SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ पञ्च-परमेष्ठि-गुणमालायाम्/९ पाठान्तरम् - वनेभः कश्चिद्वै नगरमुपयातो नृपगृहे ; स्थितो भोगान् भुक्त्वा पुनरपि वनं सत्वरमितः। वनस्थानां सोऽयं नगरसुखमुद्बोधयति यत् , परं नेष्टे तद्वत् शिवसुखमिहत्येषु न गतम् // 16 // सौरभः-व-निश्चयेन / कश्चित् / वनेभूः-वनेचर: किरातादिरिति यावत् / नगरम्-पुरम् / उपयातः उपगतः / (तत्र)-नृपगृहे-राजभवने / स्थितः / भोगान्भोज वस्तूनि / भुन्या -उभुज्य / पुनरपि-भूयः / सत्वरम्-स्वरितम् / वनम्-काननम्। इतः-प्राप्तः। सोऽयम्-किरातः / वनस्थानाम्-वनेचराणाम् / नगरसुखम्-नगरभवमानन्दम् / यत्-यस्मात् / उद्बोधयति-प्रबोधयति / परम्-किन्तु / न-नहि / ईप्टेप्रभवति / उद्बोधयितुमिति यावत् / तद्वत्-तेनैव प्रकारेण / शिवसुखम्-मोक्षानन्दः / इहत्येपु-भवस्येषु / न-नहि / गतम्-ज्ञातम् / यथा किरातो नगरमागत्य तत्रत्यं सुखमुपभुज्यापि परं न तदुबोधयितुं प्रभवति तथा भवस्था न मोक्षसुखं वेदितुं प्रभवन्तीति भावः / कथानकञ्चैवं प्रचलति - "म्लेच्छः कोऽपि महारण्ये वसति स्म निराकुलः / अन्यदा तत्र भूपालो दुष्टाश्वेन प्रवेशितः // 1 // म्लेच्छेनासा नृपो दृष्ट: सत्कृतश्च यथोचितम् / / प्रापितश्च निजं देशं सोऽपि राज्ञा निजं पुरम् // 2 // ममायमुपकारीति कृतो राज्ञातिगौरवात् / .. विशिष्ट भोगभूतीनां भाजनं जनपूजितः // 3 // ततः प्रासादशृङ्गेषु रम्येपु काननेषु च / वृतो विलासिनी-सार्थर्भुङ्क्त भोगसुखान्यसी // 4 // अन्यदा प्रावृषः प्राप्तौ मेयाडम्बर-मण्डितम् / .. व्योम दृष्ट्वा ध्वनि श्रुत्वा मेघानां स मनोहरम् // 5 // जातोत्कण्ठो दृढं जातोऽरण्यवासगमं प्रति / विसजितश्च राज्ञापि प्राप्तोऽरण्यमसौ ततः // 6 // पृच्छन्त्यरण्यवासास्तं नगरं तात . कीदृशम् / स स्वभावान् पुरः सर्वान् जानात्येव हि केवलम् // 7 // न शशाकतमां तेषां गदितं स कृतोद्यमः / वने वनेचराणां हि नास्ति सिद्धोपमा तथा // 8 // .. P.P.AC. GunratnasuriM.S. Jun Gun Aaradhak Trust
SR No.036425
Book TitleChar Granth Sangraha - Panch Parmeshthi Gunmala - Chaturvinshati Jinstutaya - Varnakram Sukti Panchashika - Gautam Swami Charitram
Original Sutra AuthorN/A
AuthorVijaydharmdhurandharsuri
PublisherSyadvadamrut Prakashan Mandir
Publication Year1994
Total Pages145
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size98 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy