________________ पञ्च-परमेष्ठि-गुणमालायाम्/७ जीर्यतेऽगमनयेति जरा-विस्रसा च-आधिमानसी व्यथा च व्याधिः शरीररुजा च / जराधिव्याधयस्तेषान्तथा / अथ विससा जरा" 3 / 4 // इत्यभिधानचिन्तामणिः। "पुंस्याधिर्मानसी व्यथा" इत्यमरः / अपायानाम्-विनाशानाम् / आप्तिः-प्राप्तिः / भवति-जायते / भवान्-श्रीमांस्त्वम् / यत्-यस्माद्धेतोः / तस्याः-तादृशायप्राप्तेः / मूलम्-निदानम् / दुरितनिकरम्-पापकदम्बकम् / कपितवान्-मुन्मूलितवान् / ततःतस्मात् / अपायात् विनाशात् / मुक्तः-विरहितः अतिशयकलितः-अतिशयान्वितः / सन् / भवात्-संसारात् / रक्षतु-त्रायताम् / भविकर्मन्नितिः // 12 // २-अथ सिद्धगुणमाला निगोदेऽनन्तांशं ... प्रकटमभवज्ञानमसम, ततो व्यक्ताव्यक्तं क्रमश उदितं यद् व्यवहतौ। परं पूर्ण नासीद् भवसदसि कस्यापि किमपि , प्रसिद्धं सिद्धानां तदतुलमनन्तं विलसति // 13 // सौरभः - यत्-बुद्धिविषयीभूतम् ज्ञानम् / निगोदे-अनाद्यव्यवहारे / अनन्तांशम्-अतिसूक्ष्मम् / असमम्-निकृष्टत्वेनानुपमम् / प्रकटम्-व्यक्तम् / अभवत्-समजायत / ततः-तदनन्तरम् / क्रमशः क्रमात् / व्यवहृतौ-व्यवहारे / व्यक्ताव्यक्तम्स्फुटास्फुटम् / उदितम्-उत्पन्नम् / परम्-किन्तु / भवसदसि-संसारभवने / पूर्णम्सर्वाङ्गपरिपूर्णम् / ज्ञानमिति शेषः / कस्यापि-किमपि-कथमपि / न-नहि / आसीत्अभवत् / तत्-ज्ञानम् / अतुलम्-उत्तमत्वेनानुपमम् / अनन्तम्-पूर्णम् / सिद्धानाम्सिद्धात्मनाम् / प्रसिद्धम् / विलसति-विदोषेण शोभते / / 13 // विना सामान्यं नो प्रभवति विशेषोऽत्र कृतिनां , विशेषात सामान्यं भवति ननु सिद्धात्मसु परम् / त्रिलोक्यानकाल्यं पतति प्रतिबिम्बं हि नितरामखण्डे कैवल्ये विमलमुकुरे दर्शनगुणे // 14 // सौरभः- अत्र-लोके / कृतिनाम्-विदुषाम् / “विद्वान् कृती कविविचक्षणः 3 // 5 // इत्यभिधानचिन्तामणिः / सामान्यम्-सामान्यज्ञानम्, * निर्विकल्पकज्ञानमिति यावत्, दर्शनोपयोगमिति तु हृदयम् / विना-अन्तरेण / विशेषः-विशेषज्ञानम्, सविकल्पकमिति यावत् / ज्ञानोपयोगमिति हृदयम् / नो-नहि / प्रभवति-प्रकर्षण जायते / परम्-किन्तु / सिद्धात्मसु-सिद्धाः सिद्धभावमिता आत्मानों जीवाः सिद्धात्मा P.P.AC. GunratnasuriM.S. Jun Gun Aaradhak Trust