________________ पञ्च-परमेष्ठि-गुणमालायाम्/११ प्रकारम् / चित्रम्-आलेख्यम् / अलम्-पर्याप्तं / यथास्यात्तथा / उपनयेत्-प्रापयेत् / तथा तेन प्रकारेण / नाम-नामनामकं षष्ठं कर्म / भवपुरे-भवः संसार एव पुरं नगर भवपुरं तस्मिंस्तथा / आत्मानम्-जीवम् / विचित्र म्-नानाप्रकारेण / न्टयति-नर्तयति / भवमुक्त-भवात्-संसाराज्जन्मनो वा मुक्तो भवमुक्तः सिद्धस्तस्मिस्तथा। स्वरूपम्-नीरूपम्-वर्णादिरहितम् / भवति-जायते / निरुपम म्-अनुपमितम् / पदिप्रम्-विशुद्धम् / समुदितम्-समुत्पन्नम् / तत्-नीरूपं स्वरूपम् / केषाम् / जनानामिति शेषः / चित्रम्-आश्चर्य म् / न-नाहि / जनयति-समुत्पादयति / अपि तु सर्वषामिति भावः / / 20 / / .... ... . कुले जन्म - प्राप्तेर्भवति गुरुता सम्मदकरी, भवे दुवंशाप्तेरनभिजनता लाघवकरी / न गोत्रं सिद्धानामगुरु: लघुभावो भवति तां, नमो नित्य तस्मै गतगुरुलघुत्वाय महसे // 20 // सौरभः- भवे-संसारे / कुले-अभिजने-सत्कुले इति यावत् / जन्मप्राप्तेःजननाधिगमात् / सम्मदकरी-प्रमोदावहा / "मुत्प्रीतिः प्रमदो हपंः प्रमोदामोदसम्मदाः" इत्यमरः / गुरुता-गुरुत्वबुद्धिः / भवति-जायते / दुर्वशाप्तेः-दुष्कुलजन्माधिगमात् / अनभिजनता-अकुलीनता / लाघवकरी-लघुतापादिका, “अहं लघुः"इत्याकारक-लघुत्वबुद्धि-सम्पादिकेति यावत् / भवतीति शेषः / सिद्धानाम्-मुक्तानाम् / गोत्रम्-नाम, कुलञ्च / तन्त्रत्वादिति बोध्यम् / "सकृदुच्चरितस्य शब्दस्यानेकार्थ-बोधकत्वं तन्त्रत्वम्" इति स्मरणात् / “नाम गोत्रं कुल गोत्रं गोत्रश्च धरणीधरः" इति कोशः / तत्-तस्मात् / गुरुल घुभावः-गुरुताल घुत्वे / न-नहि / भवतिजायते। गतगुरुलघुत्वाय-अगुरुलघुगुणाय, गौरवलाघवर हितायेति-यावत् / महसेतेजोरूपाय / तस्मै-प्रसिद्धाय, सिद्धायेति यावत् / नित्यम्-सदा / नमः-नमस्कारः / अस्त्विति शेषः // 21 // नदानं नो लाभो लसति न च भोगोऽपि परमोपभोगोवीयं वा भव-भवनगानामभिमतम् / / धनं विघ्नं निधनं शिव-सदसि निघ्नन्ति वशिनो, लभन्ते चानन्तं वितरणमुखं... पञ्चकमहो! // 21 // सौरभः- भवभवनगानाम्-भवः-संसार एव भवनमायतनं भवभवनन्तत्रगच्छन्तीति भव-भवनगास्तेषां तथा, संसारिणामिति यावत् / अभिमतम्-अभीष्ट. मनुकूलमिति यावत् / दानम्-वितरणम् / 'न नहिं / संसारिणः-कामं न वितरीतुं P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust