SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ - श्रीचतुर्विंशति-जिनस्तुतयः/३१ iya ततोऽपि, पूर्वसमयोद्दीपाः, परैः, गणीन्द्रः, भास्यन्ते स्म, ततोऽपि भासितजगत्सिद्धान्तदीपः, अर्कवत्, विश्वान्धंकरणम्, तमः, अपि, अपहरन्, देदीपीति, सः, संघः, श्रिये, भूयात् // 26 / / वृत्तिः - मध्ये सदसम्-सदसो मध्ये इति मध्ये सदसम्, समवसरणमध्ये इत्यर्थः / या-यत्प्रकारा / त्रिपदिकादीपी--त्रिपदिकादीपिका / जिनैः सर्वज्ञैः / राराज्यते स्म-पुनः पुनरतिशयेन वा राज्यते स्मेति राजू धातोर्यडि लुपि द्वित्वे पूर्वस्य ह्रस्वत्वे आत्वे च राराज् इत्यवस्थायां कर्मणि वर्तमा-- नायां ते प्रत्यये मध्ये क्ये, राराज्यते स्म शोशुभ्यते स्म / ततोऽपि तदनन्तरञ्च पूर्वसमयोद्दीप:-चतुर्दशपूर्वादि-समयोद्दीपैः / परैः-प्रकृष्टः / गणीन्द्र:गणधरैः / भास्यन्ते स्म-दीप्यन्ते स्म / ततोऽपि--तदनन्तरञ्च / भासितजगत्सिद्धान्तदीप:-भासितः प्रख्यापितो जगति लोके सिद्धान्त एव दीपो येन सः, अर्कवत्-सूर्यवत् / विश्वान्धङ्करणम्-विश्वस्य लोकस्य अन्धङ्करणं दृष्ट्युपघातकम् / तमः अज्ञानम् ध्वान्तञ्च / अपहरन-विनाशयन् / देदीपीति-पुनः पुनरतिशयेन वा दीप्यते इति दीप् धातोर्यडि. लुपि द्वित्वे पूर्वस्य ह्रस्वत्वे गुणे च देदीप् इत्यवस्थायां वर्तमानायां तिवि ईदागमे देदीपीति, यमित्यनुषज्यते / सः-तादृशः / सङ्घः-श्रीसङ्घः / श्रिये-कल्याणाय भूयात् स्तात् // 27 // सङ्घो यः परिपर्ति यां प्रमहितुं सम्यक्त्ववैशारदां, ध्यातुं वा दरिदष्टि हृत्सरसिजे श्रीतीर्थकृच्छारदाम् / रक्षायै परिपत्र्वसौ जिनमतं तं क्षीणकष्टारकं, विश्वेष्टः परिपतु सा भगवती श्रीसङ्घभट्टारकम् // 28 // TAITREET अन्वयः - यः, सङ्घः, याम्, सम्यक्त्ववैशारदाम्, श्रीतीर्थकृच्छारदाम्, प्रमहितुम्, परिपर्ति, ध्यातुम्, वा, हृत्सरसिजे, दरिदष्टि, रक्षायै, असौ, तम्, जिनमतम्, परिपतु, क्षीणकष्टाख्यम्, श्रीसङ्घम्ट्टारकम् सा, भगवती, विश्वेष्टः, परिपतु // 28 // वृत्तिः - यः-यत्प्रकारः / सङ्घः-चतुर्विधसङ्घः / याम्-यत्प्रकाराम् P.P.AC. GunratnasuriM.S. Jun Gun Aaradhak Trust
SR No.036425
Book TitleChar Granth Sangraha - Panch Parmeshthi Gunmala - Chaturvinshati Jinstutaya - Varnakram Sukti Panchashika - Gautam Swami Charitram
Original Sutra AuthorN/A
AuthorVijaydharmdhurandharsuri
PublisherSyadvadamrut Prakashan Mandir
Publication Year1994
Total Pages145
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size98 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy