविधानम् / वचोगुप्तिम्-आर्हतप्रसिद्धाम् / परिरक्षन्ति-सर्वतोभावेन पालयन्ति / प्रवरवशिनश्चारुचरितान् तान् आचार्यान् स्तुवे इति व्याख्यातं द्रष्टव्य तुरीयपादवाक्यम् // 56 // प्रसङ्ग क्रूरस्यातुलितमुपसर्गस्य पतिते , प्रथन्ते ये ध्यानं वपुरथ समुत्सृज्य रुचिरम् / तन गुप्तिर्येषामभिमतफला कल्पलतिका , स्तुवे तानाचार्यान् प्रवरवशिनश्चारुचरितान् / / 57 // सौरभवत्तिः- अतुलितम्-तुलनातीतं यथास्यात्तथा। ऋरस्य-नृशंसस्य तत्सम्बन्धि न इति यावत्.। उपसर्गस्य प्रसङ्गे-अवसरे / पतिते-सम्प्राप्ते। सतीति शेषः / ये वुद्धिविषया आचार्याः / वपुः समुत्सृज्य-कायोत्सगंमाधाय / अथ-अनन्त रम्। रुचिरम्-मनोहरम् / ध्यानम्-एकाग्रतया शुक्लादिध्यानम् / प्रथन्ते-विस्तारयन्ति येषाम्-बुद्धिविषयाणामाचार्याणाम् / तनूगुप्तिः-कायगुप्तिः। अभिमतफला-अभिमत मभिलाषास्पदं फलं यस्याः सा तथा / अभिमतफलदायिनीति यावत् / कल्पल तिका कल्पलतारूपा। अस्तीति शेषः / प्रवरवशिनश्चारुचरितान् तान् आचार्यान स्तुवे / / 57 // अथोपाध्याय-गुणमाला श्रुतस्कन्धों यत्राध्ययनगणनावाचकगुणा , नवद्वी राजन्ते दशशतपदान्यागमवरै / तदाचारानं ये समभिदधत बाचन-विधावुपाध्यायान् वन्दे विनयवशिताँस्तानभिमतान् // 58 // P.P.AC. GunratnasuriM.S. Jun Gun Aaradhak Trust