SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ पञ्च-परमेष्ठि-गुणमालायाम्/२१ दूरीकरोतीति यावत् / सुकृतकरणे-पुण्याचरणे / अशोभनतमम्-अतिदुष्टम् , महानर्थप्रयोजकमिति यावत् / संस्तोभम्-प्रतिरोधक म्, प्रतिवन्धक मिति यावत् / विधत्तेकुरुते, आपादयतीति यावत् / सः-लोभः / कथमपि-केनापि प्रकारेण, महताऽपि प्रयासेनेति यावत् / येषाम्-बुद्धिविषयाणाम् आचार्याणाम् / अन्तः-हृदये / न-नहि / प्रविशति-अवतरति / प्रवरवशिनश्चारुचरितान् तान् आचार्यान् स्तुवे / / 39 // सुसूक्ष्म स्थले वा त्रिविधकरणः प्राणिनिवहे , ऽतिपातं प्राणानां किमपि न हि तन्वन्ति कुहचित् / दयाया दारिद्रयं विदधति विदुर सपदि ये , स्तुवे तानाचार्यान् प्रवरवशिनश्चारुचरितान् // 40 // सौरभवत्ति - ये बुद्धिविषया आचार्याः / सुसूक्ष्मे-अत्यन्तश्लक्ष्णे. एकेन्द्रिय | इति यावत् / "सूक्ष्मं पुनः श्लर्ण च पेलवम्" // 6 // 33 / / इत्यभिधानचिन्ता मणिः / वा-अथवा / स्थूले-स्थूरे परिपुष्टाङ्गे, पञ्चेन्द्रियादाविति यावत् / प्राणिनिवहे-जीवकदम्बके / त्रिविधकरणः-त्रिविधानि त्रिप्रकाराणि च तानि करणानि मनोवाक्कायानि तैस्तथा / कुहचित्-कुत्रापि / किमपि-किञ्चिदपि / प्राणानाम्असूनाम् / "पुंसि भूम्न्यसवः प्राणाः" इत्यमरः / अतिपातम्-अपायम्, अतिक्रमणमिति यावत् / नहि-नव / तन्वन्ति-कुर्वन्ति / दयायाः-अनुकम्पायाः कृपाया इति / यावत् / दारिद्रयम्-दुर्विधत्वम्, अभावमिति यावत् / सपदि-शीघ्रम् / विदूरम् अत्यन्तविप्रकृष्टम् / विदधति-कुर्वन्ति / तान् प्रवरवशिनश्चारुचरितान् आचार्यान् / स्तुवे / / 40 // मृषा क्रोधाल्लोभाद् भयत उत हास्यादपि सकृन्न भाषन्ते सन्तो गुणिनि विलसन्तोऽत्र भवने। ऋतं' तथ्यं पथ्यं वचनविषयं ये विदधते , स्तुवे तानाचार्यान् प्रवरवशिनश्चारुचरितान् / / 4 / / MANARNIRAM सौरभवत्तिः- क्रोधात्-कोपात् / लोभात् लिप्सातः / भयतः-भीतेः / उतअथवा / "उत प्रथवितर्कयोः / समुच्चये विकल्पे च" इत्यनेकार्थः / हास्यात्हासात् / सकृत्-एकवारम् / अपि-खलु / मृषा-मिथ्या / न-नहि / भाषन्ते-ब्रुवन्ति / अत्र-अस्मिन् / भुवने-लोके / गुणिनि-गुणशालिनि / विलसन्तः-शोभमानाः / सन्तःसज्जनाः / ये-बुद्धिविषयाः / वचनविषयम्-वाणीसम्बन्धि / ऋतम्-इयति गच्छति / 11- सदा-इति पाठा० / . P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust
SR No.036425
Book TitleChar Granth Sangraha - Panch Parmeshthi Gunmala - Chaturvinshati Jinstutaya - Varnakram Sukti Panchashika - Gautam Swami Charitram
Original Sutra AuthorN/A
AuthorVijaydharmdhurandharsuri
PublisherSyadvadamrut Prakashan Mandir
Publication Year1994
Total Pages145
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size98 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy