SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ पञ्च-परमेष्ठि-गुणमालायाम्/१७ संयतपयाः-संयमिनो गणिवराः। तत्-भित्तिमात्रव्यवहित-दम्पत्याधारभूतम् / स्थानम्-स्थलम् / जहति-त्यजन्ति / प्रवरवशिनश्चारुचरितान्; तान् आचार्यान्, स्तुवे / / 31 // सलज्ज निर्लज्ज निधुवनमतान्यङ्गनतया , स्वयेति स्मृत्वा कि व्यथयति मनोऽपि क्षणमपि / यदीयं ये लोके ननु न विकलाः सामयिकवत् , स्तुवे तानाचार्यान् प्रवरवशिनश्चारुचरितान् // 32 // सौरभवत्तिः- सलज्जम्-लज्जया त्रपया सहितं यथा स्यात्तथा, निर्लज्जम्लज्जाया निर्गतं लज्जाविरहितं यथा स्यात्तथा। अङ्गनतया-अङ्गः स्तनादिभिरवयवनंताऽङ्गनता 'स्तोकनम्रा स्तनाभ्या' मिति यावत् / तथा-तथा अथवा अङ्नायाः प्रमदाया भावोऽङ्गनता तया-तथा। विशेषास्त्वङ्गना भीरुः कामिनी कामलोचना, 'प्रमदेत्यमरः / त्वया। निधुवनम्-सुरतम् / अतानि-व्यधायि / इति-इत्थम् / स्मृत्वा-चिन्तयित्वा / अपि-खलु / यदीयम्-यत्सम्बन्धि / मनः-अन्तःकरणम् / व्यथयति-किं विकलतामनुभवति किमु ? नैवानुभवतीति यावत् / ये-बुद्धिविषया:सुरिणः। लोके-जगति / सामायिकवत्-सामयिकेन तुल्यन्तथा / "सामयिको हि पूर्वतृतीयभवे आर्द्र कुमारजीवः / तथा च तद्वत्तम् // 32 // भवादर मततृतीयेऽहं भवे कौटुम्बिककोऽभनम् / श्रीवसन्तपुरे सामयिको बन्धुमतीपतिः / / अन्येयुः सुस्थिताचार्याद् धर्म श्रुत्वा प्रियायुतः / आत्तव्रतः क्रमाज्जातो गीतार्थों गुरुसन्निधी / / रागवानेकदाऽभूवं पश्यन् बन्धुमती प्रियाम् / निजाभिप्रायमाख्याञ्च पुरस्तस्याः स्वयोषितः / / सा तु स्वशीलरक्षार्थ हित्वा प्राणान् निजान् क्षणात् गृहीतानशना शुक्ललेश्यया देवतामगात् // वीक्ष्येत्युत्पन्न-वैराग्यरङ्गोऽनशनमाश्रयम् समाधिना मृति प्राप्याऽभूवं च त्रिदशस्ततः ॥इति।। ननु निश्चयेन / न-नहि / विकला-व्यग्रमनसः भवन्तीति शेषः। प्रवरवशिनश्चारुचरितान् तान् आचार्यान् स्तुवे / इति / / P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust
SR No.036425
Book TitleChar Granth Sangraha - Panch Parmeshthi Gunmala - Chaturvinshati Jinstutaya - Varnakram Sukti Panchashika - Gautam Swami Charitram
Original Sutra AuthorN/A
AuthorVijaydharmdhurandharsuri
PublisherSyadvadamrut Prakashan Mandir
Publication Year1994
Total Pages145
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size98 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy