________________ 20 आचार्य गुणमाला यावत् / अपि-खलु / नितराम-अत्यन्तम् / निन्दन्ति-तिन स्कुर्वन्ति / वा-अथवा / कृत्ये कर्तव्ये / अकृत्ये-अकर्तव्ये / तदुभय-विषये इति यावत् / गुम्गुणम्-गुरवा-महान्तो गुणा हेयोपादेयता-प्रयोजकज्ञाना हि-यस्मात्स गुरुगुणस्तन्तथा / विशेष म्-वल. क्षण्यम् / विजहति-त्यजन्ति / कृत्याकृत्य-विवेकरहिता भवतीति यावत् / ये-बुद्धिविषयाः सूरीश्वराः। च-पुनः / त्रसितमदमाया:-त्रसिता त्रासं प्रापिता मदस्य मायाशक्तिविशेषो यस्ते तथाः / सन्त इति शेषः / न-नहि / अहङ्कुर्वन्ति-अभिमन्यन्ते, साहङ्कारा भवन्तीति यावत् / प्रवरवशिनश्चारुचरितान् तान् आचार्यान् स्तुवे / / 37 // इयं माया साक्षादसम - तमसा सद्म परमं , महामोहोन्मादान् वरितुमतिवामा प्रणयिनी / / मनो येषां तस्या विभव-निवहो न व्यथयति , स्तुवे तानाचार्यान् प्रवरवशिनश्चारुचरितान् // 38 // सौरभवृत्तिः- इयम्-प्रत्नक्षमनुभूयमाना / माया-कैतवम् / साक्षात्-प्रत्यक्षम् / असमतमसाम्-अनुपमाज्ञानान्धकाराणाम् / परमम्-कृष्टम् / सद्म-सदनम् / आश्रय इति यावत् / महामोहम्-महानतिशयितश्चासौ मोहो महामोहस्तन्तथा। कामम्-पर्याप्तम् / वरितुम्-स्वीकर्तुम् / अतिवामा-अत्यन्तं प्रतिकूला / प्रणयिनीवल्लभा। तद् पेति यावत् / येषाम्-बुद्धिविषयाणामाचार्याणाम् / मनः-अन्तःकरणम् (कर्म) तस्याः बुद्धिविषयीभूताया मायायाः। विभवनिवहः-ऐश्वर्यसमूहः / नमहि / व्यथयति-पीडयति / प्रवरवशिनश्चारुचरितान् तान् आचार्यान् स्तुवे // 38 // असौ लोभः क्षोभं दुरित-विषयं त्याजयति वै , विधत्ते संस्तोभं सुकृतकरणेऽशोभनतमम् / मुनीन्द्राणां येषां कथमपि स नान्तः प्रविशति , स्तुवे तानाचार्यान् प्रबरवशिनश्चारुचरितान् // 39 // सौरभवृत्तिः- असो-वुद्धिविषयः प्रसिद्धो वा / लोभः-लिप्सा / "लोभस्तृष्णा लिप्सा वशः स्पृहा" 3194 // इत्यभिधानचिन्तामणिः। व-निश्चयेन / दुरितविषयम्-दुरितं-पापं विषयः प्रयोजको यस्य स दुरितविषयस्तं तथा-दुरितजनितमिति यावत् / क्षोभम-विक्षोभम्, वैमनस्यमिति यावत् / त्याजयति-निवारयति, 1- महामोहं कामं जनितुमतिवामा प्रणयिनी / इति पाठान्तरम् / P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust