SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ 18 आचार्यगुणमाला .: घृतं दुग्धं भोज्यं मदन-कदनायैव नियतं , ततो भूत्वा भोज्याद् विकृतिजनकाद् दूरमनिशम् / तपस्यालीलानां कथमपि मनो नैव विकृतं , स्तुवे तानाचार्यान् प्रवरवशिनश्चारुचरितान् // 33 // सौरभवृत्तिः- भोज्यम्-भक्षणीयम् / घृतम्-नवनीतम् / दुग्धम्-क्षीरम् / नियतम्-निश्चितम् / मदनकदनाय-कामोद्रकाय / एव-खलु / भवतीति-शेषः / अतः-तस्माद् हेतोः / विकृतिजनकात्-विकारोत्पादकात् / भोज्यात्-भक्षणीयपदार्थात्-घृतदुग्धादेरिति यावत् / अनिशम्-सततम् / दूरम्-विप्रकृष्टम् / भूत्वा, स्थितानामिति शेषः / तपस्यालीलानाम्-तपोनिरतानाम् / सूरिवगणामिति शेषः / मनः-अन्तःकरणम् / कथमपि-केनापि प्रकारेण / विकृतम्-अधिगतविकारम् / नैवन खलु / भवतीति शेषः / प्रवरवशिनः चारुचरितान्, तान् आचार्यान् स्तुवे / / 33 // मितं रूक्षं भक्ष्यं तदपि विहितं शास्त्रवचनहितं तद्ग्रहणन्ति प्रभवति समाधिर्यदचिरम्। ततः कामं निघ्नन्त्यरि-निकरमन्तः सुमनसः , स्तुवे तानाचार्यान् प्रवरवशिनश्चारुचरितान् / / 34 / / सौरभवत्तिः- सुमनसः-धीरा आचार्य्याः / मितम्-परिमितम् स्वल्पमिति यावत् / रूक्षम्-घृतादिप्रयोज्यसंमृष्टतादिविरहितम् / यद्यपीति शेषः। तदपितथापि / शास्त्रवचन:-आगमसम्बन्ध्याहारादि-नियामकवाक्यः / हितम्-उपकारकम् / विहितम्-कृतम् / तत्-बुद्धिविषयीभूतम् / भक्ष्यम्-भोजनीयं वस्तु / गृह्णन्तिउपयुज्यते, उपाददत इति यावत् / यत्-यस्मात् / अचिरम्-शीघ्रम् / समाधिःएकतानतापन्नं ध्यानम् / प्रभवति-समुत्पद्यते / ततः तस्माद्ध तोः' मितरूक्षाऽऽगमविहितपथ्याऽहारोपयोगादेवेति यावत् / अन्तः-आभ्यन्तरम् / कामक्रोधादिक मिति यावत् / अरिनिकरम्-शत्रुसमूहम् / कामम्-पर्याप्तं यथास्यात्तथा। निघ्नन्ति-समूलका कषन्ति समुन्मूलयन्तीति यावत् / प्रवरवशिनश्चारुचरितान् तान् आचार्यान् स्तुवे / / 34 // कचानां संस्कारो वपुषि च2 विभषा-विरचनं, लघु-स्नानाभ्यङ्गी तनुमतनुतापां जनयतः / 1- विकृतिमिति पाठा० / 2- न इति पाठा० / P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust
SR No.036425
Book TitleChar Granth Sangraha - Panch Parmeshthi Gunmala - Chaturvinshati Jinstutaya - Varnakram Sukti Panchashika - Gautam Swami Charitram
Original Sutra AuthorN/A
AuthorVijaydharmdhurandharsuri
PublisherSyadvadamrut Prakashan Mandir
Publication Year1994
Total Pages145
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size98 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy