________________ २६/आचार्यगुणमाला सौरभवत्तिः - इह-अस्मिन् / अवनितले-भूतले। अवद्यत्यागेन-ग_परिवर्जनेन / अनवद्यमिति यावत् / "निकृष्टमणकं गोमवा" 6178 // इत्यभिधानचिन्तामणिः। अमितजनसमुल्लासि-अपरिमितलोकमानसोल्लास दम् / मितम्परिमितम् / सत्यम्-तथ्यम् / अपि-खलु / प्रियप्राय म्-बाहुल्येनाभिमतम् / “हित मनोहारि च दुर्लभं वचः" इत्युक्त्या प्रायपदमित्यनुसन्धेयम् / वचनम्-३चः / वदन्तः-निगदन्तः / ये-बुद्धिविषयाः / वाचंयमवराः-वाचं यच्छन्ति-नियमयन्तीति वाचंयमाः श्रमणास्ते च ते वराः श्रेष्ठास्तथा / भाषासमितिम्-दधाना: धारयन्तः / विराजन्त इति शेषः / प्रवरवशिनश्चारुचरितान् तान् आचार्यान् स्तुवे इति निगदितार्थः / / 51 / / . . . द्विचत्वारिंशद्गोचर - चरणदोषविरहितं, विशुद्ध भिक्षाया अशनमखमादाय समिती / तृतीयस्यां येषां विलसति मनो निजित रसं , स्तुवे तानाचार्यान् प्रवरवशिनश्चारुचरितान् / / 52 / / सौरभवत्ति:-द्विचत्वारिंशद् गोचरचरणदीप:-द्वाचत्वारिंशत्संख्याक गोचर गतदूपणः / विरहितम्-परित्यक्तम् / (अत एव) विशुद्धम्-सुपवित्रम् / भिक्षाय' मुखम् / अन्नजलादिकम् / आदाय-गृहीत्वा / तृतीयस्याम्-तृतीयायाम् / समित अशनएषणाख्यायाम् / स्थितानामिति शेषः / येषाम्-बुद्धिविपचाणामाचार्याणाम् निजितरसम् / निजितो रमो विस्वादो येन तत्तथा।"रमः स्वादे जले वीर्य शृङ् रादौ विषे द्रवे" / इत्यनेकार्थः / मनः-अन्तःकरणम् / विलसति-शोभते / प्रवरशिनश्चारुचरितान् तान् आचार्यान् स्तुवे / / 52 / / मनोयोगं दत्त्वा विमलविधिना वीक्ष्य विशदं, समादानक्षेगावुपकरणमुख्यस्य - ' दधते / तुरीयां ये विज्ञाः समितिमिति रक्षन्ति नितरां , स्तुवे तानाचार्यान् प्रवरवशिनश्चारुचरितान् / / 53 // सौरभवत्तिः- मनोयोगं दत्त्वा-अन्तःकरणेन विचार्य / विमलविधि विमलो-निर्मलश्चासा विधिः प्रकारो विमलविधिस्तेन तथा। विशद म्-समुज्ड यथा स्यातथा / वीक्ष्य-समवलोक्य / उपकरण-मुख्यस्य-वस्त्रपात्र छुपकरणस समादानक्षेपो-ग्रहणत्यागौ / दधते-धारयन्ति / वस्त्रादिषु यदेव यावदेव सप्रय तदेव तावदेव गृह णन्ति त्यजन्ति पुनरन्य दितिभावः / इति इत्थम् / ये-बुद्धिवि आचार्याः / तुरीयाम्-चतुर्थाम् / समितिम् / नितराम्-अत्यन्तम् / रक्षन्ति-- P.P.AC. GunratnasuriM.S. Jun Gun Aaradhak Trust