________________ 10 अहंद्गुणमाला महामोहोद्रेकात् क्षणविलयि सङ्कल्पकलितं,.. सुखं दुःखाभिन्नं भवति भवभावे भवभृताम् / परं मक्ती मोहक्षयजनित आत्मानमभितः , परानन्दस्पन्दो. नियमितममन्दं रमयति // 17 // सौरभः- भवभृताम्-संसारिजीवानाम् / भवभावे-सांसारिक-स्थिती / महामोहोद्र कात्-महामोहप्राबल्यात् / क्षणविलयि-क्षणविनश्वरम्, क्षणविध्वंसीति यावत् / साल्पकलितम्-मानसिक कर्मजनितम् / "सकङ्ल्पः कर्ममानसम्" इत्यमरः, अथवा-क्षणविलयिसङ्कल्पकलितम् 'इत्येकं पदम्' तथा च-क्षणविल यो यः सङ्कल्पस्तेन कलितं तथेति व्याख्येयम् / सुखम्-शर्म / दुःखाभिन्नम्-दुःखसाभिन्नम् ,दुःखरूपमेवेति यावत् / भवति-जायते / परम्-किन्तु / मुक्ती-मोक्षस्थिती। मोहक्षयजनितःमोहात्यन्तं विनाशोद्भवतः / परानन्दस्पन्दः-महानन्द सञ्चा: / नियमितम्-निदिचतम् / अमन्दम्-अनल्पम्, सातिशयमिति यावत् / अभितः-सर्वतः / आत्मानं-चेतनम् / रमयति-क्रीडयति / परमानन्दरूपतामधिगमयतीति यादत् / / .. अघोरन्धे तिर्यग्गतिगतभवे मानवगतो, सुरेऽस्मिन् संसारे सततमटनं वै व्यवसितम् / स्थितिः स्यात सिद्धानां क्षयविरहिताऽऽयष्यविगमाद, गुण : वन्दे कान्तं -निरुपममकान्तं तमकलम् // 18 // सौरभः- अघोरन्ध्र-पाताले, नरकगताविति यावत् / तिर्यग्गतिगतभवेतिर्यग्गतौ / मानवगतौ-मनुष्यगतौ / सुरे-देवगा। (इति) / अस्मिन्-चातुगंतिके / संसारे-भवे / व-निश्चयेन / सततम्-निरन्तरम् / अटनम-भ्रमणम् / व्यवसितम्विहितम् / सिद्धानाम्-सिद्धिमितानाम् / आयुष्य विगमात्-आयुविरहितत्वात् / क्षयविरहिता-अक्षया / स्थिति:-अवस्थानम् / स्यात्-भदेत् / तम्-प्रसिद्धम् / कान्तम्मनोहरम् / अकान्तम्-दुःखविनाशक म् / निरुपम म्-अतुलनीयम् / अकलम्-निष्कलम् / गुणम्-अक्षयस्थित्यात्मकम् / वन्दे-अभिवादये // 18 // यथा चित्रं : नानाविधमुपनयेच्चित्रकृदलं , तथा नामात्मानं नटयति विचित्रं भवपुरे / स्वरूपं नीरूपं . भवति भवमुक्त ऽनुपमितं , न केषां तंच्चित्रं जनयति पवित्रं समुदितम् // 19 // सौरभः यथा-येन प्रकारेण / चित्रकृत्-आलेख्य कृत् / नानाविधम्-अनेक P.P.AC. GunratnasuriM.S. Jun Gun Aaradhak Trust