________________ ८/अहंद्गुणमाला ! नस्तेषु तथा / विशेषात्-विशेषज्ञानात् / ननु-निश्चयेन / सामान्यम्-सामान्यज्ञानम भवति-उत्पद्यते / ज्ञानावरणीय-दर्शनावरणीययोरुभयोर्मध्ये प्रथम-प्रथमस्य (ज्ञानावरणीयस्य) नाशात् केवलज्ञानोत्पत्त्या सामान्याति सामान्यतयाऽपि सवलस्यादि वस्तुनो ज्ञानमुत्पद्यते इति तेषां ज्ञानोपयोगानन्तरं दर्शनोपयोगो भवतीति भावः / तमेव विषयं भङ्ग्योत्तरार्धन निदर्शयति-त्रिलोक्यास्त्रकाल्यमित्यादि / हि-निश्चयेन / अखण्डे-कवल्ये / दर्शनगुणे-विमलमुकुरे / अखण्ड-केवल-दर्शनगुणात्मनिर्मलादर्श त्रैकाल्यम्-भूतभविष्यवर्तमानतत्त्रितयकालावच्छेदेन / त्रिलोक्या:-भुवन त्रयस्य प्रतिबिम्बम्-प्रतिरूपम् / "अर्चा तु प्रतेर्मायातना निधिः प्रतिरूपम् / “अर्चा 6 प्रतेर्मा यातना निधिः / छाया छन्दः कायो रूपं बिम्बं मान-कृती अपि" 6.100 / इत्यभिधानचिन्तामणिः। नितराम्-अतिशयेन / पतति-निपतति // 14 // 1 शरीरं विध्वंसि प्रबलशतदुःखानि ददते , क्षणं नो संसारे भवति वपुषो योगविरहः / तृतीयं वेद्याख्यं दुरितमपि दुःखाय नियतं; महानन्देऽमन्दं सुखमपरतन्त्रं विलसति // 15 // . .... सौरभः- विध्वंसि-विनशनशीलम् / शरीरम्-देहम् / प्रबलशतदुःखानि प्रकृष्टं बलं सामर्थ्य येषां तानि तानि शतानि-शतसङ्ख्याकानि, दुःखानि-व्यथाः प्रवलशतदुःखानि तानि तथा / "पीडा बाधा व्यथा दुःखमामनस्यं प्रसूतिजम् इत्यमरः / ददते-ददाति / संसारे-भवपरम्परायाम् / क्षणम्-तदात्मकसूक्ष्मकालविशेष मभिव्याप्यापि / वपुषः-शरीरस्य / योगविरहः-असम्बन्धः / नो-नहि / भवति जायते / भवे सर्वदैव शरीरसम्बन्धो भवत्येवेति भावः / तृतीयम् / वेद्याख्यम्-वेद नीयम् / दुरितम्-कर्म / दुःखाय-क्लेशाय / नियतम्-निश्चितम्, नियन्त्रितमिदि यावत् / महानन्दे-मोक्षे / अमन्दम्-अनत्पम्-समधिकं यथा स्यात्तथा / अपरतन्त्रम् स्वतन्त्रम् / सुखम्-सौख्यम्, निर्वृतिरिति यावत् / विलसति-शोभते // 15 // 1- इतः परं पद्यमिदंपाठान्तरेणात्र लिखितमस्ति, परं व्याख्या नास्ति / ... शरीरं विध्वंसि प्रबलशतदुःखानि . दवते, ऽभवे नस्याभावात् स्ववश-सुखमन्तेन रहिताः। - तृतीयं वेद्याख्यं शिवसदसि कर्मैव विगतं , , .. ततस्तत्रानन्तं.,.. सुखमपरतन्त्रं - विलसति // 15 // . P.P.AC. Gunratnasuri.M.S. Jun Gun Aaradhak Trust