________________ २२/आचार्य गुणमाला 42 / / 3 . जन:-प्रत्ययमति ऋतम् तत्तथा / तथ्यम्-तथा साध्विति तथ्यम्, तत्तथा / पथ्यम् पथो मार्गादनपेतं पथ्यम्, तत्तथा / विदधते-कुर्वन्ति / प्रवरवशिनश्चारुचरितान् तार आचार्यान् स्तुवे // 41 // चतुर्भदै भिन्न प्रथितमिह शास्त्रे प्रशमिनामधोशा येऽदत्तं सुलभमपि नेच्छन्ति किमपि। स्वयं सर्वा सम्पद् भवति यदधीना परवशा , स्तुवे तानाचार्यान् प्रवरवशिनश्चारुचरितान् / / 42 / / सौरभवृत्तिः- प्रशमिनाम्-प्रशमः प्रकृष्टः शमोऽस्त्येषामिति प्रशमिन मुनयस्तेषान्तथा / अधीशाः-स्वामिनः / ये-बुद्धिविषयाः आचार्य प्रवराः। इह अस्मिन् लोके इति यावत् / शास्त्रे-जिनागमे / चतुर्भेदैभिन्न-प्रथितम् प्रकार चतुष्ट येन पृथक्तया प्रमिद्धम् / अदत्तम् अनर्पितम् / सुलभम्-सुखेन लाधु योग्यम् / अपि खलु / किमपि-किञ्चित् / वस्त्विति-शेपः / न-नहि / इच्छन्ति-अभिलषन्ति / सवा समस्ता / सम्पत्-कुप्याकुप्याणिमादिसम्पत्तिः। परवशा-परतन्त्रा। सतीसि शेषः स्वयम्-आत्मनैव / यदधीना-यदायत्ता / भवति-जायते / प्रवरवशिनचारुचरिता तान् आचार्यान् स्तुवे // 42 // स्मरं मार मारं विदधति न ये ऽब्रह्मकलुषं , तिरश्चीनं हीनं दिविजमथ मानुष्यकमलम् / परब्रह्मासीनाः पथि परपदे लीन मनसः , स्तुवे तानाचार्यान प्रवरवशिनश्चारुचरिताम् // 43 // सौरभवृत्तिः-- परब्रह्मासीना:-पर मुत्कृष्टं च-तद्ब्रह्म-परब्रह्म, सत्रासीना एतदाहित-चेतसः परमात्मध्यानारूढा इति यावत् / परपदे-पर मुत्तमं, पदमास्प: यस्मिंस्तस्मिंस्तथा / पथि-मागें / मोक्षमार्गे इति यावत् / लोनमनस:-लीनं निमग्न मनोऽन्तःकरणं येषां ते तथा / ये बुद्धिविषयाः सूरीश्वराः। स्मरम्"मदनम् / मार मारम्, निहत्य, स्ववशीकृत्येति-यावत् / हीन म्-अपकृष्टम् / अलम्-सुन्दरम् तिरश्चीनम्-पशुपश्वादिसम्बन्धजनितम् / दिविजम्-देवाङ्गनादिसम्पर्कस मुद्भूतम् अथ समुच्चये / मानुष्यकम्-मानवसम्बन्धि / कलुषम्-वरस्यावहम् / अब्रह्म-असंर मम् / न-नहि / विदधति-कुर्वन्ति / प्रवरवशिनश्चारुचरितान् तान् आचार्या स्तुवे / / 43 // जना मच्छी धित्वा परवशतया हन्त हतका , भजन्ते सन्तापं परमतनुताप प्रतिपलम् / P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust