SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ १२/अर्हद्गुणमाला शक्नुवन्तीति भावः / लाभः-धनादि-प्राप्तिः / नो-नहि / लसति-शोभते / भोग'स्रक्चन्दनाङ्गानादिसेवनम् / अपि-खलु / न च-नैव / परमोपभोगः-स्वर्गादलौकिक - सुखसाक्षात्कारः। वा-अथवा। वीर्यम्-विक्रमः / न च लसतीत्युभयत्रानुबन्धनीयम् / वशिनः-स्वायत्ताः, जितेन्द्रियाः सिद्धा इति यावत् / विघ्नम्-अन्तरायकर्म / निघ्नम्-स्वायत्तं यथा स्यात्तथा / निघ्नन्ति-समूल काषं कषति, समुन्मूलयतीति यावत् / च-पुनः। शिव-सदसि-सिद्धस्थाने। अनन्तम्-अपरिमितम्, अपरिमित्कालावस्थायीति यावत् / वितरणमुखम्-दानप्रमुखम् / पञ्चक म्-दानलाभ भोगोपभोगवीर्यात्म-पञ्चनिकुरम्बम् / लभन्ते-प्राप्नुवन्ति // 22 // अथाचार्य-गुणमाला न नारीणां स्पर्श कमलदलवत्कोमलमलं; समोहन्तेऽस्वप्ने विदितकरि-कष्टा वशिवराः / सहन्ते शीतोष्णं वरणरहिता आत्मनिहिताः, स्तुवे तानाचार्यान् प्रवरवशिनश्चारुचरितान् // 22 // सौरभः- विदितकरिकष्टा:-विदितं ज्ञातं करिणां हस्तिनां कष्टं क्लेशो य येषां वा ते तथा। वशिवरा:-जितेन्द्रियश्रेष्ठाः / कमलदलवत्-शतपत्र-पत्रवत कोमलम्-सुकुमारम् / नारीणाम्-स्त्रीणाम् / स्पर्शम् / अलम्-अत्यर्थम् / स्वप्ने निद्रायाम् / अपीत्यर्थतो गम्यम् / न-नहि / समीहन्ते-कामयन्ते / आत्मनि-आत्म विषये / हिताः-उपकारकाः, स्वात्मोपस्कारका इति यावत् / वरणरहिताः-अप्रति हताः, शीतातपादि-प्रयोज्यक्लेश-त्राणापहच्छत्रोपानहादि-विरहिता इति यात् शीतोष्णम्-शीतञ्च तदुष्णञ्च शीतोष्णं तत्तथा / शैत्यमातपञ्चेति यावत् / सहारे मर्षयन्ति / चारुचरितान्-रमणीयशीलान् / प्रवर-वशिनः-प्रवरा:-श्रेष्ठायच / वशिनोऽपरतन्त्राः प्रवरवशिनस्तांस्तथा / तान्-प्रसिद्धान् / आचार्यान्-सूरिवरान् स्तुवे-स्तोमि // 23 // . .. - स्वदन्ते स्वारस्यान्नवनवरसं ये रसनया , लभन्ते सन्तापं विरसमनिशं मीनवदिमे / इति ज्ञात्वा लोल्यं विदधति न विज्ञाः कथमपि , स्तुवे तानाचार्यान् प्रवरवशिनश्चारुचरितान् // 23 // P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust
SR No.036425
Book TitleChar Granth Sangraha - Panch Parmeshthi Gunmala - Chaturvinshati Jinstutaya - Varnakram Sukti Panchashika - Gautam Swami Charitram
Original Sutra AuthorN/A
AuthorVijaydharmdhurandharsuri
PublisherSyadvadamrut Prakashan Mandir
Publication Year1994
Total Pages145
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size98 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy