SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ 6 अर्हद्गुणमाला चरितानि-प्रहतं विनाशितं चरितं चारित्रं येभ्यस्तानि-तथा / वचांसि-उपदेश-वचनानि / रुजः-व्याधयः / तनूः-शरीराणि / इव-यथा / निभृतम्-एकान्ततः / वेषाम्जनानाम् / श्रेयांसि-कल्याणानि, सुकृतानि वा / धनन्ति-नाशयन्ति / “अथ संस्कृते / व्युत्पन्न प्रहत क्षुण्णा: "339 // इत्यभिधानात् प्रहतशब्दस्य संस्कृतशब्दपर्यायत्वानुसन्धाने तु" प्रहतचरितानीति श्रेयो विशेषणपरत्वेनोन्नेयम् / अर्हन् ? जिनेश्वर ! प्रशमरस-पूर्गानि परिपूर्ण-शान्तरस-प्रत्याय नपराणि, ते-श्रीमतो-भवतः / वचांसि-देशना-वचनानि / जलधरा-मेघाः / अन्नम्-सस्यम् / यथा-इव / समेषाम्सर्वेषाम् / भविनाम्-भत्र्यात्मनाम्-भव्यात्मनाम् / श्रेयांसि-क्षेमाणि मोक्षान् वा / विदधति-कुर्वन्ति / उपमालङ्कारः / / 10 // श्रुतं नो नो दृष्टं सुरपतिभिरर्चा विरचिता , यथा तेऽर्हस्तादृक त्रिजगति परस्य क्षणमिति / अहो सौभाग्यं ते महनमपि वैराग्यजननं , महत्त्वं विस्तारं व्रजति भवतोऽर्चातिशयतः // 11 // सौरभः- अहन् ! जिनेश्वर ! सुरपतिभिः-इन्द्रः / यथा-येन प्रकारेण / ते-श्रीमतो भवतः / अर्चा-पूजा। विरचिता-विहिता / तादृक्-तथा / त्रिजगतिभुवनत्रये / परस्य-भवदतिरिक्तस्यान्यदर्श निनः / क्षणम्-तदात्म-सूक्ष्मकालमभिव्याप्यमपि / (विरचिता) इति-इत्यम् / नो-नहि। श्रुतम्-आकणितम्, श्रावणप्रत्यक्षविपयतामापादितमिति यावत् / नो-नहि। दृष्टम्-अवलोकितम् / चाक्षुषप्रत्यक्षविषयतां नीतमिति यावत् / ते-भवतः / सौभाग्य म्-सुष्ठु-शोभनो भगो ज्ञानादिसम्पत्तिर्यस्य स सुभग-भगस्तस्य भावस्तथा। अहो-आश्चर्यकारकम् / ते-श्रीमतो भवतः / महनम्-पूजनम् / अपि खलु वैराग्यजनन म्-विरागभावोत्पादकम् / भवतःश्रीमतस्तव / अर्चातिशयतः-समधिकसपतिः / महत्त्वम्-माहात्म्यम् / भव्यानामिति शेषः / विस्तारं-वृद्धिम्, प्रसारमिति यावत् / व्रजति-गच्छति / / 11 / / अपायानामाप्तिर्भवति .. भवकाराऽशुभगृहे , जराधिव्याधीनां मरणचरमाणामनुपलम् / भवाँस्तस्यामूलं दुरितनिकरं यत्कषितवाँस्ततोऽपायान्मुक्तोऽतिशयकलितो रक्षतु भवात् // 12 // सौरभः- भवकाराऽशुभगृहे-भवः-संसार एव कारात्मकमशुभममङ्गलं गृह सदनं-भवकाराऽशुभगृहन्तस्मिस्तथा / अनुपलम्-प्रतिक्षणम् / मरणचरमाणाम्-मरणं मृत्युश्चरममन्तिमं येपान्तेपान्तया, मरणसहितानामित्यर्थः। जराधिव्याधीनाम् P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust
SR No.036425
Book TitleChar Granth Sangraha - Panch Parmeshthi Gunmala - Chaturvinshati Jinstutaya - Varnakram Sukti Panchashika - Gautam Swami Charitram
Original Sutra AuthorN/A
AuthorVijaydharmdhurandharsuri
PublisherSyadvadamrut Prakashan Mandir
Publication Year1994
Total Pages145
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size98 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy