________________ पञ्च-परमेष्ठि-गुणमालायाम्/२३ इति ज्ञात्वा सुज्ञाः किमपि परिगृह्णन्ति न च ये , स्तुवे तानाचार्यान् प्रवरवशिनश्चारुचरितान् // 44 / / सौरभवत्तिः - हतका:-लोभादिसमाकृष्टतया-विन्नाटा: / जनाः-साधारणमनुजाः / परवशतया-पराधीनतया / मू म्-मोहम् / श्रित्वा-समासेव्य / प्रतिपलम्-पतिक्षणम् / परमतनुतापम्-परमो महान् तनुतापः शरीरज्वलनं यस्मिन् स परमतनुतापस्तन्तथा / सन्तापम् संज्वरम् / “सन्तापः संज्वरः समौ"-इत्यमरः / हन्त ! खेदार्थवमव्ययम् / इति पूर्वोक्तम् / ज्ञात्वा-विज्ञाय / ये-बुद्धिविषया: / सुज्ञाः-सृष्ठुजानन्ति पदार्थतत्त्वमिति तथा / विमपि-अशनीयं पेयं कुप्यमकुप्यं वा किञ्चित् / न च-नहि / परिगृह्णन्ति-आददति / प्रवरवशिनः चारचरितान् तान् आचार्यान् स्तुवे इति निगदितार्थः / / 44 / / गृहीत्वा सद्भावं जिनवरवचोऽधीत्य विधिना , विशुद्धार्थान् भव्यान् समवगमयन्त्यश्रममहो / शुचिज्ञानाचारे नियतमतयो ये श्रुतधना:, स्तुवे तानाचार्यान् प्रवरवशिनश्चारुचरितान् // 45 // सौरभवत्तिः - शुचिज्ञानाचारे-विशुद्धज्ञानोपार्जन-व्यवसाये / नियतमतयःदृढ सङ्कल्पाः / श्रुतधनाः-श्रुतानि शास्त्राणि एव धनानि विभवा येपान्ते तथा / येबुद्धिविषयाः-आचार्याः / सद्भावम्-सन् शोभनश्चासौ भावो भावना सद्भावस्तन्तथा गृहीत्वा-आदाय, चमत्कारिणमाशयं मनसि कृत्येति यावत् / विधिना शास्त्रोक्तप्रकारेण / जिनवरवचः-त्रिपदीसमुद्भूतकल्पसूत्राद्यागमम् / अधीत्य-पठित्वा। अश्रमम्-अनायासं यथा स्यात्तथा / भव्यान्-मोक्षगमनयोग्य-भविकजीवान् / विशुद्धा न्-विशुद्धा मोक्षोपयोगित्वेन दोषरहिताश्च तेऽर्था विषया अभिधेयाः, वस्तुनिप्रयोजनानि वा विशुद्धार्थास्तांस्तथा / "अर्थो विपयार्थनयोर्धन कारणवस्तुपु / अभि धेये च शब्दानां निवृत्तौ च प्रयोजने" इति मेदिनी। समवगमयन्ति-अवबोधयन्ति / = अहो-आश्चर्ये / प्रवरवशिनश्चारुचरितान् तान् आचार्यान् स्तुवे-इत्युक्तार्थः / / 45 / / प्रकारैरष्टाभिनियतमिह ये दर्शनचणा, वपन्ते सद्बोधि भविकजनकेदार, निचये / यतोऽर्हत्साम्राज्यं जयति जगति ख्यातमहिम , स्तुवे तानाचार्यान् प्रवरवशिनश्चारुचरितान् / / 46 // सौरभवत्तिः- दर्शनचणाः-दर्शनेन रत्नत्रितयमध्यमेन ज्ञानेन वा वित्तास्तथा / "तेन वित्ते चञ्चुचणी" 7 // 1 // 175 // इत्यनेन चणः प्रत्ययः / ये-बुद्धि P.P.AC. GunratnasuriM.S. Jun Gun Aaradhak Trust