________________ पञ्च-परमेष्ठि-गुणमालायाम् 27 यन्नि / प्रवरवशिनश्चारुचरितान् तान् आचार्यान् स्तुवे इति चतुर्थपादान्वयोऽवगतार्थः / / 53 // मलं मत्रं चान्यत् किमपि सविवेकेन मनसा , विमञ्चन्ति स्थाने विविध-विधजीवविरहिते। अहो ! ये रक्षन्ति प्रकट - लसदुत्सर्गसमिति , स्तुवे तानाचार्यान् प्रवरवशिनश्चारुचरितान् // 54 // सौरभवृत्तिः- मलम्-पुरीपम् / मूत्रम्-प्रनावम् / च-पुनः / अन्यत्अपरम् / किमपि-किञ्चिदपि / वस्त्विति शेषः। सविवेके न-विवेककलितेन / मनसा-चेतसा / विवेकमाधायेति-पदद्वयस्यार्थः / विविधविधजीवः-अनेकप्रकारप्राणिभिः / विरहिते-शून्ये / यत्र कोऽपि जीवो न तिष्ठतीति यावत्, तादृशे इति भावः / स्थाने-भूमौ / विमुञ्चन्ति-त्यजन्ति / अहो! -आश्चर्य। ये-बुद्धिविषयाआचार्याः / प्रकट-ल सदुत्सर्ग समिति म्-प्रकटं लसन्ती या उत्सर्गसमितिस्तां तथा, रक्षन्ति-पालयन्ति / प्रवरवशिनरचारुचरितान् तान् आचार्यान् स्तुवे इत्यवगतार्थः // 54 // मनोमीनो येषां प्रथितविभवो वौत-वजिनो , दिकल्पानां जाले पतति न पराभूतिभवने / मनोगुप्त्या गुप्तो विलसति समाधौ जलनिधौ , स्तुवे तानाचार्यान् प्रवरवशिनश्चारुचरितान् // 55 // ___ सौरभवृत्तिः-प्रथितविभवः-प्रथितः प्रसिद्धो विभव ऐश्वर्य यस्य स तथा / "विभवो रे मोक्षश्वर्य" इति मेदिनी / वीत वृजिनः-वीतं विशेषेणेतं गतं वृजिनं पापं यस्मात्-स तथा / येषाम् -बुद्धिविषयाणामाचार्याणाम् / मनोमोनः-मनोऽन्तः करणमेव मानो मत्स्यन्तथा। पराभूतिभवने-पराभूतेः पराभवस्य भवनं सदनम्, समुत्पादकमिति यावत् पराभूतिभवनन्तस्मात्तथा / विकल्पानाम्-सन्दिग्धविचारणानाम् / जाले-आनाये / “जालं तु गवाक्षे क्षारके गणे / दम्मानाययोश्च" इत्यनेकार्थः / न-नहि / पतति-निपतति / (किन्तु) मनोगुप्त्या प्रसिद्धया। समार्धाजलनिधी समाधिरूपसमुद्रे गुप्तः तिरोहितः / विलसति-शोभतेत राम् / प्रवरवशिनश्चारुचरितान् तान् आचार्यान् स्तुवे इति व्याख्यातमेव चतुर्थपाद-वाक्यमवसेयम् / रूपकालङ्कारः / / 55 / / ययायोगं संज्ञामिह हि परिहायाक्षरचणाः, ... समालम्बन्ते ये विमलवचनं मौनमयवा / / P.P.AC. GunratnasuriM.S. Jun Gun Aaradhak Trust