________________ ४/वर्णक्रम-सूक्ति-पञ्चाशिका णकारं प्राकृताभाषा, न स्थाने कुरुते भृशम् / प्राकृताः प्रायशः स्थान-व्यत्यासकारिणो मताः // 31 // तपसा प्रौढपापानां, नाशो भवति निश्चितम् / वनस्य किमिहाच्छेद्यमदायमनलस्य किम् // 32 // थुत्कारश्चापथुत्कारः, फुत्कारः क्रियते जनः / एतेषां करणं नो सद्, यतश्चाकरणं वरम् / / 33 // दानिनः स्वः स्थिताः सर्वे, ग्राहिणो भूस्तलं गताः / सन्देहश्चेद्दरीद्दश्यौ, सम्यङ्नीरदनीरधी // 34 // धर्मो रक्षति सद्धर्म, सेवते यो दिवानिशम् / . रीतिरियं हि सर्वत्र, शिष्टाः सेवकरक्षिणः // 35 // नम्रत्वेन सदा भाव्यं, नम्राश्चिरविलासिनः / अनम्रा नाशमायान्ति, तणिशतालवत् सदा // 36 // परमात्मप्रभावेण, परात्मपदतां लभेत् / स्पर्शरत्नस्य संसर्गाल्लोहं भवति काञ्चनम् // 37 // फटाच्छटां विषापेतोऽभीक्ष्णं करोति पन्नगः / प्रायेण हीनसामर्थ्यो, डम्बरेणैव माद्यति // 38 // ब्रवीमि श्रेयसे श्रेयस्करं तदवधार्यताम् / . किम्पाकफलवत् त्याज्या, विपाकविरसा रसाः // 39 // भवभीतेन भावात्मा, भावनीयो मुहुर्मुहुः / भावात्मभावनादेवाऽभूवन्नभयदा जिनाः // 40 // महामोहमदोन्मत्तः, सदसन्नैव बुध्यति / जानाति सदसच्चैवमवगच्छत्यसच्च सत् // 41 // . P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust