________________ वर्णक्रम-सूक्ति-पंञ्चाशिका/३= घर्षणं सर्वदा तेजो-वर्धकं नातिघर्षणम् / श्यामं तेन विना भाण्ड-मतिना तेन भिद्यते // 20 // डादयः पञ्च नासास्य-स्थान प्राप्तास्तथाऽपि ते / क्वचिदेव हि लक्ष्यन्ते, द्विस्थानामीद्दशी स्थितिः // 21 // चक्रेणैकेन सूर्यस्य, रथो याति दिगन्तरम् / विशिष्टानां कृते सर्वे, नियमाः सम्भवन्ति वा // 22 // छत्रं तापापहाराय, स्वकरस्थं श्रमाय च / भवेन्नैकान्ततः किञ्चिनिमित्त सुखदुःखयोः / / 23 / / जगद्विश्वं विचित्रं चेद्, वस्तु चित्रं न चित्रकृत् / शते भवति पञ्चाशत्, ज्ञातं गोपालबालयोः / / 24 // झङ्कारं कुरुते पीत्वा, परागं मधुपो भृशम् / " प्राणिनः प्रायशस्तुच्छाः, स्वार्थे मधुरभाषिणः // 25 // अस्योच्चारः सदा क्लिष्टः, प्रारम्भे तु विशेषतः / अन्ते स्थिता हि वक्राः स्युः, सर्वत्र दृश्यते तथा // 26 // टङ्कारः शङ्कराभिख्यदेवप्रख्यापको यथा / तथैवान्येऽपि वर्णाः स्युर्वणरूपा हि देवताः // 27 // ठठं प्रकुरुते प्राप्य, घटः सोपानपद्धतिम् / रीतिरेषा हि सोपानपंक्तेर्ध्वनिविधायिनी // 28 // डयो यथा द्विपक्षाभ्यामुड्डयते विहायसि / ज्ञानक्रियात्मपक्षाभ्यां, तथैवात्मा शिवङ्गमः // 29 // ढकारः सर्वदा मूर्खः, पठ्यते इति विश्रुतः / मूर्खत्वसूचको लोके, जडैः किं किं न दृष्यते // 30 // P.P.AC. GunratnasuriM.S. Jun Gun Aaradhak Trust