________________ . ३२/श्रीचतुर्विंशति-जिनस्तुतयः सम्यक्त्व-वैशारदाम्-सम्यक्त्वे वैशारदा निपूणा, सम्यक्त्व-प्रतिपादयित्री तान्तथा / अत्र वैशारदामिति युक्तम् स्वार्थाद्यणन्तत्वे ङीप्रसङ्गात् / श्रीतीर्थकृच्छारदाम्-श्रीतीर्थकृतो जिनेश्वरस्य शारदा सरस्वती, ताम्, वाणीमित्यर्थः / प्रमहितुम्-पूजयितुम् / परिपति-पुनः पुनरतिशयेन वा पिपर्तीति पृ धातोर्यड्. लुपि द्वित्वे पूर्वस्य अत्वे रि इत्यागमे च परि पृ इत्यवस्थायां वर्तमानायां तिवि ईदागमाभावपक्षे गुणे परिपर्ति-रारक्षीति ध्यातुम्-चिन्तितुम् / वा / हृत्सरसिजे-मनःपद्म / दरिदष्टि-पुनः पुनरतिशयेन वा पश्यतीति दृश् धातोर्यडि. लुपि द्वित्वे पूर्वस्य अत्वे रि इत्यागमे दरिदृश् इत्यवस्थायां वर्तमानायां तिवि ईदागमाभावपक्षे गुणे "यज् सृज्-" 2 / 177 / / इति षत्वे "तवर्गस्य-" 1 / 3 / 60 // इति टत्वे च दरिदष्टि अवलोलोकीति / असौ-एषा शारदा / तम्-तादृशम् / जिनमतम् जिनेश्वरप्रियम् / रक्षायै पालनाय / परिपतु --वरिभर्तु / यद्वा असौ सङ्घः, तम्, जिनमतम्--जिनेश्वरोक्तमार्गम। रक्षायै परिपत्वित्यर्थः / सा-तादशी / भगवती ऐश्वर्य-शालिनी शारदा। क्षीणकष्टारकम्-क्षीणं नष्टं कष्टस्य आरकं कालविशेषो यस्स तन्तथा / यद्वा क्षीणकष्टारकमित्यस्य जिनमतमित्यत्रान्वयो वोध्यः / श्रीसङघभट्टारकम् श्रीसङघेश्वरम् / विश्वेष्ट:--सकलाभिलषितैः / परिपतु वरिभर्तु / सकलाभि-- लषितं दत्त्वा रक्षतु पूरयतु वेत्यर्थः / / 28 / / एभिस्त्रिभिः कल्पैश्चतुर्विंशतिजिनानां स्तुतयो भवन्ति // // इति चतुविशति-जिनस्तुतिव्याख्या समाप्ता // P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust