SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ १६/अहंद्गुणमाला तंदात्मकसूक्ष्मकालमभि व्याप्य खलु / मृगाक्षी-मृगस्य हरिणस्याक्षिणी नयने इवाक्षिणी यस्याः सा तथा / निविष्टा-उपविष्टा / भवेदिति शेषः / जितमनसिजा:विजितमदनाः / गणिन इति शेपः / जातुचित्-कदाचित् / अपि-खलु / तदवनीम् - तद्भुमिम् / क्षणमपि मृगाक्षी-समाश्रितस्थानमिति यावत् / स्थित्या-अवस्थानेन / नो-नहि / श्रयन्ते-सैवन्ते / तत्र-न तिष्ठन्तीति भावः / “अणनाम्-परमाणूनाम् / सञ्चारात्-संचरणात् / रतिः-अनुरागः / * उदयते-उत्पद्यते" तत्र-तद्विषये कृतिन विचक्षणाः सावधाना इति यावत् / चारुचरितान्-प्रवरवशिनस्तान् आचार्यान स्तुवे // 29 // स्त्रीणां यद्वत् - नरा नारीणां यद् विकृतिजननाङ्गानि नयने , निधायान्तमाहं मनसि जमथानीय विफलम् / लभन्ते सन्तापं मनसि न तथाऽलीकवितथाः, स्तुवे तानाचार्यान् प्रवरवशिनश्चारुचरितान् / / 30 // सौरभ:- नराः-पुरपाः / यद्वत्-यथा / स्त्रीणाम् नारीणाम् / विकृतिजनन / गानि-विकारजनकशरीरावयवान् / नय ने-नेत्र निधाय-संर थाप्य, कृरवेति यावत् अन्तः-हृदये। मोहम्-मूढताम् (लभन्ते) / अथ- अनन्तरम् / मनसिजम्-कामम विफलम्-व्यर्थम् / आनीय-कृत्व। / विफलकामा भवन्त इति यावत् / मनसि-चेतसि सन्तापम्-संज्वरम् / "सन्तापः संज्वर: समो" इत्यमरः। तथा-तेन प्रकारेणअलीकवितथाः-अलीकं वितथम सत्यं येषान्ते तथा / सर्वदा सत्य भाषण,निरता इति यावत् / न-नहि / लभन्ते इति शेषः / चारुचरितान्-प्रवरवशिनस्तान् आचार्यान स्तुवे // 30 // निवासो दम्पत्योर्भवति यदि कुड्यान्तरगतः , स्मरार्ता .तद्वार्ता श्रुतिपथमनभ्यासमयते / इति ज्ञात्वा स्थान जहति तदमी संयतपथाः, स्तुवे तानाचार्यान् प्रवरवशिनश्चात्चरितान् / / 31 / / सौरभः- यदि-चेत् / कुड्यान्तरगत:-केवलभित्तिव्यवहितः / दम्पत्योः. जाया च पतिश्च दम्पती तयोस्तथा / निवास:-अवस्थानम् / भवति-जायते / तत्तदा / स्मरार्ता-स्मरेण आमेनाऽऽर्ता विलन्ना रत्य भिव्यजिवे ति यावत् / वाताप्रवृत्तिः / दम्पतिभणितिरिति यावत् / अनायासम्-अनवधानेनापि। श्रुतिपथम्श्रवणगोचरताम् / अयते प्राप्नोति / इति-इदम् / ज्ञात्वा-अवगत्य / अमी-ते / P.P.AC. GunratnasuriM.S. Jun Gun Aaradhak Trust
SR No.036425
Book TitleChar Granth Sangraha - Panch Parmeshthi Gunmala - Chaturvinshati Jinstutaya - Varnakram Sukti Panchashika - Gautam Swami Charitram
Original Sutra AuthorN/A
AuthorVijaydharmdhurandharsuri
PublisherSyadvadamrut Prakashan Mandir
Publication Year1994
Total Pages145
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size98 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy